अनुवाकः 3 TS 1.7.3

(A3)

(अ॒न्वा॒हा॒र्ये॑ण-प्र॒जाप॑ते-रसि॒-ह्य॑मुष्मि॑न् ॅलो॒के-पञ्च॑दश च )

अनुवाकः 3 - Complete Audio

TS 1.7.3 - स्वरानुगामी

0:00 0:00
PS1.1 प॒रोक्षं॒ ॅवा अ॒न्ये दे॒वा
PS1.2 इ॒ज्यन्ते᳚ प्र॒त्यक्ष॑म॒न्ये यद्-यज॑ते॒ य
PS1.3 ए॒व दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व
PS1.4 तद्-य॑जति॒ यद॑न्वाहा॒र्य॑-मा॒हर॑त्ये॒ते वै दे॒वाः
PS1.5 प्र॒त्यक्षं॒ ॅयद् ब्रा᳚ह्म॒णास्ताने॒व तेन॑
PS1.6 प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षाऽथो॑ य॒ज्ञ्स्यै॒व छि॒द्रमपि॑
PS1.7 दधाति॒ यद्वै य॒ज्ञ्स्य॑ क्रू॒रं
PS1.8 ॅयद्विलि॑ष्टं॒ तद॑न्वाहा॒र्ये॑णा॒ - [
PS1.9 ]
PS2.1 ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्या-न्वाहार्य॒त्वं दे॑वदू॒ता वा
PS2.2 ए॒ते यद्-ऋ॒त्विजो॒ यद॑न्वाहा॒र्य॑-मा॒हर॑ति देवदू॒ताने॒व
PS2.3 प्री॑णाति प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान्
PS2.4 व्यादि॑श॒थ् स रि॑रिचा॒नो॑ऽमन्यत॒ स
PS2.5 ए॒तम॑न्वाहा॒र्य॑-मभ॑क्त-मपश्य॒त् तमा॒त्मन्न॑धत्त॒स वा ए॒ष
PS2.6 प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑
PS2.7 आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑ति-मृद्ध्नो॒त्यप॑रिमितोनि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः
PS2.8 प्र॒जाप॑ते॒- [ ]
PS3.1 राप्त्यै॑ दे॒वा वै यद्-य॒ज्ञेऽकु॑र्वत॒
PS3.2 तदसु॑रा अकुर्वत॒ ते दे॒वा
PS3.3 ए॒तं प्रा॑जाप॒त्य-म॑न्वाहा॒र्य॑-मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑
PS3.4 दे॒वा अभ॑व॒न् परासु॑रा॒ यस्यै॒वं
PS3.5 ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒
PS3.6 भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा
PS3.7 इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं
PS3.8 ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती
PS3.9 प्र॒जाप॑तेर्भा॒गो॑ऽसी- [ ]
PS4.1 त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यूर्ज॑स्वा॒न्
PS4.2 पय॑स्वा॒नित्या॒होर्ज॑-मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ
PS4.3 मे॑ पाहि समानव्या॒नौ मे॑
PS4.4 पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽक्षि॑तो॒ ऽस्यक्षि॑त्यै
PS4.5 त्वा॒ मा मे᳚ क्षेष्ठा
PS4.6 अ॒मुत्रा॒मुष्मि॑न् ॅलो॒क इत्या॑ह॒ क्षीय॑ते॒
PS4.7 वा अ॒मुष्मि॑न् ॅलो॒केऽन्न॑-मि॒तःप्र॑दानꣳ॒॒ ह्य॑मुष्मिन्
PS4.8 ॅलो॒के ( ) प्र॒जा
PS4.9 उ॑प॒जीव॑न्ति॒ यदे॒व-म॑भिमृ॒शत्यक्षि॑ति-मे॒वैन॑द् गमयति॒ नास्या॒मुष्मि॑न्
PS4.10 ॅलो॒केऽन्नं॑ क्षीयते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.7.3.1 TS 1.7.3.1
प॒रोक्षं॒ ॅवा अ॒न्ये दे॒वा इ॒ज्यन्ते᳚ प्र॒त्यक्ष॑म॒न्ये यद्-यज॑ते॒ य ए॒व दे॒वाः प॒रोक्ष॑मि॒ज्यन्ते॒ ताने॒व तद्-य॑जति॒ यद॑न्वाहा॒र्य॑-मा॒हर॑त्ये॒ते वै दे॒वाः प्र॒त्यक्षं॒ ॅयद् ब्रा᳚ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दक्षि॑णै॒वास्यै॒षाऽथो॑ य॒ज्ञ्स्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञ्स्य॑ क्रू॒रं ॅयद्विलि॑ष्टं॒ तद॑न्वाहा॒र्ये॑णा॒ - [ ]
पदपाठः (Word-by-word)
प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । वै । अ॒न्ये । दे॒वाः । इ॒ज्यन्ते᳚ । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । अ॒न्ये । यत् । यज॑ते । ये । ए॒व । दे॒वाः । प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । इ॒ज्यन्ते᳚ । तान् । ए॒व । तत् । य॒ज॒ति॒ । यत् । अ॒न्वा॒हा॒र्य॑मित्य॑नु - आ॒हा॒र्य᳚म् । आ॒हर॒तीत्या᳚-हर॑ति । ए॒ते । वै । दे॒वाः । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । यत् । ब्रा॒ह्म॒णाः । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ । अथो॒ इति॑ । दक्षि॑णा । ए॒व । अ॒स्य॒ । ए॒षा । अथो॒ इति॑ । य॒ज्ञ्स्य॑ । ए॒व । छि॒द्रम् । अपीति॑ । द॒धा॒ति॒ । यत् । वै । य॒ज्ञ्स्य॑ । क्रू॒रम् । यत् । विलि॑ष्ट॒मिति॒ वि - लि॒ष्ट॒म् । तत् । अ॒न्वा॒हा॒र्ये॑णेत्य॑नु - आ॒हा॒र्ये॑ण ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ प्रथमकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः )।

द्वितीया इडायाः प्रशंसोक्ता। तृतीयेऽन्वाहार्य उच्यते। तस्य दानं विधातुं प्रस्तौति-

परोक्षमिति। परोक्षमिति क्रियाविशेषणम्। अग्नीन्द्रादीनामदृश्यमान-त्वात्तद्यागः परोक्षः। ऋत्विजां दृश्यमानत्वात्तद्यागः प्रत्यक्षः।

अन्वाहार्यदानं विधत्ते- यदन्वाहार्यमिति। अन्वाहार्य पक्व ओदनस्तामाहरत्यृत्विग्भ्यो दद्यात्। प्रत्यक्षं वर्तन्त इति शेषः।

अन्वाहार्यस्य दक्षिणारूपत्वेन यज्ञच्छिद्रपिधायकत्वेन च त प्रशंसति-

अथ दक्षिणेति। अन्वाहार्यशब्दं निर्वक्ति - यद्वै यज्ञस्येति। अतिरिक्तं कर्मणो यच्च हीनमित्यस्मिन्प्रायश्चित्ताहुतिमन्त्रे प्रोक्तमधिकं यज्ञाङ्गमत्र क्रूरं, न्यूनं विलिष्टं, तदुभयमनेनान्वाहार्यदानेनानुकूलं यथा भवति तथाऽऽहरति समादधति। तस्मादन्वाहार्यत आनुकुल्येन समाधीयतेऽनेनेत्यन्वाहार्यः।

ऋत्विक्प्रीतिहेतुत्वे पुनः प्रशंसति - देवदूता इति।

प्रजापतिभागत्वेन पुनस्तं प्रशंसति - प्रजापतिरिति। आग्नेयाग्नीषोमीयपुरोडाशान्यागानग्न्यादिदेवेभ्यो विभज्य दत्त्वा स्वकीययागराहित्येन रिक्तमात्मानं मन्यमानः प्रजापतिरभक्तं देवेभ्यो विभज्यासमर्पितं दृष्ट्वा तमात्मनि स्थापितवान्। ततोऽन्वाहार्यः प्राजापत्यः।

तस्यान्वाहार्यस्य बाहुल्यसंपादनं विधत्ते - अपरिमित इति। सर्वदेवस्वामित्वेन व्याप्तिबाहुल्यात्प्रजापतेरपरिमितत्वम्।

स्वविजयहेतुत्वेन वैरिपराजयहेतुत्वेन च पुनः प्रशंसति - देवा वा इति।

इष्टापूर्तकारित्वपूरणेन च पुनः प्रशंसंति - यज्ञेन वा इति। इष्टमाग्नेयादि श्रौतकर्म। पूर्तं वापीकूपादि स्मार्तकर्म। तत्राऽऽग्नेयादियागेनेष्टसंपत्तिः। पक्वेनान्वाहार्येण पूर्तसंपत्तिः।

तस्याभिमर्शनमन्त्रप्रथमभागं व्याचष्टे - प्रजापतेरिति।

द्वितीयभागं व्याचष्टे-ऊर्जस्वानिति।

तृतीयभागं व्याचष्टे - प्राणापानामिति। ऋत्विग्भिरन्वाहार्यस्य नीयमानत्वात्तेन स्वकीयप्राणा-दिपालनमाशीर्वाद एव।

चतुर्थभागं व्याकुर्वन्नभिमर्शनं विधत्ते - अक्षितोऽसीति। स्वर्गस्य कर्मभूमित्वाभावान्न तत्साधनानुष्ठानेनान्नं संपादयितुं शक्यं, किंतु स्वगप्राप्ताः प्रजा इतःप्रदानमेतल्लोकानुष्ठितकर्मसंपादितमेवान्नं स्वर्गे लोक उपजीवन्ति। तस्मात्तत्र भूज्यमानमिदं क्षीयते। अक्षितोऽसीति मन्त्रेण यदभिमर्शनं तेनान्नस्याक्षयत्वप्रापणादन्नं न स्वर्गे क्षीयते॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः॥३॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथान्वाहार्यं विधास्यन्नाह - परोक्षं वा इत्यादि ॥ अक्ष्णः परस्तात्परोक्षम् । 'परोक्षे लिट्' इति निपातनाद्रूपसिद्धिः । अक्षमक्षं प्रति प्रत्यक्षम्, यथार्थोऽव्ययीभावः । उभयत्रापि 'कूलतीरतूल' इत्यादिना उत्तरपदाद्युदात्तत्वम्, 'एकान्याभ्यां समर्थाभ्याम्' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । यद्यजते इत्यादि । यागेन परोक्षं यष्टव्यान् यजते । प्रत्यक्षयष्टव्यानन्वाहार्याहरणेन प्रीणयति । एते वै देवाः प्रत्यक्षमिति । वर्तन्त इति शेषः । अथो अपि च दक्षिणैवास्य यागस्यैषा यदन्वाहार्याहरणम् । अपि च ; यज्ञस्य यच्छिद्रं प्रमादालस्यादिना छिन्नं तदपिदधाति पूरयति ॥
2 अधुना छिद्रापिधानं समर्थयते - यद्वा इत्यादि ॥ यज्ञस्य यत्क्रूरं मात्रातीतं क्रियते यच्च विलिष्टं न्यूनं क्रियते । लिश अल्पीभावे । तदन्वाहार्येणान्वाहरति हीनं पुनरन्वाहरति । यद्वा - अनुक्रमेणाहृत्य नाशयति । तदन्वाहार्यत्वमस्य । करणे ण्यत् । तस्माच्छिद्रापिधानमेतत् इति । अन्वाहार्यः ओदनविशेषः ॥
3 देवदूता इत्यादि ॥ गतम् ॥
4 प्रजापतिरित्यादि ॥ व्यादिशत् विभज्याददात् । स प्रजापतिर्व्यादिष्टयज्ञो रिक्तोहमित्यमन्यत । ततोऽन्वाहार्यमविभक्तमपश्यत् । तमात्मन्येवाधत्त स्थापयामास । तस्मादयं प्राजापत्य एव । यस्यैवमित्यादि । गतम् । अपरिमितत्वं प्रजापतेराप्त्यै च भवति ; तस्याप्यपरिमितत्वात् ॥
5 देवा वा इत्यादि ॥ गतम् । भवत्यात्मना भूतिमान् सम्पद्यते । अस्य भ्रातृव्यः पराभवति विनष्टो भवति ॥
6 यज्ञेन वा इत्यादि ॥ इष्टमनेनेतीष्टी । पूर्तमनेनेति पूर्ती । 'इष्टादिभ्यश्च' इतीनिप्रत्ययः, 'नध्याख्या' इति निष्ठानत्वाभावः, साधकतमत्वविवक्षायां 'क्तस्येन्विषयस्य' इति सप्तम्यभावः । अन्वाहार्यमाहरन्निष्टापूर्ती भवति । 'अत इनिठनौ' इतीनिप्रत्ययः, छान्दसं पूर्वपदस्य दीर्घत्वम् ॥
7 प्रजापतेरित्यादिरन्वाहार्यस्यासन्नस्यानुमन्त्रणमन्त्रः । गतमन्यत् । पहीत्याशिषमाशास्ते । इतः प्रदानमस्मिन् लोके यत्प्रत्तं तत्प्रजा अमुष्मिन् लोक उपजीवन्तीति । न तु तत्रोत्पाद्यते । तस्मात् क्षीयतेमुष्मिन् लोकेन्नं तस्मादनेनाभिमर्शनमक्षयत्वाय भवति । अक्षितिरक्षयः ॥
इति सप्तमे तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 1.7.3.2 TS 1.7.3.2
ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्या-न्वाहार्य॒त्वं दे॑वदू॒ता वा ए॒ते यद्-ऋ॒त्विजो॒ यद॑न्वाहा॒र्य॑-मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒थ् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑-मभ॑क्त-मपश्य॒त् तमा॒त्मन्न॑धत्त॒स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वं ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒क्षादे॒व प्र॒जाप॑ति-मृद्ध्नो॒त्यप॑रिमितोनि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒- [ ]
पदपाठः (Word-by-word)
अ॒न्वाह॑र॒तीत्य॑नु - आह॑रति । तत् । अ॒न्वा॒हा॒र्य॑स्येत्य॑नु-आ॒हा॒र्य॑स्य । अ॒न्वा॒हा॒र्य॒त्वमित्य॑न्वाहार्य - त्वम् । दे॒व॒दू॒ता इति॑ देव - दू॒ताः । वै । ए॒ते । यत् । ऋ॒त्विजः॑ । यत् । अ॒न्वा॒हा॒र्य॑मित्य॑नु - आ॒हा॒र्य᳚म् । आ॒हर॒तीत्या᳚ - हर॑ति । दे॒व॒दू॒तानिति॑ देव - दू॒तान् । ए॒व । प्री॒णा॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । दे॒वेभ्यः॑ । य॒ज्ञान् । व्यादि॑श॒दिति॑ वि - आदि॑शत् । सः । रि॒रि॒चा॒नः । अ॒म॒न्य॒त॒ । सः । ए॒तम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु - आ॒हा॒र्य᳚म् । अभ॑क्तम् । अ॒प॒श्य॒त् । तम् । आ॒त्मन्न् । अ॒ध॒त्त॒ । सः । वै । ए॒षः । प्रा॒जा॒प॒त्य इति॑ प्राजा-प॒त्यः । यत् । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ऋ॒द्ध्नो॒ति॒ । अप॑रिमित॒ इत्यप॑रि - मि॒तः॒ । नि॒रुप्य॒ इति॑ निः-उप्यः॑ । अप॑रिमित॒ इत्यप॑रि - मि॒तः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 1.7.3.3 TS 1.7.3.3
राप्त्यै॑ दे॒वा वै यद्-य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तं प्रा॑जाप॒त्य-म॑न्वाहा॒र्य॑-मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यस्यै॒वं ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वं ॅवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसी- [ ]
पदपाठः (Word-by-word)
आप्त्यै᳚ । दे॒वाः । वै । यत् । य॒ज्ञे । अकु॑र्वत । तत् । असु॑राः । अ॒कु॒र्व॒त॒ । ते । दे॒वाः । ए॒तम् । प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् । अ॒न्वा॒हा॒र्य॑मित्य॑नु - आ॒हा॒र्य᳚म् । अ॒प॒श्य॒न्न् । तम् । अ॒न्वाह॑र॒न्तेत्य॑नु - आह॑रन्त । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । य॒ज्ञेन॑ । वै । इ॒ष्टी । प॒क्वेन॑ । पू॒र्ती । यस्य॑ । ए॒वम् । वि॒दुषः॑ । अ॒न्वा॒हा॒र्य॑ इत्य॑नु - आ॒हा॒र्यः॑ । आ॒ह्रि॒यत॒ इत्या᳚ - ह्रि॒यते᳚ । सः । तु । ए॒व । इ॒ष्टा॒पू॒र्तीती᳚ष्ट - पू॒र्ती । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । भा॒गः । अ॒सि॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 1.7.3.4 TS 1.7.3.4
त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यूर्ज॑स्वा॒न् पय॑स्वा॒नित्या॒होर्ज॑-मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽक्षि॑तो॒ ऽस्यक्षि॑त्यै त्वा॒ मा मे᳚ क्षेष्ठा अ॒मुत्रा॒मुष्मि॑न् ॅलो॒क इत्या॑ह॒ क्षीय॑ते॒ वा अ॒मुष्मि॑न् ॅलो॒केऽन्न॑-मि॒तःप्र॑दानꣳ॒॒ ह्य॑मुष्मिन् ॅलो॒के ( ) प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒व-म॑भिमृ॒शत्यक्षि॑ति-मे॒वैन॑द् गमयति॒ नास्या॒मुष्मि॑न् ॅलो॒केऽन्नं॑ क्षीयते ॥
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । ए॒व । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । ऊर्ज॑स्वान् । पय॑स्वान् । इति॑ । आ॒ह॒ । ऊर्ज᳚म् । ए॒व । अ॒स्मि॒न्न् । पयः॑ । द॒धा॒ति॒ । प्रा॒णा॒पा॒नाविति॑ प्राण -अ॒पा॒नौ । मे॒ । पा॒हि॒ । स॒मा॒न॒व्या॒नाविति॑ समान - व्या॒नौ । मे॒ । पा॒हि॒ । इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚ - शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । अक्षि॑तः । अ॒सि॒ । अक्षि॑त्यै । त्वा॒ । मा । मे॒ । क्षे॒ष्ठाः॒ । अ॒मुत्र॑ । अ॒मुष्मिन्न्॑ । लो॒के । इति॑ । आ॒ह॒ । क्षीय॑ते । वै । अ॒मुष्मिन्न्॑ । लो॒के । अन्न᳚म् । इ॒तः प्र॑दान॒मिती॒तः - प्र॒दा॒न॒म् । हि । अ॒मुष्मिन्न्॑ । लो॒के ( ) । प्र॒जा इति॑ प्र - जाः । उ॒प॒जीव॒न्तीत्यु॑प - जीव॑न्ति । यत् । ए॒वम् । अ॒भि॒मृ॒शतीत्य॑भि - मृ॒शति॑ । अक्षि॑तिम् । ए॒व । ए॒न॒त् । ग॒म॒य॒ति॒ । न । अ॒स्य॒ । अ॒मुष्मिन्न्॑ । लो॒के । अन्न᳚म् । क्षी॒य॒ते॒ ॥
पदसंख्या: 65