अनुवाकः 4 TS 3.5.4

(A4)

(स॒वि॒त॒-र्दे॒वा य॑ज्ञ्॒मुषः॒ - सर्वा॑ दे॒वता॒ - स्त्रिच॑त्वारिꣳशच्च)

अनुवाकः 4 - Complete Audio

TS 3.5.4 - स्वरानुगामी

0:00 0:00
PS1.1 ये दे॒वा य॑ज्ञ्॒हनो॑ यज्ञ्॒मुषः॑ पृथि॒व्यामद्ध्यास॑ते
PS1.2 अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म
PS1.3 सु॒कृतो॑ व॒यं
PS1.4 आऽग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णां
PS1.5 भा॒गो यु॒वयो॒र्यो अस्ति॑
PS1.6 नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के
PS1.7 तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने
PS1.8 दि॒वः
PS1.9 ये दे॒वा य॑ज्ञ्॒हनो॑ यज्ञ्॒मुषो॒ऽन्तरि॒क्षेऽद्ध्यास॑ते
PS1.10 वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म
PS1.11 सु॒कृतो॑ व॒यं
PS1.12 यास्ते॒ रात्रीः᳚ सवित -
PS1.13 [ ]
PS2.1 -र्देव॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑
PS2.2 गृ॒हैश्च॒ सर्वैः᳚ प्र॒जया॒ न्वग्रे॒
PS2.3 सुवो॒ रुहा॑णास्तरता॒ रजाꣳ॑सि
PS2.4 ये दे॒वा य॑ज्ञ्॒हनो॑ यज्ञ्॒मुषो॑ दि॒व्यद्ध्यास॑ते
PS2.5 सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒
PS2.6 गच्छे॑म सु॒कृतो॑ व॒यं
PS2.7 येनेन्द्रा॑य स॒मभ॑रः॒ पयाꣳ॑स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः
PS2.8 तेना᳚ऽग्ने॒ त्वमु॒त व॑र्द्धये॒मꣳ स॑जा॒तानाꣳ॒॒
PS2.9 श्रैष्ठ्य॒ आ धे᳚ह्येनं
PS2.10 य॒ज्ञ्॒हनो॒ वै दे॒वा य॑ज्ञ्॒मुषः॑
PS2.11 - [ ]
PS3.1 सन्ति॒ त ए॒षु लो॒केष्वा॑सत
PS3.2 आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒
PS3.3 यो यज॑ते॒ तस्य॑
PS3.4 ये दे॒वा य॑ज्ञ्॒हनः॑ पृथि॒व्यामद्ध्यास॑ते॒
PS3.5 ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑हे॒माने॒व
PS3.6 लो॒काꣳस्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं
PS3.7 ॅलो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वता᳚श्च य॒ज्ञ्श्च॑
PS3.8 क्रामन्त्याग्ने॒यं पञ्च॑कपालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑
PS3.9 दे॒वताः॒ - [ ]
PS4.1 पाङ्क्तो॑ य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञ्ञ्चाव॑
PS4.2 रुन्धेगाय॒त्रो वा अ॒ग्निर्गा॑य॒त्र छ॑न्दा॒स्तं
PS4.3 छन्द॑सा॒ व्य॑र्द्धयति॒ यत् पञ्च॑कपालं
PS4.4 क॒रोत्य॒ष्टाक॑पालः का॒र्यो᳚ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्नि-र्गा॑य॒त्र
PS4.5 छ॑न्दाः॒ स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्द्धयति
PS4.6 प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑
PS4.7 य॒ज्ञ्स्तेनै॒व य॒ज्ञान्नैति॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.5.4.1 TS 3.5.4.1
ये दे॒वा य॑ज्ञ्॒हनो॑ यज्ञ्॒मुषः॑ पृथि॒व्यामद्ध्यास॑ते ।अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यं ॥ आऽग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णां भा॒गो यु॒वयो॒र्यो अस्ति॑ । नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ये दे॒वा य॑ज्ञ्॒हनो॑ यज्ञ्॒मुषो॒ऽन्तरि॒क्षेऽद्ध्यास॑ते । वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यं ॥ यास्ते॒ रात्रीः᳚ सवित - [ ]
पदपाठः (Word-by-word)
ये । दे॒वाः । य॒ज्ञ्॒हन॒ इति॑ यज्ञ् - हनः॑ । य॒ज्ञ्॒मुष॒ इति॑ यज्ञ् - मुषः॑ । पृ॒थि॒व्याम् । अधीति॑ । आस॑ते ॥ अ॒ग्निः । मा॒ । तेभ्यः॑ । र॒क्ष॒तु॒ । गच्छे॑म । सु॒कृत॒ इति॑ सु - कृतः॑ । व॒यम् ॥ एति॑ । अ॒ग॒न्म॒ । मि॒त्रा॒व॒रु॒णेति॑ मित्रा-व॒रु॒णा॒ । व॒रे॒ण्या॒ । रात्री॑णाम् । भा॒गः । यु॒वयोः᳚ । यः । अस्ति॑ ॥ नाक᳚म् । गृ॒ह्णा॒नाः । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒के । तृ॒तीये᳚ । पृ॒ष्ठे । अधीति॑ । रो॒च॒ने । दि॒वः ॥ ये । दे॒वाः । य॒ज्ञ्॒हन॒ इति॑ यज्ञ् - हनः॑ । य॒ज्ञ्॒मुष॒ इति॑ यज्ञ् - मुषः॑ । अ॒न्तरि॑क्षे । अधीति॑ । आस॑ते ॥ वा॒युः । मा॒ । तेभ्यः॑ । र॒क्ष॒तु॒ । गच्छे॑म । सु॒कृत॒ इति॑ सु - कृतः॑ । व॒यम् ॥ याः । ते॒ । रात्रीः᳚ । स॒वि॒तः॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः) ।

विष्ण्वतिक्रमणे मन्त्रास्तृतीये समुदीरिताः ।

अथ चतुर्थेऽतिमोक्षमन्त्रा उच्यन्ते ।

कल्पः — “वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षाञ्जपति” इति ।

अतिमोक्षशब्देन ये देवा यज्ञहन इत्यादयो मन्त्रा विवक्षिताः । सूत्रकारेणान्यत्र ये देवा यज्ञहन इत्यतिमोक्षा इत्युक्तत्वात् । पाठस्तु —

ये देवा इति । अत्र यज्ञमुष इति पदं पृथक्कृत्य मन्त्रभेदः कर्तव्यः । तत्र प्रथममन्त्रे पृथिव्यामध्यासत इत्याद्यन्तभागोऽनुषञ्जनीयः । द्वितीयमन्त्रे तु ये देवा इत्ययं पूर्वभागोऽनुषञ्जनीयः । देवानां मध्ये म्लेच्छजातयः केजिद्देवा यज्ञभागार्हाः सन्तो द्रष्टुमसहमानाः केचिद्यज्ञं विनाशयन्ति ।अपरे तु यज्ञसाधनान्यपहृत्यान्यत्र गच्छन्ति । तत्र यज्ञविघातिनो ये देवा पृथिव्यां यं कंचिद्देशमधिष्ठायाव तिष्ठन्ते तेभ्यो यज्ञविघातिभ्योऽग्निर्मां रक्षतु । वयं सुकृतः सुष्ठु यज्ञं निष्पादितवन्तो गच्छेम यज्ञफलं प्राप्नुयाम । एवं यज्ञमुषां मन्त्रोऽपि व्याख्येयः । तृतीयमन्त्रपाठस्तु —

आऽगन्यैति । हे वरेण्या मित्रावरुणा श्रेष्ठौ मित्रावरुणौ यज्ञसंबन्धिनीनां रात्रीणां मध्ये वर्तमानायामस्यां रात्रौ युवयोः संबन्धि वशानूबन्ध्यारूपो यो भागोऽस्ति तेन वयं नाकं स्वर्गसुखं गृह्णाना आगन्म सर्वतः प्राप्ताः स्वः । कुत्रैतत्स्वर्गसुखग्रहणमिति तदुच्यते सकृतस्यास्य यज्ञस्य संबधिनि तृतीये लोके । कीदृशे । अधिरोजनेऽधिकं भासमाने । भासमानोऽपि लोकः कुत्रेति तदुच्यते-दिवः पृष्ठे स्वर्गस्योपरि । पृथिव्यन्तरिक्षापेक्षया तृतीयत्वम् । पाताललोकोऽपि तादृशो भवतीति व्यवच्छेदाय दिवः पृष्ठ इत्युक्तम् । रौरवादिनरकव्यावृत्तये सुकृतस्येत्युक्तम् । नरको हि दुष्कृतस्य ।

अथ पूर्ववदनुषङ्गभेदभिन्नौ चतुर्थपञ्चममन्त्रामाह —

ये देवा इति । पूर्ववद्व्याख्येयम् । षष्ठमन्त्रवाह —

यास्ते रात्रीरिति । हे सवितर्द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये ते तव संबन्धिन्यो या रात्रीर्यज्ञानुष्ठानयोग्या रात्रयो वियन्ति विशेषेण गच्छन्ति प्रवर्तन्ते । यद्यप्येकैव रात्रिः सुत्याकर्मार्हा तथाऽपि दीक्षोपसत्सहिता बहवो रात्रयो भवन्ति । तासां च सवितृप्रेरितत्वात्तत्संबन्धः । कीदृश्यो रात्रयः । देवयानीर्देवान्यान्तीति देवयान्यो दैविककर्मयुक्ता इत्यर्थः । तासु रात्रिषु कर्मानुतिष्ठन्तः सर्वैर्गृहैश्च प्रजयाऽनु गृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्धं रुहाणाः स्वर्ग सर्वैर्गृहश्चै प्रजयाऽनुगृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्थं सुवो रुहाणाः स्वर्गं प्राप्नुवन्तो यजमाना यूयं रजांसि रञ्जनीयानि सुखानि तरत प्राप्नुत ।

पूर्ववदनुषङ्गभेदभिन्नौ सप्तमाष्टममन्त्रावाह —

ये देवा इति । पूर्ववद्व्याख्येयम् । अथ नवमं मन्त्रमाह —

येनेन्द्रायति । हे जातवेदो येनोत्तमेन हविषोत्तमहविःस्वरुपेण पयांसि क्षीररसस्वादून्सोमरसानिन्द्राय समभरः संभृतवानसि तेन हविषा हेग्ने त्वमिमं यजमानं वर्धय उतापि चैनं यजमानं सजातानां श्रैष्ठ्यै स्वाम्य आधेहि । अथैतान्प्रशंसति-

यज्ञहनो वा इति । कपटरूपधारिणः केचन देवा यज्ञभागरहिता यज्ञशालादाहाद्युपद्रवेण यज्ञघातिनो भवन्ति । अपरे च ग्रहचमससोमरसापहारेण यज्ञमुषो भवन्ति । एवमुभयविधा ये सन्ति ते त्रिष्वप्येतेषु लोकेष्वतिष्ठन्ते । किं कुर्वन्तः । यो यजमानो दक्षिणां ददाति तदीयं दक्षिणाद्रव्यं गवादिकमपहरन्ती (न्त इ ) त्यर्थः । यो यजमानो यजते तदीयं ग्रहचमसादिकं विमथ्नाना भङ्गपरित्यागादितो विलोडयन्तः । तस्योपद्रवस्य सर्वस्यैतैर्मन्त्रैः परिहारं दर्शयति —

ये देवा इति । अत्र यज्ञमुष इत्यत्र पृथङ्मन्त्रत्वं दर्शयितुं तत्पदं परित्यज्यानुषङ्गेण सह यज्ञहन इत्येतावदेवोदाहृतम् । एतैर्मन्त्रैरुपद्रवसहितानिमाल्लोँ-कानुत्तीर्य सगृहः कलत्रपुत्रादिसहितः सपशुर्गवाश्वादिपशुसहितः स्वर्गं प्राप्नोति । त एते मन्त्रा उरु हि राजेत्वेतस्यादनुवाकात्पूर्वं द्रष्टव्याः । अथोदवसानीयं विधत्ते —

अप वै सोमेनेति । यः सोमेनेष्टवानभवत्, एतस्माद्देवताश्च यज्ञश्चापक्रामन्ति । अनेन यजमानेन प्रयोजनाभाव मन्वाना एनं परित्यजन्ति । अतस्तदपक्रमणं वारयितुमग्निदेवतया युक्तं पञ्चकपालं तादृशपुरोडाशेन साध्यमुदवसानीयाख्यं कर्म कुर्यात् । अयमग्निः सर्वदेवतात्मको यज्ञश्च पाङ्क्तः पञ्चसंख्योपेतः । “ते देवा बिभ्यतोऽग्निं प्राविशन्” “धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यत” इत्यादिश्रुतिद्वयात् । अत आग्नेयत्वेन सर्वा देवता अवरुन्धे पत्र्चकपालेन यज्ञमप्यवरुन्धे ।

अथ पञ्चकपालं दूषयित्वाऽष्टाकपालं विधत्ते —

गायत्रो वा इति । अग्नेर्गायत्र्याश्च प्रजापतिमुखजन्यत्वेन गायत्रोऽग्निः । पञ्चकपाले सति तमग्निं स्वकीयेन च्छन्दसा वियोजयति । अष्टाकपाले त सति गायत्र्या अष्टाक्षरत्वादग्निं स्वकीयेन च्छन्दसा समृद्धं करोति ।

अत्राग्ने तमद्याश्वमित्येते अक्षरपङ्क्त्यौ विधत्ते —

पङ्क्त्यौ याज्येति । अत्र तु गायत्रत्वसिद्धयेऽष्टाकपालः स्वीकृतस्तथाऽपि पाङूक्तमन्त्रपाठेन धानादिद्वारा पाङ्क्तयज्ञादप्ययं यजमानो नापगच्छति ।

अत्र विनियोगसंग्रहः —

ये देवा इत्यतीमोक्षान्मन्त्रानेताञ्जपेन्नव ।

यज्ञहन्यज्ञमुट्चेति भेदान्मन्त्राभिदेष्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथातिमोक्षः । वैश्वकर्मणानि हुत्वा गार्हपत्ये आज्यं विलाप्य उत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोत्यन्वारब्धे यजमाने - ये देवा इत्यादि ॥ अत्र प्रथमे अनुष्टुभौ । तृतीया त्रिष्टुप् । चतुर्थीपश्चम्यौ अनुष्टुभौ । षष्ठी त्रिष्टुप् । सप्तम्यष्टम्यावनुष्टुभौ । नवमी त्रिष्टुप् । 'ये देवा यज्ञहनो यज्ञमुषः' इति प्रथमयो प्रथमौ पादौ, समाना अन्येऽपि पादाः । एवं नफलं गच्छेम ॥
2 अथाग्नीध्रमभिप्रैति - आऽगन्मेति ॥ हे मित्रावरुणा मित्रावरुणौ वरेण्या वरेण्यौ वरणीयौ रात्रीणां सम्बन्धी अहोरात्रेषु अस्माभिर्दत्तः युवयोर्भागः हविरंशो योस्ति सामर्थ्यात्तस्य फलं वयमागन्म आभिमुख्येन गच्छेम नाकं स्वयमेव गृह्णानाः आददानाः सुकृतस्य लोके सुष्ठुकृतानां कर्मणां तृतीये फलस्थाने दिवः पृष्ठे रोचने दीप्यमाने अधि उपरि सुकृतमागन्मेति । यद्वा - अधिकं रोचमाने दिवः पृष्ठे आगन्मेति । 'कर्षात्वतः' इति भागशब्दोन्तोदात्तः, न 'भ्राण्नपात्' इत्यादौ नाकशब्दोन्तोदात्तो निपात्यते । 'सूपमानात्क्तः' इति सुकृतशब्दोन्तोदात्तः, 'अनुदात्तेतश्च हलादेः' इति रोचनशब्दो युजन्तः ॥
3 अथाग्नीध्रं गत्वा स्रुचि चतुर्गृहीतं गृहीत्वा शये[आग्नीध्रे]ऽन्वारब्धे यजमाने जुहोति - ये देवा इति द्वाभ्यां पृथगाहुतिद्वयम् । गतौ च मन्त्रौ ॥
4 अथाग्नीध्रमुपतिष्ठते - यास्ते इति ॥ हे सवितः यास्तव सम्बन्धिन्यो रात्रीः रात्रयः अग्निसमीपप्राप्तिहेतवः देवयानीः देवान् गच्छन्ति यासु ता देवयान्यः यागवत्य इति यावत्, उभयत्रापि 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये या वियन्ति विविधं गच्छन्ति । 'दिवो द्यावा' इति द्यावादेशः 'देवताद्वन्द्वे च' इत्याद्युदात्तत्वम्। 'अन्तराऽन्तरेण' इति द्वितीया । ताभिर्हेतुभूताभिः अग्रे प्रथममेव गृहैः गृहवासिभिः सर्वैर्जनैः प्रजया सह । समुच्चये नुशब्दः । सुवो रुहाणाः सुखैकरूपं स्वर्गं आरोहन्तः ऋत्विग्यजमानाः रजांसि लोकान्तराणि दुःखबलानि तरतः तरन्तु त्वत्प्रसादेन । व्यत्ययेन मध्यमः । यद्वा - वयं तराम त्वत्प्रसादादिति । सर्वधा मध्यमव्यत्ययेन मुच्यामहे । 'अन्येषामपि दृश्यते' इति संहितायामस्य दीर्घत्वम् । 'इमानेव लोकांस्तीर्त्वा सगृहस्सपशुस्सुवर्गं लोकमेति' इति ब्राह्मणम् । 'स्वरो रोहतौ छन्दसि' इत्युत्वम् । रुहेर्व्यत्ययेनात्मनेपदम् । लसार्वधातुकानुदात्तत्वं च ॥
5 अथाहवनीयं [अनु]द्रुत्य स्रुचि चतुर्गृहीतं गृहीत्वा आहवनीये जुहोत्यन्वारब्धे यजमाने - ये देवा इति द्वाभ्यां पृथगाहुतिद्वयम् । गतौ च मन्त्रौ ॥
6 अथाहवनीयमुपतिष्ठते - येनेन्द्रायेति ॥ हे जातवेदः जातानां वेदितः अग्ने येन बलेन स्नेहेन वा इन्द्राय पयांसि दधिघर्मादीनि समभरः संभरसि । छान्दसो लङ् । उत्तमेन तेन बलेन स्नेहेन वा । उत अपि च हविषा एतद्धुतेन हेतुना इमं यजमानं त्वं वर्धय । कीदृशी वृद्धिरस्य कर्तव्येति चेद्ब्रूमः - सजातानां समानजातानां श्रैष्ठ्ये श्रेष्ठभावे यथाऽयं सजातानां श्रेष्ठः प्रशस्यतमो भवति तथा तत्र एनं यजमानं धेहि स्थापय सजातानां मध्ये । उत्तमशब्द उञ्छादिरन्तोदात्तः । 'वा जाते' इति सजातशब्दोन्तोदात्तः । केचिदाहुः - तिस्र एव गार्हपत्ये जुहोति, तिस्र आग्नीध्रे, तिस्र आहवनीये इति ॥
7 अथैषामतिमोक्षाणां ब्राह्मणम् - यज्ञहनो वा इत्यादि ॥ आददाना हविरादि । विमथ्नानाः शालाभङ्गादिकमाचरन्तः । कस्या ? यो ददाति, यश्च यजते तस्य । ये देवा यज्ञहन इति । यज्ञमोक्षणमन्त्राणामप्युपलक्षणम् । येऽन्तरिक्षे ये दिवीति शिष्टानां चतुर्णां ग्रहणम् ॥
8 अप वै सोमेनेत्यादि ॥ उदवसानीयं उदवसीयतेऽनेनेत्युदवसानीयं, करणे कृत्यः, 'उपोत्तमं रिति' इत्युपोत्तमस्योदात्तत्वम् । अग्निस्सर्वादेवता इति । अग्न्यधीनस्थितित्वात्सर्वदेवानाम् । पाङ्क्तो यज्ञ इति । धानादिपञ्चकात्मकपङ्क्तिप्रभवत्वात् ॥
9 पञ्चकपालं निन्दति - गायत्रीप्रभवस्य गायत्रछन्दसः अग्नेः पञ्चकपालोऽवृद्धिहेतुः । तस्मादष्टाकपाल एव कार्यः । तर्हि पञ्चकपालान्वयाभावात् पाङ्क्तो यज्ञो न लभ्यते तत्राह – पङ्क्त्याविति । स्विष्टकृत इत्येके । प्रधानस्येत्यन्ये । याज्यानुवाक्ययोः पङ्क्तित्वात्पाङ्क्तयज्ञलाभः । पङ्क्तिशब्दोप्युत्सादिः । 'अग्ने तमद्याश्वं न स्तोमैः' इत्यक्षरपङ्क्तयः याज्यानुवाक्या भवन्ति । द्वे आग्नेयस्य । द्वे स्विष्टकृतः ॥
इति तृतीये पञ्चमे चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 3.5.4.2 TS 3.5.4.2
-र्देव॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । गृ॒हैश्च॒ सर्वैः᳚ प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजाꣳ॑सि ॥ ये दे॒वा य॑ज्ञ्॒हनो॑ यज्ञ्॒मुषो॑ दि॒व्यद्ध्यास॑ते । सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यं ॥ येनेन्द्रा॑य स॒मभ॑रः॒ पयाꣳ॑स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः । तेना᳚ऽग्ने॒ त्वमु॒त व॑र्द्धये॒मꣳ स॑जा॒तानाꣳ॒॒ श्रैष्ठ्य॒ आ धे᳚ह्येनं ॥ य॒ज्ञ्॒हनो॒ वै दे॒वा य॑ज्ञ्॒मुषः॑ - [ ]
पदपाठः (Word-by-word)
दे॒व॒यानी॒रिति॑ देव - यानीः᳚ । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । वि॒यन्तीति॑ वि - यन्ति॑ ॥ गृ॒हैः । च॒ । सर्वैः᳚ । प्र॒जयेति॑ प्र - जया᳚ । नु । अग्रे᳚ । सुवः॑ । रुहा॑णाः । त॒र॒त॒ । रजाꣳ॑सि ॥ ये । दे॒वाः । य॒ज्ञ्॒हन॒ इति॑ यज्ञ् - हनः॑ । य॒ज्ञ्॒मुष॒ इति॑ यज्ञ् - मुषः॑ । दि॒वि । अधीति॑ । आस॑ते ॥ सूर्यः॑ । मा॒ । तेभ्यः॑ । र॒क्ष॒तु॒ । गच्छे॑म । सु॒कृत॒ इति॑ सु - कृतः॑ । व॒यम् ॥ येन॑ । इन्द्रा॑य । स॒मभ॑र॒ इति॑ सं - अभ॑रः । पयाꣳ॑सि । उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ । ह॒विषा᳚ । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ॥ तेन॑ । अ॒ग्ने॒ । त्वम् । उ॒त । व॒र्द्ध॒य॒ । इ॒मम् । स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् । श्रैष्ठ्ये᳚ । एति॑ । धे॒हि॒ । ए॒न॒म् ॥ य॒ज्ञ्॒हन॒ इति॑ यज्ञ् - हनः॑ । वै । दे॒वाः । य॒ज्ञ्॒मुष॒ इति॑ यज्ञ् - मुषः॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.5.4.3 TS 3.5.4.3
सन्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ । ये दे॒वा य॑ज्ञ्॒हनः॑ पृथि॒व्यामद्ध्यास॑ते॒ ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒काꣳस्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गं ॅलो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद्दे॒वता᳚श्च य॒ज्ञ्श्च॑ क्रामन्त्याग्ने॒यं पञ्च॑कपालमुदवसा॒नीयं॒ निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः॒ - [ ]
पदपाठः (Word-by-word)
स॒न्ति॒ । ते । ए॒षु । लो॒केषु॑ । आ॒स॒ते॒ । आ॒ददा॑ना॒ इत्या᳚ - ददा॑नाः । वि॒म॒थ्ना॒ना इति॑ वि-म॒थ्ना॒नाः । यः । ददा॑ति । यः । यज॑ते । तस्य॑ ॥ ये । दे॒वाः । य॒ज्ञ्॒हन॒ इति॑ यज्ञ् - हनः॑ । पृ॒थि॒व्याम् । अधीति॑ । आस॑ते । ये । अ॒न्तरि॑क्षे । ये । दि॒वि । इति॑ । आ॒ह॒ । इ॒मान् । ए॒व । लो॒कान् । ती॒र्त्वा । सगृ॑ह॒ इति॒ स - गृ॒हः॒ । सप॑शु॒रिति॒ स - प॒शुः॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । अपेति॑ । वै । सोमे॑न । ई॒जा॒नात् । दे॒वताः᳚ । च॒ । य॒ज्ञ्ः । च॒ । क्रा॒म॒न्ति॒ । आ॒ग्ने॒यम् । पञ्च॑कपाल॒मिति॒ पञ्च॑ - क॒पा॒ल॒म् । उ॒द॒व॒सा॒नीय॒मित्यु॑त् - अ॒व॒सा॒नीय᳚म् । निरिति॑ । व॒पे॒त् । अ॒ग्निः । सर्वाः᳚ । दे॒वताः᳚ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.5.4.4 TS 3.5.4.4
पाङ्क्तो॑ य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञ्ञ्चाव॑ रुन्धेगाय॒त्रो वा अ॒ग्निर्गा॑य॒त्र छ॑न्दा॒स्तं छन्द॑सा॒ व्य॑र्द्धयति॒ यत् पञ्च॑कपालं क॒रोत्य॒ष्टाक॑पालः का॒र्यो᳚ऽष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्नि-र्गा॑य॒त्र छ॑न्दाः॒ स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्द्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञ्स्तेनै॒व य॒ज्ञान्नैति॑ ॥
पदपाठः (Word-by-word)
पाङ्क्तः॑ । य॒ज्ञ्ः । दे॒वताः᳚ । च॒ । ए॒व । य॒ज्ञ्म् । च॒ । अवेति॑ । रु॒न्धे॒ । गा॒य॒त्रः । वै । अ॒ग्निः । गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र - छ॒न्दाः॒ । तम् । छन्द॑सा । वीति॑ । अ॒र्द्ध॒य॒ति॒ । यत् । पञ्च॑कपाल॒मिति॒ पञ्च॑ - क॒पा॒ल॒म् । क॒रोति॑ । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । का॒र्यः॑ । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्रः । अ॒ग्निः । गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र - छ॒न्दाः॒ । स्वेन॑ । ए॒व । ए॒न॒म् । छन्द॑सा । समिति॑ । अ॒र्द्ध॒य॒ति॒ । प॒ङ्क्त्यौ᳚ । या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ । भ॒व॒तः॒ । पाङ्क्तः॑ । य॒ज्ञ्ः । तेन॑ । ए॒व । य॒ज्ञात् । न । ए॒ति॒ ॥
पदसंख्या: 43