अनुवाकः 10 TS 3.5.10

(A10)

(तत् - प्रा॑णग्र॒हाः - स॒प्तविꣳ॑शच्च)

अनुवाकः 10 - Complete Audio

TS 3.5.10 - स्वरानुगामी

0:00 0:00
PS1.1 त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒
PS1.2 द्विर्यदे॒ते त्रि-र्भव॒न्त्यूमाः᳚
PS1.3 स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒
PS1.4 समत॑ ऊ॒ षु मधु॒
PS1.5 मधु॑ना॒ऽभि यो॑धि
PS1.6 उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑
PS1.7 गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये
PS1.8 त्वा
PS1.9 प्रा॒ण॒ग्र॒हान् गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते
PS1.10 ग्रहाः॒ स्तोमा॒श्छन्दाꣳ॑सि पृ॒ष्ठानि॒ दिशो॒
PS1.11 याव॑दे॒वास्ति॒ त - [
PS1.12 ]
PS2.1 -दव॑ रुन्धे ज्ये॒ष्ठा वा
PS2.2 ए॒तान् ब्रा᳚ह्म॒णाः पु॒रा विदाम॑क्र॒न्
PS2.3 तस्मा॒त् तेषाꣳ॒॒ सर्वा॒ दिशो॒ऽभिजि॑ता
PS2.4 अभूव॒न्॒. यस्यै॒ ते गृ॒ह्यन्ते॒
PS2.5 ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒
PS2.6 पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒
PS2.7 सर्वा᳚स्वे॒व दि॒क्ष्-वृ॑द्ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒
PS2.8 नव॒ वै पुरु॑षे प्रा॒णाः
PS2.9 प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑
PS2.10 चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा
PS2.11 वै प्रा॑णग्र॒हाः - [
PS2.12 ]
PS3.1 प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्
PS3.2 गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः
PS3.3 प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत्
PS3.4 प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यं ॅयोने॒श्च्यव॑ते
PS3.5 दश॒मेऽह॑न्. वामदे॒व्यं ॅयोने᳚श्च्यवते॒ यद्-द॑श॒मेऽह॑न्
PS3.6 गृ॒ह्यन्ते᳚ प्रा॒णेभ्य॑ ए॒व तत्
PS3.7 प्र॒जा नय॑न्ति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.5.10.1 TS 3.5.10.1
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रि-र्भव॒न्त्यूमाः᳚ । स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒ऽभि यो॑धि ।उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा ॥प्रा॒ण॒ग्र॒हान् गृ॑ह्णात्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहाः॒ स्तोमा॒श्छन्दाꣳ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ त - [ ]
पदपाठः (Word-by-word)
त्वे इति॑ । क्रतु᳚म् । अपीति॑ । वृ॒ञ्ज॒न्ति॒ । विश्वे᳚ । द्विः । यत् । ए॒ते । त्रिः । भव॑न्ति । ऊमाः᳚ ॥ स्वा॒दोः । स्वादी॑यः । स्वा॒दुना᳚ । सृ॒ज॒ । समिति॑ । अतः॑ । उ॒ । स्विति॑ । मधु॑ । मधु॑ना । अ॒भीति॑ । यो॒धि॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । जुष्ट᳚म् । गृ॒ह्णा॒मि॒ । ए॒षः । ते॒ । योनिः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ ॥ प्रा॒ण॒ग्र॒हानिति॑ प्राण-ग्र॒हान् । गृ॒ह्णा॒ति॒ । ए॒ताव॑त् । वै । अ॒स्ति॒ । याव॑त् । ए॒ते । ग्रहाः᳚ । स्तोमाः᳚ । छन्दाꣳ॑सि । पृ॒ष्ठानि॑ । दिशः॑ । याव॑त् । ए॒व । अस्ति॑ । तत् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाके तु नवमे दधिग्रहविधिः श्रुतः ।

अथ दशमेऽनुवाके गवामयनेऽतिग्राह्यः प्राणग्रहश्चोच्यन्ते ।

कल्पः — “अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति मध्ये पञ्चमम्” इत्युपक्रम्य पञ्चसु पात्रेषु तत्तन्मन्त्रैर्ग्रहणासादने अभिधायेदमुक्तम् — ‘तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति” इति । पाठस्तु —

त्वे क्रतुपीति । हेऽत्रिग्राह्या त्वे त्वायि क्रतुमपि वृञ्जन्ति सर्वमपि क्रतुम त्विजः समापयन्ति । ग्रहान्तरेभ्योऽस्य को विशेष इति । तदुच्यते-यद्यस्मात्का रणाद्द्विस्त्रि-र्द्विवारं विचारं वेत्येवं पञ्चसु पात्रेषु गृहिता एते रसा विश्वे सर्वे प्यूमरक्षका भवन्ति तस्मात्त्वयि क्रतोः समापनं युक्तम् । अतस्त्वमपि स्वादोरपि रसातिशयेन स्वादु यथा भवति तथा स्वादुना संसृज स्वादुत्वेन संसर्गं कुरु । अत उ षु अतोऽपि सुष्ठु यथा भवति तथा मधु मधुनाऽभियोधि मधुनो भागं मधुना भागान्तरेणाभियोधि । य एवं मधुरस उपयामेन पार्थिवपात्रेण गृहीतोऽसि प्रजापतये जुष्टं प्रियमितरपात्रेभ्य आनीतं त्वां मध्यमपात्रे गृह्णामि । सोऽयं ग्रहणमन्त्रः । एष स्वरप्रदेशस्ते योनिस्ताव स्थानम् । अतः प्रजापत्यर्थं त्वामत्र सादयामि । अनेन मन्त्रेण गवामयनस्य संवत्सरसत्रस्योपान्त्येऽह्नि महाव्रताख्येऽतिग्राह्यं गृह्णीयात् ।

अथ चतुर्थकाण्डसमाम्नातैरथं पुरो भुव इत्यादिभिर्मन्त्रैः पृश्निग्रहवत्सोमो-न्मानरूपान्ग्रहान्विधत्ते —

प्राणग्रहान्गृह्णातीति । यथा यत्पृश्नयो गृह्यन्त इत्यत्र वायुरसि प्राणो-नामेत्यादिभिर्मन्त्रैः सोमोन्मानविशेषा एव ग्रहा इत्युक्तमेवमत्राप्ययं पुरो भुवा इत्यादिभिः प्राणमन्त्रैः सोमोन्मानविशेषाः प्राणग्रहा इत्युच्यन्ते । तान्गृह्णीयात्सोमोन्मानं कुर्यादित्यर्थः । एते ग्रहा इति यावत् । एतावदेवात्रापेक्षितमस्ति । स्तोमास्त्रिवृत्पञ्चदशादयः । छन्दांसि गायत्र्यादीनि । पृष्ठानि माध्यंदिनपवमानानन्तरभावीनि स्तोत्राणि । दिशः प्राच्याद्याः । इत्येतादृशं यावदेवापेक्षितमस्ति तत्सर्वमतैग्रहैरवरुन्धे । प्रकारान्तरेण प्राणग्रहान्प्रशंसति —

ज्येष्ठा वा एतानिति । यस्मादेतान्ग्रहान्गृह्णन्तो ब्राह्मणा ज्येष्ठा दिशां जे

तारश्चाभूवंस्तस्माद्यस्यैते गृह्यन्ते स इतरेभ्यो ज्योष्ठ्यं प्राशस्त्यमेव प्राप्नोति नाना दिक्ष्ववस्थिताश्च पुरुषास्तस्य भवन्ति । प्राणग्रहपर्यायाणां संख्यां विधत्ते —

पञ्च गृह्यन्त इति । अयं पुरो भुव इत्यादिभिर्मन्त्रैः प्रथमः पर्यायः । अयं दक्षिणाविश्वकर्मेत्यादिभिर्द्वितीयः अयं पश्वाद्विश्वव्यचा इत्यादिभिस्तृतीयः । इदमुत्तरात्सुवरित्यादिभिश्चतुर्थः । इयमुपरि मतिरित्यादीभिः पञ्चमः । प्राच्यादय उर्ध्वान्ताः पञ्च दिशः । तासु दिक्षु सर्वास्वनेन पञ्चविधग्रहणेन समृद्धिं प्राप्नुवन्ति । एकैकस्मिन्पर्याये सोमांशुसंख्यां विधत्ते —

नवनव गृह्यन्त इति । शिरोवस्थितेषु सप्तसुच्छिद्रेष्वधोवस्थितयोश्च द्वयोश्छिद्रयोः संचरन्तः प्राणा नवसंख्याकाः । नवांशुग्रहणेन तान्यजमानेषु स्थापयति (न्ति) । अस्य ग्रहणस्य कालं विधत्ते —

प्रायणीय इति । संवत्सरसत्रस्य प्रथममहः प्रायणीयं, चरममहरुदयनीयं, तयोरुभयोर्गृह्णीयात् । तथा सति तेषां ग्रहाणां प्राणरूपत्वात्प्राणैरेव संवत्सरमुपक्रम्य प्राणैरेव समापितवन्तो भवन्ति । कालान्तरं विधत्ते —

दशमेऽहन्निति । संवत्सरसत्रस्य द्वादशाहविकृतित्वात्तदीयान्यहान्यत्र प्रयोक्तव्यानि । तेषु यद्दशममहस्तस्पिन्प्राणग्रहान्गृह्णीयात् । वामदेव्याख्यस्य साम्नः कया निश्चित्र आ भुवदित्येषा योनिः । दशमेऽहनि तुतां योनिं परित्यज्यान्यस्यामृचि तत्साम गीयते । तथा सति वामदेव्यं स्वयोनेश्च्यवत इति यतू, एतेनापराधेन प्रजाः प्राणेभ्यो यन्त्यपगच्छन्ति । तत्र प्राणग्रहाणां प्राणरूपत्वाद्दशमेऽहनि तेषां ग्रहणेन पर्जाः प्राणेभ्यो नापगच्छन्ति ।

अत्र विनियोगसंग्रहः —

“त्वे गवामयने पात्रेऽतिग्राह्यग्रहणं भवेत् ।

अयं पुरो भुवः प्राणग्रहाणां पञ्च मन्त्रकाः ॥

सोमांशवो नव नव ग्राह्याः पर्यायपञ्चके ।

कया नश्चित्र एतस्या योनेर्भ्रष्टं तु साम तत् ।

अग्निं नर इति ह्यत्र गीयते दशमेऽहनि” ॥ इति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके

दशमोऽनुवाकः ॥ १० ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ तृतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति - त्वे क्रतुमपि वृञ्जन्तीत्येकां त्रिष्टुभमनुद्रुत्य उपयामगृहीतोसीति यजुषा ॥ त्वे तव । 'सुपां सुलुक्' इति शे आदेशः । क्रतुं कर्म पूजादिकं विश्वे सर्वेऽपि वृञ्जन्ति सकृदनुष्ठाय संस्थापयन्ति । तत्र द्विरनुष्ठानं, तेनैते स्मः अस्मदादीनां विलक्षणानां यज्ञकर्मणि वर्तमानानां सः स्वभाव इति । ये त्रिरनुतिष्ठन्ति ते ऊमाः अवितारस्सर्वस्य अस्मत्तोपि विलक्षणाः देवा भवन्ति, देवानां स स्वभाव इति । तस्मादस्माभिः द्वितीयः प्राजापत्यग्रहो गृह्यते इति । त्रिरिति । एकवाक्ये पदात्परत्वाभावाद्भवन्तीति न निहन्यते । अवतेरौणादिके मत्प्रत्यये 'ज्वरत्वर' इत्यादिना ऊठ् । तस्मात्स्वादोः पूर्वस्मात् प्राजापत्यात् स्वादीयः स्वादुतरमेतत् स्वादुना दध्यादिना संसृज संसृजामि । पुरुषव्यत्ययः, 'द्व्यचोतस्तिङः' इति संहितायां दीर्घत्वम् । अतस्त्वमपि हे प्रजापते ग्रह एव वा । मधु मधुनः फलस्य साधनमेतत्कर्म मधुना कर्मफलेन सुष्ठु अभियोधि आभिमुख्येन संसृज । 'वा छन्दसि' इत्यपित्त्वाभावेनाङित्त्वात् 'अङितश्च' इति धिभावः, 'उतो वृद्धिः' इति व्यत्ययेन न क्रियते, 'अन्येषामपि दृश्यते' इति उकारस्य संहितायां दीर्घत्वम्, 'सुञः' इति षत्वम् ॥
2 उपयामगृहीतोसीत्यादि ॥ गतम् ॥
3 अनेन गृहीत्वा परिमृज्य सादयति - एष ते योनिः प्रजापतये त्वेत्यादि ॥ 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
4 प्राणग्रहान् गृह्णातीत्यादि ब्राह्मणम् ॥ एषां मन्त्रास्त्वनन्तरकाण्डे भविष्यन्ति । तत्रायं प्रयोगक्रमः - सन्नद्धस्य राज्ञो नवांशून् प्राच आयातयति 'अयं पुरोभुवः' इति । 'अयं दक्षिणा विश्वकर्मा' इति नव दक्षिणा आयातयति । 'अयं पश्चाद्विश्वव्यचाः' इति नव प्रतीच आयातयति । 'इदमुत्तरात्सुवः' इति नवोदीच आयातयति । 'इयमुपरि मतिः' इति नवोपरिष्टात्प्रदक्षिणं पर्यायातयति । तानपानभृद्भिः प्रत्यूहति 'प्राची दिशाम्' इति । वाचयति 'पितरः पितामहाः' इति, ये पुरस्ताद्भवन्ति । अथ 'दक्षिणा दिशाम्' इति ये दक्षिणतो भवन्ति । अथ 'प्रतीची दिशाम्' इति ये पश्चाद्भवन्ति । अथ 'उदीची दिशाम्' इति य उत्तरतो भवन्ति । अथ 'ऊर्ध्वा दिशाम्' इति य उपरिष्टात्प्रदक्षिणं पर्याता भवन्ति ॥
5 एतावद्वा इत्यादि ॥ एतावदेवास्मिन् जगति पुनरेते ग्रहाः स्तोमास्त्रिवृदादयः, छन्दांसि गायत्र्यादीनि, पृष्ठानि सामानि रथन्तरादीनि । एतदात्मका एते ग्रहाः एतावदेवास्ति सर्वमवरुन्धे ॥
6 ज्येष्ठा वा इत्यादि ॥ गतम् । विदामक्रन् । विदेर्लुङि 'अभ्युत्सादयाम्' इत्यादौ आम्प्रत्ययो निपात्यते, 'मन्त्रे घस' इत्यादिना अनुप्रयुज्यमानस्य च्लेर्लुक् ॥
7 पञ्च गृह्यन्ते इत्यादयो विधयः । नियतमेव नवांशवो गृह्यन्ते । नव वा इति । सप्त शीर्षण्याः, द्वाववाञ्चौ । यजमानेषु दधतीति । सत्रविषयत्वाद्बहुवचनम् ॥
8 क्व पुनरेते ग्रहाः गृहीतव्या इत्याह - प्रायणीये चेत्यादि ॥ एते प्रायणीयोदयनीययोरेव नियुक्ता गृह्यन्ते । 'दशमेहंस्तदु रात्रिसत्रेष्वग्निष्टोम आयातयति वा गृह्णीयादगदो हैव भवति' इत्याचार्याः ॥
9 प्राणेभ्य इत्यादि - प्राणेभ्यः प्रजायन्ति उपगच्छन्ति तदा, यदा वामदेव्यं साम योनेश्च्यवते । कदा पुनस्तद्योनेश्च्यवते? आह - दशमेऽहन्नित्यादि । गतम् । 'वामदेवाड्ड्यड्ड्यौ' ॥
इति तृतीये पञ्चमे दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.5.10.2 TS 3.5.10.2
-दव॑ रुन्धे ज्ये॒ष्ठा वा ए॒तान् ब्रा᳚ह्म॒णाः पु॒रा विदाम॑क्र॒न् तस्मा॒त् तेषाꣳ॒॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न्॒. यस्यै॒ ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वा᳚स्वे॒व दि॒क्ष्-वृ॑द्ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः - [ ]
पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । ज्ये॒ष्ठाः । वै । ए॒तान् । ब्रा॒ह्म॒णाः । पु॒रा । वि॒दाम् । अ॒क्र॒न्न् । तस्मा᳚त् । तेषा᳚म् । सर्वाः᳚ । दिशः॑ । अ॒भिजि॑ता॒ इत्य॒भि - जि॒ताः॒ । अ॒भू॒व॒न्न् । यस्य॑ । ए॒ते । गृ॒ह्यन्ते᳚ । ज्यैष्ठ्य᳚म् । ए॒व । ग॒च्छ॒ति॒ । अ॒भीति॑ । दिशः॑ । ज॒य॒ति॒ । पञ्च॑ । गृ॒ह्य॒न्ते॒ । पञ्च॑ । दिशः॑ । सर्वा॑सु । ए॒व । दि॒क्षु । ऋ॒द्ध्नु॒व॒न्ति॒ । नव॑न॒वेति॒ नव॑ - न॒व॒ । गृ॒ह्य॒न्ते॒ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । यज॑मानेषु । द॒ध॒ति॒ । प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीये᳚ । च॒ । उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीये᳚ । च॒ । गृ॒ह्य॒न्ते॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । प्रा॒ण॒ग्र॒हा इति॑ प्राण - ग्र॒हाः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.5.10.3 TS 3.5.10.3
प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न् गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत् प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यं ॅयोने॒श्च्यव॑ते दश॒मेऽह॑न्. वामदे॒व्यं ॅयोने᳚श्च्यवते॒ यद्-द॑श॒मेऽह॑न् गृ॒ह्यन्ते᳚ प्रा॒णेभ्य॑ ए॒व तत् प्र॒जा नय॑न्ति ॥
पदपाठः (Word-by-word)
प्रा॒णैरिति॑ प्र - अ॒नैः । ए॒व । प्र॒यन्तीति॑ प्र - यन्ति॑ । प्रा॒णैरिति॑ प्र - अ॒नैः । उदिति॑ । य॒न्ति॒ । द॒श॒मे । अहन्न्॑ । गृ॒ह्य॒न्ते॒ । प्रा॒णा इति॑ प्र - अ॒नाः । वै । प्रा॒ण॒ग्र॒हा इति॑ प्राण - ग्र॒हाः । प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । खलु॑ । वै । ए॒तत् । प्र॒जा इति॑ प्र - जाः । य॒न्ति॒ । यत् । वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् । योनेः᳚ । च्यव॑ते । द॒श॒मे । अहन्न्॑ । वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् । योनेः᳚ । च्य॒व॒ते॒ । यत् । द॒श॒मे । अहन्न्॑ । गृ॒ह्यन्ते᳚ । प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । ए॒व । तत् । प्र॒जा इति॑ प्र - जाः । न । य॒न्ति॒ ॥
पदसंख्या: 37