पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
( अथ तृतीयकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः) ।
विष्ण्वतिक्रमणे मन्त्रास्तृतीये समुदीरिताः ।
कल्पः — “वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षाञ्जपति” इति ।
अतिमोक्षशब्देन ये देवा यज्ञहन इत्यादयो मन्त्रा विवक्षिताः । सूत्रकारेणान्यत्र ये देवा यज्ञहन इत्यतिमोक्षा इत्युक्तत्वात् । पाठस्तु —
ये देवा इति । अत्र यज्ञमुष इति पदं पृथक्कृत्य मन्त्रभेदः कर्तव्यः । तत्र प्रथममन्त्रे पृथिव्यामध्यासत इत्याद्यन्तभागोऽनुषञ्जनीयः । द्वितीयमन्त्रे तु ये देवा इत्ययं पूर्वभागोऽनुषञ्जनीयः । देवानां मध्ये म्लेच्छजातयः केजिद्देवा यज्ञभागार्हाः सन्तो द्रष्टुमसहमानाः केचिद्यज्ञं विनाशयन्ति ।अपरे तु यज्ञसाधनान्यपहृत्यान्यत्र गच्छन्ति । तत्र यज्ञविघातिनो ये देवा पृथिव्यां यं कंचिद्देशमधिष्ठायाव तिष्ठन्ते तेभ्यो यज्ञविघातिभ्योऽग्निर्मां रक्षतु । वयं सुकृतः सुष्ठु यज्ञं निष्पादितवन्तो गच्छेम यज्ञफलं प्राप्नुयाम । एवं यज्ञमुषां मन्त्रोऽपि व्याख्येयः । तृतीयमन्त्रपाठस्तु —
आऽगन्यैति । हे वरेण्या मित्रावरुणा श्रेष्ठौ मित्रावरुणौ यज्ञसंबन्धिनीनां रात्रीणां मध्ये वर्तमानायामस्यां रात्रौ युवयोः संबन्धि वशानूबन्ध्यारूपो यो भागोऽस्ति तेन वयं नाकं स्वर्गसुखं गृह्णाना आगन्म सर्वतः प्राप्ताः स्वः । कुत्रैतत्स्वर्गसुखग्रहणमिति तदुच्यते सकृतस्यास्य यज्ञस्य संबधिनि तृतीये लोके । कीदृशे । अधिरोजनेऽधिकं भासमाने । भासमानोऽपि लोकः कुत्रेति तदुच्यते-दिवः पृष्ठे स्वर्गस्योपरि । पृथिव्यन्तरिक्षापेक्षया तृतीयत्वम् । पाताललोकोऽपि तादृशो भवतीति व्यवच्छेदाय दिवः पृष्ठ इत्युक्तम् । रौरवादिनरकव्यावृत्तये सुकृतस्येत्युक्तम् । नरको हि दुष्कृतस्य ।
ये देवा इति । पूर्ववद्व्याख्येयम् । षष्ठमन्त्रवाह —
यास्ते रात्रीरिति । हे सवितर्द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये ते तव संबन्धिन्यो या रात्रीर्यज्ञानुष्ठानयोग्या रात्रयो वियन्ति विशेषेण गच्छन्ति प्रवर्तन्ते । यद्यप्येकैव रात्रिः सुत्याकर्मार्हा तथाऽपि दीक्षोपसत्सहिता बहवो रात्रयो भवन्ति । तासां च सवितृप्रेरितत्वात्तत्संबन्धः । कीदृश्यो रात्रयः । देवयानीर्देवान्यान्तीति देवयान्यो दैविककर्मयुक्ता इत्यर्थः । तासु रात्रिषु कर्मानुतिष्ठन्तः सर्वैर्गृहैश्च प्रजयाऽनु गृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्धं रुहाणाः स्वर्ग सर्वैर्गृहश्चै प्रजयाऽनुगृहवर्तिभिर्भृत्यैः पुत्रादिना च सार्थं सुवो रुहाणाः स्वर्गं प्राप्नुवन्तो यजमाना यूयं रजांसि रञ्जनीयानि सुखानि तरत प्राप्नुत ।
पूर्ववदनुषङ्गभेदभिन्नौ सप्तमाष्टममन्त्रावाह —
ये देवा इति । पूर्ववद्व्याख्येयम् । अथ नवमं मन्त्रमाह —
येनेन्द्रायति । हे जातवेदो येनोत्तमेन हविषोत्तमहविःस्वरुपेण पयांसि क्षीररसस्वादून्सोमरसानिन्द्राय समभरः संभृतवानसि तेन हविषा हेग्ने त्वमिमं यजमानं वर्धय उतापि चैनं यजमानं सजातानां श्रैष्ठ्यै स्वाम्य आधेहि । अथैतान्प्रशंसति-
यज्ञहनो वा इति । कपटरूपधारिणः केचन देवा यज्ञभागरहिता यज्ञशालादाहाद्युपद्रवेण यज्ञघातिनो भवन्ति । अपरे च ग्रहचमससोमरसापहारेण यज्ञमुषो भवन्ति । एवमुभयविधा ये सन्ति ते त्रिष्वप्येतेषु लोकेष्वतिष्ठन्ते । किं कुर्वन्तः । यो यजमानो दक्षिणां ददाति तदीयं दक्षिणाद्रव्यं गवादिकमपहरन्ती (न्त इ ) त्यर्थः । यो यजमानो यजते तदीयं ग्रहचमसादिकं विमथ्नाना भङ्गपरित्यागादितो विलोडयन्तः । तस्योपद्रवस्य सर्वस्यैतैर्मन्त्रैः परिहारं दर्शयति —
ये देवा इति । अत्र यज्ञमुष इत्यत्र पृथङ्मन्त्रत्वं दर्शयितुं तत्पदं परित्यज्यानुषङ्गेण सह यज्ञहन इत्येतावदेवोदाहृतम् । एतैर्मन्त्रैरुपद्रवसहितानिमाल्लोँ-कानुत्तीर्य सगृहः कलत्रपुत्रादिसहितः सपशुर्गवाश्वादिपशुसहितः स्वर्गं प्राप्नोति । त एते मन्त्रा उरु हि राजेत्वेतस्यादनुवाकात्पूर्वं द्रष्टव्याः । अथोदवसानीयं विधत्ते —
अप वै सोमेनेति । यः सोमेनेष्टवानभवत्, एतस्माद्देवताश्च यज्ञश्चापक्रामन्ति । अनेन यजमानेन प्रयोजनाभाव मन्वाना एनं परित्यजन्ति । अतस्तदपक्रमणं वारयितुमग्निदेवतया युक्तं पञ्चकपालं तादृशपुरोडाशेन साध्यमुदवसानीयाख्यं कर्म कुर्यात् । अयमग्निः सर्वदेवतात्मको यज्ञश्च पाङ्क्तः पञ्चसंख्योपेतः । “ते देवा बिभ्यतोऽग्निं प्राविशन्” “धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यत” इत्यादिश्रुतिद्वयात् । अत आग्नेयत्वेन सर्वा देवता अवरुन्धे पत्र्चकपालेन यज्ञमप्यवरुन्धे ।
गायत्रो वा इति । अग्नेर्गायत्र्याश्च प्रजापतिमुखजन्यत्वेन गायत्रोऽग्निः । पञ्चकपाले सति तमग्निं स्वकीयेन च्छन्दसा वियोजयति । अष्टाकपाले त सति गायत्र्या अष्टाक्षरत्वादग्निं स्वकीयेन च्छन्दसा समृद्धं करोति ।
अत्राग्ने तमद्याश्वमित्येते अक्षरपङ्क्त्यौ विधत्ते —
पङ्क्त्यौ याज्येति । अत्र तु गायत्रत्वसिद्धयेऽष्टाकपालः स्वीकृतस्तथाऽपि पाङूक्तमन्त्रपाठेन धानादिद्वारा पाङ्क्तयज्ञादप्ययं यजमानो नापगच्छति ।
अत्र विनियोगसंग्रहः —
ये देवा इत्यतीमोक्षान्मन्त्रानेताञ्जपेन्नव ।
यज्ञहन्यज्ञमुट्चेति भेदान्मन्त्राभिदेष्यते ॥