पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
[अथ तृतीयकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः] ।
आदित्यग्रहमन्त्रा ये ते पञ्चप उदीरिताः ।
कल्पः- “अत्र दर्शपूर्णमासवत्पत्नी संनह्यति सं त्वा नह्यामीति विकारः” इति । पाठस्तु —
सं त्वा नह्यामीति । हे पत्नि त्वां पयसा घृतेन च निमित्तभूतेन संनह्यामि तदुभयसिद्ध्यर्थं सम्मग्योक्त्रेण बध्नामि । तथौषधीभिः सहिता अप उद्दिश्य तदुभय-सिद्ध्यर्थं त्वां संनह्यामि । प्रजया निमित्तभूतयाऽहमध्वर्युरद्यास्मिकन्कर्मणि त्वां संनह्यामि । अस्मे अस्मासु वाजमन्नं सनवः सनितुं दातुं सा पत्नी दीक्षिता भवतु ।
कल्पः — “प्रेतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति” । पाठस्तु —
प्रैतु ब्रह्मण इति । ब्रह्मणो ब्राह्मणस्य यजमानस्य पत्नी प्रैतु पत्नीशालाया निर्गत्य प्रकर्षेण गच्छतु गत्वा प्राप्नोतु ।
कल्पः — “अथाहमनुकामिनीति पत्नीं शालामुखीयमुपोपविश्य” इति । पाठस्तु —
अथाहमन्विति । अथाहमिह स्वे लोके स्थाने विशा उपविशामि । कीदृशी । अनुकामिनी यजमानस्याऽऽनुकूल्यं कामयमाना ।
कल्पः — “सुप्रजसस्त्वा वयमिति जपति” इति । पाठस्तु —
सुप्रजसस्त्वेति । हेऽग्ने सुप्रजसः शोभनापत्याः सुपत्नीर्धर्मपत्न्यो वयमदब्धासः केनाप्यतिरस्कृताः सत्यस्त्वामुपसेदिम तव समीप उपविष्टाः स्मः । कीदृशं त्वां, सपत्नदम्भनं वैरिनाशकम् । अदाभ्यं केनाप्यतिरस्कार्यम् ।
कल्पः — “विचचृत इमं वि ष्यामीति पत्नी योक्त्रम्” इति । पाठस्तु —
इमं वि ष्यामीति । सुकेतः शोभनज्ञानयुक्तः सविता प्रेरकोऽन्तर्यामी यं योक्त्ररूपं वरुणस्य पाशं पूर्वमबध्नीत तमिमं विष्यामि विमुञ्चामि । तत सुकृतस्य फलभूत उत्तमे लोके धातुश्च परमेश्वरस्य योनौ स्थाने पत्या सह मे स्योनं सुखं करोमि ।
कल्पः “प्रदेह्युहीति नेष्टा पत्नीमुदानयति” इति । पाठस्तु —
प्रेह्युदेहीति । हे पत्नि प्रेहि शालामुखीयस्थानान्निर्गत्य पन्नेजनीरप आनेतुं प्रकर्षेण गच्छोदेहि विलम्बमकृत्वोत्थाय गच्छ । ऋतस्य वामीर्यज्ञस्य प्रेरकोऽयमग्निस्ते गमनमनुमन्यमानोऽग्रं नयतु परतः प्रेरयतु । अदितिर्भूमिश्च मध्यं ददताम् । उभयोः पार्श्वयोर्मध्येऽवस्थितं मार्गं प्रयच्छतु । त्वं च रुद्रावसृष्टाऽसि क्रूरेणोपद्रवकारिणा देवेन विमुक्ताऽसि । अतो युवा नामासि युवतिर्वा बाधकेभ्यः पृथग्भूता वाऽसि । इत्थकामाकारयन्तं मां नेष्टारं मा हिंसीर्मा बाधस्व ।
कल्पः- “पन्नेजनीर्गृह्णाति प्रत्यङ्क्ति (ङ्ति)ष्ठन्ती सुभ्यो रुद्रेभ्य आदित्येभ्य इति” । पाठस्तु —
वसुभ्यो रुद्रेभ्य इति । हे आपो वो युष्मान्पन्नेजनीर्गृह्णामि । किमर्थं वस्वादिदेवप्रीत्यर्थमपि पन्नेजनीर्वो गृह्णामि ।
सादयामीति । कल्पः — “पत्नी पन्नेजनीः सादयति प्रत्यङ्क्ति (ङ्ति) ष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति” इति ।
अत्र सादयामीत्येतावानाम्नातो मन्त्रः । तस्य च शेषत्वेन वसुभ्य इत्यादिकं गृह्णामीतिपदव्यतिरिक्तं सर्वमनुषज्य पूर्ववद्व्याख्येयम् ।
कल्पः — “विश्वस्य ते विश्वात्रत इति हिंकारमनृदुगात्रा पत्नीं संख्यापयति” इति ।
हिंकारमुञ्चार्यानन्तरमुद्गाता यथा पत्नीं पश्यति तथाऽध्वर्युरिमं मन्त्रमुच्चा-रयन्प्रदर्शयेदित्यर्थः । पाठस्तु —
विश्वस्य त इति । हेऽग्ने विश्वस्य ते संदृशि विश्वात्मकस्य तव कटाक्षवीक्षणे सति तथा विश्वमस्यास्तीति विस्ववान् । वृष्णियं बलमस्यास्तीति वृष्णियावान् तादृशस्य तव वीक्षणे सति वामीर्वनयीयस्यानुष्ठानस्य प्रवर्तकोऽहं विश्वा रेतांसि बहुपुत्रकारणानि सर्वाण्यपि वीर्याणि धिषीयानुक्रमेण पत्न्यां स्थापयेय ।
कल्पः- “अगन्देवानिति च पत्न्यप उपप्रवर्तयति” इति । पाठस्तु---
अगन्देवानिति । अयं यज्ञो देवानगन्प्राप्नोत् । देवीर्द्योतमाना आपो देवेभ्ये-ऽस्मदीयं यज्ञं नितरामशिपन्विस्पष्टमुक्तवत्यः । अस्मिन्यजमाने सुन्वति सौमाभिषवं कुर्वति स्वाहाकृताः स्वाहाकारेण संपादिताः समुद्रसमाने स्वर्गऽवस्थिता आशिषः फलविशेषा ये संपद्यन्ते ते सर्वैऽप्यनुक्रमेण गन्धर्वं पत्न्या मम गन्धर्वत्प्रियं यजमान-मातिष्ठत प्राप्नुवन्तु । वातस्य यज्ञप्रवर्तकस्य वायो । “वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते” इत्य-न्यत्राऽऽम्नातम् । तस्य वायोः पत्मन्पतने प्रेरणे सतीडः फलसाधनभूताः स्तोत्रविशेषा ईडिता ऋत्विग्भिः प्रयुक्ताः । तस्मात्तत्फलं सर्वं यजमानः प्राप्नोत्विति तात्पर्यार्थः । अत्र सं त्वा नह्यमीत्ययं योक्त्रबन्धनमन्त्रो दीक्षाप्रकरण इन्द्रस्य योनिरसीत्येतस्मान्मन्त्रात्पूर्वं द्रष्टव्यः । तत्रैवाथाहं सुप्रजस इत्येतौ द्रष्टव्यौ । इमं वि ष्यामीति मन्त्रोऽवभृथानुवाके देवीराप एष व इत्येतस्मात्पूर्वं द्रष्टव्यः । प्रेह्युदेहीति मन्त्रो हृदे त्वेत्यनुवाके देवीरापो अपां नपादित्ये तस्मात्पूर्वं द्रष्टव्यः । वसुभ्य इति ग्रहणसादनमन्त्रौ समुद्रस्य वोऽक्षित्या उन्नय इत्येतस्मादूर्ध्वं द्रष्टव्यौ ।
अत्र विनियोगसंग्रहः —
स त्वा पत्न्यां योक्त्रबन्धः प्रैतु शालामखे नयेत् ।
अथाइमुपविश्यैषा सुप्रजेति जपेदथ ॥
इमं काले योक्त्रमोकः प्रेहि पत्नीमुदानयेत् ।
वसु पन्नेजनीः पत्नी गृहीत्वा तेन सादयेत् ।
विश्वस्य पत्नीमुद्गात्रासंख्यापयति सा त्वगन् ।
अपः प्रवर्तयन्नू (त्यू)रावत्र मन्त्रा दश स्मृताः ॥
षष्ठोऽनुवाकः ॥ ६ ॥