अनुवाकः 6 TS 3.5.6

(A6)

(पाशं॒ - ॅवृष्णि॑यावत - स्त्रिꣳ॒॒शच्च॑)

अनुवाकः 6 - Complete Audio

TS 3.5.6 - स्वरानुगामी

0:00 0:00
PS1.1 सं त्वा॑ नह्यामि॒ पय॑सा
PS1.2 घृ॒तेन॒ सं त्वा॑ नह्याम्य॒प
PS1.3 ओष॑धीभिः
PS1.4 सं त्वा॑ नह्यामि प्र॒जया॒ऽहम॒द्य
PS1.5 सा दी᳚क्षि॒ता स॑नवो॒ वाज॑म॒स्मे
PS1.6 प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ ॅवर्णे॑न सीदतु
PS1.7 अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह
PS1.8 सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ सेदिम
PS1.9 अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा᳚भ्यं
PS1.10 इ॒मं ॅविष्या॑मि॒ वरु॑णस्य॒ पाशं॒
PS1.11 - [ ]
PS2.1 ॅयमब॑द्ध्नीत सवि॒ता सु॒केतः॑
PS2.2 धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के
PS2.3 स्यो॒नं मे॑ स॒ह पत्या॑
PS2.4 करोमि
PS2.5 प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑ नय॒त्वदि॑ति॒र्मद्ध्यं॑ ददताꣳ
PS2.6 रु॒द्राव॑सृष्टाऽसि यु॒वा नाम॒ मा
PS2.7 मा॑ हिꣳसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒
PS2.8 विश्वे᳚भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि
PS2.9 य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒
PS2.10 विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावत॒
PS2.11 - [ ]
PS3.1 स्तवा᳚ग्ने वा॒मीरनु॑ स॒दृंशि॒ विश्वा॒
PS3.2 रेताꣳ॑सि धिषी॒याऽग॑न् दे॒वान्. य॒ज्ञो
PS3.3 नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञ्म॑शिषन्न॒स्मिन्थ् सु॑न्व॒ति
PS3.4 यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा
PS3.5 ग॑न्ध॒र्वमाति॑ष्ठ॒तानु॑
PS3.6 वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.5.6.1 TS 3.5.6.1
सं त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सं त्वा॑ नह्याम्य॒प ओष॑धीभिः । सं त्वा॑ नह्यामि प्र॒जया॒ऽहम॒द्य सा दी᳚क्षि॒ता स॑नवो॒ वाज॑म॒स्मे ॥ प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिं॒ ॅवर्णे॑न सीदतु । अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह ॥ सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ सेदिम । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा᳚भ्यं ॥ इ॒मं ॅविष्या॑मि॒ वरु॑णस्य॒ पाशं॒ - [ ]
पदपाठः (Word-by-word)
समिति॑ । त्वा॒ । न॒ह्या॒मि॒ । पय॑सा । घृ॒तेन॑ । समिति॑ । त्वा॒ । न॒ह्या॒मि॒ । अ॒पः । ओष॑धीभि॒रित्योष॑धि - भिः॒ ॥ समिति॑ । त्वा॒ । न॒ह्या॒मि॒ । प्र॒जयेति॑ प्र - जया᳚ । अ॒हम् । अ॒द्य । सा । दी॒क्षि॒ता । स॒न॒वः॒ । वाज᳚म् । अ॒स्मे इति॑ ॥ प्रेति॑ । ए॒तु॒ । ब्रह्म॑णः । पत्नी᳚ । वेदि᳚म् । वर्णे॑न । सी॒द॒तु॒ ॥ अथ॑ । अ॒हम् । अ॒नु॒का॒मिनीत्य॑नु-का॒मिनी᳚ । स्वे । लो॒के । वि॒शै । इ॒ह ॥ सु॒प्र॒जस॒ इति॑ सु - प्र॒जसः॑ । त्वा॒ । व॒यम् । सु॒पत्नी॒रिति॑ सु - पत्नीः᳚ । उपेति॑ । से॒दि॒म॒ ॥ अग्ने᳚ । स॒प॒त्न॒दंभ॑न॒मिति॑ सपत्न - दंभ॑नम् । अद॑ब्धासः । अदा᳚भ्यम् ॥ इ॒मम् । वीति॑ । स्या॒मि॒ । वरु॑णस्य । पाश᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

[अथ तृतीयकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः] ।

आदित्यग्रहमन्त्रा ये ते पञ्चप उदीरिताः ।

अथ षष्ठेऽनुवाके पत्नीविषया मन्त्रा उच्यन्ते ।

कल्पः- “अत्र दर्शपूर्णमासवत्पत्नी संनह्यति सं त्वा नह्यामीति विकारः” इति । पाठस्तु —

सं त्वा नह्यामीति । हे पत्नि त्वां पयसा घृतेन च निमित्तभूतेन संनह्यामि तदुभयसिद्ध्यर्थं सम्मग्योक्त्रेण बध्नामि । तथौषधीभिः सहिता अप उद्दिश्य तदुभय-सिद्ध्यर्थं त्वां संनह्यामि । प्रजया निमित्तभूतयाऽहमध्वर्युरद्यास्मिकन्कर्मणि त्वां संनह्यामि । अस्मे अस्मासु वाजमन्नं सनवः सनितुं दातुं सा पत्नी दीक्षिता भवतु ।

कल्पः — “प्रेतु ब्रह्मणस्पत्नीति प्रतिप्रस्थाता पत्नीमुदानयति” । पाठस्तु —

प्रैतु ब्रह्मण इति । ब्रह्मणो ब्राह्मणस्य यजमानस्य पत्नी प्रैतु पत्नीशालाया निर्गत्य प्रकर्षेण गच्छतु गत्वा प्राप्नोतु ।

कल्पः — “अथाहमनुकामिनीति पत्नीं शालामुखीयमुपोपविश्य” इति । पाठस्तु —

अथाहमन्विति । अथाहमिह स्वे लोके स्थाने विशा उपविशामि । कीदृशी । अनुकामिनी यजमानस्याऽऽनुकूल्यं कामयमाना ।

कल्पः — “सुप्रजसस्त्वा वयमिति जपति” इति । पाठस्तु —

सुप्रजसस्त्वेति । हेऽग्ने सुप्रजसः शोभनापत्याः सुपत्नीर्धर्मपत्न्यो वयमदब्धासः केनाप्यतिरस्कृताः सत्यस्त्वामुपसेदिम तव समीप उपविष्टाः स्मः । कीदृशं त्वां, सपत्नदम्भनं वैरिनाशकम् । अदाभ्यं केनाप्यतिरस्कार्यम् ।

कल्पः — “विचचृत इमं वि ष्यामीति पत्नी योक्त्रम्” इति । पाठस्तु —

इमं वि ष्यामीति । सुकेतः शोभनज्ञानयुक्तः सविता प्रेरकोऽन्तर्यामी यं योक्त्ररूपं वरुणस्य पाशं पूर्वमबध्नीत तमिमं विष्यामि विमुञ्चामि । तत सुकृतस्य फलभूत उत्तमे लोके धातुश्च परमेश्वरस्य योनौ स्थाने पत्या सह मे स्योनं सुखं करोमि ।

कल्पः “प्रदेह्युहीति नेष्टा पत्नीमुदानयति” इति । पाठस्तु —

प्रेह्युदेहीति । हे पत्नि प्रेहि शालामुखीयस्थानान्निर्गत्य पन्नेजनीरप आनेतुं प्रकर्षेण गच्छोदेहि विलम्बमकृत्वोत्थाय गच्छ । ऋतस्य वामीर्यज्ञस्य प्रेरकोऽयमग्निस्ते गमनमनुमन्यमानोऽग्रं नयतु परतः प्रेरयतु । अदितिर्भूमिश्च मध्यं ददताम् । उभयोः पार्श्वयोर्मध्येऽवस्थितं मार्गं प्रयच्छतु । त्वं च रुद्रावसृष्टाऽसि क्रूरेणोपद्रवकारिणा देवेन विमुक्ताऽसि । अतो युवा नामासि युवतिर्वा बाधकेभ्यः पृथग्भूता वाऽसि । इत्थकामाकारयन्तं मां नेष्टारं मा हिंसीर्मा बाधस्व ।

कल्पः- “पन्नेजनीर्गृह्णाति प्रत्यङ्क्ति (ङ्ति)ष्ठन्ती सुभ्यो रुद्रेभ्य आदित्येभ्य इति” । पाठस्तु —

वसुभ्यो रुद्रेभ्य इति । हे आपो वो युष्मान्पन्नेजनीर्गृह्णामि । किमर्थं वस्वादिदेवप्रीत्यर्थमपि पन्नेजनीर्वो गृह्णामि ।

सादयामीति । कल्पः — “पत्नी पन्नेजनीः सादयति प्रत्यङ्क्ति (ङ्ति) ष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्य इति” इति ।

अत्र सादयामीत्येतावानाम्नातो मन्त्रः । तस्य च शेषत्वेन वसुभ्य इत्यादिकं गृह्णामीतिपदव्यतिरिक्तं सर्वमनुषज्य पूर्ववद्व्याख्येयम् ।

कल्पः — “विश्वस्य ते विश्वात्रत इति हिंकारमनृदुगात्रा पत्नीं संख्यापयति” इति ।

हिंकारमुञ्चार्यानन्तरमुद्गाता यथा पत्नीं पश्यति तथाऽध्वर्युरिमं मन्त्रमुच्चा-रयन्प्रदर्शयेदित्यर्थः । पाठस्तु —

विश्वस्य त इति । हेऽग्ने विश्वस्य ते संदृशि विश्वात्मकस्य तव कटाक्षवीक्षणे सति तथा विश्वमस्यास्तीति विस्ववान् । वृष्णियं बलमस्यास्तीति वृष्णियावान् तादृशस्य तव वीक्षणे सति वामीर्वनयीयस्यानुष्ठानस्य प्रवर्तकोऽहं विश्वा रेतांसि बहुपुत्रकारणानि सर्वाण्यपि वीर्याणि धिषीयानुक्रमेण पत्न्यां स्थापयेय ।

कल्पः- “अगन्देवानिति च पत्न्यप उपप्रवर्तयति” इति । पाठस्तु---

अगन्देवानिति । अयं यज्ञो देवानगन्प्राप्नोत् । देवीर्द्योतमाना आपो देवेभ्ये-ऽस्मदीयं यज्ञं नितरामशिपन्विस्पष्टमुक्तवत्यः । अस्मिन्यजमाने सुन्वति सौमाभिषवं कुर्वति स्वाहाकृताः स्वाहाकारेण संपादिताः समुद्रसमाने स्वर्गऽवस्थिता आशिषः फलविशेषा ये संपद्यन्ते ते सर्वैऽप्यनुक्रमेण गन्धर्वं पत्न्या मम गन्धर्वत्प्रियं यजमान-मातिष्ठत प्राप्नुवन्तु । वातस्य यज्ञप्रवर्तकस्य वायो । “वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते” इत्य-न्यत्राऽऽम्नातम् । तस्य वायोः पत्मन्पतने प्रेरणे सतीडः फलसाधनभूताः स्तोत्रविशेषा ईडिता ऋत्विग्भिः प्रयुक्ताः । तस्मात्तत्फलं सर्वं यजमानः प्राप्नोत्विति तात्पर्यार्थः । अत्र सं त्वा नह्यमीत्ययं योक्त्रबन्धनमन्त्रो दीक्षाप्रकरण इन्द्रस्य योनिरसीत्येतस्मान्मन्त्रात्पूर्वं द्रष्टव्यः । तत्रैवाथाहं सुप्रजस इत्येतौ द्रष्टव्यौ । इमं वि ष्यामीति मन्त्रोऽवभृथानुवाके देवीराप एष व इत्येतस्मात्पूर्वं द्रष्टव्यः । प्रेह्युदेहीति मन्त्रो हृदे त्वेत्यनुवाके देवीरापो अपां नपादित्ये तस्मात्पूर्वं द्रष्टव्यः । वसुभ्य इति ग्रहणसादनमन्त्रौ समुद्रस्य वोऽक्षित्या उन्नय इत्येतस्मादूर्ध्वं द्रष्टव्यौ ।

अत्र विनियोगसंग्रहः —

स त्वा पत्न्यां योक्त्रबन्धः प्रैतु शालामखे नयेत् ।

अथाइमुपविश्यैषा सुप्रजेति जपेदथ ॥

इमं काले योक्त्रमोकः प्रेहि पत्नीमुदानयेत् ।

वसु पन्नेजनीः पत्नी गृहीत्वा तेन सादयेत् ।

विश्वस्य पत्नीमुद्गात्रासंख्यापयति सा त्वगन् ।

अपः प्रवर्तयन्नू (त्यू)रावत्र मन्त्रा दश स्मृताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-त्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके

षष्ठोऽनुवाकः ॥ ६ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पत्नीं संनह्यति - हे पत्नि त्वां संनह्यामि पयसा घृतेन च सह बध्नामि अनेन योक्त्रसंनहनेन हेतुना । किं च - अद्भिरोषधीभिश्च त्वां संनह्यामि । अप इति व्यत्ययेन तृतीयार्थे द्वितीया । यद्वा - त्वत्सन्नहनेन हेतुना अप ओषधीभिस्सह सन्नह्यामि । किं च - त्वां प्रजया पुत्रादिकयाऽहमद्य इदानीं सन्नह्यामि । सा त्वमनेन दीक्षिता अस्मे अस्मभ्यं वाजमन्नं सनवः संविभज देहि वा । यद्वा - अस्मदर्थं हविर्लक्षणमन्नं साधय ॥
2 दीक्षणीयायां पत्नीं प्राचीमुदानयन् वाचयति - प्रैत्वित्यनुष्टुभा ॥ प्रैतु गच्छतु । ब्रह्मणः परिबृढस्यास्य यज्ञस्य पत्नी पालयित्री वेदिं प्राप्नोतु । 'षष्ठ्याः पतिपुत्र' इति सत्वम् । प्राप्य च वर्णेन रूपेण सीदतु उपविशतु आत्मानमेवाह, पुरुषव्यत्ययो वा । अथानन्तरमहं अनुकामिनी अनुक्रमेण यज्ञफलं यज्ञस्यापि धनसंपादनद्वारेण कामयमाना स्वे लोके बर्हिस्थाने जघनेन गार्हपत्यं विशै उपविशानि । कारकस्य सर्वानन्यत्वात् लोपे सति निघाताभावः । इहास्मिन् कर्मणि ॥
3 तत्रोपसीदति - सुप्रजस इत्यनुष्टुभा ॥ व्याख्यातेयं 'प्रत्युष्टम्' इत्यत्र । सुप्रजसः शोभनपुत्रादिकाः सुपत्नीः शोभनभर्तृकाश्च वयं त्वामुपसेदिम उपसीदामहे । अग्ने सपत्नानां शत्रूणां दम्भनं हिंसितारं अदाभ्यं केन चिदप्यनुपहिंसितव्यम् । अदब्धासः त्वत्प्रसादेन कैनचिदप्यनुपहिंस्या वयम् ॥
4 इमं विष्यामीति योक्त्रविमोचनमन्त्रोपि तत्रैव व्याख्यातः त्रिष्टुप् ॥ इमं विष्यामि वरुणस्य वारकस्य पाशं विष्यामि विश्लथयामि, यमबध्नीत सविता सुकेतः सुज्ञानः । धातुरपि कारणभूते सुकृतस्य फलस्थाने स्योनं सुखं मम पत्या सह करोमीति ॥
5 पन्नेजनीहस्तां पत्नीमुदानयन् वाचयति - प्रेहीति यजुरन्तमानुष्टुभम् ॥ हे पत्नि प्रेहि प्रथमं गच्छ, उदेह्युदयं भज यद्वा - उत्कृष्टं गच्छ, प्रथमगामित्वात् । ऋतस्य यज्ञस्य वामीः वननीयेन तद्वती । 'छन्दसीवनिपौ' अग्निस्ते अग्रं अग्र्यं मार्गं अनुपश्चान्नयतु सेवताम् । अदितिस्तु मध्यं मार्गस्य मध्यदेशं ददतां धारयतु । व्यत्ययेन द्विवचनम् । धात्वाकारस्य वा छान्दसं ह्रस्वत्वम् । रुद्रैरवसृष्टाऽसि अनुज्ञाताऽसि त्वम् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । अनुज्ञाकरणमाह - युवा युवतिर्नाम त्वमसि तस्मादहिंस्याऽसि । युवशब्दात् 'यूनः' इति तिप्रत्ययापवादोसौ प्रत्ययः छान्दसः, अत एवान्तोदात्तत्वम् । मां मा हिंसीः यज्ञस्यानिवृत्तौ अहं हिंसितस्स्याम् । अत एनामादाय प्रेहीति ॥
6 -7पन्नेजनीनां ग्रहणसादन मन्त्रौ वसुभ्य इत्यादिका उष्णिहौ, मध्ये अष्टाक्षरः पादः, अभित एकादशाक्षरौ । 'यज्ञाय वः' इति मन्त्रयोरन्तः । गृह्णामीति सादयामीति चेति । सादने वसुभ्य इत्याद्यनुषज्यते ॥
8 पत्न्यास्सदसि सादनमुद्गात्रा संख्याप्य वाचयति - विश्वस्य त इति द्वाभ्याम् ॥ तत्र प्रथमाऽनुष्टुप्, तवान्तो द्वितीयः पादः सन्दृश्यन्तः तृतीयः, धिषीयान्तश्चतुर्थः । द्वितीया शक्वरी षट्पदा । हे अग्ने । पादादावपि व्यत्ययेन निघातः । तत् विश्वस्य विश्वात्मनो विश्वावतः विश्वस्वामित्वात्तद्वतः । छान्दसं संहितायां दीर्घत्वम् । वृष्णियावतः वृष्णियं वीर्यं मर्माणि तद्वतः । पूर्ववद्दीर्घत्वम् । ईदृशस्य तव सन्दृशि सन्दर्शने उद्गातुरभेदोपचारः । वामीः वननीयाः पन्नेजनीरिमा आपः । गौरादीत्वान्ङीष् । विश्वा विश्वानि रेतांसि विकारजातानि । तद्धेतुत्वात्ताच्छब्द्यम् । इदृशीरिमा अनुधिषीय तव सन्दर्शनलाभानन्तरं त्वां धारयामि तेनैव हेतुना । धि धारणे, आशिषि लिङ्, 'सुधितवसुधित' इति निपात्यते ॥
9 अथ द्वितीया - अगन्देवानिति ॥ यज्ञो देवान् न्यगन् निष्कृष्टमगन्, अभिमतानां साकल्येन संपादनं निष्कर्षः । गमेश्छान्दसे लुङि 'मन्त्रे घस' इत्यादिना च्लेर्लुक् । ततो यज्ञस्तादृक्स्वभावः । देवीः देव्यः आपः देवेभ्यः देवार्थं अशिषन् देवानां विधेयमकुर्वन् । 'सर्तिशास्त्यर्तिभ्यश्च' इत्यङ्, 'शास इदङ्हलोः' इतीत्वम् । किं च - अस्मिन् सुन्वति सोमेन यष्टरि यजमाने या आशिषः प्रार्थनीया अर्थाः, ता अप्यशिषन्नित्येव । यथाऽस्मिन् साकल्येन संपद्यन्ते तथा कृतवत्यः । तस्माद्यूयमपि स्वाहाकृताः यागोपयुक्ताः । ऊर्यादित्वेन गतित्वात् 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । समुद्रेष्ठाः समुद्रवन्ति अस्मादाप इति समुद्र आदित्यः तत्र तिष्ठन्तीति 'सुपि स्थः' इति कः, 'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् । अनु अनन्तरं च गन्धर्वं गवामुदकानां धारकं आतिष्ठत वर्तध्वम् । ततो वातस्य पत्मन् पतनस्थाने आकाशे । पतेरौणादिको मानिन् । तत्र वृष्टिद्वारेणागत्येत्यर्थः । इडः अन्नान्योषधीरातिष्ठत । व्यत्ययेन शस उदात्तत्वम्, व्यञ्जनविकारश्च । ईडितः स्तुतः सर्वैः प्रशंसनीयः ॥
इति तृतीये पञ्चमे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 3.5.6.2 TS 3.5.6.2
ॅयमब॑द्ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं मे॑ स॒ह पत्या॑ करोमि ॥प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑ नय॒त्वदि॑ति॒र्मद्ध्यं॑ ददताꣳ रु॒द्राव॑सृष्टाऽसि यु॒वा नाम॒ मा मा॑ हिꣳसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे᳚भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावत॒ - [ ]
पदपाठः (Word-by-word)
यम् । अब॑द्ध्नीत । स॒वि॒ता । सु॒केत॒ इति॑ सु-केतः॑ ॥ धा॒तुः । च॒ । योनौ᳚ । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒के । स्यो॒नम् । मे॒ । स॒ह । पत्या᳚ । क॒रो॒मि॒ ॥ प्रेति॑ । इ॒हि॒ । उ॒देहीत्यु॑त्-एहि॑ । ऋ॒तस्य॑ । वा॒मीः । अन्विति॑ । अ॒ग्निः । ते॒ । अग्र᳚म् । न॒य॒तु॒ । अदि॑तिः । मद्ध्य᳚म् । द॒द॒ता॒म् । रु॒द्राव॑सृ॒ष्टेति॑ रु॒द्र-अ॒व॒सृ॒ष्टा॒ । अ॒सि॒ । यु॒वा । नाम॑ । मा । मा॒ । हिꣳ॒॒सीः॒ । वसु॑भ्य॒ इति॒ वसु॑-भ्यः॒ । रु॒द्रेभ्यः॑ । आ॒दि॒त्येभ्यः॑ । विश्वे᳚भ्यः । वः॒ । दे॒वेभ्यः॑ । प॒न्नेज॑नी॒रिति॑ पत् - नेज॑नीः । गृ॒ह्णा॒मि॒ । य॒ज्ञाय॑ । वः॒ । प॒न्नेज॑नी॒रिति॑ पत् - नेज॑नीः । सा॒द॒या॒मि॒ । विश्व॑स्य । ते॒ । विश्वा॑वत॒ इति॒ विश्व॑-व॒तः॒ । वृष्णि॑यावत॒ इति॒ वृष्णि॑य-व॒तः॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.5.6.3 TS 3.5.6.3
स्तवा᳚ग्ने वा॒मीरनु॑ स॒दृंशि॒ विश्वा॒ रेताꣳ॑सि धिषी॒याऽग॑न् दे॒वान्. य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञ्म॑शिषन्न॒स्मिन्थ् सु॑न्व॒ति यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वमाति॑ष्ठ॒तानु॑ । वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ॥
पदपाठः (Word-by-word)
तव॑ । अ॒ग्ने॒ । वा॒मीः । अन्विति॑ । स॒दृंशीति॑ सं - दृशि॑ । विश्वा᳚ । रेताꣳ॑सि । धि॒षी॒य॒ । अगन्न्॑ । दे॒वान् । य॒ज्ञ्ः । नीति॑ । दे॒वीः । दे॒वेभ्यः॑ । य॒ज्ञ्म् । अ॒शि॒ष॒न्न् । अ॒स्मिन्न् । सु॒न्व॒ति । यज॑माने । आ॒शिष॒ इत्या᳚ - शिषः॑ । स्वाहा॑कृता॒ इति॒ स्वाहा᳚ - कृ॒ताः॒ । स॒मु॒द्रे॒ष्ठा इति॑ समुद्रे - स्थाः । ग॒न्ध॒र्वम् । एति॑ । ति॒ष्ठ॒त॒ । अनु॑ ॥ वात॑स्य । पत्मन्न्॑ । इ॒डः । ई॒डि॒ताः ॥
पदसंख्या: 30