पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
( अथ तृतीयकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः ) ।
दधिग्रहस्य ये मन्त्रा अष्टमे ते प्रकीर्तिताः ।
तत्राऽऽदौ दधिग्रहं विधत्ते —
यां वा अध्वर्युरिति । सोमयागे देवताबाहुल्यादध्वर्युयजमानो प्रमादेन
यस्या देवताया अन्तरायं कुर्वाते तस्या देवताया उभौ विच्छिन्नौ भवतस्तस्या देवताया अपराधिनावित्यर्थः । अतोऽपराधपरिहाराय प्रजापतिदेवताकं दधिग्रहं गृह्णीयात् । प्रजापतिश्च स्रष्टृत्वात्सर्वदेवतारूपः । अतस्तस्मै ग्रहं दत्त्वा सर्वदेवताभ्योऽन्नवन्तावित्वेवं निह्नवमपलापं कुरुतः । तेनापलापेन देवता द्वेषं मुञ्चति ।
अस्य ग्रहस्य सर्वग्रहेभ्यः प्राथम्यं विधत्ते —
ज्येष्ठो वा इति । ग्रहाणां मध्ये ज्येष्ठः प्रथमभावी । तस्मात्प्रथमं गृह्णीयादित्यर्थः । यस्य यजमानस्यैष ग्रहः प्रथमं गृह्यते स यजमानो ज्यैष्ठ्यमेव गच्छति सर्वेषां यजमानानां मध्ये मुख्यत्वं प्राप्नोत्येव ।
तस्य ग्रहस्य प्रजापतिदेवताकत्वं प्रशंसति —
सर्वासां वा इति । एष प्रजापतिदेवताको ग्रह इति यदेतत्सर्वासामेव देवतानां स्वरूपम् । प्रजापतेः सर्वदेवतात्मकत्वात् । अतो यस्य यजमानस्यैष गृह्यत एनं यजमानं पशूनां सर्वाणि रूपाणि गवाश्वदीनि प्राप्नुवन्ति ।
अत्र ग्रहणमन्त्रस्य पूर्वभागे ज्योतिर्विशेषणं प्रशंसति —
उपयामगृहीत इति । एनं यजमानं समानानां मध्ये ज्योतिरेव तेजोयुक्तमेव करोति ।
उत्तरभागे प्रजापत्यवयवभूतानां देवतानां प्रतिपादकान्यग्निजिह्वेभ्य इत्या-दीनि नवसंख्याकानि चतुर्थ्यन्तपदानि, तेषां तात्पर्यं संगृह्य दर्शयति —
अग्निजिह्वेभ्य इति । हरणमन्त्रगतस्यापजहीत्येतस्य तात्पर्यं दर्शयति —
अपेन्द्र द्विषत इति । होममन्त्रपूर्वभागे प्राणादिपदतात्पर्यं दर्शयति —
प्राणाय त्वेति । प्रजापतिपदतात्पर्यं दर्शयति —
तस्मै त्वेति । एनं दधिग्रहम् ।
अत्र काम्यान्गुणविशेषांस्त्रीन्विधते —
आज्यग्रहं गृह्णीयादिति । स्पष्टोऽर्थः ।
अत्र मीमांसा ।
चतुर्थाध्यायस्य चतुर्थपादे चिन्तितम् —
नित्ये (त्य) नैमित्तिकत्वे वा नित्यतैव दधिग्रहे ।
देवान्तरायाज्ज्यैष्ठ्याय स्यादस्योभयरूपता ॥
निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो नहि ।
अतोऽस्य न निमित्तत्वं केवला नित्यतोचिता ॥
ज्योतिष्टोमे श्रूयते — “यां वै कांचिदध्वर्युर्यजमानश्च देवतामन्तरितस्तस्या आवृश्च्येते यत्प्रजा त्यं दधिग्रहं गृह्णाति शमयत्येवैनाम्” इति । सोऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः । कुतः । आकारद्वयसद्भावात् । देवतान्म रायेण तद्देवताक्षोभ-मुपन्यस्य ग्रहेण समाधानाभिधानादन्तरायो निमित्तं ग्रहो नैमित्तिक इति प्रतिभाति । तथा ज्येष्ठत्वमाम्नातम् — “ज्येष्ठो वा एष ग्रहाणाम्” इति । ज्येष्ठत्वं नाम प्रशस्तत्वं, तच्च नित्यत्वे सत्युपपद्यते । नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् । तस्माद्धेतुद्वयबलादु-भयात्मक इति चेन्मैवम् । देवतान्तरायस्यनिमित्तत्वात् । निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयेत, यच्छब्दो वाऽन्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत । “यदि रथं तरसामा सोमः स्मादैद्रवायवाग्रान्गृह्णीयाद्भिन्ने जुहोति यो वै संवत्सरमुख्यमभृत्वाऽग्निं चिनुते” इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् । तस्मात्केवल नित्यत्वमव दधिग्रहस्योचितम् । देवताक्षोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेऽर्थवादः ॥
पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
सर्वत्र । 'सावेकाचः' इत्यूर्जस्तृतीयाया उदात्तत्वम् । अस्मा इत्यन्वादेशेऽशनुदात्तः । 'बर्हिषो बर्हिषि गृह्णीयात् । अंशूनुपसंगृह्य सोमं गृह्णीयात्' इत्याचार्याः ॥
इति तृतीये पञ्चमे नवमोनुवाकः ।