अनुवाकः 1 TS 3.5.1

(A1)

(वर्च॑सा॒ - वै ते द॑र्.शपूर्णमा॒सा - वप॑ - तनुते॒ सर॑स्वत्यै॒ - पञ्च॑विꣳशतिश्च)

अनुवाकः 1 - Complete Audio

TS 3.5.1 - स्वरानुगामी

0:00 0:00
PS1.1 पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्-म॑द्ध्य॒तः
PS1.2 पौ᳚र्णमा॒सी जि॑गाय
PS1.3 तस्या᳚न् दे॒वा अधि॑ सं॒ॅवस॑न्त
PS1.4 उत्त॒मे नाक॑ इ॒ह मा॑दयन्तां
PS1.5 यत्ते॑ दे॒वा अद॑धु र्भाग॒धेय॒ममा॑वास्ये
PS1.6 सं॒ॅवस॑न्तो महि॒त्वा
PS1.7 सानो॑ य॒ज्ञ्ं पि॑पृहि विश्ववारे
PS1.8 र॒यिं नो॑ धेहि सुभगे
PS1.9 सु॒वीरं᳚
PS1.10 नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ ॅविश्वा॑
PS1.11 रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती
PS1.12 स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा
PS1.13 न॒ आग॒न्. वर्च॑सा -
PS1.14 [ ]
PS2.1 संॅविदा॒ना
PS2.2 अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू᳚न्
PS2.3 रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतं
PS2.4 मा॒द्ध्यꣳ हि पौ᳚र्णमा॒सं जु॒षेथां॒
PS2.5 ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒ऽस्मभ्यꣳ॑
PS2.6 स॒हवी॑राꣳ र॒यिं नि य॑च्छतं
PS2.7 आ॒दि॒त्याश्चाऽङ्गि॑रसश्चा॒ग्नीनाऽद॑धत॒ ते द॑र्.शपूर्णमा॒सौ प्रैफ्स॒न्
PS2.8 तेषा॒मङ्गि॑रसां॒ निरु॑प्तꣳ ह॒विरासी॒दथा॑ऽऽ*दि॒त्या ए॒तौ
PS2.9 होमा॑वपश्य॒न् ताव॑जुहवु॒स्ततो॒ वै ते
PS2.10 द॑र्.शपूर्णमा॒सौ - [ ]
PS3.1 पूर्व॒ आ ऽल॑भन्त दर्.शपूर्णमा॒सा-वा॒लभ॑मान
PS3.2 ए॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयाथ् सा॒क्षादे॒व
PS3.3 द॑र्.शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒
PS3.4 स त्वै द॑र्.शपूर्णमा॒सावा ल॑भेत॒
PS3.5 य ए॑नयोरनु-लो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादित्य॑मावा॒स्या॑या
PS3.6 ऊ॒र्द्ध्वं तद॑नुलो॒मं पौ᳚र्णमा॒स्यै प्र॑ती॒चीनं॒
PS3.7 तत् प्र॑तिलो॒मं ॅयत् पौ᳚र्णमा॒सीं
PS3.8 पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒-मुम॑प॒क्षीय॑माण॒-मन्वप॑ -
PS3.9 [ ]
PS4.1 क्षीयेत सारस्व॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयादमावा॒स्या॑
PS4.2 वै सर॑स्वत्यनुलो॒म-मे॒वैना॒वा ल॑भते॒ ऽमुमा॒प्याय॑मान॒मन्वा
PS4.3 प्या॑यत आग्नावैष्ण॒व-मेका॑दशकपालं पु॒रस्ता॒न्निव॑र्पे॒थ् सर॑स्वत्यै
PS4.4 च॒रुꣳ सर॑स्वते॒ द्वाद॑शकपालं॒ ॅयदा᳚ग्ने॒यो
PS4.5 भव॑त्य॒ग्निर्वै य॑ज्ञ्मु॒खं ॅय॑ज्ञ्मु॒खमे॒वर्द्धिं॑ पु॒रस्ता᳚द्-धत्ते॒
PS4.6 यद्-वै᳚ष्ण॒वो भव॑ति य॒ज्ञो वै
PS4.7 विष्णु॑र्य॒ज्ञ्मे॒वाऽऽ*रभ्य॒ प्रत॑नुते॒ सर॑स्वत्यै (
PS4.8 ) च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑
PS4.9 वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न्
PS4.10 तावे॒व सा॒क्षादा र॑भत ऋ॒द्ध्नोत्या᳚भ्यां॒
PS4.11 द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒
PS4.12 प्रजा᳚त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒
PS4.13 समृ॑द्ध्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.5.1.1 TS 3.5.1.1
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्-म॑द्ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्या᳚न् दे॒वा अधि॑ सं॒ॅवस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्तां ॥ यत्ते॑ दे॒वा अद॑धु र्भाग॒धेय॒ममा॑वास्ये सं॒ॅवस॑न्तो महि॒त्वा । सानो॑ य॒ज्ञ्ं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीरं᳚ ॥नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ ॅविश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्. वर्च॑सा - [ ]
पदपाठः (Word-by-word)
पू॒र्णा । प॒श्चात् । उ॒त । पू॒र्णा । पु॒रस्ता᳚त् । उदिति॑ । म॒द्ध्य॒तः । पौ॒र्ण॒मा॒सीति॑ पौर्ण - मा॒सी । जि॒गा॒य॒ ॥ तस्या᳚म् । दे॒वाः । अधीति॑ । सं॒ॅवस॑न्त॒ इति॑ सं - वस॑न्तः । उ॒त्त॒म इत्यु॑त् - त॒मे । नाके᳚ । इ॒ह । मा॒द॒य॒न्ता॒म् ॥ यत् । ते॒ । दे॒वाः । अद॑धुः । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । अमा॑वास्य॒ इत्यमा᳚ - वा॒स्ये॒ । सं॒ॅवस॑न्त॒ इति॑ सं - वस॑न्तः । म॒हि॒त्वेति॑ महि-त्वा ॥ सा । नः॒ । य॒ज्ञ्म् । पि॒पृ॒हि॒ । वि॒श्व॒वा॒र॒ इति॑ विश्व - वा॒रे॒ । र॒यिम् । नः॒ । धे॒हि॒ । सु॒भ॒ग॒ इति॑ सु - भ॒गे॒ । सु॒वीर॒मिति॑ सु - वीर᳚म् ॥ नि॒वेश॒नीति॑ नि - वेश॑नी । स॒गंम॒नीति॑ सं - गम॑नी । वसू॑नाम् । विश्वा᳚ । रू॒पाणि॑ । वसू॑नि । आ॒वे॒शय॒न्तीत्या᳚ - वे॒शय॑न्ती ॥ स॒ह॒स्र॒पो॒षमिति॑ सहस्र - पो॒षम् । सु॒भगेति॑ सु-भगा᳚ । ररा॑णा । सा । नः॒ । एति॑ । ग॒न्न् । वर्च॑सा ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ तृतीयाष्टके पञ्चमः प्रपाठकः) ।

(तत्र प्रथमोऽनुवाकः)

यस्य निःश्विसितं वेदा यो वेदेभ्योऽशिलं जगत ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

प्रपाठके चतुर्थे हि काम्या नैमित्तिकाः श्रुताः ।

प्रपाठके पञ्चमे तु सोमेष्ट्योः शेष उच्यते ॥

तत्र प्रथमानुवाके दर्शपूर्णमासेष्ट्यङ्गभूतान्वारम्भणीयेष्टिर्विधातव्या ।

कल्पः — “पूर्णा पश्चाद्यत्ते देवा अदधुरिति सारस्वतौ होमो हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति” इति । पाठस्तु —

पूर्णा पश्श्चादिति । पूर्णा पौर्णमास्यभिमानिदेवता पश्चाद्यज्ञभूमेः पश्चिमायां दिश्युज्जिगायोत्कर्षेण जयं प्राप्तवती । अपि च पूर्वस्यां दिशि तयोर्दिशोर्मध्यदेशेऽप्यु-ज्जिगाय तस्यां पौर्णमास्यामधिष्टायेह यज्ञे सम्यग्वसन्तः सर्वे देवा उत्तमे नाके भोग-बहुले स्वर्गे मादयन्तामस्मान्हर्षयन्तु । हेऽमावस्ये यद्यस्मात्कारणात्ते महित्वा महिम्ना सम्यङ्निवसन्तो देवा भागधेयमदधुर्हविर्भागं प्राप्तवन्तस्तस्मात्कारणाद्धे विश्ववारे सर्वानिष्टनिवारिकेऽमावास्याभिमानिदेवते सा त्वं नोऽस्मदीयं यज्ञं पिपृहि पूर्णं कुरु । हे सुभगे सौभाग्ययुक्ते नोऽस्मभ्यं रयिं धनं सुवीरं शोभनपुत्रं च धेहि संपादय । अथ तत्रैव विकल्पितावन्यौ मन्त्रावाह —

निवेशनीति । सा तादृशी देवता नोऽस्मान्प्रत्यागन्नागच्छतु । कीदृशी तदुच्यते, निवेशनी समीचीनेषु गृहेषु नितरामस्मान्प्रवेशयन्ती । वसूनां संगमनी धनानां प्रापयित्री । रूप्यन्ते मणिमुक्तादिभिर्बहुभिः प्रकारैर्निरूप्यन्त इति रूपाणि वसूनीत्यर्थः । तानि वसूनि धनानि विश्वा सर्वाण्यप्यावेशयन्ती, अस्मद्गृहेषु प्रवेशंयंन्ती । सहत्वपोष रराणा सहस्रलक्षादिधनपुष्टिं प्रयच्छन्ती । सुभगा सौभाग्ययुक्ता । वर्चसा संविदाना बलेन संयोजयन्ती । हेऽग्नीषोमौ युवा प्रथमौ देवानां मध्ये मुख्यावतो वीर्येणातो (ण) भवदीयसामर्थ्येनेह कर्मणि वस्तवादीञ्जिन्वतं प्रणियतम् । माध्यं पश्चात्पुरस्ताञ्च पौर्णमासीदेवतया रक्षिते मध्यदेशे क्रियमाणा-

मिदं पौर्णमासं पौर्णमासीसंबन्धि हविर्जुषेथाम् । कीदृशौ युवां, ब्रह्मणा वृद्धौ स्तुतिरूपेण संतुष्टो सुकृतेन सातौ सम्यगनुष्ठितेनानेन कर्मणा फलस्य दातारौ हविःसेवनानन्तरमस्मभ्यं सहवीरां पुत्रसाहितां रयिं नियच्छतं नितरां प्रयच्छतम् । अथ होमं विधातुं प्रस्तौति —

आदित्याश्चेति । आदित्या देवा अङ्गिरस ऋषयश्चाऽऽधानादूर्ध्वं यदा दर्शपूर्णमासौ प्राप्तुमैच्छंस्तदा तेषामुभयेषां मध्ये येऽङ्गिरसऽऋषयस्ते सारस्वतहो-मावज्ञात्वा प्रथममेवान्वारम्भणीयेष्ट्यर्थं हविर्निर्वापं कृतवन्तः ।अथ तदानीमादित्या देवा एतावन्वारम्भणीयेष्ट्यङ्गभूतौ सारस्वतहोमौ कर्तव्याविति निश्चित्य तावजुहवः । ततोऽन्वारम्भणीयेष्टेः साङ्गत्वादाङ्गिरोभ्यः पूर्वभाविन एव सन्तौ दर्शपू-र्णमासावुपक्रान्तवन्तः । इदानीं विधत्ते —

दर्शपूर्णासविति । दर्शपूर्णमासावारब्धुमिच्छन्पुरुष आरम्भणीयेष्टेरुपपक्रमे पूर्ण पश्चादिति मन्त्राभ्यां जुहुयात् । तेन होमेन विलस्बमन्तरेणैव दर्शपूर्णमासावारब्धुं योग्यो भवति । उक्तयोर्होमयोर्देवताविशेषं विधातुं प्रस्तौति —

ब्रह्मवादिन इति । अयेदं चिन्त्यते — किं पौर्णमासी प्रथमालब्धव्या आहो-स्विदमावास्येति । तदर्थमन्यदप्येतच्चिन्तनीयम्-कालस्य स्वरूपं कीदृशमनुलोमं कीदृशं च प्रतिलोममिति । न चेयमप्रस्तुता चिन्ता । यो यजमान एतयोदर्शपूर्णमासासंब-न्धिकालयारेनुलोमं प्रतिलोमं च स्वरूपं वेद स एव दर्शपूर्णमासारम्भे मुख्योऽधिकारी नान्य इति ब्रह्मवादिनः परस्परमाहुः । तत्र कश्चिद्धिमाननुलोमप्रतिलोमभागमेवं ब्रूते । अमावास्याया ऊर्ध्वं शुक्लप्रतिपदमारभ्यानुलोमं कालस्वरूपं दिने दिने चन्द्रस्य वर्धमानत्वात् । पौर्णमास्याः प्रतीचीनमुपरितनं कृष्णप्रतिपदमारभ्य कासस्य यत्स्वरूपं तत्प्रतिलोमं दिने दिने चन्द्रस्यापक्षीयमाणत्वात् । एवं सति यदि पौर्णमासीं पूर्वगामिनीं कृत्वा यागारम्भं कुर्यात्तदा प्रतिलोमस्तरूपेणैव तौ दर्शपूर्णमासावारब्धवान्भवति । तथा सति पौर्णमास्यामारब्धायां सत्यां समनन्तरेव चन्द्रोऽपक्षीयते । तं चापक्षीयमाणमनु यजमानोऽप्यपक्षीयते । अतः प्रातिलोम्यशेषपरिहारकृते देवता-विशेषौ विधत्ते —

सारस्वताविति । आरम्भणीयेष्टेः पुरस्ताद्यौ होमौ तौ सारस्वतौ । सर-

स्वती च सरस्वांश्च ययोर्होमयोस्तौ । एतदीयहोमेन प्रातिलोभ्यदोषस्य परिहृतत्वा-दानुलोम्येनैव तौ दर्शपूर्णमासयागावारब्धवान्भवति । तथा वर्धमानचन्द्रमनु यजमानो वर्धते ।

प्राच्याङ्गरूपौ होमौ विधायाङ्गिरूपष्मन्वारम्भणीयेष्टिं त्रिहत्वेष्कां पिधत्ते —

अग्नावैष्णवमिति । पूर्वत्रामावस्यायाः प्रथमारम्भे सत्यानुलोम्येन भावेऽपि तत्प्राथम्यमुक्ष्य प्रातिलोम्यदोषपरिहारप्रयत्नो विहितस्तदन्यथानुपपत्त्या पौर्णमास्येव प्रथममालब्धव्येति गम्यते । तादृशपौर्णमास्यारम्भात्पुरस्तादिदं हविस्त्रयं निर्वपेत् । तत्राऽऽग्नावैष्णवं प्रशंसति —

यदाग्नेय इति । अग्निमन्तरेण यज्ञस्यानिष्पत्तेरग्निरेव यज्ञस्य मुखमत आग्नेयेन हविषा यज्ञमुखमेवोद्दिश्य प्रथमतः समृद्धिं संपादयति । यज्ञस्य सर्वाङ्ग-व्यापित्वाद्विष्णुत्वमतो वैष्णवेत हविषा यज्ञमेवोपक्रम्य प्रकर्षेण विस्तृतवान्भवति । उत्तरं हविर्द्वयं प्रशंसति —

सरस्वत्या इति । स्त्रीलिङ्गनिर्दशादमावास्यायाः सरस्वतीत्वम् । तथा पुलि-ङ्गशब्दनिर्देशात्पूर्णमासः सरस्वान् । तथा सत्यनेन देवताद्वयेन तदात्प्रकौ दर्शपूर्णमासौ यागावेव व्यवधानमन्तरेणोपक्रान्तवान्भवति । किंचाऽऽभ्यां देवताभ्यां यजमानः समृद्धिं प्राप्नोति ।

तृतीये हविषि सारस्वतीं परित्यज्य सरस्वत्स्वीकारं प्रशंसति —

द्वादशकपाल इति । द्वितीयहविषः स्त्रीदेवताकत्वादितरस्य पुंदेवताकत्वं यजमानस्य मिथुनत्वाय संपद्यते । तच्च प्रजोत्पत्त्यर्थं भवति । तत्र दक्षिणां विधत्ते-मिथुनौ गावाविति । अत्र विनियोगसंग्रहः —

पूर्णेत्यारम्भणीयेष्टौ द्वौ सारस्वतहोमयोः ।

मन्त्रौ विकल्पितावन्याविति चत्वार ईरिताः ॥

अत्र मिमांसा ।

नवमाध्यायस्य प्रथमे पादे चिन्तितम् —

“अन्वाधानाङ्गभारम्भो यद्वा पुरु संस्कृतिः ।

फलवत्त्वादादिमोऽन्त्यः पुंयोगान्न पृथक्फलम्” इति ।

दर्शपूर्णमासयोरन्वाधानस्य प्रथमपदार्थत्वेनाऽऽरम्भरूपत्वात् । आरम्भपयु क्तेयमिष्टिरन्वाधानस्याङ्गम् । तथा सति यागफलेनैव फलवती स्यात् । कर्तुः संस्कारपक्षे तु पृथक्फलं कल्प्येत । तस्मात्प्रतिप्रयोगमन्त्राधानावृत्तौ तदङ्ग भूतेयमिष्टिरिति प्राप्ते ब्रूमः — आरम्भो नाम पुरुषस्य प्रथमप्रवृत्तिर्नत्वाधानपदार्थः । अतो नाग्न्यन्वाधानाङ्गं किंत्वारप्स्यमानो निर्वपेदिति पुरुषयोगात्तत्संस्कारोऽयम् । न च चलकल्पनाप्रसङ्गः । कृतारम्भस्य पुरषस्य प्रयोगपरिगृहीतत्वेन पृथक्फलाकाङ्क्षाया अभावात् । नन्वेवमति तत्तत्प्रयोगमारप्स्यमानस्य संस्कारायाऽऽवृत्तिः स्यान्मैवम् । प्रयोगमारप्स्यमान इत्यश्रुतत्वात् । दर्शपूर्ण मासावारप्स्यमान इति श्रूयते । तयोश्चैक एवाऽऽरम्भः । तस्मान्नास्त्यावृत्तिः । तत्रैवान्यच्चिन्तितम् —

प्रतिप्रयोग आ (मा) रम्भयजिरास्ते न वाऽस्त्यसौ ।

अङ्गत्वेन तत्स्वधर्म आधानवद्भवेत् ॥

“आग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमानः” इति विहितेयमारम्भणीयेष्टिदर्शपूर्ण (* मासयोर्यावज्जीवमावर्त्यमानयोः प्रतिप्रयोग-मावर्तनीया । कुतः । प्रयाजादिवदङ्गत्वादिति चेत् । नैतद्युक्तम् । कुतः । सर्वप्रयोगसाधा-रणत्वात् । यावज्जीवं मया दर्शपूर्ण) मासौ कर्तव्यावित्यध्यवसाय आरम्भः । स चैक एव । तेन चाऽऽरम्भेण प्रयुक्तेयमिष्टिः । तस्मान्नाऽऽवर्तनीया । यथाऽऽधानं सर्वक्रतुसाधारणत्वात्सकृदेव कर्तव्यं तद्वत् । आधानस्य सकृदनुष्ठानमेकादशस्य तृतीयपादे वक्ष्यते ।

दशमाध्यायस्य प्रथमपादे चिन्तितम् —

तस्यां साऽस्ति नऽवाङ्गत्वेऽप्यस्याः पृथगुपक्रमात् ।

अस्ति मैवं वचोऽशक्तेर्विधाने चातिदेशने ॥

येयमारम्भणीया साऽपीष्टि्वाद्दर्शपूर्णमासप्रकृतिः । अतस्तस्यामपि दर्शपूर्ण मासयोरिवाऽऽप्स्यमानपुरुषसंस्काराय साऽनुष्ठेया न वेति संशयः । चोदक-प्राप्तत्वादनुष्ठेया । ननु सोमाङ्गदीक्षणीयादिवदस्या दर्शपूर्णमासाङ्गत्वेनाऽऽरम्भद्वारं

लुप्यते । न । वैषम्यात् । ऋत्विग्वरणादिना सोममारभ्यानुतिष्ठतः पुरुषस्यानुष्ठानमध्ये दीक्षणीया प्रवर्तते । दर्शपूर्णमासारम्भस्त्वन्वारम्भणयीयायामनुष्ठितायां पश्चात्संपद्यते । ततो दर्शपूर्णमासोपक्रमादन्य आरम्भणीयापक्रम इति द्वारसद्भावादार-म्भणीयामारप्स्यमानस्य(न स्व) संस्कारार्थमन्यामारम्भणीयां कुर्यात् । अनवस्था तु लोकेसिद्धबीजाङ्कुरादिदृष्टान्तेन समाधेयेत्येवं प्राप्ते ब्रूमः आरम्भणीयायामारम्भणीयान्तरं न कर्तव्यम् । कुतः । अङ्गान्तरवदतिदेष्टुमशक्यत्वात् । तथा ही-प्रकृतौ समिधो यजतीत्यादिवाक्यैः प्रयाजाद्यङ्गानां स्वरूपमतिदिश्यते । प्रकरणेन चाङ्गाङ्गिभावो बोध्यते । ततः सौर्यं चरुं निर्वपेदुब्रह्मवर्चसकाम इत्यादिकायां विकृतां निर्वापातुमितं चोदकवाक्यमेवं प्रवर्तते । इष्टिवच्चरौ प्रयाजाद्येङ्गोन्यनुष्ठेयानि । एवं सत्यरम्भणीयायामिदं वक्तव्यं किमाग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारप्स्यमान इत्येदद्वाक्यं समिदादिवदङ्गभूतामारम्भणीयां विदधातु, किंवा यथा सौर्यादिवाक्य-मङ्गातिदेशमनुमापयति तथा दर्शपूर्णमासाङ्गभूतायामारम्भणीयायामन्यस्या आर-म्भणीयाया अतिदेशमनुमापयतु, उत्तोमयं करोत्विति । नाऽऽद्योऽङ्गविधावुपक्षीण-त्वेनातिदेशानुमाने शक्त्यभावात् । न द्वितीयोऽविहितत्वेनातिदेष्टुमयोग्यस्याङ्गस्यातिदेशे शक्त्यभावात् । न तृतीयो वाक्यभेदापत्तेः । नन्वनेन न्यायेन सोर्यवाक्येऽपि वाक्यभेदः प्रसज्येतैकस्यैव वाक्यस्य यागबिध्यङ्गातिदेशयोः प्रवृत्तत्वात् । मैवम् वाक्यद्वयसद्भावात् । प्रत्यक्षं वाक्यं यागविधायकमनुमितं वाक्यमङ्गातिदेशकम् । तर्ह्यत्रापि तादृशे वाक्यद्वयं भवत्विति चेद्वाढम् । अत एवाऽऽरम्भणीयायां प्रयाजा-द्यङ्गान्यनुष्ठीयन्ते तद्वदारम्भणीयान्तररूपमप्यङ्गमनुष्ठीयतामिति चेन्न । दर्शपूर्णमा-सप्रकरणे प्रयाजाद्यङ्गविधायकसमिदादिवाक्यवदारम्भणीयान्तररूपाङ्गविधायिनः कस्यचिद्वाक्यस्याभावात् । नहि प्रकृतावविद्यमानमङ्गं विकृतावातिदेशमर्हति । तस्मात्संप्रतिपन्नस्यैवाऽऽरम्भणीयाविधायिनो वाक्यस्याङ्गस्वरूपविधानाय समिदादिवाक्यस्थानीयत्वमतिदेशाय सौर्य वाक्यस्थानीयत्वं चेत्याकारद्वयं वर्णनीयम् । तथा सत्यावृत्तिलक्षणो वाक्यभेदः केन वार्येत । तस्मादारम्भणी-यायामारप्स्यमानपुरुषसंस्कारायाऽऽरम्भणीया न कर्तव्या ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके

प्रथमोऽनुवाकः ॥ १ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीयसंहितायां

तृतीयकाण्डे पञ्चमः प्रपाठकः ॥

1 दर्शपूर्णमासावारभमाणस्य द्वौ सारस्वतौ होमौ स्तः, तयोर्द्वे अनुवाक्ये द्वे याज्ये । तत्र प्रथमस्पानुवाक्या - पूर्णेति त्रिष्टुप् ॥ पूर्णा पूरिता पूर्णचन्द्रसंबन्धात् पञ्चदशी तिथिः (पूर्णेति स्थितिः) पूर्णेत्युच्यते । सा पश्चात् तिथेरन्ते पूर्णा, उत अपि च पुरस्तादादौ च पूर्णा, मध्यतश्च पूर्णा । तस्यां हि तिथौ सर्वसवितृकरणामनुप्रवेशेन भासमानाशेषमण्डलश्चन्द्रो भवति । यद्यपि परमार्थतः तिथ्यन्ते सर्वात्मना चन्द्रः पूर्यते । तथाप्युपलद्भयभिप्रायेणैवमुक्तं, आरम्भात्प्रभृति तस्यां मण्डलं पूर्णमुपलभामहे न तिथ्यन्तरवत् न्यूनमुपलभ्यते । 'वा दान्तशान्त' इति ण्यन्तस्य पूर्णेति निपात्यते । एवं त्रिष्वपि कालेषु पूर्णचन्द्रोस्यामिति पूर्णमासी तिथिः । मसी परिमाणे, ण्यन्तात्क्विप् । मित्रः परिमितिहेतुः । मिमीतेर्वा असुनि माः, पूर्णश्चासौ माश्च पूर्णमाः, तस्येयं पौणर्मासी पञ्चदशी । यद्वा - पूर्णो मा अस्मिन्निति पूर्णमासः पर्वान्तः कर्मविशेषो वा । अच्समासान्तः । यद्वा - करणे घञ्, मासः चन्द्रः, तत्सम्बन्धिनी पौणर्मासी । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । सा उज्जिगाय उज्जयत्यन्याः तिथीः । उत्कृष्टा भवतीति यावत् । छान्दसे लिटि 'सन् लिटोर्जेः' इति कुत्वम् । तस्यां तादृश्यां देवा अधिसंवसन्त एकीभूय वर्तमाना उत्तमे उद्गततमे नाके सुखैकरूपे इहास्मिन् लोके मादयन्ताम् । मद तृप्तियोगे, चौरादिकः, उत्तमशब्द उञ्छादिरन्तोदात्तः ॥
2 अथ द्वितीयस्य याज्या - यत्ते इति त्रिष्टुप् ॥ हे अमावास्ये ते तव देवाः भागधेयं इमं होमं यत् यस्मात् अदधुः दत्तवन्तः । अमा सह सूर्याचन्द्रमसावस्यां संवसत इत्यमावास्या । 'अमावस्यदन्यतरस्याम्' इति निपात्यते, पादादित्वादामन्त्रिताद्युदात्तत्वम् । देवा विशेष्यन्ते - संवसन्तः संभूयैकत्र वसन्तमहित्वा तव माहात्म्येन । यस्मात्तव भागमिमं होममदधुः, तस्मात् हे विश्ववारे विश्वकालवति विश्वैर्वा वरणीये सा तादृशी देवैर्दत्तभागा नोस्माकमिमं यज्ञं होमात्मकं पिपृहि पूरय कामैः, पालय वा । पॄ पालनपूर्णयोः, शपः श्लुः, धातोर्ह्रस्वत्वम्, अभ्यासस्य चेत्वम् । यद्वा - पृ प्रीतौ, प्रीत्या गृहाणेत्यर्थः । महित्वशब्दात्तृतीयैकवचनस्याजादेशः । किंच - हे सुभगे कल्याणधने अनेन हविषा प्रीता त्वं नः अस्मभ्यं रयिं धनं सुवीरं कल्याणवीरयुक्तं धेहि धनं देहीति । 'वीरवीर्यौ च` इत्युत्तर पदात्तत्वम् ॥
3 अथ द्वितीयस्यानुवाक्या - निवेशनीति त्रिष्टुप् । निवेशनी वसूनाम्, निविशते वसूनि यस्यां तादृशी, संगमनी संगच्छन्ती वसून्यनया तादृशशीलया विश्वानि च रूपाणि यानि रूपवन्ति वसूनि तानि आवेशयन्ती अस्मात्प्रत्युत्कर्षन्ती सहस्नपोषं सहस्रपुष्टियुक्तं यथा तथा रराण ददातु । रातेर्व्यत्ययेनात्मनेपदम्, शपः श्लुः । सुभगा शोभनधना सा तादृशी सती अमावास्या नोस्मान् आगन् आगच्छतु वर्चसा दीप्त्या उपलक्षिता संविदाना सम्यग्जानती । 'समो गमृच्छि' इत्यात्मनेपदम्, गमेश्छान्दसे लङि शपो लुक्, 'मो नो धातोः' ॥
4 अथ प्रथमस्य याज्या - अग्नीषोमावित्यतिशक्वरी पञ्चपदा ॥ हे अग्नीषोमौ युवां प्रथमौ प्रधानौ वीर्येणात्मीयेन बलेन वसून् रुद्रानादित्यान् च इहास्मिन् कर्माणि जिन्वतं प्रीणयतम् । जिवि प्रीणने, इदित्वान्नुम् । माध्यं मध्यभावं सर्वदेवसाधारणं मध्यस्थमित्यर्थः । पौर्णमासं पौर्णमास्यां भवमिदं हविः जुषेथां ततो ब्रह्मणाऽनेन अन्नेन वृद्धौ सुकृतेन शोभनकर्मणा सातौ संसक्तौ । 'सुपमानात्कः' इति सुकृतशब्दोन्तोदात्तः । अथानन्तरमस्मभ्यं सहवीरां विक्रान्तपुरुषसहितां रयिं धनं नियच्छतं नियमेन दत्तम् ॥
5 अथैनयोर्हेमयोर्ब्राह्मणम् - आदित्याश्चाङ्गिरसश्चाग्नीनादधत, दर्शपूर्णमासौ प्राप्तुं प्रारब्धुमैच्छन् । 'आप्ज्ञप्यृधाम्' इतीत्वम् । तेषां मध्ये अङ्गिरसां निरुप्तमासीद्धविः । अहुत्वैव सारस्वतौ होमौ हविरुप्तवन्तः । दर्शपूर्णमासस्थानीयत्वादेतयोः होमयोर्दर्शपूर्णमासशब्दौ कर्मप्रवचनौ । तत्र दृशिरयं ज्ञानमात्रे वर्तते । अथादृष्टार्थः 'पश्यार्थैश्चानालोचने' इत्यालोचनेन न गृह्यते, अस्ति चेति तु केवलं ज्ञायते । अधिकरणे सन्तन्यते दिनेदिने चाप्यते तं सन्ततमुत्तरार्धमासः आत्मलाभत्वात्तदनुविधायिनोः तदपेक्षे आनुलोम्यप्रतिलोम्ये । विपर्ययलक्षणेत्येके । पूर्णमासो व्याख्यातः ॥
6 ब्रह्मवादिन इत्यादि ॥ तुशब्दोनुलोमविदन्येभ्यो व्यावर्तयति अत्रायं यज्ञात्मनः औत्तरस्मादर्धमासात् प्रतिपत्प्तभृति सन्ततं सन्तन्यते दिनेदिने चाप्यते तं सन्ततमुत्तरार्धमासे आगते आलभते न विकरोति । ततस्तं कालेकाले आगते यजते तत्र मध्यात् पूर्वपर्वसन्धौ भूयिष्ठस्योत्तरार्धमासस्य तस्मन्नह्नि यागः कर्तव्यः, अन्यथोत्तरेद्युः । एतयोश्चन्द्राधीनात्मलाभत्वात्तदनुविधायनोः तदपेक्षे आनुलोम्यप्रातिलोम्ये । तत्रामावास्यायाः परस्तादूर्ध्वं उपर्युपर्युपचीयमानस्वस्वरूपं चन्द्रस्यावस्थानं यज्ञस्य तु विपरीतं तत्प्रतिलोमं भवती, ततश्च यदि पौर्णमासीं पूर्वामालभेतप्रतिलोममेनावालभेत प्राप्नुयात् तदानीं हि चन्द्रोपचीयते यज्ञ उपचीयते इति प्रतिलोमत्वम् । ततश्चामुं चन्द्रमपक्षीयमाणमनु यज्ञोप्यपक्षीयेत । अमावास्योपक्रमे तु नायं दोषः, तदानीं हि चन्द्रोप्युपचीयते यज्ञोपीत्यनुलोमत्वम् । 'अच्प्रत्यन्ववपूर्वात् ' इत्युभयत्राच्प्रत्ययस्समासान्तः । तर्ह्यमावास्यैव पूर्वमारभ्यताम् । नैवं शक्यम् । यथोक्तमाचार्येण - 'अथेमौ दर्शपूर्णमासौ' पौर्णमास्युपक्रमावमावास्यासंस्थावाचार्या ब्रुवते । तत्रोदाहरन्ति - ऊर्ध्वं मध्यरात्रात्पौणर्मास्याः चन्द्रमाः पूर्यते स एतं चापररात्रं पूर्णो भवति सर्वं चाहरुत्तरस्याश्च रात्रेरा मध्यरात्रात् । अथामावास्याया उपवसथीयेऽह्नि ऊर्ध्वं मध्याह्नरात्राच्चन्द्रमसमादित्यौ रेतस एतं चापराह्णे उपरब्धो भवति सर्वां च रात्रिमुत्तरस्य चाह्न आ मध्यन्दिनात् एवं सन्धिमभियजेतेति । रात्रिर्हि पौर्णमास्यां संशुद्धमाभाति अहरमावास्यायां द्वे पौर्णमास्यौ द्वे अमावास्ये पूर्वां पूर्वां पौर्णमसीमुत्तरामुत्तराममावास्यां, या पूर्वा पौणर्मासी साऽनुमतिः, योत्तरा सा राका, या पूवाऽमावास्या सा सिनीवाली, योत्तरा सा कुहूरित्येवमुपक्रमाणि च कर्माणि शुक्लादयः चार्धमासाः' इति । एवं पौर्णमास्युपक्रमत्वे प्रातिलोम्यं प्रसक्तं तत्परिहारार्थमाह - सारस्वतावित्यादि । अमावास्या अमावास्यास्थानीया । सरस्वत्याः प्रथमयागात्पौर्णमास्युपक्रमदोषाप्रसंगः ॥
7 आग्नावैष्णवमित्यादि ॥ साक्षादारभते इति । अन्वारम्भणीयेयमिति त्रीण्येतानिहवींषि । मिथुनौ गावौ स्त्रीपुंसौ । गतमन्यत् ॥
इति तृतीये पच्चभे प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.5.1.2 TS 3.5.1.2
संॅविदा॒ना ॥ अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू᳚न् रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतं ।मा॒द्ध्यꣳ हि पौ᳚र्णमा॒सं जु॒षेथां॒ ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒ऽस्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिं नि य॑च्छतं ॥ आ॒दि॒त्याश्चाऽङ्गि॑रसश्चा॒ग्नीनाऽद॑धत॒ ते द॑र्.शपूर्णमा॒सौ प्रैफ्स॒न् तेषा॒मङ्गि॑रसां॒ निरु॑प्तꣳ ह॒विरासी॒दथा॑ऽऽ*दि॒त्या ए॒तौ होमा॑वपश्य॒न् ताव॑जुहवु॒स्ततो॒ वै ते द॑र्.शपूर्णमा॒सौ - [ ]
पदपाठः (Word-by-word)
सं॒ॅवि॒दा॒नेति॑ सं - वि॒दा॒ना ॥ अग्नी॑षोमा॒वित्यग्नी᳚ - सो॒मौ॒ । प्र॒थ॒मौ । वी॒र्ये॑ण । वसून्॑ । रु॒द्रान् । आ॒दि॒त्यान् । इ॒ह । जि॒न्व॒त॒म् ॥ मा॒द्ध्यम् । हि । पौ॒र्ण॒मा॒समिति॑ पौर्ण - मा॒सम् । जु॒षेथा᳚म् । ब्रह्म॑णा । वृ॒द्धौ । सु॒कृ॒तेनेति॑ सु - कृ॒तेन॑ । सा॒तौ । अथ॑ । अ॒स्मभ्य॒मित्य॒स्म-भ्य॒म् । स॒हवी॑रा॒मिति॑ स॒ह-वी॒रा॒म् । र॒यिम् । नीति॑ । य॒च्छ॒त॒म् ॥ आ॒दि॒त्याः । च॒ । अङ्गि॑रसः । च॒ । अ॒ग्नीन् । एति॑ । अ॒द॒ध॒त॒ । ते । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । प्रेति॑ । ऐ॒फ्स॒न्न् । तेषा᳚म् । अङ्गि॑रसाम् । निरु॑प्त॒मिति॒ निः - उ॒प्त॒म् । ह॒विः । आसी᳚त् । अथ॑ । आ॒दि॒त्याः । ए॒तौ । होमौ᳚ । अ॒प॒श्य॒न्न् । तौ । अ॒जु॒ह॒वुः॒ । ततः॑ । वै । ते । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.5.1.3 TS 3.5.1.3
पूर्व॒ आ ऽल॑भन्त दर्.शपूर्णमा॒सा-वा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयाथ् सा॒क्षादे॒व द॑र्.शपूर्णमा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र्.शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनु-लो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्द्ध्वं तद॑नुलो॒मं पौ᳚र्णमा॒स्यै प्र॑ती॒चीनं॒ तत् प्र॑तिलो॒मं ॅयत् पौ᳚र्णमा॒सीं पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒-मुम॑प॒क्षीय॑माण॒-मन्वप॑ - [ ]
पदपाठः (Word-by-word)
पूर्वे᳚ । एति॑ । अ॒ल॒भ॒न्त॒ । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । आ॒लभ॑मान॒ इत्या᳚-लभ॑मानः । ए॒तौ । होमौ᳚ । पु॒रस्ता᳚त् । जु॒हु॒या॒त् । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । एति॑ । ल॒भे॒ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । सः । तु । वै । द॒र्॒.श॒पू॒र्ण॒मा॒साविति॑ दर्.श - पू॒र्ण॒मा॒सौ । एति॑ । ल॒भे॒त॒ । यः । ए॒न॒योः॒ । अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । च॒ । प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । च॒ । वि॒द्यात् । इति॑ । अ॒मा॒वा॒स्या॑या॒ इत्य॑मा - वा॒स्या॑याः । ऊ॒र्द्ध्वम् । तत् । अ॒नु॒लो॒ममित्य॑नु - लो॒मम् । पौ॒र्ण॒मा॒स्या इति॑ पौर्ण - मा॒स्यै । प्र॒ती॒चीन᳚म् । तत् । प्र॒ति॒लो॒ममिति॑ प्रति - लो॒मम् । यत् । पौ॒र्ण॒मा॒सीमिति॑ पौर्ण - मा॒सीम् । पूर्वा᳚म् । आ॒लभे॒तेत्या᳚ - लभे॑त । प्र॒ति॒लो॒ममिति॑ प्रति-लो॒मम् । ए॒नौ॒ । एति॑ । ल॒भे॒त॒ । अ॒मुम् । अ॒प॒क्षीय॑माण॒मित्य॑प - क्षीय॑माणम् । अनु॑ । अपेति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.5.1.4 TS 3.5.1.4
क्षीयेत सारस्व॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒म-मे॒वैना॒वा ल॑भते॒ ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत आग्नावैष्ण॒व-मेका॑दशकपालं पु॒रस्ता॒न्निव॑र्पे॒थ् सर॑स्वत्यै च॒रुꣳ सर॑स्वते॒ द्वाद॑शकपालं॒ ॅयदा᳚ग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञ्मु॒खं ॅय॑ज्ञ्मु॒खमे॒वर्द्धिं॑ पु॒रस्ता᳚द्-धत्ते॒ यद्-वै᳚ष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञ्मे॒वाऽऽ*रभ्य॒ प्रत॑नुते॒ सर॑स्वत्यै ( ) च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न् तावे॒व सा॒क्षादा र॑भत ऋ॒द्ध्नोत्या᳚भ्यां॒ द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा᳚त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥
पदपाठः (Word-by-word)
क्षी॒ये॒ते॒ । सा॒र॒स्व॒तौ । होमौ᳚ । पु॒रस्ता᳚त् । जु॒हु॒या॒त् । अ॒मा॒वा॒स्येत्य॑मा-वा॒स्या᳚ । वै । सर॑स्वती । अ॒नु॒लो॒ममित्य॑नु-लो॒मम् । ए॒व । ए॒नौ॒ । एति॑ । ल॒भे॒ते॒ । अ॒मुम् । आ॒प्याय॑मान॒मित्या᳚ - प्याय॑मानम् । अनु॑ । एति॑ । प्या॒य॒ते॒ । आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । एका॑दशकपाल॒मित्येका॑दश-क॒पा॒ल॒म् । पु॒रस्ता᳚त् । निरिति॑ । व॒पे॒त् । सर॑स्वत्यै । च॒रुम् । सर॑स्वते । द्वाद॑शकपाल॒मिति॒ द्वाद॑श-क॒पा॒ल॒म् । यत् । आ॒ग्ने॒यः । भव॑ति । अ॒ग्निः । वै । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ्-मु॒खम् । य॒ज्ञ्॒मु॒खमिति॑ यज्ञ्-मु॒खम् । ए॒व । ऋद्धि᳚म् । पु॒रस्ता᳚त् । ध॒त्ते॒ । यत् । वै॒ष्ण॒वः । भव॑ति । य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञ्म् । ए॒व । आ॒रभ्येत्या᳚ - रभ्य॑ । प्रेति॑ । त॒नु॒ते॒ । सर॑स्वत्यै ( ) । च॒रुः । भ॒व॒ति॒ । सर॑स्वते । द्वाद॑शकपाल॒ इति॒ द्वाद॑श-क॒पा॒लः॒ । अ॒मा॒वा॒स्येत्य॑मा - वा॒स्या᳚ । वै । सर॑स्वती । पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒सः॒ । सर॑स्वान् । तौ । ए॒व । सा॒क्षादिति॑ स - अ॒क्षात् । एति॑ । र॒भ॒ते॒ । ऋ॒द्ध्नोति॑ । आ॒भ्या॒म् । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । सर॑स्वते । भ॒व॒ति॒ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । मि॒थु॒नौ । गावौ᳚ । दक्षि॑णा । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ॥
पदसंख्या: 75