अनुवाकः 11 TS 3.5.11

(A11)

(वोढ॑वे- दू॒तस्त्वं - तमु॑ - सीद॒त्वा - यत्र॑ - च॒त्वारि॑ च)

अनुवाकः 11 - Complete Audio

TS 3.5.11 - स्वरानुगामी

0:00 0:00
PS1.1 प्र दे॒वन्दे॒व्या धि॒या भर॑ता जा॒तवे॑दसं
PS1.2 ह॒व्या नो॑ वक्षदानु॒षक्
PS1.3 अ॒यमु॒ ष्य प्रदे॑व॒युर्.होता॑ य॒ज्ञाय॑ नीयते
PS1.4 रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वान्
PS1.5 चेतति॒ त्मना᳚
PS1.6 अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः
PS1.7 सह॑सश्चि॒थ् सही॑यान् दे॒वो जी॒वात॑वे कृ॒तः
PS1.8 इडा॑यास्त्वा प॒दे व॒यं नाभा॑
PS1.9 पृथि॒व्या अधि॑
PS1.10 जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे
PS2.1 अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं
PS2.2 प्रथ॒मः सी॑द॒ योनिं᳚
PS2.3 कु॒ला॒यिनं॑ घृ॒तव॑न्तꣳ सवि॒त्रे य॒ज्ञ्ं
PS2.4 न॑य॒ यज॑मानाय सा॒धु
PS2.5 सीद॑ होतः॒ स्व उ॑
PS2.6 लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञ्ꣳ सु॑कृ॒तस्य॒
PS2.7 योनौ᳚
PS2.8 दे॒वा॒वीर्दे॒वान्. ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्-यज॑माने॒
PS2.9 वयो॑ धाः
PS2.10 नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो
PS2.11 दी॑दि॒वाꣳ अ॑सदथ् सु॒दक्षः॑
PS2.12 अद॑ब्धव्रत-प्रमति॒र्वसि॑ष्ठः सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः
PS2.13 त्वं दू॒तस्त्व - [ ]
PS3.1 मु॑ नः पर॒स्पास्त्वं ॅवस्य॒
PS3.2 आ वृ॑षभ प्रणे॒ता
PS3.3 अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्
PS3.4 दीद्य॑द्बोधि गो॒पाः
PS3.5 अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ ॅवार्या॑णां
PS3.6 सदा॑ऽवन् भा॒गमी॑महे
PS3.7 म॒ही द्यौः पृ॑थि॒वी च॑न
PS3.8 इ॒मं ॅय॒ज्ञ्ं मि॑मिक्षतां
PS3.9 पि॒पृ॒तां नो॒ भरी॑मभिः
PS3.10 त्वाम॑ग्ने॒ पुष्क॑रा॒दद्ध्यथ॑र्वा॒ निर॑मन्थत
PS3.11 मू॒र्द्ध्नो विश्व॑स्य वा॒घतः॑
PS3.12 तमु॑ - [ ]
PS4.1 त्वा द॒द्ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः
PS4.2 वृ॒त्र॒हणं॑ पुरन्द॒रं
PS4.3 तमु॑ त्वा पा॒थ्यो वृषा॒
PS4.4 समी॑धे दस्यु॒हन्त॑मं
PS4.5 ध॒नं॒ ज॒यꣳ रणे॑रणे
PS4.6 उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाऽज॑नि
PS4.7 ध॒नं॒ ज॒यो रणे॑रणे
PS4.8 आ यꣳ हस्ते॒ न
PS4.9 खा॒दिनꣳ॒॒ शिशुं॑ जा॒तं न
PS4.10 बिभ्र॑ति
PS4.11 वि॒शाम॒ग्निꣳ स्व॑द्ध्व॒रं
PS4.12 प्रदे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मं
PS4.13 आस्वे योनौ॒ नि षी॑दतु
PS4.14 आ - [ ]
PS5.1 जा॒तं जा॒तवे॑दसि प्रि॒यꣳ शि॑शी॒ताऽति॑थिं
PS5.2 स्यो॒न आ गृ॒हप॑तिं
PS5.3 अ॒ग्निना॒ऽग्निः समि॑द्ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚
PS5.4 ह॒व्य॒वाड् जु॒ह्वा᳚स्यः
PS5.5 त्वꣳ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒
PS5.6 विप्रे॑ण॒ सन्थ्स॒ता
PS5.7 सखा॒ सख्या॑ समि॒द्ध्यसे᳚
PS5.8 तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑
PS5.9 स्वेषु॒ क्षये॑षु वा॒जिनं᳚
PS5.10 य॒ज्ञेन॑ य॒ज्ञ्म॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न्
PS5.11 ते ह॒ नाकं॑ महि॒मानः॑
PS5.12 सचन्ते॒ यत्र॒ ( )
PS5.13 पूर्वे॑ सा॒द्ध्याः सन्ति॑ दे॒वाः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.5.11.1 TS 3.5.11.1
प्र दे॒वन्दे॒व्या धि॒या भर॑ता जा॒तवे॑दसं । ह॒व्या नो॑ वक्षदानु॒षक् ॥ अ॒यमु॒ ष्य प्रदे॑व॒युर्.होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वान् चेतति॒ त्मना᳚ ॥ अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः । सह॑सश्चि॒थ् सही॑यान् दे॒वो जी॒वात॑वे कृ॒तः ॥ इडा॑यास्त्वा प॒दे व॒यं नाभा॑ पृथि॒व्या अधि॑ । जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे ॥
पदपाठः (Word-by-word)
प्रेति॑ । दे॒वम् । दे॒व्या । धि॒या । भर॑त । जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ॥ ह॒व्या । नः॒ । व॒क्ष॒त् । आ॒नु॒षक् ॥ अ॒यम् । उ॒ । स्यः । प्रेति॑ । दे॒व॒युरिति॑ देव-युः । होता᳚ । य॒ज्ञाय॑ । नी॒य॒ते॒ ॥ रथः॑ । न । योः । अ॒भीवृ॑त॒ इत्य॒भि - वृ॒तः॒ । घृणी॑वान् । चे॒त॒ति॒ । त्मना᳚ ॥ अ॒यम् । अ॒ग्निः । उ॒रु॒ष्य॒ति॒ । अ॒मृता᳚त् । इ॒व॒ । जन्म॑नः ॥ सह॑सः । चि॒त् । सही॑यान् । दे॒वः । जी॒वात॑वे । कृ॒तः ॥ इडा॑याः । त्वा॒ । प॒दे । व॒यम् । नाभा᳚ । पृ॒थि॒व्याः । अधि॑ ॥ जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । नीति॑ । धी॒म॒हि॒ । अग्ने᳚ । ह॒व्याय॑ । वोढ॑वे ॥
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः ) ।

अतिग्राह्यप्राणनामग्रहा दशम् ईरिताः ।

अथेकादशे पाशुकहौत्रोपयोगिमन्त्रा उच्यन्ते । तत्र ब्राह्मणग्रन्थे तृतीयकाण्डे षष्ठप्रपाठकेऽञ्जन्ति त्वामध्वरे देवयन्त इत्यत्र पाशनुकहोत्रमन्त्राः प्रायेणोक्ताः । अवशि-ष्टास्तु मन्त्रा इहामिधीयन्ते । तत्राष्टमिर्यन्त्रैरुत्तरवेदिं प्रत्याग्निं प्रणयेत् । तेषु प्रथममन्त्रमाह —

प्र देव देव्येति । हे ऋत्विग्यजमाना जातवेदसमुत्पन्नस्य जगतो वेदितारं देवं देव्या प्रकाशरूपया विवेकयुक्तया धिया प्रकर्षेण भरत पोषयत । सोऽपि जातवेदा आनुषगनुषक्त आदरयुक्तो नोऽस्माकं हव्या वक्षद्धवींषि वहतु ।

अथ द्वितीयमन्त्रमाह —

अयमु ष्य प्रेति । अयमेव स्यः सोऽग्निर्यज्ञार्थमुत्तरवेदिं प्रति प्रकर्षेण नीयते । कीदृशोऽग्निः । देवानात्मन इच्छतीति देवयुः । होता होमस्य निष्पादकः । रथो न योः रथ इव यवयिता पृथक्कर्ता । यथा रथः स्वस्मिन्नारूढं पुरुषं भूमिष्ठेभ्यः पृथक्कृत्य ग्रामे नयति तथाऽयमग्निः स्वस्मिन्हुतं हविरितरेभ्यो हविर्भ्यः पृथक् कृत्य देवेषु नयति । अभीवृतो यजमानैराभिमुख्येन स्वीकृतः । घृणीवान्रश्मियुक्तः । तादृशोऽग्निस्त्मना चेतति स्वयमेव यजमानभक्तिं जानाति ।

तृतीयमन्त्रपाठस्तु —

अयमग्निरिति । अयं प्रणीयमानोऽग्निर्जन्मनो जन्ममात्रेणोरुष्यति प्रबुद्धो भवितुमिच्छति । अमृतादिव । यथा पीतेनामृतेन मरणरहितः प्रवर्तते तद्वत् । किंचायं देवो जीवातवे जीवनौषधाय सहसश्चित्सहीयान्कृतो बलवतोऽप्यतिप्रबलः कृतः । यदाऽयमग्निः प्रबलो भवति तदा स्वयमपि विनाशरहितो जीवति यजमानमपि यज्ञनिष्पादनेन जीवयतीत्यर्थः । चतुर्थमन्त्रपाठस्तु —

इडायास्त्वेति । हे जातवेदाऽग्ने हव्याय वोढवे हवींषि वोढुं त्वां वयं (नि) धीमहि नितरं स्थापयामः । कुत्रेति तदुच्यते — पृथिव्या अध्युपरि नाभा नाभिसदृश आहवनीयायतने । तच्चाऽऽयतनमिडापदसदृशं, यथा गोरूपाया इडाया पदं घृताहुतियुक्तं तादृशे स्थाने स्थापयामः ।

पञ्चममन्त्रपाठस्तु —

अग्ने विश्वेमिरिति । विश्वेभिर्देवैः स्वनीक सर्वेऽपि देवा अस्य सेनारूपास्तादृश हेऽग्ने प्रथमो देवानां मध्ये मुख्यस्त्वं योनिं सीद स्थानं प्राप्नुहि । कीदृशं योनिम् । ऊर्णावन्तं, यथा कम्बलास्तरणोपेतो देशो मृदुस्तथाऽयं सेव्यस्तादृशं, कुलायिनं, यथा पक्षिणां नीडः सम्यङ्गनिर्मित एवमयमपि तादृशं, घृतवन्तं घृताहुत्याधारभूतम् । यद्वाऽऽहवनीयाख्यं कुलायोपेतं घृताहुतियुक्तं यज्ञं सवित्रेऽनुष्ठात्रे यजमानाय साधु नय सम्यक्समाप्तिं गमय । षष्ठमन्त्रमाह —

सीद होतरिति । हे होतहोमनिष्पादक चिकित्वानभिजस्त्वं स्वकीयस्थान

उत्तरवेदिरूपे सीदोपविश । यज्ञं चेमं सुकृतस्य योनौ पुण्यकर्मणो योग्यस्थाने सादय स्थापय । देवान्वेति कामयत इति देवावीर्देवप्रिय इत्यर्थः । तादृशस्त्वं देवान्हविषा यजासि पूजयसि । हेऽग्ने यजमाने बृहद्वयो धा दीर्घमायुः स्थापय । सप्तममन्त्रमाह —

नि होतेति । होतृषदने होमनिष्पादकस्य योग्यस्थान उत्तरवेदिरूपेऽयमग्नि र्नितरामसदत्सम्यगुयविष्टवान् । कीदृशोऽग्निः । होता देवानामाह्वाता । विदानः स्थानाभिज्ञः । त्वेषो दीप्तिमान् । दीदिवान्देवेभ्यो हविषो दाता । सुदक्षोऽत्यन्त कुशलः । अदब्धव्रतप्रमतिरहिंसित कर्मणि प्रकृष्टा मतिर्यस्य स तथाविधः । वसिष्ठोऽतिशयेन वासयिता । सहस्रसंख्याकानि हवींषि भरति पोषयतीति सहस्रंभरः । शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्यासौ शुचिजिह्वः अष्टममन्त्रमाह —

त्वं दूतस्त्वमिति । हेऽग्ने त्वं देवानां दूतोऽसि । अग्निर्देवानां दूत आसीदिति श्रुत्यन्तरात् । त्वमु नः परस्पास्त्मेवास्माकमतिशयेन पालकः । त्वं वस्यस्त्वमेवास्मिन्कर्मणि निवासयोग्यः । हे वृषभ देवश्रेष्ठ, आ प्रणेता त्वमेवाऽऽगत्य यागस्य प्रवर्तकः, तो (नस्तो) कस्यास्मदपत्यस्य तनूनां तने शरीराणां विस्तारेऽप्रयुच्छन्प्रमादमकुर्वन्दीद्यत्तमोनिवारणेन दीपयन् । अथवा देवेभ्यो हविर्ददानो गोपाः पालकः सन्बोधि बुध्यस्वाप्रमत्तो भवेत्यर्थः । एतेऽष्टौ मन्त्रा उत्तरवेदिं प्रतयग्निप्रणयनकाले होत्रा पठनीयाः ।

अथाग्निमन्थने पञ्च मन्त्रा पठनीयाः ।

अभि त्वेति । हे सवितर्देव प्रेरक परमेश्वर वार्याणां निवारणीयानां विघ्ना नामीशानं विनिवारणे समर्थं त्वामभि प्राप्तुमिति शेषः । सदावऽन्सर्वदा हे रक्षक भागं भजनीयमग्निमीमहे त्वत्प्रसादात्प्राप्नुमः । अथ द्वितीयो मन्त्रः —

मही द्यौरिति । महति द्यौः पृथिवि चेत्येते उभे नोऽस्मदीयमिमं यज्ञं मिमिक्षतामाज्यहोमादिभिर्द्रव्यैः सेक्तुमिच्छां कुरुताम् । भरीमभिर्भरणैर्नोऽस्मान्पिपृतां पूरयताम् । अथ तृतीयः —

त्मामग्न इति । हेऽग्नेऽथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत निःशेषेण मथितवान् । अत एव पञ्चमकाण्डे ब्राह्मणमाम्नातम् — ‘पुष्क

रपर्णे ह्येनमुपश्चितमविन्दत्” इति । कीदृशात्पुष्करात् । मूर्ध्न उत्तमाङ्गवत्प्रश स्तात् । विश्वस्य वाधतः सर्वस्य जगतो वाहकात् । इदं हि पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनादिद्वारा जगन्निवहति । अथ चतुर्थः —

तमु त्वेति । हेऽग्नेऽथर्वणः पुत्रो दध्यङ्नामक ऋषिस्तमु त्वेधे तमु त्वां प्रज्वलितवान् । कीदृशं त्वां वृत्रहणं वैरिविनाशनं पुरंदरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम् । अत पञ्चमः —

तमु त्वा पाथ्य इति । हेऽग्ने पाथ्यनामकः कश्विदृषिस्तमु त्वा समीधे तमेव त्वां सम्यक्त्रज्वलितवान् । कीदृशः पाथ्यः । वृषा श्रेष्ठः । कीदृशं त्वां, दस्युहन्तमं तस्कराणामतिशयेन हन्तारम् । रणेरणे धनंजय तेषु तेषु संग्रामेषु धनस्य जेतारम् । अथ वह्नौ जात ऋग्द्वयं होता पठेत तत्रैयं प्रथमा —

उत ब्रुवन्त्विति । उत जन्तवः सर्वेऽपि प्राणिनः परस्परमेवं ब्रुवन्तु किमिति, अग्निरुदजनीति । कीदृशोऽग्निः । वृत्रहा शत्रुघाती, रणेरणे धनंजयश्च । अथ द्वितीया —

आ य हस्त इति । खादिनं हविषां भक्षकम् । यमग्निं हस्ते न पाणाविव कस्मिंश्चित्पात्र आबिभ्राति आ निधानादृत्विजो धारयन्ति । कमिव । जातं शिशुं न सद्यः समुत्पन्नं शिशुमिव । कीदृशमग्निं, विशां स्वध्वरं प्रजानां सम्यगहिंसकम् । तमग्निं पुरतः पश्याम इति शेषः ।

अस्याग्नेः पूर्वाग्निना सह मेलने प्र देवमित्याद्याः षडृचो होता पठेत् । तत्र प्रथममाह —

प्र देवं देवेति । देववीतये देवानां हविःस्वादनाय देवं दीप्तिमन्तमग्निं भरत हे ऋत्विजः प्रकर्षेण पोषयत । कीदृशं देवं, वसुवित्तममतिशयेन हविर्लक्षणधनाभिज्ञम् । स च देव आगत्य स्वे योनौ पूर्वग्निरूपे स्वकीये स्थाने निषीदतु नितरामुप समीपे प्रविष्टो भवतु । द्वितीयामाह —

आ जातमिति । हे ऋत्विज इदानीं जातं प्रमयतिथिरूपमेनमग्निं पूर्वमेव स्थिते जातवेदसि शिशीत शयानं कुरुत । कीदृशे जातवेदसि । स्योने सुखरूपे । कीदृशं जातम् आ गृहपतिं सर्वतो गृहस्य पालकम् । तृतीयामाह —

अग्निनाऽग्निरिति । पूर्वसिद्धेनाग्निना सहेदानीमानीतोऽग्निः समिध्यते सम्यक्प्रज्वाल्यते । कीदृशोऽग्निः । कविर्विद्वान् । गृहपतिर्गृहस्य पालयिता । युवा नित्यतरुणः । हव्यं वहतीति हव्यवाट् । जुहूरेवाऽऽस्यं मुखं यस्यासौ जुह्वास्यः । चतुर्थीमाह —

त्व ह्यग्ने अग्निनेति । हे नूतनाग्ने त्वं पूर्वेणाग्निना सह सम्यक्प्रज्वाल्यसे । कीदृशस्त्वम् । विप्रा ब्राह्मणात्यभिमानी सत्विनाशराहित्येन सर्वदाऽवास्थितः । सखा सखिवदितरस्मिन्नग्नौ प्रीतियुक्तः । कीदृशेनाग्निना । विप्रेण सता सख्या च पञ्चमीमाह —

तं भर्जयन्तेति हे ऋत्विजस्तमिमं मथितमग्निं मर्जयन्त शोधयत । कीदृशं, सुक्रतुं सुष्ठु क्रतुनिष्पादकम् । आजिषु संग्रामेषु पुरोयावानं पुरतो गन्तारम् । स्वेषु क्षयेषु यजमानसंबन्धिषु स्वकीयगृहेषु वाजिनमन्नसंपादकम् । षष्ठीमाह —

यज्ञेन यज्ञमिति । देवा देवत्वं प्रेप्सवो यजमाना यज्ञेन यज्ञसाधनेन नूतनेनाग्निना सह यज्ञं यज्ञसाधनं पुरातनमग्निमयजन्त पूजितवनः । तानि मिलितानि अग्निद्वयसाध्यानि (धर्माणि) सुकृतानि प्रथमान्यासन्मुख्यान्यभवन् । ते (ह) गहिमानस्ते खलु महान्तो यजमानानाकं सचन्ते स्वर्गं समवयन्तियत्र स्वर्गे पूर्वे यजमानाः साध्याः साध्यफलोपेता देवाः सन्ति ये ( दे ) वा भूत्वा वर्तन्ते, तं नाकं सेव (सच)न्त इति पूर्वत्रान्वयः ।

अत्र विधियोगसंग्रहः —

अथ पाशुकहौत्रस्य शेष औत्तरवेदिके ।

अग्निप्रणयेन ह्यष्टौ प्र देवमिति मन्त्रकाः ॥

अथाग्निमन्थने पञ्च जाते बह्नावुत द्वयम् ।

प्र देऽग्न्यौर्मेलने षट् स्युर्मन्त्रा अत्रैकविंशतिः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-जुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके

एकादशोऽनुवाकः ॥ ११ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य

श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते

वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये

तृतीयकाण्डे पञ्चमः प्रपाठकः ॥ ५ ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधि-

राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरि-

पालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे

कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये

तृतीयः काण्डः समाप्तः ॥ ३ ॥

समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यसहितकृष्णयजुर्वेदीयतैत्तिरीयसंहितायास्तृतीयः काण्डः ॥ ३ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ वरुणप्रघासानामग्निप्रणयनीया अष्टौ - प्र देवमिति गायत्री ॥ हे ऋत्विग्यजमानाः देवं जातवेदसं जातानां वेदितारं जातधनादिकं वा अग्निं प्रभरत प्रकर्षेण भरत प्रणयत । 'अन्येषामपि दृश्यते' इति सांहितिको दीर्घः । देव्या दीप्तया धिया प्रज्ञयाकर्मणा वा । 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । किं प्रयोजनमिति चेत्? नः अस्माकं हव्या हव्यानि हवींषि । 'शेश्छन्दसि' इति लोपः ॥
2 अथ द्वितीया - अयमुष्य इत्यनुष्टुप् ॥ अयमु अयमेव स्यः सः देवयुः देवान्यष्टुमिच्छन् । 'न छन्दस्यपुत्रस्य' इतीत्वाभावः, 'क्याच्छन्दसि' इत्युप्रत्ययः । होता देवानामाह्वाता सोयमेव यज्ञाय प्रणीयते । रथो न रथ इव । रंहणशील आदित्यो रथः रथवान्वा, लुप्तमत्वर्थीयः । अभिवृतः ब्राह्मणैर्वेष्टितः । सांहितिकमुपसर्गस्य दीर्घत्वम्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । योः मिश्रयिता हविषां देवैः । यौतेर्विच् । धृणीवान् रश्मिवान् । सांहितिकं दीर्घत्वम्, 'छन्दसीरः' इति मतुपो वत्वम्, व्यत्ययेन 'छन्दसि' इति रुर्न प्रवर्तते । चेतति जानाति त्मना आत्मना स्वयमेव यागनिवृत्त्युपायान् वेत्तीति । 'मन्त्रेष्वाङ्यादेः' इति लोपः ॥
3 अथ तृतीया - अयमग्निरित्यनुष्टुप् ॥ अयं प्रणीयमानोग्निरुरुष्यति रक्षति यागं रक्षःप्रभृतिभ्यः । यद्वा - रक्षत्यात्मानं आ समाप्तेरविनाशो वर्तिष्यते । अमृतादिव जन्मनः यथा अमृतादविद्यमानमरणात् जन्महेतोरविनाशोयं स्तुतो भवति । एवमस्मादाहवनीयाज्जातत्वान्नस्य विनाश इति । उरुष्यतिः कण्ड्वादिः 'नञो जरमर' इत्यमृतशब्दस्योत्तृरपदाद्युदात्तत्वम् । सहसश्चित्सहीयान् । सहो बलम् । मत्वर्थीयो लुप्यते । चिच्छब्दोप्यर्थे । बलवद्भ्योपि बलवत्तरः । सहस्वच्छब्दादीयसुनि 'विन्मतोर्लुक्' इति लुक्, 'टेः' इति टिलोपः । देवः दीप्तिमान् । जीवातवे जीवनहेतवे यागाय कृतः प्रणीतः । सोयमग्निः उरुष्यति ॥
4 अथ चतुर्थी - इडाया इत्यनुष्टुप् ॥ हे अग्ने जातवेदः इडायाः पृथिव्याः अवयवे पदे अस्मिन् स्थाने । कस्मिन्? नाभा उत्तरनाभौ । 'सुपां सुलुक्' इति सप्तम्या डादेशः । पृथिव्याः प्रथिताया उत्तरवेद्या अधि उपरिष्टात् निधीमहि स्थापयामः । धीङ् आधारे, छान्दसे लुङि शपो लुक्, 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यदभावः । किमर्थम्? हव्याय वोढबे हविर्वोढुं देवेभ्यः । 'तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । हवमर्हतीति हव्यः, दण्डादित्वाद्यः, 'क्रियाग्रहणं कर्तव्यम्' इति संप्रदानत्वम् ॥
5 अथ पञ्चमी - अग्ने विश्वेभिरिति त्रिष्टुप् ॥ हे अग्ने विश्वेभिस्सर्वैर्देवैः स्वनीकः सुसेनामुखः विश्वैर्देवैस्सह । ऊर्णावन्तं ऊर्णास्तुकया तद्वन्तं योनिं योनिस्थानं प्रथमो मुख्यस्त्वं सीद आस्व । कुलायिनं संभारैस्तद्वन्तं घृतवन्तं व्याघारणभूतेन तद्वन्तम् । तत्रासीनस्त्वं सवित्रे आदित्याय यज्ञं इष्टं हविर्नय प्रापय । सर्वमिष्टं कुर्विति यावत् । यथोक्तम् - 'अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इति । किमर्थम्? यजमानाय साधु यथा यजमानार्थं साधयेद्यागफलम् । 'कृपावाजि' इत्युण्प्रत्ययः । यद्वा - यजमानस्य फलावाप्तये यज्ञं साधु सवितारं नय ॥
6 अथ षष्ठी - सीदेति त्रिष्टुप् ॥ हे अग्ने होतः आह्वातः स्व उ लोके स्व एव स्थाने उत्तरवेद्यां सीद आस्व । चिकित्वान् स्वव्यापारं जानानः । कित ज्ञाने । सीदंश्च त्वं यज्ञं सुकृतस्य कर्मणः योनौ स्थाने सादय । सांहितिकं दीर्घत्वम् । 'सूपमानात्क्तः' इति सुकृतशब्दोन्तोदात्तः । तदर्थमित्थं कर्तव्यमित्याह – देवावीः देवानामविता रक्षिता तर्पयिता वा । 'अवितॄस्तॄतन्त्रिभ्य ईः' । यस्मादेवं तस्मात् देवान् हविषा यजासि यज । लोट्याडागमः । इदं च कर्तव्यमित्याह – बृहत् महत् यजमाने वयः अन्नं धाः धेहि स्थापय । दधातेर्लेटि शपो लुक् ॥
7 अथ सप्तमी - नि होतेति त्रिष्टुप् ॥ होता आह्वाता विदानः स्वाधिकारज्ञः । व्यत्ययेनानुदात्तेत्त्वमात्मनेपदम्, लसार्वधातुकानुदात्तत्वम् । त्वेषः दीप्तिमान् दीदिवान् ज्वलन् । दीव्यतेश्छान्दसस्य लिटः क्वसुरादेशः । सुदक्षः सुष्ठु शीघ्रः सुपण्डितो वा । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अदब्धव्रतप्रमतिः अनुपहिंसितकर्मा चासौ प्रकृष्टमतिश्चेति कर्मधारयन्याये दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । अनुपहिंसितकर्मा, प्रकृष्टा मतिर्यस्येति । वसिष्ठः वसुमत्तरः । सहस्रंभरः बहुधनः धनस्य भर्ता । यद्वा - बहुधनो हि सहस्रं भृत्यादीन् बिभर्तीति । भर्तेः 'संज्ञायां भृतृवृजि' इति खः । शुचिजिह्वः शुद्धज्वालः । अतस्सर्वेऽपि देवाः त्वदर्चिलीढमदन्ति । ईदृशोग्निः अङ्गनादिगुणयुक्तः होतृषदने न्यषीदत् निषीदतु । 'सदिरप्रतेः' इति षत्वम् । निषण्णश्चास्माकं अभिप्रेतानि साधयत्विति । छान्दसो लुङ्, इरित्वादङ् ॥
8 अथाष्टमी - हे अग्ने नोस्माकं त्वं दूतः देवेषु गन्ता, त्वमेव नः परस्पाः प्रकृष्टः पारयिता । पारस्करादित्वात्सुट् । वस्यः वसुमत्तरः । ईयसुन आद्यक्षरलोपः, व्यत्ययेन नपुंसकत्वम्, क्रियाविशेषणं वा । वसीयः प्रणेतेति । आमन्त्रितं वा हे वसीयः । व्यत्ययेन निघाताभावः । आकारस्समुच्चये वसीयः प्रणेता प्रधानपाकान्तरशोः [पारयित्रोः] पूर्वापेक्षया समुच्चयः । त्वं नः परस्पाः प्रणेता चेति । हे वृषभ वर्षितः अतोस्माकं तोकस्य तने तनयस्य नप्त्रादेः । छान्दसो वर्णलोपः, विभक्तिव्यत्ययश्च । तनूनां शरीराणां च त्वमेव गोपाः गोपयिता । आयप्रत्ययान्तात्क्विप्, अतो लोपयलोपौ, 'धातोः' इत्यन्तोदात्तत्वम् । पदकारमते पाता गोपाः । स एव विशेष्यते - अप्रयुच्छन् अप्रमाद्यन् दीद्यत् दीप्यमानः । देदितिर्दीप्तिकर्मा छान्दसः अभ्यस्तधर्मः, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । यदुक्तं त्वमेव नः रक्षेति एतत् त्वं बोधि बुद्ध्यस्व । लेटि शपो लुक् । 'वा छन्दसि' इत्यपित्त्वाभावात् लघूपधगुणाभावः । धातोरन्त्यलोपश्छान्दसः । कर्मणि वा लुङ्, एतत्त्वया बोधि बुध्यतां विदितमिदं तवास्तु त्वमेव नः गोपायितेति । 'बहुलं छन्दस्यमाङ्योगेऽपि' इत्यडभावः ॥
9 अत्रैवाग्निमन्थनीयास्त्रयोदश, सर्वा गायत्र्यः, त्रयोदशी त्रिष्टुप् ॥ तत्र प्रथमा - अभि त्वेति ॥ हे देव दानादिगुणयुक्त हे सवितः सर्वस्य प्रसावक त्वामीशानं ईशितारं स्वामिनं वार्याणां वरणीयानां वरिष्ठानां धनानाम् । वृणातेः 'ऋहलोर्ण्यत् ,' 'ईडवन्द' इत्युदात्तत्वम् । हे सदावन् सर्वदा विश्वरक्षिन् भागं भजनीयं धनं अभीमहे आभिमुख्येन याचामहे । 'कर्षात्वतः' इत्यन्तोदात्तत्वम् ॥
10 द्वितीया - मही द्यौरिति ॥ व्याख्यातेयं 'सूर्यो देवः' इत्यत्र । मही महती द्यौः पृथिवी च नोस्माकं इमं यज्ञं मिमिक्षतां सिञ्चताम्, पिपृतां प्रीणयतां चास्मान् । भरीमभिः भरणप्रकारैरिति ॥
11 तृतीया - त्वमग्ने इति ॥ हे अग्ने त्वां अथर्वा ऋषिः पुष्करात्पुष्करपर्णात् अधि उपरि निरमन्थत पुष्करपर्णस्थं मन्थनेन ततो निष्कृष्य अलभत । यथोक्तम् - 'पुष्करपर्णे ह्येनमुपश्रितमविन्दत्' इति । कीदृशात्? मूर्ध्नः मूर्धस्थनीयात् प्रधानभूतात् पुष्करपर्णात् । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । विश्वस्य वाघतः ऋत्विक्समुदायस्य [वाहकात्] उदकात्प्राणो निरमन्थदित्येके ॥
12 चतुर्थी - तमु त्वेति ॥ तमेव त्वा दध्यङ्नाम ऋषिः अथर्वणः पुत्रः ईधे दीपयामास । 'इन्धिभवतिभ्यां च' इति कित्त्वात् 'अनिदिताम्' इति लोपः । वृत्रहणं वृत्रस्यासुरस्य पाप्मनो वा हन्तारं पुरन्दरं पुरामसुरसम्बन्धिनीनां दारयितारम् । 'पूस्सर्वयोः' इति खच्, 'वाचयमपुरन्दरौ' इति निपात्यते ॥
13 पञ्चमी - तमु त्वा पाथ्य इति ॥ तमेव त्वां पाथ्यो नाम ऋषिः वृषा प्रधानः समीधे दीपितवान् दस्युहन्तमं दस्यूनां हन्तृतमं हन्तारम् । 'नाढ्घस्य' इति नुट् । धनञ्जयं धनानां जेतारं रणेरणे संग्रामे । पूर्ववत्खच् ।'अनुदात्तं च' इति द्वितीयो रणशब्दोनुदात्तः ॥
14 षष्ठी - उत ब्रुवन्त्विति ॥ उत अपि च जन्तवः मनुष्या ऋत्विगादयः ब्रुवन्तु स्तुतिं कुर्वन्तु । अयमग्निः वृत्रहा पापादेर्हन्ता उदजनि धनंजयो रणेरणे ॥
15 अथ सप्तमी - आ यमिति ॥ यमग्निमध्वर्युः हस्ते अञ्जलौ बिभ्रति । विभक्तिवचनव्यत्ययः । यद्वा - लेटि अडागमे 'नाभ्यस्तस्याचि' इति गुणाभावः । 'ससाधनां क्रियामुपसर्ग आह' इति आ इत्यागतोग्निरुच्यते । आगतमेवाग्निं बिभर्ति, न खादिनं हविर्भुञ्जानं ज्वलदवस्थमित्यर्थः । यथाऽऽहुः - 'जातमध्वर्युरर्ञ्जालिना गृह्णाति' इति । शिशुं जातं न जातमिव, यथा मात्रादयो जातमात्रमेव शिशुं हस्ते बिभ्रति । अग्निर्विशेष्यते - विशां मनुष्याणां स्वध्वरं शोभनयज्ञम्; अवितथफलसाधनत्वात् । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । 'सावेकाचः' इति विशो विभक्तिरुदात्ता । सोयमग्निरुदजनीति ॥
16 अथाष्टमी - प्र देवमिति ॥ देवमग्निं वसुवित्तर्मं धनानां लब्धृतमं प्रभरत । सांहितिकं दीर्घत्वम् । देववीतये देवानां यागाय, देवा वियन्ति भुञ्जतेऽस्मिन्निति । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । सोयं स्वे योनौ आहवनीयस्थाने आहवनीये निषीदतु आगत्यास्ताम् ॥
17 अथ नवमी - आ जातमिति ॥ जातमिममग्निं जातवेदसि आहवनीये अग्नौ आशिशीत आनीय तीक्ष्णं कुरुत । अध्यर्थे वा आकारः । आहवनीयस्योपरि तीक्ष्णं कुरुतेति । ज्वालावत्तीक्ष्णत्वम्, महत्त्वं वा । प्रियमतिथिमिव, यथा प्रियमतिथिमागतं पूजया तर्पयन्ति एवममुं ग्रहपतिं ग्रहाणां पातारमग्निं स्योने स्थाने वा आशिशीत । आकारस्समुच्चये । शेतेर्लेटि शपश्श्लुः, 'ई हल्यघोः' इतीत्वम् ॥
18 दशमी - अग्निनेति ॥ 'यस्त्वा हृदा' इत्यत्र व्याख्याता । अग्निना प्रभूतेनाग्निना आहवनीयः समिध्यते । कविः क्रान्तदर्शनः ग्रहपतिः ग्रहाणां पाता युवा हविषां देवैर्मिश्रयिता । यद्वा - नित्यतरुणः । हव्यवाट् वोढा च हविषाम् । जुह्वास्यः जुहूरास्यस्थानीया यस्येति ॥
19 एकादशी - त्वं हीति ॥ इयमपि तत्रैव व्याख्याता । हे अग्ने त्वमग्निना प्रणीयमानेन विप्रः मेधावी विप्रेण तादृशेन सन् समीचीनकामस्सन् सता तादृशेन सखा समानख्यानः सख्या तादृशेन । हि हेतौ । यस्मादीदृशः तस्मादेतेन त्वं समिध्यसे इति ॥
20 द्वादशी - तमिति ॥ तमग्निं सुक्रतुं शोभनकर्माणम् । 'क्रत्वादयश्च' इत्युत्तरपदान्तोदात्तत्वम् । पुरोयावानमग्रेगन्तारम् । 'आतो मनिन्' इति वनिप् । आजिषु यज्ञभूमिषु स्वेषु क्षयेषु स्वेषु स्थानेषु वाजिनं हविषा तद्वन्तं; तत्र तत्र यष्टव्यत्वात् । 'क्षयो निवासे' इत्याद्युदात्तत्वम् । ईदृशं मर्जयन्त संस्कुर्वन्ति । मृजेर्ण्यन्ताच्छान्दसो लङ्, वृद्ध्यभावश्छान्दसः, 'बहुलं छन्दस्यमाङ्योगेऽपि इत्यडभावः । तस्माद्वयमपि संस्कुर्म इति ॥
21 त्रयोदशी - यज्ञेनेति ॥ इज्यते इति यज्ञोग्निः । 'यज याच' इति नङ्प्रत्ययः । तेनेतरमग्निमयजन्त यजन्ते देवाः ऋत्विजः । स एव लङ् । यत्रैव तदेव क्रियते । तानि धर्माणि कर्माणि प्रथमानि मुख्यानि आसन् हिंसारहितानि अभावयन् । 'बहुलमन्यत्रापि' इति णिलुक् । ये त्वेवं कुर्वन्ति ते ह त एव नाकं स्वर्गं महिमवन्तः महिमानः । मत्वर्थीयो लुप्यते । नाको विशेष्यते - यत्र पूर्वे साध्याः साधकाः यजमानाः देवाः देवीभूतास्सन्ति इदानीमपि तत्र विद्यन्ते । साधयतेः 'अचो यत्' इति कर्तरि यत्, णिलोपः, 'यतो नावः' इत्याद्युदात्तत्वे उदात्तनिवृत्तिस्वरेण यत उदातत्वम् । तस्माद्वयमप्येतेन कर्मणा तद्धनं सचेमहीति ॥
इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीये काण्डे पञ्चमप्रश्ने एकादशोनुवाकः पञ्चमः प्रश्नस्समाप्तः ॥

समाप्तश्च तृतीयः काण्डः ॥

……………………………………………………………………………………………………………

पञ्चशत् 2 #
TS 3.5.11.2 TS 3.5.11.2
अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनिं᳚ । कु॒ला॒यिनं॑ घृ॒तव॑न्तꣳ सवि॒त्रे य॒ज्ञ्ं न॑य॒ यज॑मानाय सा॒धु ॥ सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञ्ꣳ सु॑कृ॒तस्य॒ योनौ᳚ । दे॒वा॒वीर्दे॒वान्. ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्-यज॑माने॒ वयो॑ धाः ॥ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ् सु॒दक्षः॑ । अद॑ब्धव्रत-प्रमति॒र्वसि॑ष्ठः सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥ त्वं दू॒तस्त्व - [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । विश्वे॑भिः । स्व॒नी॒केति॑ सु - अ॒नी॒क॒ । दे॒वैः । ऊर्णा॑वन्त॒मित्यूर्णा᳚-व॒न्त॒म् । प्र॒थ॒मः । सी॒द॒ । योनि᳚म् ॥ कु॒ला॒यिन᳚म् । घृ॒तव॑न्त॒मिति॑ घृ॒त - व॒न्त॒म् । स॒वि॒त्रे । य॒ज्ञ्म् । न॒य॒ । यज॑मानाय । सा॒धु ॥ सीद॑ । हो॒तः॒ । स्वे । उ॒ । लो॒के । चि॒कि॒त्वान् । सा॒दय॑ । य॒ज्ञ्म् । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । योनौ᳚ ॥ दे॒वा॒वीरिति॑ देव - अ॒वीः । दे॒वान् । ह॒विषा᳚ । य॒जा॒सि॒ । अग्ने᳚ । बृ॒हत् । यज॑माने । वयः॑ । धाः॒ ॥ नीति॑ । होता᳚ । हो॒तृ॒षद॑न॒ इति॑ होतृ-सद॑ने । विदा॑नः । त्वे॒षः । दी॒दि॒वान् । अ॒स॒द॒त् । सु॒दक्ष॒ इति॑ सु - दक्षः॑ ॥ अद॑ब्धव्रतप्रमति॒रित्यद॑ब्धव्रत - प्र॒म॒तिः॒ । वसि॑ष्ठः । स॒ह॒स्र॒भं॒र इति॑ सहस्रं - भ॒रः । शुचि॑जिह्व॒ इति॒ शुचि॑ - जि॒ह्वः॒ । अ॒ग्निः ॥ त्वम् । दू॒तः । त्वम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.5.11.3 TS 3.5.11.3
मु॑ नः पर॒स्पास्त्वं ॅवस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न् दीद्य॑द्बोधि गो॒पाः ॥ अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ ॅवार्या॑णां । सदा॑ऽवन् भा॒गमी॑महे ॥ म॒ही द्यौः पृ॑थि॒वी च॑न इ॒मं ॅय॒ज्ञ्ं मि॑मिक्षतां । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दद्ध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्द्ध्नो विश्व॑स्य वा॒घतः॑ ॥ तमु॑ - [ ]
पदपाठः (Word-by-word)
उ॒ । नः॒ । प॒र॒स्पा इति॑ परः - पाः । त्वम् । वस्यः॑ । एति॑ । वृ॒ष॒भ॒ । प्र॒णे॒तेति॑ प्र - ने॒ता ॥ अग्ने᳚ । तो॒कस्य॑ । नः॒ । तने᳚ । त॒नूना᳚म् । अप्र॑युच्छ॒नित्यप्र॑ - यु॒च्छ॒न्न् । दीद्य॑त् । बो॒धि॒ । गो॒पा इति॑ गो-पाः ॥ अ॒भीति॑ । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् ॥ सदा᳚ । अ॒व॒न्न् । भा॒गम् । ई॒म॒हे॒ ॥ म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञ्म् । मि॒मि॒क्ष॒ता॒म् ॥ पि॒पृ॒ताम् । नः॒ । भरी॑मभि॒रिति॒ भरी॑म-भिः॒ ॥ त्वाम् । अ॒ग्ने॒ । पुष्क॑रात् । अधीति॑ । अथ॑र्वा । निरिति॑ । अ॒म॒न्थ॒त॒ ॥ मू॒र्द्ध्नः । विश्व॑स्य । वा॒घतः॑ ॥ तम् । उ॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.5.11.4 TS 3.5.11.4
त्वा द॒द्ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरन्द॒रं ॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मं । ध॒नं॒ ज॒यꣳ रणे॑रणे ॥ उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाऽज॑नि । ध॒नं॒ ज॒यो रणे॑रणे ॥ आ यꣳ हस्ते॒ न खा॒दिनꣳ॒॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्निꣳ स्व॑द्ध्व॒रं ॥ प्रदे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मं । आस्वे योनौ॒ नि षी॑दतु ॥ आ - [ ]
पदपाठः (Word-by-word)
त्वा॒ । द॒द्ध्यङ् । ऋषिः॑ । पु॒त्रः । ई॒धे॒ । अथ॑र्वणः ॥ वृ॒त्र॒हण॒मिति॑ वृत्र - हन᳚म् । पु॒र॒न्द॒रमिति॑ पुरं - द॒रम् ॥ तम् । उ॒ । त्वा॒ । पा॒थ्यः । वृषा᳚ । समिति॑ । ई॒धे॒ । द॒स्यु॒हन्त॑म॒मिति॑ दस्यु - हन्त॑मम् ॥ ध॒न॒ञ्ज॒यमिति॑ धनं - ज॒यम् । रणे॑रण॒ इति॒ रणे᳚ - र॒णे॒ ॥ उ॒त । ब्रु॒व॒न्तु॒ । ज॒न्तवः॑ । उदिति॑ । अ॒ग्निः । वृ॒त्र॒हेति॑ वृत्र - हा । अ॒ज॒नि॒ ॥ ध॒न॒ञ्ज॒य इति॑ धनं - ज॒यः । रणे॑रण॒ इति॒ रणे᳚-र॒णे॒ ॥ एति॑ । यम् । हस्ते᳚ । न । खा॒दिन᳚म् । शिशु᳚म् । जा॒तम् । न । बिभ्र॑ति ॥ वि॒शाम् । अ॒ग्निम् । स्व॒द्ध्व॒रमिति॑ सु - अ॒ध्व॒रम् ॥ प्रेति॑ । दे॒वम् । दे॒ववी॑तय॒ इति॑ दे॒व - वी॒त॒ये॒ । भर॑त । व॒सु॒वित्त॑म॒मिति॑ वसु॒वित्-त॒म॒म् ॥ एति॑ । स्वे । योनौ᳚ । नीति॑ । सी॒द॒तु॒ ॥ एति॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.5.11.5 TS 3.5.11.5
जा॒तं जा॒तवे॑दसि प्रि॒यꣳ शि॑शी॒ताऽति॑थिं । स्यो॒न आ गृ॒हप॑तिं ॥ अ॒ग्निना॒ऽग्निः समि॑द्ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वाड् जु॒ह्वा᳚स्यः ॥त्वꣳ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ्स॒ता । सखा॒ सख्या॑ समि॒द्ध्यसे᳚ ॥ तं म॑र्जयन्त सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ । स्वेषु॒ क्षये॑षु वा॒जिनं᳚ ॥ य॒ज्ञेन॑ य॒ज्ञ्म॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते॒ यत्र॒ ( ) पूर्वे॑ सा॒द्ध्याः सन्ति॑ दे॒वाः ॥
पदपाठः (Word-by-word)
जा॒तम् । जा॒तवे॑द॒सीति॑ जा॒त - वे॒द॒सि॒ । प्रि॒यम् । शि॒शी॒त॒ । अति॑थिम् ॥ स्यो॒ने । एति॑ । गृ॒हप॑ति॒मिति॑ गृ॒ह - प॒ति॒म् ॥ अ॒ग्निना᳚ । अ॒ग्निः । समिति॑ । इ॒द्ध्य॒ते॒ । क॒विः । गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । युवा᳚ ॥ ह॒व्य॒वाडिति॑ हव्य - वाट् । जु॒ह्वा᳚स्य॒ इति॑ जु॒हु - आ॒स्यः॒ ॥ त्वम् । हि । अ॒ग्ने॒ । अ॒ग्निना᳚ । विप्रः॑ । विप्रे॑ण । सन्न् । स॒ता ॥ सखा᳚ । सख्या᳚ । स॒मि॒द्ध्यस॒ इति॑ सं - इ॒ध्यसे᳚ ॥ तम् । म॒र्ज॒य॒न्त॒ । सु॒क्रतु॒मिति॑ सु - क्रतु᳚म् । पु॒रो॒यावा॑न॒मिति॑ पुरः - यावा॑नम् । आ॒जिषु॑ ॥ स्वेषु॑ । क्षये॑षु । वा॒जिन᳚म् ॥ य॒ज्ञेन॑ । य॒ज्ञ्म् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न्न् ॥ ते । ह॒ । नाक᳚म् । म॒हि॒मानः॑ । स॒च॒न्ते॒ । यत्र॑ ( ) । पूर्वे᳚ । सा॒द्ध्याः । सन्ति॑ । दे॒वाः ॥
पदसंख्या: 54