अनुवाकः 2 TS 3.5.2

(A2)

(जि॒न्वेत्य - व॑ - प्र॒जा जि॑न्व - प्रा॒णन् - त्रिꣳ॒॒शच्च॑)

अनुवाकः 2 - Complete Audio

TS 3.5.2 - स्वरानुगामी

0:00 0:00
PS1.1 ऋष॑यो॒ वा इन्द्रं॑ प्र॒त्यक्षं॒
PS1.2 नाप॑श्य॒न् तं ॅवसि॑ष्ठः प्र॒त्यक्ष॑मपश्य॒थ्
PS1.3 सो᳚ऽब्रवी॒द्-ब्राह्म॑णं ते वक्ष्यामि॒ यथा॒
PS1.4 त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒
PS1.5 ऋषि॑भ्यो॒ मा प्रवो॑च॒ इति॒
PS1.6 तस्मा॑ ए॒तान्थ्स्तोम॑-भागानब्रवी॒त् ततो॒ वसि॑ष्ठपुरोहिताः
PS1.7 प्र॒जाः प्राजा॑यन्त॒ तस्मा᳚द्-वासि॒ष्ठो ब्र॒ह्मा
PS1.8 का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒
PS1.9 क्षया॑य त्वा॒ क्षयं॑ जि॒न्वे
PS1.10 - [ ]
PS2.1 -त्या॑ह दे॒वा वै क्षयो॑
PS2.2 दे॒वेभ्य॑ ए॒व य॒ज्ञ्ं प्राऽऽ*ह॒
PS2.3 प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑
PS2.4 जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑
PS2.5 मनु॒ष्ये᳚भ्य ए॒व य॒ज्ञ्ं प्राऽऽ*हान्वि॑तिरसि
PS2.6 दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्या॑है॒भ्य
PS2.7 ए॒व लो॒केभ्यो॑ य॒ज्ञ्ं प्राऽऽ*ह॑विष्ट॒म्भो॑ऽसि॒
PS2.8 वृष्ट्यै᳚ त्वा॒ वृष्टिं॑ जि॒न्वेत्या॑ह॒
PS2.9 वृष्टि॑मे॒वाव॑ - [ ]
PS3.1 रुन्धे प्र॒वाऽस्य॑नु॒वाऽसीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒
PS3.2 वसू᳚ञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा
PS3.3 द्वाद॑शाऽऽ*दि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑
PS3.4 ए॒व य॒ज्ञ्ं प्राऽऽ*हौजो॑ऽसि पि॒तृभ्य॑स्त्वा
PS3.5 पि॒तॄन् जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒
PS3.6 सन्त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा
PS3.7 जि॒न्वे - [ ]
PS4.1 -त्या॑ह पि॒तॄने॒व प्र॒जा अनु॒
PS4.2 सन्त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह
PS4.3 प्र॒जा ए॒व प॒शूननु॒ सन्त॑नोतिरे॒वद॒स्यो-ष॑धीभ्य॒
PS4.4 स्त्वौष॑धी-र्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून् प्रति॑ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒
PS4.5 त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑
PS4.6 त्वा प्रा॒णं - [
PS4.7 ]
PS5.1 जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान् द॑धाति
PS5.2 त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सꣳरो॒हो॑ऽसि
PS5.3 नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा᳚त्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒
PS5.4 वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.5.2.1 TS 3.5.2.1
ऋष॑यो॒ वा इन्द्रं॑ प्र॒त्यक्षं॒ नाप॑श्य॒न् तं ॅवसि॑ष्ठः प्र॒त्यक्ष॑मपश्य॒थ् सो᳚ऽब्रवी॒द्-ब्राह्म॑णं ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्रवो॑च॒ इति॒ तस्मा॑ ए॒तान्थ्स्तोम॑-भागानब्रवी॒त् ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒ तस्मा᳚द्-वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जि॒न्वे - [ ]
पदपाठः (Word-by-word)
ऋष॑यः । वै । इन्द्र᳚म् । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । न । अ॒प॒श्य॒न्न् । तम् । वसि॑ष्ठः । प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । अ॒प॒श्य॒त् । सः । अ॒ब्र॒वी॒त् । ब्राह्म॑णम् । ते॒ । व॒क्ष्या॒मि॒ । यथा᳚ । त्वत्पु॑रोहिता॒ इति॒ त्वत् - पु॒रो॒हि॒ताः॒ । प्र॒जा इति॑ प्र - जाः । प्र॒ज॒नि॒ष्यन्त॒ इति॑ प्र - ज॒नि॒ष्यन्ते᳚ । अथ॑ । मा॒ । इत॑रेभ्यः । ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ । मा । प्रेति॑ । वो॒चः॒ । इति॑ । तस्मै᳚ । ए॒तान् । स्तोम॑भागा॒निति॒ स्तोम॑ - भा॒गा॒न् । अ॒ब्र॒वी॒त् । ततः॑ । वसि॑ष्ठपुरोहिता॒ इति॒ वसि॑ष्ठ - पु॒रो॒हि॒ताः॒ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । अ॒जा॒य॒न्त॒ । तस्मा᳚त् । वा॒सि॒ष्ठः । ब्र॒ह्मा । का॒र्यः॑ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । र॒श्मिः । अ॒सि॒ । क्षया॑य । त्वा॒ । क्षय᳚म् । जि॒न्व॒ । इति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

( अथ तृतीयकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः) ।

इष्टरन्वारम्भणीया समन्त्रा प्रथमे श्रुता ।

अथ द्वितीयानुवाके सौमिकब्रह्मत्वाविधिरुच्यते ।

यदुक्तं सूत्रकारेण “वासिष्ठो ब्रह्मा ज्योतिष्टोमे यो वा कश्चित्स्तौमभागान्विद्यात्” इति । तदेतद्विधातुं प्रस्तौति-ऋषयो वा इति । वसिष्ठप्रमुखाः सर्वेऽप्यृषयः कदाचिदिन्द्रमुखा मन्त्रविशेषानवगन्तुमागतास्तदानीमिन्द्रोऽनधिकारिभ्यो मन्त्रा न वक्तव्या यत्यभिप्रेत्यान्तर्हितोऽभूत् । अन्त

र्धानं प्राप्यावस्थितं तमिन्द्रमृषयश्चक्षुषा नापश्यन् । तदानीं योगसामर्थ्ययुतो वसिष्ठो दिव्येन चक्षुषा तमिन्द्रमपश्यत् । स इन्द्रस्तं वसिष्ठं प्रत्येवमब्रवीत् । सौमिकब्रह्मत्वो-पयोगिमन्त्रजातं यस्मिन्प्रतिपाद्यते तादृशं ब्राह्मणमहं तुभ्यं वक्ष्यामि । त्वमेव पुरोहितो मन्त्रोपदेष्टा यासां प्रजानां तास्त्वत्पुरोहितास्तथाविधाः प्रजा यथो त्पत्स्यन्ते यथा-विधमेतद्वक्ष्यमाणस्य ब्राह्मणस्य सामर्थ्यात् । तादृशं ब्राह्मणं श्रुत्वाऽथानन्तरं त्वं मामितरेभ्यो मन्त्रानधिकारिभ्य ऋषिभ्यो मा प्रवोच इत्युक्त्वा तस्मै वसिष्ठायैता-न्रश्मिरसीत्यादिकान्स्तोमभागनामकान्मन्त्रानब्रवति् । स्तोमा बहिष्पवमानादीनि स्तोत्राणि तान्त्सतोमान्भजन्त इति स्तोमभागाः । एतान्हि मन्त्रानुच्चार्य ब्रह्मा स्तोत्राण्यभ्यनुजानाति । तस्मादेते स्तोमभागा इत्युच्यन्ते । तत इन्द्रप्रसादात्सर्वाः प्रजा वसिष्ठपुरोहिता उत्पन्नाः । वसिष्ठं गुरुत्वेन पुरस्कृत्य वर्तन्त इत्यर्थः । इदानीं विधत्ते —

तस्माद्वासिष्ठ इति । यस्माद्वसिष्ठस्य ब्रह्मत्वोपयुक्तं सर्वमिन्द्र उक्तवां-स्तिस्मात्सोमयागं चिकीर्षुणा परुषेण यो वसिष्ठगोत्रोत्पन्नस्तदयिविद्यासंप्रदायेन स्तोमभागभिज्ञो वा भवति स एव ब्रह्मा कार्यः । तथा सत्ययं यजमानस्तथाविधाः प्रजा जनयति । ते च स्तोमभाममन्त्राश्चतुर्थकाण्डस्य चतुर्थप्रपाठकादौ समाम्राताः । ते चैकत्रिंशत्संख्याकाः । तेष्वेकैको मन्त्र एकैकं स्तोत्रमभ्यनुज्ञातुं ब्रह्मणा प्रयोक्तव्यः । अत एव सूत्रकार आह – “रश्मिरसि क्षयाय त्वा क्षयं जिन्वो स्तुतेति प्रसौति सर्वस्तोत्राणामेष कल्प उत्तरमुत्तरं स्तोमभागानां दधाति द्वादशाग्निष्टोमे पश्चादशोक्थ्ये षोडश षोडशिनि सप्तदश वाजपेय एकोनत्रिंशतमतिरात्रे त्रयस्त्त्रिंशत्तमाप्तोर्न्यामे” इति तत्रैकत्रिंशं स्तोमभागं त्रिरावृत्य [ वर्त्म] त्रयस्रिंशत्संख्याऽप्तोर्यामे पूरणीया ।

तत्र प्रथमं स्तोमभागमनूद्य व्याचष्टे —

रश्मिरसीति । पञ्चमकाण्डोक्तब्राह्मणे रश्मिरित्येवाऽऽदित्यमसृजत प्रेतिरिति धर्ममित्यादिना मन्त्राणामादित्यसृष्टिहेतुत्वाभिधानादादित्यादिपरतया मन्त्रा व्याख्येयाः । हे आदित्य त्वं रश्मिरसि रश्मियुक्तोऽसि । देवा यस्मिन्संघे क्षियन्ति निवसन्ति सोऽयं संघः क्षयस्तस्मै क्षयाय देवसंघाय तत्प्रीत्यर्थं हे आदित्य त्वां

स्मरामि । अतः देवसंघ जिन्व प्रीणय । अस्मिन्मंत्रे क्षयशब्दस्य देवा एवार्थः । अतो देवेभ्य एवैनं यज्ञं होता प्रोक्तवान्भवति ।

द्वितीयस्तोमभागे धर्मानुष्ठातृत्वान्मनुष्या धर्मशब्देन विवक्षिता इत्येतद्दर्शयति —

प्रतिरसीति । हे धर्माभिमानिदेव त्वं प्रेतिरसि प्रकृष्टोतिर्गतिः प्राण्युप-काररूपा यस्यासौ प्रेतिः । अतो धर्मानुष्ठातृपुरुषार्थं त्वां स्मरामि । तं धर्मानुष्ठातृ-पुरुषंप्रीणय । अनेन मन्त्रेण धर्मोपलक्षितमुष्यार्थमिमं मन्त्रमुक्तवान्भवति ।

तृतीयचतुर्थपञ्चमस्तोमभागानां तात्पर्यं दर्शयति —

अन्वितिरसीति । हे द्युलोकाभिमानिदेव त्वमन्वितिरसि । देवानामनुकूलेति र्गतिर्यस्यासावन्वितिः । तादृशं त्वा द्युलोकार्थं स्मरामि । तं च द्युलोकं प्रीणय । यद्यप्यन्तरिक्षभूलोकप्रतिपादकौ चतुर्थपञ्चमौ स्तोमभागावत्र नानूदितौ तथापि तृतीयस्य तदुपलक्षकत्वमभिप्रेत्यैभ्य एव लोकेभ्य इति समुदायतात्पर्यं दर्शितम् । षष्ठस्तोमभागं वृष्टिप्राप्तिहेतुत्वेन प्रसंसति —

विष्टम्भोऽसीति । हे वृष्ट्यभिमानिदेव त्वं विष्टम्भो सि विशेषेणोदकस्य धारकोऽसि । सप्तमाष्टमस्तोमभागयोः प्रतीकद्वयमनुद्याह्नो रात्रेश्च प्रतिपादकत्वेन मिथुनत्वसंपतिं दर्शयति —

प्रवाऽस्यनुवाऽसीति । हेऽहरभिमानिदेव त्वं प्रवाऽसि । जगत्प्रवास-कत्वरूपेण प्रकर्षेण वाति गच्छति प्रवर्तत इति प्रवा । हे रात्र्यभिमानिदेव त्वमनुवा-ऽसि । निद्रादिव्यवहारस्यानुकूलत्वेन वाति गच्छति वर्तत इत्यनुवा । तयोर्द्वंद्वेन मिथुनत्वप्राप्तिसाधनत्वम् ।

नवमदशमैकादशस्तोमभागानां संग्रहेण तात्पर्यं दर्शयति —

उशिगसीति । हे वसुगणपालक त्वमुशिगसि । उसिक्कामयमानः । रुद्रादित्यप्रतिपादकयोरपि स्तोमभागयोर्वसुविषयस्तामेभागनैवोपलक्षितत्वात्संगृह्य तात्पर्याभिधानम् ।

देवप्रतिपादकेभ्यस्त्रिभ्यः स्तोमभागेभ्य ऊर्ध्वं पितृप्रतिपादकस्य द्वादशस्य स्तोमभागस्याभिधानाद्देवानां पितृणां च नैरन्तर्यं संपादितं भवतीत्यतेद्दर्शयति —

ओजोऽसीति । हे पितृपालक देव त्वमोजोऽसि बलरूपोऽसि ।

पितृप्रतिपादकस्तोमभागादूर्ध्वं प्रजापतिपादकस्य त्रयोदशस्य स्तोमभागस्याभिधानात्पितृणां च नैरन्तर्यं सिध्यतीत्येतद्दर्शयति ।

तन्तुरसीति । हे प्रजाभिमानिदेव त्वं तन्तुरसि पुत्रपौत्रादिविस्तारहेतुरसि । पशुप्रतिपादकेन चतुर्दशेन स्तोमभागेन प्रजानां च पशूनां च नैरन्तर्यं सिध्यतीत्येतद्दर्शयति —

पृतनाषाडसीति । हे पशुपालक देय त्वं पृतनाषाडसि । पृतनां परकीयसेना मस्मत्पशूनामपहन्त्री सहते विनाशयतीति पृतनाषाट् ।

ओषधिप्रतिपादकेन पञ्चदशेन स्तोमभागेन पशुस्तोमभागानन्तरभाविनां पशूनामोषधीषु प्रतिष्ठापनं भवतीत्येतद्दर्शयति ।

रेवदस्योषधीभ्य इति । हे ओषधिपालक देव त्वं रेवदसि धनवानसि । पञ्चमकाण्डे रश्मिरित्येवाऽऽदित्यमसृजतेत्यारभ्य रेवदित्योषधीरित्यन्तेषु पञ्चदशेषु (शसु) मन्त्रेष्वसृजतेति ब्राह्मणेन व्याख्यातत्वात्तदभिमानिदेवपरत्वेन मन्त्राणामा-दिवाक्यान्यस्माभिर्व्याख्यातानि । अथ षोडशस्तोमभागस्याऽऽदिवाक्यं वज्रपरत्वेन तत्रैव व्याख्यातमतोऽत्रापि वज्रसाध्याभिजयार्थत्वं दर्शयति —

अभिजीदसीति । हे वज्र त्वमभिजिद्युक्तग्रावाऽसि । अभितो जयती-त्यभिजित् । युक्ताः संयुक्ता ग्रावाणो यस्यासौ युक्तग्रावा । यथा पाषाणा दृढ एवमस्यापि दृढत्वात्पाषाणगुणेन दार्ढ्येन संयोग एव ग्रावसंयोग इत्युच्यते ।

सप्तदशेन स्तोमभागेन प्राणानां स्थापनं दर्शयति---

अधिपतिरसीति । हे प्राणाभिमानिदेव त्वमधिपतिरसि प्राणानामाधिक्येन पालयिताऽसि । अपानचक्षुःश्रोत्रप्रतिपादकानामष्टादशैकोनविंशविंशानां प्रयाणस्तोमभागानां प्राणपतिपादकस्तोमभागेनैवापलक्षितत्वमभिप्रेत्य संग्रहेण तात्पर्यं दर्शयितुं प्राणानिति बहुवचनं निर्तिष्टम् ।

एकाविशद्द्वाविंशस्त्रयोविंशञ्चतुर्विंशानां स्तोमभागानां चतुर्णीं मिथु-नत्वसंपादकत्वं दर्शयति —

त्रिवृदसीति । हे मिथुनीभाव त्वं त्रिगुणोऽसि पर्वर्तकश्चासि । पुमान्योषित्संयोगश्चैवं त्रैगुण्यम् । संयोगानन्तरभावी मन्थनव्यापारः प्रवृत्तिः । एताभ्यां त्रैगुण्यप्रवृत्तिप्रतिपादकाभ्यां मन्थनसमाप्तिविश्लेषपूरमिथुनीभावा-वयवद्वयप्रतिपादकावुत्तरावपि स्तोमभागावुपलक्ष्येते । संवृन्मन्थनव्यापारसमाप्तिः । विवृद्दपत्योर्विश्लेषः । अनेन स्तोमभागचतुष्ट्येन मिथुनत्वं साकल्येन संपादितम् ।

पञ्चविंशषड्विंशसप्तविंशाष्टाविंशानां स्तोमभागानां चतुर्णां प्रजोत्पादनपरत्वं दर्शयति —

सरोहोऽसीति । हे प्रजननव्यापार त्वं संरोहोऽसि नीरोहश्चासि । शुक्रशोणितसंश्लेषेण गर्भाभिव्यक्तिः संरोहः । निःशेषाणामवयवानामभिव्यक्तिर्नीराहेः एताभ्याभुभाभ्यां स्तोमभागाभ्यां प्ररोहप्रतिपादकावन्यात्रपि स्तोमभागावुपलक्ष्येते । प्रथमस्यापत्यस्योत्पत्तिः प्ररोहः । पश्चाद्भाविनामपत्यानामुत्पत्तिरनुरोहः । एतेन स्तोमभागचतुष्टयेन प्रजोत्पत्तिः संपद्यते ॥

एकोनत्रिंशैकत्रिंशस्तोमभागौस्त्रिभिरुत्पन्नानां प्रजानां प्रतिष्ठां दर्शयति —

वसुऽकोसीति । हे उत्पन्नप्रजाभिमानिदेव त्वं वसुको वासयिताऽसि । वेषायानुकूला श्रीर्यस्य सः । व्याप्तिसमर्थश्चासि वसेर्निवासस्याष्टिर्व्याप्तिर्यस्यासौ वस्यष्टिः । अनेन स्तोमभागत्रयेण प्रजानां प्रतिष्ठा संपद्यते ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णय-जुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे पञ्चमप्रपाठके

द्वितीयोऽनुवाकः ॥ २ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ऋषयो वा इत्यादि ॥ ब्रह्मैव ब्राह्मणम् । जातावेकवचनम् । ब्राह्मणमन्त्रांस्तव वक्ष्यामीति । यद्वा - ब्रह्मत्वसाधनं ब्राह्मणं ज्ञानं तद्वक्ष्यामि । शान्तिकादिकर्तृत्वसामान्यात् पुरोहितशब्देन ब्रह्मोच्यते । शान्तिकादिषु पुरस्तान्निधीयते स्थाप्यते इति । 'त्वं पुरोहितो ब्रह्म यासां तादृश्यः प्रजाः प्रजनिष्यन्ते येन तादृशं तव ब्राह्मणं ब्रह्मत्वप्रदं ज्ञानं मन्त्रजातं वा ते वक्ष्यामि । एतत्त्वमितरेभ्यः ऋषिभ्यो मा प्रवोचः इति वसिष्ठमब्रवीदिन्द्रः । उस्त्वा च तस्मै वसिष्ठाय एतान् स्तोमभागान् 'रश्मिरसि' इत्यादीन् अब्रवीत् । ततो वसिष्ठपुरोहिताः वासिष्ठकाः प्रजाः प्राजायन्त । तस्माद्वासिष्ठो ब्रह्मा कार्यः स्तोमभागान्विद्यादिति सामर्थ्याद्गम्यते तेन प्रैव जायते यजमानः । वसिष्ठशब्दादृष्यण् । अत्रायं प्रयोगक्रमः - यत्राह ब्रह्मन् स्तोष्यामः प्रशास्तरिति तद्ब्रह्म प्रसौति 'देव सवितः' इत्येतां प्रतिपदमुक्त्वा 'रश्मिरसि क्षयाय त्वा क्षयं जिन्व' इति एतस्यानुवाकस्य एकैकमुपादाय प्रसौति । एवमेव प्रसवद्वादशभिः अग्निष्टोमं प्रसौति, त्रयोदशभिरत्यग्निष्टोमं, पञ्चदशभिरुक्थ्यं, षोडशभिष्षोडशिनम्, सप्तदशभिर्वाजपेयम्, एकोनत्रिंशताऽतिरात्रम्, सर्वैरप्तोर्यामम् । यत्र राथन्तराय सन्धये सर्पन्ति तदाह - 'वसुकोसि वेषश्रिरसि वस्यष्टिरसि' इति । एवमेव प्रसौत्याप्तोर्यामादिति । यज्ञस्य स्तोमानां तेजोभागाः स्तोमभागाः । उक्तं च - 'बृहस्पतिर्वा एतद्यज्ञस्य तेजस्समभरद्यत्स्तोमभागाः' इति । दासीभारादीत्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥
2 -5इदानीं मन्त्रपदानि व्याचष्टे - रश्मिरसीत्यादि ॥ क्षयति निवसत्यस्मिन्विश्वमिति गतम् ॥
6 -7प्रवाऽस्यनुवाऽसीति द्वयोर्ग्रहणम् ॥
8 -10उशिगसीत्यादीनां त्रयाणां वस्वादिमन्त्राणां ग्रहणम् । तदाह - अष्टौ वसव इत्यादि । देवानेवेत्यादि । स्थापयति ॥
11 प्रजा एवेति ॥ पितॄणामनन्तरं प्रजास्सन्तनोति, प्रजानां पशून् सन्तनोति ॥
12 -13रेवदसीत्यादि ॥ गतम् ॥
14 -16अधिपतिरसीत्यादि ॥ चतुर्णां प्राणादिमन्त्राणां ग्रहणम् । प्राणानिति । प्राणापानचक्षुश्रोत्राणि । मिथुनत्वायेति 'तासु त्रिवृदसीत्येव मिथुनमदधात्' इति दर्शनात् ॥
17 -21संरोहोसीत्यादीनां चतुर्णां प्रजननमन्त्राणां ग्रहणम् । 'तास्संरोहोसि नीरोहोसीत्येव प्राजनयत्' इति दर्शनात् । प्रतिष्ठित्या इति । 'प्रजा एव प्रजाता एषु लोकेषु प्रतिष्ठापयति' इति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
इति तृतीये पञ्चमे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 3.5.2.2 TS 3.5.2.2
-त्या॑ह दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञ्ं प्राऽऽ*ह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये᳚भ्य ए॒व य॒ज्ञ्ं प्राऽऽ*हान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञ्ं प्राऽऽ*ह॑विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै᳚ त्वा॒ वृष्टिं॑ जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑ - [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । दे॒वाः । वै । क्षयः॑ । दे॒वेभ्यः॑ । ए॒व । य॒ज्ञ्म् । प्रेति॑ । आ॒ह॒ । प्रेति॒रिति॒ प्र - इ॒तिः॒ । अ॒सि॒ । धर्मा॑य । त्वा॒ । धर्म᳚म् । जि॒न्व॒ । इति॑ । आ॒ह॒ । म॒नु॒ष्याः᳚ । वै । धर्मः॑ । म॒नु॒ष्ये᳚भ्यः । ए॒व । य॒ज्ञ्म् । प्रेति॑ । आ॒ह॒ । अन्वि॑ति॒रित्यनु॑-इ॒तिः॒ । अ॒सि॒ । दि॒वे । त्वा॒ । दिव᳚म् । जि॒न्व॒ । इति॑ । आ॒ह॒ । ए॒भ्यः । ए॒व । लो॒केभ्यः॑ । य॒ज्ञ्म् । प्रेति॑ । आ॒ह॒ । वि॒ष्ट॒भं इति॑ वि - स्त॒भंः । अ॒सि॒ । वृष्ट्यै᳚ । त्वा॒ । वृष्टि᳚म् । जि॒न्व॒ । इति॑ । आ॒ह॒ । वृष्टि᳚म् । ए॒व । अवेति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.5.2.3 TS 3.5.2.3
रुन्धे प्र॒वाऽस्य॑नु॒वाऽसीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू᳚ञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शाऽऽ*दि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञ्ं प्राऽऽ*हौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄन् जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सन्त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॒न्वे - [ ]
पदपाठः (Word-by-word)
रु॒न्धे॒ । प्र॒वेति॑ प्र - वा । अ॒सि॒ । अ॒नु॒वेत्य॑नु - वा । अ॒सि॒ । इति॑ । आ॒ह॒ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । उ॒शिक् । अ॒सि॒ । वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ । त्वा॒ । वसून्॑ । जि॒न्व॒ । इति॑ । आ॒ह॒ । अ॒ष्टौ । वस॑वः । एका॑दश । रु॒द्राः । द्वाद॑श । आ॒दि॒त्याः । ए॒ताव॑न्तः । वै । दे॒वाः । तेभ्यः॑ । ए॒व । य॒ज्ञ्म् । प्रेति॑ । आ॒ह॒ । ओजः॑ । अ॒सि॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । त्वा॒ । पि॒तॄन् । जि॒न्व॒ । इति॑ । आ॒ह॒ । दे॒वान् । ए॒व । पि॒तॄन् । अनु॑ । समिति॑ । त॒नो॒ति॒ । तन्तुः॑ । अ॒सि॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । त्वा॒ । प्र॒जा इति॑ प्र - जाः । जि॒न्व॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.5.2.4 TS 3.5.2.4
-त्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सन्त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सन्त॑नोतिरे॒वद॒स्यो-ष॑धीभ्य॒ स्त्वौष॑धी-र्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून् प्रति॑ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णं - [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । पि॒तॄन् । ए॒व । प्र॒जा इति॑ प्र - जाः । अनु॑ । समिति॑ । त॒नो॒ति॒ । पृ॒त॒ना॒षाट् । अ॒सि॒ । प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । त्वा॒ । प॒शून् । जि॒न्व॒ । इति॑ । आ॒ह॒ । प्र॒जा इति॑ प्र - जाः । ए॒व । प॒शून् । अनु॑ । समिति॑ । त॒नो॒ति॒ । रे॒वत् । अ॒सि॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । त्वा॒ । ओष॑धीः । जि॒न्व॒ । इति॑ । आ॒ह॒ । ओष॑धीषु । ए॒व । प॒शून् । प्रतीति॑ । स्था॒प॒य॒ति॒ । अ॒भि॒जिदित्य॑भि - जित् । अ॒सि॒ । यु॒क्तग्रा॒वेति॑ यु॒क्त - ग्रा॒वा॒ । इन्द्रा॑य । त्वा॒ । इन्द्र᳚म् । जि॒न्व॒ । इति॑ । आ॒ह॒ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । अ॒सि॒ । प्रा॒णायेति॑ प्र - अ॒नाय॑ । त्वा॒ । प्रा॒णमिति॑ प्र-अ॒नम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.5.2.5 TS 3.5.2.5
जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान् द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सꣳरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा᳚त्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥
पदपाठः (Word-by-word)
जि॒न्व॒ । इति॑ । आ॒ह॒ । प्र॒जास्विति॑ प्र - जासु॑ । ए॒व । प्रा॒णानिति॑ प्र - अ॒नान् । द॒धा॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒सि॒ । प्र॒वृदिति॑ प्र - वृत् । अ॒सि॒ । इति॑ । आ॒ह॒ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । सꣳ॒॒रो॒ह इति॑ सं - रो॒हः । अ॒सि॒ । नी॒रो॒ह इति॑ निः - रो॒हः । अ॒सि॒ । इति॑ । आ॒ह॒ । प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । व॒सु॒कः । अ॒सि॒ । वेष॑श्रि॒रिति॒ वेष॑- श्रिः॒ । अ॒सि॒ । वस्य॑ष्टिः । अ॒सि॒ । इति॑ । आ॒ह॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ॥
पदसंख्या: 30