ॅयमब॑द्ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं मे॑ स॒ह पत्या॑ करोमि ॥प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्रं॑ नय॒त्वदि॑ति॒र्मद्ध्यं॑ ददताꣳ रु॒द्राव॑सृष्टाऽसि यु॒वा नाम॒ मा मा॑ हिꣳसी॒र्वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे᳚भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावत॒ - [ ]
पदपाठः (Word-by-word)
यम् । अब॑द्ध्नीत । स॒वि॒ता । सु॒केत॒ इति॑ सु-केतः॑ ॥ धा॒तुः । च॒ । योनौ᳚ । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒के । स्यो॒नम् । मे॒ । स॒ह । पत्या᳚ । क॒रो॒मि॒ ॥ प्रेति॑ । इ॒हि॒ । उ॒देहीत्यु॑त्-एहि॑ । ऋ॒तस्य॑ । वा॒मीः । अन्विति॑ । अ॒ग्निः । ते॒ । अग्र᳚म् । न॒य॒तु॒ । अदि॑तिः । मद्ध्य᳚म् । द॒द॒ता॒म् । रु॒द्राव॑सृ॒ष्टेति॑ रु॒द्र-अ॒व॒सृ॒ष्टा॒ । अ॒सि॒ । यु॒वा । नाम॑ । मा । मा॒ । हिꣳ॒॒सीः॒ । वसु॑भ्य॒ इति॒ वसु॑-भ्यः॒ । रु॒द्रेभ्यः॑ । आ॒दि॒त्येभ्यः॑ । विश्वे᳚भ्यः । वः॒ । दे॒वेभ्यः॑ । प॒न्नेज॑नी॒रिति॑ पत् - नेज॑नीः । गृ॒ह्णा॒मि॒ । य॒ज्ञाय॑ । वः॒ । प॒न्नेज॑नी॒रिति॑ पत् - नेज॑नीः । सा॒द॒या॒मि॒ । विश्व॑स्य । ते॒ । विश्वा॑वत॒ इति॒ विश्व॑-व॒तः॒ । वृष्णि॑यावत॒ इति॒ वृष्णि॑य-व॒तः॒ ।