पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अनुवाकः ३ मृत्खनननम्
चतुर्थकाण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः
मन्त्रः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्या᳚म्पू॒ष्णो हस्ता᳚भ्याम्पृथि॒व्यास्स॒धस्थे॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ।
टीका
[अथ चतुर्थाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः]।
***द्वितीये मृदाक्रमणमुक्तम्। अथ तृतीये खननमभिधीयते।
कल्पः — ‘ देवस्य त्वा सवितुः प्रसव इति द्वाभ्यां खनति ” इति।
प्रथममन्त्रपाठस्तु देवस्य त्वेति। स्पष्टोऽर्थः ।
मन्त्रः
ज्योति॑ष्मन्तन्त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्या॑नम् ।
शि॒वम्प्र॒जाभ्योऽहिꣳ॑सन्तम्पृथि॒व्यास्स॒धस्थे॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामि ।
टीका
द्वितीयमन्त्रपाठस्तु— ज्योतिष्मन्तमिति। हेऽग्ने पृथिव्याः सघस्थ उपरिप्रदेशे पुरीष्यं पांसुयोग्यमाग्निं त्वामङ्गिरस इवाहं खनामि। कीदृशं त्वां ज्योतिष्मन्तं ज्वालायुक्तं, सुप्र- १७७६ तीकं सुमुखम्, अजस्रेण भानुना दीद्यानं निरन्तरं वर्तमानेन रश्मिना प्रकाशमानं प्रजाम्यः प्रजोपकारार्थं शिवं शान्तमत एवाहिंसन्तं हिंसामकुर्वन्तम्।
एतन्मन्त्रद्वयसाध्यं स्वननं विधत्ते— ‘देवस्य त्वा सवितुः प्रसव इति खनति प्रसूत्या अथो धूममेवैतेन जनयति ज्योतिष्मन्तं त्वाऽग्ने सुप्रतीकमित्याह ज्योतिरेवैतेन जनयति’ (सं. का. ५ प्र. १ अ. ४) इति।
प्रथममन्त्रे सवितुः प्रसव इत्युच्चारणं प्रेरणाय संपद्यते। किंचैतेन मन्त्रेण धूममेवोत्पादयति न तु ज्वालां, तस्माद्द्वितीयमन्त्रादौ ज्योतिष्मन्तमित्येतेन शब्देन ज्योतिर्जनयत्येव।
तस्य मन्त्रस्य द्वितीयार्धे शिवशब्दतात्पर्यं दर्शयति— ‘सोऽग्निजातः प्रजाः शुचाऽपर्यंत्तं देवा अर्धर्चेनाशमयञ्छिवं प्रजाभ्योऽहिꣳ सन्तमित्याह प्रजाभ्य एवैनꣳ शमयति’ [सं. का. ५ प्र. १ अ. ४] इति।
ज्वालासहित उत्पन्नमात्रेणैव प्रजाः सर्वाः संतापेनायोजयत्तं तादृशमाग्निं शिवमित्याद्यर्धर्चेन देवाः शान्तमकुर्वन्। तस्मादस्यार्धर्चस्य पाठेन प्रजोपकारायैवैनं शान्तं करोति। मन्त्रद्वित्वं प्रशंसति— ‘द्वाभ्यां खनति प्रतिष्ठित्यै’ [सं. का. ५ प्र. १ अ. ४] इति।
मन्त्रः
अ॒पाम्पृ॒ष्ठम॑सि स॒प्रथा॑ उ॒र्व॑ग्निम्भ॑रि॒ष्यदप॑रावपिष्ठम् ।
वर्ध॑मानम्म॒ह आ च॒ पुष्क॑रन्दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ।
टीका
कल्पः—‘ अपां पृष्ठमसीति पुष्करपर्णमाहृत्यैव विवेष्ट्य ’ इति।
मृदं प्रक्षेप्तुं पुटिकां कृत्वेत्यर्थः। पाठस्तु— अपां पृष्ठमिति। हे पुष्करपर्ण त्वमपां पृष्ठमसि पृष्ठवदुपरिभागे वर्तमानमसि। कीदृशं त्वम्। सप्रथाः सविस्तारमत एवोर्वग्निं भरिष्यदग्नि-साधनमृदं बहुलं यथा भवति तथा भरितुं समर्थम। अपरावपिष्ठं परावपो विनाशः अतिशयेन तद्रहितम्। वर्धमानमप्संबन्धाद्दिने दिने वृद्धियुक्तं, महो निर्लेपत्वाद्युक्त्या पूजनीयं, पुष्करमग्निनिष्पादनद्वारा पुष्टिकरं, तादृशं त्वं मात्रया परिमाणेन दिवो वरिणाऽऽकाशादप्याधिक्येनाऽऽसमन्तात्प्रथस्व विस्तृतो भव।
तमेतं मन्त्रं विनियुङ्क्ते— १७७७ “अपां पृष्ठमसीति पुष्करपर्णमा हरत्यपां वा एतत्पृष्टं यत्पुष्करपर्णꣳ रूपेणैवनदा हरति” (सं. का. ५ प्र. १ अ. ४) इति।
अपामुपरिवर्तमानत्वस्य विद्यमानस्यैवार्थस्याभिधायित्वादनुरूपेणैव मन्त्रेणैनत्पुष्करपर्णमाहरति।
मन्त्रः
शर्म॑ च स्थः [10] वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे ।
व्यच॑स्वती॒ सव्ँव॑साथाम्भ॒र्तम॒ग्निम्पु॑री॒ष्य᳚म् ।
टीका
कल्पः—“ शर्म च स्थो वर्म च स्थ इति द्वाभ्यामुत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणात्युपरिष्टात्पुष्करपर्णमुत्तानम् ” इति।
प्रथममन्त्रपाठस्तु— शर्म च स्थ इति। हे कृष्णाजिनपुष्करपर्णे उभे युवां शर्म च स्थः सुखकारिणी अपि भवथः। तथा वर्म च स्थः कवचवद्रक्षके अपि भवथः। कीदृशे, अच्छिद्रे छिद्ररहिते बहुले विस्तीर्णे व्यचस्वती आच्छादनप्रकारवती पुटिकादिसदृशे इत्यर्थः। तथाविधे युवां संवसाथां सम्यङ्मृदमाच्छादयतम्। ततः पुरिष्यमग्निं भर्तं धारयतम्।
मन्त्रः
सव्ँव॑साथाꣳ सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना᳚ ।
अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ।
टीका
द्वितीयमन्त्रपाठस्तु— सं वसाथामिति। हे कृष्णाजिनपुष्करपर्णे युवां त्मना स्वयमेव परनिरपेक्षे सती उरसोरःसदृशेन भवतीयस्वरूपेण संवसाथां सम्यगाच्छ-वयतम्। कीदृशे, युवां, सुवर्विदा स्वर्गविदे स्वर्गलाभसाधने इत्यर्थः। समीची मृद्धन्धनायानुकूले अजस्रमिन्निरन्तरमेव ज्योतिष्मन्तमग्निमन्तः स्वोदरे भरिष्यन्ती धारयिष्यन्ती।
अनेन मन्त्रद्वयेन साध्यं पुष्करपर्णस्य प्रसारणमुत्तरत्र विधातुमादौ पुष्करपर्णे मृदः संभरणं विधत्ते— “पुष्कस्पर्णेन सं भरति योनिर्वाऽग्नेः पुष्करपर्णꣳ सयोनिमेवाग्निꣳ सं भरति” [सं. का. ५ प्र. १ अ. ४] इति।
पुष्करपर्णस्याग्निस्थानत्वमारुणकेतुकचयने समाम्नातम् – “जानुद-घ्नीमुत्तर वेदीं खात्वा। अपां पूरयित्वा गुल्फदघ्नम्। पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सꣳस्तीर्य। तस्मिन्विहायसे। अग्निं प्रणीयोपसमाधाय” इति। अतः पुष्करपर्णस्याग्नियोनित्वात्सयोगनिमेवाग्निं संभृतवान्भवति।
कृष्णजिनस्य यज्ञरूपत्वं दर्शपूर्णमासप्रकरणेऽवगम्यते—‘ यज्ञो देवेभ्यो निलायत। कृष्णो रूपं कृत्वा। यत्कृष्णाजिने हविरध्यवहन्ति। यज्ञादेव तद्यज्ञं प्रयुङ्क्ते’ इति। तद्वदत्रापि कृष्णाजिनरूपेण यज्ञेनैवाग्निरूपं यज्ञं संभरति।
चर्मान्तरपरित्यागेन कृष्णाजीनस्वीकारे कारणं दर्शयति— ‘यद्ग्राम्याणां पशूनां चर्मणा संभरेद्ग्राम्यान्पशूञ्छुचाऽर्पयेत्कृष्णा-जिनेन सं भरत्यारण्यानेव पशूञ्छुचाऽर्पयति तस्मात्समावत्पशूनां प्रजायमानानामारण्याः पशवः कनीयाꣳसः सुचा ह्यर्ताः’ (सं. का. ५ प्र. १ अ. ४) इति।
ग्राम्यपशूनां गवादीनां चर्मण्यग्निसंभरणे गवादयः संतापेन संयोजिता भवन्ति। कृष्णाजिनेन संभरणे त्वारण्या एवं पशवः संतापेन योज्यन्ते । यस्मादेवं तस्माल्लोकेऽपि चतुष्पात्त्वाद्याकारसाम्येन प्रजायमानानां पशूनां मध्ये ग्राम्यः श्रेष्ठा आरण्या एव कनिष्ठाः । यस्मात्ते शुचर्ता शुचं प्राप्तास्तस्मात्तेषां कनिष्ठत्वं युक्तम्। नहि ग्राम्यगवादय इव शालाप्रवेशनभक्ष्य प्रदानादिभिरारण्या पोष्यन्ते सेयं तेषां शोकप्राप्तिः।
तस्य कृष्णाजिनस्य लोम्नामुपरि संभरणं विधत्ते— ‘लोमतः सं भरत्यतो ह्यस्य मेध्यम’ [सं. का. ५ प्र. १ अ. ४] इति।
यस्मादस्य कृष्णाजिनस्थात इदं लोमयुक्तं स्थानं मध्यं तस्मात्तत्र संभरेत्।
इदानीमुक्तसंभरणसिद्धये पूर्वोक्तमन्त्रद्वयसाध्यमुभयास्तरणं विधत्ते— ‘कृष्णाजिनं च पुष्करपर्णं च सꣳस्तृणातीयं वै कृष्णाजिनमसौ पुष्कर-पर्णमाभ्यामेवैनमुभयतः परि गृह्णाति’ (सं. का. ५ प्र. १ अ. ४) इति।
मन्त्रः
पु॒री॒ष्यो॑ऽसि
टीका
कल्पः—‘ पुरीष्योऽसि विश्वभरा इति मृत्खनमभिमन्त्र्य ’ इति। पाठस्तु— पुरीष्योऽसीति। हे खननप्रदेश त्वं पुरीप्योऽसि पुरीषस्य बहुलस्य पांसोर्योग्योऽसि।
Mantra वि॒श्वभ॑राः ( असि)।
२२२
अत एव विश्वभरा असि। विश्वं कृत्स्नमुखारूपं विभर्ती विश्वभराः । हेऽग्नेऽथर्वाख्य ऋषिः प्रथम इतरेभ्यः पूर्वभावी संस्त्वां मिरमन्थन्निःशेषेण मथितवान्।
Mantra अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ।
२२२
अत्राथर्वणः प्रथमनिर्मथनं नाम प्रथमदर्शनमित्यभिप्रायं दर्शयति— ‘अग्निर्देवेभ्यो निलायत तमथर्वाऽन्वपश्यदथर्वा त्वा प्रथमो निरमन्थदग्न इत्याह य एवैनमन्वपश्यत्तेनैवैनꣳ सं भरति’ (सं. का. ५ प्र. १ अ. ४) इति।
अन्वपश्यदन्विष्य दृष्टवान् कल्पः—‘ त्वामग्ने पुष्करादधीति कृष्णाजिने पुष्करपर्णे च संभरति चतसृभिस्तिसृभिर्वा गायत्रीमिर्ब्राह्मणस्य त्रिष्टुग्मी राजन्यस्य ’ इति।
यद्यप्यत्र त्वामग्न इत्यादिकास्तिस्र एव गायत्र्यः समाम्नाता तथाऽपि चतुष्ट्वपक्षे पुरीष्योऽसि विश्वभरा इत्यनेन पूर्वोक्तेन मन्त्रेण सह संख्या पूरणीया। पुरीष्योऽसीत्ययं मन्त्रः पूर्वं व्याख्यातः।
मन्त्रः
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।
टीका
द्वितीयमन्त्रपाठस्तु— त्वामग्न इति। हेऽग्नेऽथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्थत निःशेषेण मथितवान्। अत एव पञ्चमकाण्डे ब्राह्मणमाम्नातम्—‘पुष्करपर्णे ह्येनमुपश्रितमविन्दत्’ इति। कीदृशात्पुष्करात्। मूर्ध्न उत्तमाङ्गव-त्प्रशस्ताद्विश्वस्य वाधतः सर्वस्य जगतो वाहकात्। इदं हि पुष्करपर्णमग्नि-मन्थनयज्ञनिष्पादनादिद्वारा सर्वं जगन्निर्वहति।
मन्त्रः
तमु॑ त्वा द॒ध्यङ्ङृषि॑ᳶ पु॒त्र ई॑धे [11] अथ॑र्वणः । वृ॒त्र॒हण॑म्पुरन्द॒रम् ।
टीका
तृतीयमन्त्रपाठस्तु— तमु त्वा दघ्यङ्ङिति। हेऽग्नेऽथर्वणः पुत्रो दध्यङ्नामक ऋषिस्तमु त्वेधे तमेव त्वां प्रज्वलितवान्। कीदृशं त्वाम्। वृत्रहणं वैरिनाशनं पुरंदरं रुद्ररूपेणासुरसंबन्धिनां त्रयाणां पुराणां विदारयितारम्।
मन्त्रः
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
ध॒न॒ञ्ज॒यꣳ रणे॑रणे ।
टीका
चतुर्थमन्त्रपाठस्तु— तमु त्वा पाथ्य इति। हेऽग्ने पाथ्यनामकः कश्चिदृषिस्तमु त्वा समीधे १७८० तमेव त्वां प्रज्वालितवान्। कीदृशः पाथ्यः। वृषा श्रेष्ठः। कीदृशं त्वाम्। दस्युहन्तमं तस्कराणामतिशयेन हन्तारं, रणेरणे धनंजयं तेषु तेषु संग्रामेषु धनस्य जेतारम्।
इत्थमिमा गायत्र्य उक्ताः ।
मन्त्रः
सीद॑ होत॒स्स्व उ॑ लो॒के चि॑कि॒त्वान्थ्सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ᳚ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।
टीका
अथ त्रिष्टुभां चतसृणां मध्ये प्रथमामाह— सीद होतरिति। हे होतर्होमनिष्पादक चिकित्वानभिज्ञस्त्वं स्वकीय एव स्थान उत्तरवेदिरूपे सीदोपविश । यज्ञं चेमं सुकृतस्य योनौ पुण्यकर्मणो योग्यस्थाने सादय स्थापय। देवान्वेति कामयत इति देवावीर्देवप्रिय इत्यर्थः। तादृशस्त्वं देवान्हविषा यजासि पूजयसि। हेऽग्ने यजमाने बृहद्वयो दीर्घमायुर्धाः स्थापय।
मन्त्रः
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ्सु॒दख्षः॑ ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठस्सहस्रम्भ॒रश्शुचि॑जिह्वो अ॒ग्निः ।
टीका
अथ द्वितीयामाह— नि होतेति। होतृषदने होमनिष्पादकस्य योग्यस्थान उत्तरवेदिरूपेऽग्नि- र्नितरामसदत्सम्यगुपविष्टवान्। कीदृशोऽग्निः । होता देवानामाहवाता, विदानः स्थानाभिज्ञः, त्वेषो दीतीप्तिमान, दीदिवान्देवेभ्यो हविषो दाता, सुदक्षोऽत्यन्त-कुशलः। अदब्धव्रतप्रमतिरदब्धेऽविनाशिते व्रते कर्मणि प्रकृष्टा मतिर्यस्य स तथा विधः। वसिष्ठोऽतिशयेन वासयिता। सहस्रसंख्याकानि हवींपि भरति पोषयतीतिसहस्रंभरः। शुचिः शुद्धा होमयोग्या जिह्वा ज्वाला यस्यासौ शुचिजिह्वः।
मन्त्रः
सꣳ सी॑दस्व म॒हाꣳ अ॑सि॒ शोच॑स्व [12] दे॒व॒वीत॑मः ।
वि धू॒मम॑ग्ने अरु॒षम्मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ।
टीका
अथ तृतीयामाह— सꣳसीदस्वेति। हेऽग्ने त्वमस्मिन्पुष्करपर्णे संसीदस्व सम्यगुपविश। त्वमनेकक्रतुत्वान्महानसि, देवान्वेति गच्छतीति देववीरतिशयेन देववीर्देव-वीतमः। ता दृशस्त्वं शोचस्व दीप्यस्व। हे मियेध्य मेधार्ह प्रशस्तोत्कृष्टाग्नेऽ-रुषभरोषणमनुग्रं दर्शतं द्रष्टुं शक्यं शान्तं धूमं विशेषेण सृज।
मन्त्रः
जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्नाꣳ॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु ।
दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥ [13]
टीका
अथ चतुर्थीमाह— जनिष्वा हीति। हेऽग्ने त्वमह्नामग्रे प्रभातकाले जनिष्वोत्पद्यस्व। कीदृशस्त्वम्। जेन्यो जयशीलः। हितेषु हितो हविर्भुजो हे देवास्तुभ्यं हितमाचर- न्ति, ये च मनुष्या ऋत्विग्यजमानास्तुभ्यं हितमाचरन्ति, तेषु सर्वेषु हितेषु त्वमपिहितो भवसि। वनेष्वरुषो नानाविधफलवृक्षोपेतेषु वनेषु कोपरहितो दावाग्निरूपेण वनानि न दहती(सी) त्यर्थः। अयमग्निर्दमेदमे यजमानाञ्ज्वाला-विशेषान्सप्त संख्याकान्धारयमाणः। अत एव सप्तजिह्व इति सर्वत्र प्रसिद्धः।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः” ॥ इति॥
स चाग्निर्होता देवानामाह्वाता यजीयानतिशयेन यष्टा।
उक्तासु गायत्रीषु त्वामग्न इत्येतस्यां पुष्करादधीत्यस्यांशस्य तात्पर्यं दर्शयति— ‘त्वामग्ने पुष्करादधीत्याह षुष्करपर्णे ह्येनमुपश्रितमविन्दत्’ (सं. का. ५ प्र. १ अ. ४) इति।
अथर्वा यदाऽग्निमन्विष्टवांस्तदानीं कस्मिंश्चित्पुष्करणर्णेऽवस्थितमेन-मग्नि लब्धवान्। तस्मात्पुष्करादधीत्युक्तिर्युक्ता।
अनन्तरमन्त्रे परित्यज्यान्यमृषिं दधीच एव स्वीकारे कारणं दर्शयति— ‘तमु त्वा दध्यङ्ऋषिरित्याह दध्यङ्वा आथर्वणस्तेजस्तेजस्व्यासीत्तेज एवस्मिन्दधाति’ (सं. का. ५ प्र. १ अ. ४) इति।
अन्यत्र मन्त्रान्तरे दधीचो महिमा प्रपञ्चितः—‘ दघ्यङ्ह यन्मध्वाथर्व-णो वामश्वस्य शीर्ष्णा’ इत्यादौ। तस्माद्दधीचस्तेजस्वित्वम्।
उपरितनमन्त्रेण पाथ्यशब्देन दध्यङ्ङेव विवक्षितो नान्य इत्येतद्दर्शयति— ‘तमु त्वा पाथ्यो वृषेत्याह पूर्वमेवोदितमुत्तरेणाभि गृणाति’ [सं. का. ५ प्र. १ अ. ४] इति।
यः पूर्वमन्त्रोक्तो दध्यङ्स एवात्र सन्मार्गवर्तित्वात्पाथ्य इत्युच्यते। अतः पूर्वमन्त्रोदितमेवार्यमुत्तरेण मन्त्रेण प्रतिपादयति।
एतैर्मन्त्रेः साध्यमग्निसंभरणं विधत्ते— ‘चतसृभिः सं भरति चत्वारि छन्दाꣳसि छन्दोभिरेव’ [सं. का. ५ प्र. १ अ. ४] इति।
त्वामग्न इत्याद्यास्तिस्रस्ततः। पूर्वा पुरीष्योऽसीत्येका, तदेवं चतस्रः। गायत्री १७८२ त्रिष्टुब्जगत्यनुष्टुगिति च्छन्दसां चतुष्ट्वम्। अतः संख्यासाम्याच्छन्दोभिरेवाग्निः संभृतो भवति। सीद होतरित्यादीनां त्रिष्टुभां चतुष्ट्वम्। अत्रापि चतसृभिः संभरतीति विधिर्योजनीयः।
गायत्रीणां त्रिष्टुभां चाधिकारिभेदेन व्यवस्थां विधत्ते— ‘गायत्रीभिर्ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुग्भी राजन्यस्य त्रैष्टूभो हि राजन्यः’ [सं. का. ५ प्र. १ अ. ४] इति।
मुखजत्वसाम्येन ब्राह्मणो गायत्रो बाहुजत्वसाम्येन राजन्यस्रै टुभः।
अथ काम्यं समुञ्चयं विधत्ते— ‘यं कामयेत वसीयान्त्स्यादित्युभयीभिस्तस्य सं भरेत्तेजश्चैवास्मा इन्द्रियं च समीची दधाति’ [सं. का. ५ प्र. १ अ. ४] इति।
तत्र गायत्रीभिस्तेजः प्राप्तिस्त्रिष्टुग्भिरिन्द्रियप्राप्तिः।
संमुञ्चितमन्त्रगतामष्टत्वसंख्यां प्रशंसति— ‘अष्टामिः सं भरत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तꣳ सं भरती’ [सं. का. ५ प्र. १ अ. ४] इति।
चतस्रस्रिष्टुभः इत्येकं क्रमेण प्रशंसति— ‘सीद होतरित्याह देवता एवास्मै सꣳ सादयति नि होतेति मनुष्यान्त्सꣳ सीदस्वेति वयाꣳसि जनिष्ट्वा हि जेन्यो अग्रे अह्नामित्याह देवमनुष्यानेवास्मै सꣳ सन्नान्त्र जनयति’ (सं. का. ५ प्र. १ अ. ४) इति।
सीद होतरित्येतस्यां प्रथमायां त्रिष्टुभि देवावीरिति पदेन वेवतानां संसादनं सूचितम्। यद्वा देवान्हविषा यजासीत्यनेन तत्सूचितम्। निहोतेत्यस्यां द्वितीयायां त्रिष्ठुभि होतृषदन इति पदेन होत्रादीनां मनुष्याणां संसादनं सूचितम्। सꣳ सीदस्वेत्यस्यां तृतीयायां त्रिष्टुभि धूमं विसृचेत्बेवमन्तरिक्षगामिना (णा) धूमेनान्तरिक्षचारिणां पक्षिणां सृचितत्वात्तेषां संसादनमुक्तम्। जनिष्वेत्यस्यां चतुर्थ्यां त्रिष्टुभि जनिष्वेत्युत्पादनस्य सूचितत्वात्पूर्वोक्तान्संसन्नान्देवान्मनुष्यां-स्तदुपलक्षितानि वयांसि च प्रकर्षेण जनयति।
अत्र विनियोगसंग्रह— १७८३ देव द्वाभ्यां खनेच्चापां पद्मपत्रं समाहरेत्।
शमं द्वाभ्यां चर्मपत्रे स्तृणात्यथ पुरीष्यतः॥
चतुष्टय्या संभरति विप्रस्य क्षत्त्रियस्य तु।
सीदत्यादिचतुष्केण मन्त्रा द्वादश वर्णिताः॥