अनुवाकः 6 TS 4.1.6

(A6)

(पत्नी॑ - रि॒माꣳ - रु॒द्रास्त्वाऽऽ च्छृ॑न्द॒न्त्वे - का॒न्न विꣳ॑श॒तिश्च॑)

अनुवाकः 6 - Complete Audio

TS 4.1.6 - स्वरानुगामी

0:00 0:00
PS1.1 वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्-रु॒द्रास्त्वा॑
PS1.2 धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्व-दा॑दि॒त्यास्त्वा॑ धूपयन्तु॒
PS1.3 जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्- विश्वे᳚ त्वा
PS1.4 दे॒वा वै᳚श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्व-दिन्द्र॑स्त्वा
PS1.5 धूपयत्वङ्गिर॒स्वद् -विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद्-वरु॑णस्त्वा धूपयत्वङ्गिर॒स्व-ददि॑तिस्त्वा
PS1.6 दे॒वी वि॒श्वदे᳚व्यावती पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत्
PS1.7 ख॑नत्ववट दे॒वानां᳚ त्वा॒ पत्नी᳚
PS1.8 - [ ]
PS2.1 र्दे॒वी र्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वद्-द॑धतूखे
PS2.2 धि॒षणा᳚स्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚-ऽङ्गिर॒स्व-द॒भीन्ध॑तामुखे॒
PS2.3 ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्व-च्छ्र॑पयन्तूखे॒
PS2.4 वरू᳚त्रयो॒ जन॑यस्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः
PS2.5 स॒धस्थे᳚ऽङ्गिर॒स्वत् प॑चन्तूखे
PS2.6 मित्रै॒तामु॒खां प॑चै॒षा मा भे॑दि
PS2.7 ए॒तां ते॒ परि॑ ददा॒म्यभि॑त्त्यै
PS2.8 अ॒भीमां - [ ]
PS3.1 म॑हि॒ना दिवं॑ मि॒त्रो ब॑भूव स॒प्रथाः᳚
PS3.2 उ॒त श्रव॑सा पृथि॒वीं
PS3.3 मि॒त्रस्य॑ चर्.षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिं
PS3.4 द्यु॒म्नं चि॒त्रश्र॑वस्तमं
PS3.5 दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः
PS3.6 सु॒बा॒हुरु॒त शक्त्या᳚
PS3.7 अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण
PS3.8 उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्द्ध्वा ति॑ष्ठ
PS3.9 ध्रु॒वा त्वं
PS3.10 वस॑व॒स्त्वा ऽऽच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्
PS3.11 रु॒द्रास्त्वाऽऽ च्छृ॑न्दन्तु॒ ( )
PS3.12 त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्व-दा॑दि॒त्यास्त्वा ऽऽच्छृ॑न्दन्तु॒ जाग॑तेन॒
PS3.13 छन्द॑साऽङ्गिर॒स्वद्-विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा
PS3.14 आ च्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.1.6.1 TS 4.1.6.1
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्-रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्व-दा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्- विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्व-दिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद् -विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद्-वरु॑णस्त्वा धूपयत्वङ्गिर॒स्व-ददि॑तिस्त्वा दे॒वी वि॒श्वदे᳚व्यावती पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत् ख॑नत्ववट दे॒वानां᳚ त्वा॒ पत्नी᳚ - [ ]
पदपाठः (Word-by-word)
वस॑वः । त्वा॒ । धू॒प॒य॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । रु॒द्राः । त्वा॒ । धू॒प॒य॒न्तु॒ । त्रैष्टु॑भेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । आ॒दि॒त्याः । त्वा॒ । धू॒प॒य॒न्तु॒ । जाग॑तेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । विश्वे᳚ । त्वा॒ । दे॒वाः । वै॒श्वा॒न॒राः । धू॒प॒य॒न्तु॒ । आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । इन्द्रः॑ । त्वा॒ । धू॒प॒य॒तु॒ । अ॒ङ्गि॒र॒स्वत् । विष्णुः॑ । त्वा॒ । धू॒प॒य॒तु॒ । अ॒ङ्गि॒र॒स्वत् । वरु॑णः । त्वा॒ । धू॒प॒य॒तु॒ । अ॒ङ्गि॒र॒स्वत् । अदि॑तिः । त्वा॒ । दे॒वी । वि॒श्वदे᳚व्याव॒तीति॑ वि॒श्वदे᳚व्य - व॒ती॒ । पृ॒थि॒व्याः । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । अ॒ङ्गि॒र॒स्वत् । ख॒न॒तु॒ । अ॒व॒ट॒ । दे॒वाना᳚म् । त्वा॒ । पत्नीः᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाकः ६ उखासंस्कारः

१४ शख्गुमत्यनुष्टुप्, १८ अनुष्टुप्, १५-१७८ गायत्री अग्निर्ऋषिः

चतुर्थकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः

संयुक्तमन्त्रः

वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद्वरु॑णस्त्वा धूपयत्वङ्गिर॒स्वत् ।

मन्त्रः

वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत् ,

रु॒द्रास्त्वा॑ धूपयन्तु, त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत् ,

आ॒दि॒त्यास्त्वा᳚ धूपयन्तु, जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वत् ।

विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा धू॑पय॒न्तु , आनु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ।

इन्द्र॑स्त्वा धूपयतु, अ॒ङ्गि॒र॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वत्

वरु॑णस्त्वा धूपयतु , अ॒ङ्गि॒र॒स्वत् ।

टीका

(अथ चतुर्थाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः) ।

पञ्चमेऽनुवाक उखानिर्माणमुक्तम् । अथ षष्ठे तत्संस्कारोऽभिधीयते।

कल्पः — ‘वसक्स्त्वा धृपयन्तु गायत्रेण छन्दसेति सप्तयिरश्वशकेनोखां धूपयन्ति’ इति। पाठस्तु— वसवस्त्वेति। हे उखे त्वामष्टौ वसवः सहकारिणा गायत्रेण च्छन्द्रसा सहाङ्गिरस इव धूपयन्तु अश्वशकजन्येन धूमेन संस्कृर्वन्तु। एवमुत्तरेष्धषि षट्सु योजनीयम्। एतान्मन्त्रान्विनियुङ्क्ते— ‘सप्तभिर्धूपयति सप्त वै शीर्षण्याः प्राणाः शिर एतद्यज्ञस्य यदुखा शीर्पेन्नेव यज्ञस्य प्राणान्दधाति तस्मात्सप्त शीर्षन्प्राणाः’ [सं. का. ५ प्र. १ अ. ७] इति ।

शिरोवर्तिषु सप्तसु च्छिद्रेषु संचरन्तः प्राणाः सप्तसंख्याकाः । उखा च यज्ञशिरःस्थानीया । तस्मात्सप्तभिर्धूपने सति यज्ञस्य शिरस्येत्र प्राणानवस्थापयति । यस्मादेवं तस्मात्प्रतिपुरुषं शिरसि च्छिद्रभेदेन सप्त प्राणा वर्तन्ते।

१८०७ धूपसाधनं विधत्ते— ‘अश्वशकेन धूपयति प्राजापत्यो वा अश्वः सयोनित्वाय’ [सं. का. ५ प्र. १ अ. ७] इति।

अश्वस्य अशोऽश्वशकृत् । अश्वस्य प्राजापत्यत्वमसकृदुक्तम्। अग्निरपि प्राजापत्यः। ‘प्रजापतिरग्निमचिनुत’ इति श्रवणात् । अत उभयोः समानयोनित्वम्।

संयुक्तमन्त्रः

अदि॑तिस्त्वा दे॒वी वि॒श्वदे᳚व्यावती पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वत्ख॑नत्ववट दे॒वाना᳚न्त्वा॒ पत्नीः᳚ [22] दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वद्द॑धतूखे

मन्त्रः

अदि॑तिस्त्वा दे॒वी वि॒श्वदे᳚व्यावती पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वत्ख॑नत्ववट ।

टीका

कल्पः—‘अदितिस्त्वा देवात्यिग्रेण गार्हपत्यमवटं खात्वा’ इति। पाठस्तु– अदितिस्त्वेति। विश्वेषां देवानां योग्या उपचारा विश्वदेव्यास्तेऽस्या सन्ती-ति विश्वदेव्यावती। तादृशीयमदितिर्देवी पृथिव्याः सधस्थे भूम्या उपरि हेऽवट त्वाम ङ्गिरस इव खनतु। अस्मिन्मन्त्रे खननकर्तृत्वमदितेरुपपादयति— ‘अदितिस्त्वेत्याहेयं वा अदितिरदित्यैवादित्यां खनत्यस्या अक्रूरकाराय न हि स्वः स्वꣳ हिनस्ति’ (सं. का. ५ प्र. १ अ. ७) इति।

इयं भूमिरेवात्रादितिशब्देन विवक्षिता । अवटखननं हि भूम्यामेव। ततोऽदितेः खननकर्तुत्वे सति भूमेर्हिंसा न भवति । न हि लोके कश्चिदपि स्वयं स्वात्मानं हिनस्ति ।

तस्मात्खननलक्षणक्रूरकार्यकरणाभावायेदमदितिकर्तृत्वं संपाद्यते।

Mantra दे॒वाना᳚न्त्वा॒ पत्नीः᳚ [22] दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वद्द॑धतूखे । २२२

कल्पः—‘लोहितपचनीयैः संभारैरवस्तीर्य देवानां त्वा पत्नीरिति तस्मिन्नु-खामवदधाति’ इति। पाठस्तु— देवानां त्वेति। विश्वदेव्यावतीः कृत्स्नदेवार्होपचारयुक्ता या देवानां पत्न्या देव्यस्ताः पृथिव्याः सधस्थ उपर्यङ्गिरस इव हे उखे त्वां दधतु स्थापयन्तु।

देवपत्नीनामुखाकर्तृत्वं पुरातनमित्येतद्दर्शयति— ‘देवानां त्वा पत्नीरित्याह देवानां वा एतां पत्नयोऽग्रेऽकुर्वन्ताभिरेवैन दधाति’ [सं. का. ५ प्र. १ अ. ७] इति।

पुरा देवपत्नीभिरुखागाः कृतस्वादिदानीमपि ताभिरेव स्थापिता भवति।

संयुक्तमन्त्रः

धि॒षणा᳚स्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ वरू᳚त्रयो॒ जन॑यस्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वत्प॑चन्तूखे ।

मन्त्रः

धि॒षणा᳚स्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे ।

ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वच्छ्र॑पयन्तूखे ।

टीका

१८०८ कल्पः ‘लोहितपचनैः संभारैः प्रच्छाद्य धिषणास्त्वा देवीरिति चतुर्भिरुखा-यामग्निमभ्यादधाति’ इति। पाठस्तु— धिषणास्त्वेति। विद्याभिमानिन्यो देवता धिषणाः। हे उखे, त्वां ता देवता अभीन्धतामभितो ज्वालयन्तु। छन्दोभिमानिन्यो देवता ग्नास्तास्त्वां अपयन्तु तव पच्यमानतां संपादयन्तु। वरूत्रयो जनय इति पदभेदेन मन्त्रभेदः। होतृप्रशास्रादिषु सप्तसु होत्रकेष्वभिमानिन्यो देवता वरूत्रयः। सेनेन्द्रस्यत्याद्य नुवाकेनोक्ता देवपत्न्यो जनयः।

Mantra वरू᳚त्रयः {त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वत्प॑चन्तूखे ।}

जन॑यस्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीᳶ पृथि॒व्यास्स॒धस्थे᳚ऽङ्गिर॒स्वत्प॑चन्तूखे ।

टीका

तत्र वरूत्रयस्त्वां पचन्तु तव पक्वतां संपादयन्तु। तथा जनयस्त्वां पचन्तु पक्वत्वपरीक्षां कुर्वन्तु । वरूत्राय इति मन्त्रे त्वा देवीरित्याद्युत्तरभागोऽनुषज्यते।

एषु मन्त्रेषु धिषणादिशब्दानामस्तदुक्तार्थपरतां दर्शयति— ‘धिषणास्त्वेत्याह विद्या वै धिषणा विद्याभिरेवैनामभीन्धे ग्नास्त्वेत्याह छन्दाꣳसि वै ग्नाश्छन्दोभिरेवैनाꣳ श्रपयति वरूत्रयस्त्वेत्याह होत्रा वै वरूत्रयो होत्रा-भिरेवैनां पचति जनयस्त्वेत्याह देवानां वै पत्नीर्जनयस्ताभिरेवैनां पचति’ [सं. का. ५ प्र. १ अ. ७] इति। स्पष्टोऽर्थः।

अदितिस्त्वा देवीत्यादीनामुक्तानां मन्त्राणां संख्यां प्रशंसति— ‘षडभिःमचति षड्वा ऋतव ऋतुभिरेवैनां पचति’ [सं. का. ५ प्र. १ अ. ७] इति।

अवटखननादीनामपि पाकाङ्गत्वेन षड्भिः पचतीत्युच्यते।

वरूत्रयो जनय इत्यनयोः स्वाभिप्रेतं मन्त्रभेदं दर्शयितुं पचन्त्वित्येवम-न्तस्य भागस्यानुषङ्गरूपामावृत्तिं दर्शयति— ‘द्विः पचन्त्वित्याह तस्माद्द्विः संवत्सरस्य सस्यं पच्यते’ (सं. का. ५ प्र. १ अ. ७) इति।

वरूत्रयः पचन्तु जनयः पचन्त्वित्येवं द्विः प्रयोगः।

मन्त्रः

मित्रै॒तामु॒खाम्प॑च ।

टीका

कल्पः — ‘मित्रैतामुखां पचेति पच्यमानां तिसृभिर्मैत्रीभिरुपचरति’ इति। तत्र प्रथमामाह— १८०९ मित्रैतामुखामिति । हे मित्र सर्वप्राणिहितकारिन्देव त्वमेतामुखां पचपक्वां कुरु ।

मन्त्रः

ए॒षा मा भे॑दि ।

टीका

एषां चोखा मा भेदि भिन्ना मा भवतु।

मन्त्रः

ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै ।

टीका

एतामुखामभित्यै भेदाभावाय ते तुभ्यं परिददामि परित्राणाय ददामि।

मन्त्रः

अ॒भीमाम् [23] म॒हि॒ना दिव॑म्मि॒त्रो ब॑भूव स॒प्रथाः᳚ ।

उ॒त श्रव॑सा पृथि॒वीम् ।

टीका

अथ द्वितीयामाह— अभिमामिति। मित्र इमामुखामभिबभूवाभितः प्राप्तवान् । कीदृशो मित्रः, सप्रथाः सविस्तारः प्रचुरकीर्तिरित्यर्थः । कीदृशीमिमां, महिनां दिवं महिम्ना द्युलोक-सदृशीम् । उतापि च श्रवसा पृथिवीं श्रवणेन पृथिवीसदृशीम्।

मन्त्रः

मि॒त्रस्य॑ चर्षणी॒धृत॒श्श्रवो॑ दे॒वस्य॑ सान॒सिम् ।

द्यु॒म्नञ्चि॒त्रश्र॑वस्तमम् ।

टीका

अथ तृतीयामाह— मित्रस्येति । चर्षणीधृतो मनुष्याणां धारयितुर्मित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः। सानसिं फलदानशीलं द्युम्नं द्रविणप्रदं चित्रश्रवस्तमं चित्रं श्रवः कीर्तिर्यस्यासौ चित्रश्रवाः, अतिशयेन तादृशस्तमेतादृशमुखारूपं स मित्रः पचत्विति शेषः।

देवान्तरपरित्यागेन मित्रदेवताकमन्त्रस्वीकारे कारणं दर्शयति— “वारुण्युखाऽसीद्धा मैत्रियोपैति शान्त्यै” (सं. का. ५ प्र. १ अ. ७) इति।

अभिद्धा प्रज्वलिता येयमुखा सेयमुग्रत्वाद्वारुणी, तस्या मैत्र्यच शान्तिर्भ-वति।

मन्त्रः

दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिस्स्व॑ङ्गु॒रिः ।

सु॒बा॒हुरु॒त शक्त्या᳚ ।

टीका

कल्पः – “पक्वां देवस्त्वा सवितोद्वपत्वित्युद्वास्य” इति। पाठस्तु— देवस्त्वेति । हे उखे सविता देवस्त्वां स्वकीयया शक्त्योद्वपतु, अवटादूर्ध्वमानयतु। कीदृशः सविता, सुषाणिः शोभनौ पाणी यस्यासौ सुपाणिः। शोभना अङ्गुलयो यस्यासौ स्वङ्गुलीः । छान्दसो रेफः । उतापि च शोभनौ बाहू यस्यासौ सुवाहुः । मणिबन्धस्योभयतोऽवस्थितौ भागौ पाणिशब्देन बाहुशब्देन चोच्येते । अस्मिन्मन्त्रे सवितृशब्दतात्पर्यं दर्शयति— “देवस्त्वा सवितोद्वपत्वित्याह सवितृप्रसूत एवैनां ब्रह्मणा देवताभिरुद्वपति” [सं. का. ५ प्र. १ अ. ७] इति।

१८१० सवित्रा प्रेरितः सन्नेनां ब्रह्मणा मन्त्रेण देवताभिश्च सहो (द्वपत्यु) द्वपनं कृतवान्भवति।

मन्त्रः

अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण ।

उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा त्वम् ।

टीका

कल्पः—“अपद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रति-ष्ठाप्य” इति। पाठस्तु— अपद्यमानेति। हे उखे पृथिवि पृथिव्यां भूमौ त्वमपद्यमाना भङ्गमप्राप्नु- वती, आशा दिश आपृण प्राच्याद्या दिश आग्नेयादिविदिशश्च सर्वतः पूरय उत्तिष्ठाव-टाद्वहिरागत्योत्थिता भव, उत्थाय च बृहती प्रौढा भव। तादृशी त्वमूर्ध्वा सती ध्रुवा स्थिरा भव ऊर्ध्वोर्ध्वमुखी स्थिरा तिष्ठ।

अस्मिन्मन्त्रे यद्दिशामापूरणमुक्तं सेयमग्नेः प्रभया व्याप्तिरित्येतत्तात्पर्यं दर्शयति— “अपद्यमाना पृथिव्याशा दिश आ पृणेत्याह तस्मादाग्निः सर्वा दिशोऽनुवि भाति” (सं. का. ५ प्र. १ अ. ७) इति।

यस्मादुखायाः सर्वदिक्पूर्तिः प्रार्थ्यते तस्मादुखया मिश्रितोऽग्निः स्वतेजसाः सर्वा दिशः प्रकाशयति।

उत्तरार्धेन स्थिरप्रतिष्ठा प्रार्थ्यत इति दर्शयति— “उत्तिष्ठ बृहती भावोर्ध्वा तिष्ठ घ्रुवा त्वमित्याह प्रतिष्ठित्यै” ’ [सं. का. ५ प्र. १ अ. ७] इति।

संयुक्तमन्त्रः

वस॑व॒स्त्वाच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रु॒द्रास्त्वाच्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा आच्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥ [24]

मन्त्रः

वस॑व॒स्त्वाच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत् ,

रु॒द्रास्त्वाच्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वत्,

आ॒दि॒त्यास्त्वाच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वत् , ।

विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा आच्छृ॑न्द॒न्तु, आनु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥

टीका

कल्पः—“वसवस्त्वाऽऽच्छृन्दन्तु गायत्रेण छन्दसेति चतुर्भिरजाक्षीरेणो-खामा च्छृणत्ति” इति । पाठस्तु— वसवस्त्वेति । हे उखे वसुनामका देवा अङ्गिरस इव त्वां सिञ्चन्तु। एवमुत्तरत्रापि योज्यम्। एतैर्मन्त्रैः साध्यं सेचनं विधत्ते— ‘असुर्यं पात्रमनाच्छृण्णमां च्छृणत्ति देवत्राऽकः” [सं. का. ५ प्र. १ अ. ७] इति।

यज्ञसाधनं पावमग्निदग्धं तद्द्रवद्रव्येण यदा न सिक्तं भवति तदानीमसुर-योग्यं भवेत्, तत्परिहारायाऽऽसिञ्चेत् । सिक्तं पात्रं देवत्रा देवेष्वकः करोति । देवयोग्यं भवतीत्यर्थः । सेचनसाधनं विधत्ते— १८१२ “अजक्षीरेणाऽऽच्छृणत्ति परमं वा एतत्पयो यदजक्षीरं परमेणैवैनां पयसा-ऽऽच्छृणत्ति” (सं. का. ५ प्र. १ अ. ७) इति।

लोकेऽऽजाक्षीरस्य सर्वव्याधिपरिहारहेतुत्वाद्वेदेऽपि “आग्नेयी वा एषा। यदजा” इत्युक्तत्वात्परमत्वम् ।

लोके दग्धस्य पात्रस्य मन्त्रमन्तरेणैव सेचनं कुर्वन्ति। अतस्तद्व्यावृत्त्यर्थ-मिह मन्त्रेण सेचनं विधत्ते— “यजुषा व्यावृत्त्यै” [सं. का. ५ प्र. १ अ. ७] इति।

सामान्येन मन्त्रं विधाय विशेषेण च्छन्दोलिङ्गकान्मन्त्रान्विधत्ते— “छन्दोभिरा च्छृणत्ति छन्दोभिर्वा एषा क्रियते छन्दोभिरेव छन्दाꣳ स्या च्छृणत्ति” (सं. का. ५ प्र. १ अ. ७) इति।

पूर्वं वसवस्त्वा कृण्वन्तु गायत्रेण च्छन्दसेति च्छन्दोलिङ्गकैर्मन्त्रेरेषा क्रियते । अत इयं च्छन्दोरूपा । तस्मादुखारूपाणि च्छन्दांसि मन्त्ररूपैश्छन्दोभिरेवा-ऽऽसिक्तानि भवन्ति । अत्र विनियोगसंग्रहः—

वसवः सप्तभिर्धूपोऽदितिस्त्वेत्यवटं खनेत्।

देवोखां तत्र संस्थाप्य धिषणेति चतुष्टयात्।

अग्निं क्षिपेन्मन्त्रभेदो वरूजनपदद्वयात्।

मित्रत्रयेणोपचारो देव उद्वासयेदुखाम्॥

अपेति सिकतास्वेतां निधाय वसवेत्यतः।

चतुष्टयादजाक्षीरं सिच्चेद्द्वाविं शतिर्मताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
पञ्चशत् 2 #
TS 4.1.6.2 TS 4.1.6.2
र्दे॒वी र्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वद्-द॑धतूखे धि॒षणा᳚स्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚-ऽङ्गिर॒स्व-द॒भीन्ध॑तामुखे॒ ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्व-च्छ्र॑पयन्तूखे॒ वरू᳚त्रयो॒ जन॑यस्त्वा दे॒वीर्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत् प॑चन्तूखे । मित्रै॒तामु॒खां प॑चै॒षा मा भे॑दि । ए॒तां ते॒ परि॑ ददा॒म्यभि॑त्त्यै ॥ अ॒भीमां - [ ]
पदपाठः (Word-by-word)
दे॒वीः । वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ । पृ॒थि॒व्याः । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । अ॒ङ्गि॒र॒स्वत् । द॒ध॒तु॒ । उ॒खे॒ । धि॒षणाः᳚ । त्वा॒ । दे॒वीः । वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ । पृ॒थि॒व्याः । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । अ॒ङ्गि॒र॒स्वत् । अ॒भीति॑ । इ॒न्ध॒ता॒म् । उ॒खे॒ । ग्नाः । त्वा॒ । दे॒वीः । वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ । पृ॒थि॒व्याः । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । अ॒ङ्गि॒र॒स्वत् । श्र॒प॒य॒न्तु॒ । उ॒खे॒ । वरू᳚त्रयः । जन॑यः । त्वा॒ । दे॒वीः । वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ । पृ॒थि॒व्याः । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । अ॒ङ्गि॒र॒स्वत् । प॒च॒न्तु॒ । उ॒खे॒ ॥ मित्र॑ । ए॒ताम् । उ॒खाम् । प॒च॒ । ए॒षा । मा । भे॒दि॒ ॥ ए॒ताम् । ते॒ । परीति॑ । द॒दा॒मि॒ । अभि॑त्त्यै ॥ अ॒भीति॑ । इ॒माम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.1.6.3 TS 4.1.6.3
म॑हि॒ना दिवं॑ मि॒त्रो ब॑भूव स॒प्रथाः᳚ । उ॒त श्रव॑सा पृथि॒वीं ॥ मि॒त्रस्य॑ चर्.षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिं । द्यु॒म्नं चि॒त्रश्र॑वस्तमं ॥ दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः । सु॒बा॒हुरु॒त शक्त्या᳚ ॥ अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण । उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्द्ध्वा ति॑ष्ठ ध्रु॒वा त्वं ॥ वस॑व॒स्त्वा ऽऽच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् रु॒द्रास्त्वाऽऽ च्छृ॑न्दन्तु॒ ( ) त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्व-दा॑दि॒त्यास्त्वा ऽऽच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्-विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा आ च्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥
पदपाठः (Word-by-word)
म॒हि॒ना । दिव᳚म् । मि॒त्रः । ब॒भू॒व॒ । स॒प्रथा॒ इति॑ स - प्रथाः᳚ ॥ उ॒त । श्रव॑सा । पृ॒थि॒वीम् ॥ मि॒त्रस्य॑ । च॒र्॒.ष॒णी॒धृत॒ इति॑ चर्.षणि - धृतः॑ । श्रवः॑ । दे॒वस्य॑ । सा॒न॒सिम् ॥ द्यु॒म्नम् । चि॒त्रश्र॑वस्तम॒मिति॑ चि॒त्रश्र॑वः - त॒म॒म् ॥ दे॒वः । त्वा॒ । स॒वि॒ता । उदिति॑ । व॒प॒तु॒ । सु॒पा॒णिरिति॑ सु - पा॒णिः । स्व॒ङ्गु॒रिरिति॑ सु - अ॒ङ्गु॒रिः ॥ सु॒बा॒हुरिति॑ सु - बा॒हुः । उ॒त । शक्त्या᳚ ॥ अप॑द्यमाना । पृ॒थि॒वि॒ । आशाः᳚ । दिशः॑ । एति॑ । पृ॒ण॒ ॥ उदिति॑ । ति॒ष्ठ॒ । बृ॒ह॒ती । भ॒व॒ । ऊ॒द्‌र्ध्वा । ति॒ष्ठ॒ । ध्रु॒वा । त्वम् ॥ वस॑वः । त्वा॒ । एति॑ । छृ॒न्द॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । रु॒द्राः । त्वा॒ । एति॑ । छृ॒न्द॒न्तु॒ ( ) । त्रैष्टु॑भेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । आ॒दि॒त्याः । त्वा॒ । एति॑ । छृ॒न्द॒न्तु॒ । जाग॑तेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । विश्वे᳚ । त्वा॒ । दे॒वाः । वै॒श्वा॒न॒राः । एति॑ । छृ॒न्द॒न्तु॒ । आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् ॥
पदसंख्या: 69