अनुवाकः 11 TS 4.1.11

(A11)

(पु॒रु॒ष॒त्वता॑ - यज॒तन्ते॑ अ॒न्यथ् - सह॑न्ते॒ - चनो॑हितो॒ - ऽष्टौ च॑ )

अनुवाकः 11 - Complete Audio

TS 4.1.11 - स्वरानुगामी

0:00 0:00
PS1.1 अग्ने॒ यं ॅय॒ज्ञ्म॑द्ध्व॒रं ॅवि॒श्वतः॑ परि॒भूरसि॑
PS1.2 स इद्दे॒वेषु॑ गच्छति
PS1.3 सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒
PS1.4 सन्ति॑ दा॒शुषे᳚
PS1.5 ताभि॑र्नोऽवि॒ता भ॑व
PS1.6 अ॒ग्निर्मू॒र्धा , भुवः॑ >त्वन्नः॑
PS1.7 सोम॒ , या ते॒
PS1.8 धामा॑नि
PS1.9 तथ् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि
PS1.10 धियो॒ यो नः॑ प्रचो॒दया᳚त्
PS1.11 अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑
PS1.12 दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता᳚
PS2.1 दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒
PS2.2 त्वन्नो॒ अत्र॑ सुवता॒दना॑गसः
PS2.3 चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नां
PS2.4 य॒ज्ञ्ं द॑धे॒ सर॑स्वती
PS2.5 पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती
PS2.6 वी॒रप॑त्नी॒ धियं॑ धात्
PS2.7 ग्नाभि॒रच्छि॑द्रꣳ शर॒णꣳ स॒जोषा॑ दुरा॒धर्.षं॑
PS2.8 गृण॒ते शर्म॑ यꣳसत्
PS2.9 पू॒षा गा अन्वे॑तु नः
PS2.10 पू॒षा र॑क्ष॒त्वर्व॑तः
PS2.11 पू॒षा वाजꣳ॑ सनोतु नः
PS2.12 शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑
PS2.13 अ॒न्य - [ ]
PS3.1 -द्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि
PS3.2 विश्वा॒ हि मा॒या अव॑सि
PS3.3 स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह
PS3.4 रा॒तिर॑स्तु
PS3.5 ते॑ऽवर्द्धन्त॒ स्वत॑वसो महित्व॒ना ऽऽनाकं॑
PS3.6 त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑
PS3.7 विष्णु॒ र्यद्धाऽऽव॒द्-वृष॑णं मद॒च्युतं॒ ॅवयो॒
PS3.8 न सी॑द॒न्नधि॑ ब॒र्॒.हिषि॑ प्रि॒ये
PS3.9 प्रचि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒
PS3.10 स्वत॑वसे भरद्ध्वं
PS3.11 ये सहाꣳ॑सि॒ सह॑सा॒ सह॑न्ते॒
PS3.12 - [ ]
PS4.1 रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑
PS4.2 विश्वे॑ दे॒वा विश्वे॑ देवाः
PS4.3 द्यावा॑ नः पृथि॒वी इ॒मꣳ
PS4.4 सि॒द्ध्रम॒द्य दि॑वि॒स्पृशं᳚
PS4.5 य॒ज्ञ्ं दे॒वेषु॒ यच्छतां
PS4.6 प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः
PS4.7 कृ॑णुद्ध्वꣳ॒॒ सद॑ने ऋ॒तस्य॑
PS4.8 आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न॒
PS4.9 जने॑न यातं॒ महि॑ वां॒
PS4.10 ॅवरू॑थं
PS4.11 अ॒ग्निꣳ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यं
PS4.12 ह॒व्या दे॒वेषु॑ नो दधत्
PS4.13 स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ( )
PS4.14 अ॒ग्निर्द्धि॒या समृ॑ण्वति
PS4.15 शन्नो॑ भवन्तु॒, वाजे॑वाजे> 8

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.1.11.1 TS 4.1.11.1
अग्ने॒ यं ॅय॒ज्ञ्म॑द्ध्व॒रं ॅवि॒श्वतः॑ परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति ॥ सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे᳚ । ताभि॑र्नोऽवि॒ता भ॑व ॥ अ॒ग्निर्मू॒र्धा , भुवः॑ >त्वन्नः॑ सोम॒ , या ते॒ धामा॑नि ॥ तथ् स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता᳚ ।
पदपाठः (Word-by-word)
अग्ने᳚ । यम् । य॒ज्ञ्म् । अ॒द्ध्व॒रम् । वि॒श्वतः॑ । प॒रि॒भूरिति॑ परि - भूः । असि॑ ॥ सः । इत् । दे॒वेषु॑ । ग॒च्छ॒ति॒ ॥ सोम॑ । याः । ते॒ । म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । ऊ॒तयः॑ । सन्ति॑ । दा॒शुषे᳚ ॥ ताभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥ अ॒ग्निः । मू॒द्‌र्धा । भुवः॑ ॥ त्वम् । नः॒ । सो॒म॒ । या । ते॒ । धामा॑नि ॥ तत् । स॒वि॒तुः । वरे᳚ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ॥ धियः॑ । यः । नः॒ । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया᳚त् ॥ अचि॑त्ती । यत् । च॒कृ॒म । दैव्ये᳚ । जने᳚ । दी॒नैः । दक्षैः᳚ । प्रभू॒तीति॒ प्र - भू॒ती॒ । पू॒रु॒ष॒त्वतेति॑ पूरुष - त्वता᳚ ॥
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाकः ११ चातुर्मास्यगतवैश्वदेवपर्वणि विहित याज्यापुरोनुवाक्याः

-७, ११,१७, १९-२० गायत्री, १०, १२,१४, १८, त्रिष्टुप् ८, १३ जगती विश्वेदेवा ऋषयः

चतुर्थकाण्डे प्रथमप्रपाठके एकादशोऽनुवाकः

मन्त्रः

अग्ने॒ यय्ँय॒ज्ञम॑ध्व॒रव्ँवि॒श्वत॑ᳶ परि॒भूरसि॑ ।

स इद्दे॒वेषु॑ गच्छति ।

सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तय॒स्सन्ति॑ दा॒शुषे᳚ ।

ताभि॑र्नोऽवि॒ता भ॑व ।

टीका

[चतुर्थकाण्डे प्रथमप्रपाठके एकादशोऽनुवाकः] दशमेऽनुवाके वहूनिधारणमुक्तम्। अथैकादशे चातुर्मास्यगते वैश्वदेवाख्ये प्रथमपर्वणि विहितानां हविषां याज्यानुवाक्या उच्यन्ते।

तत्र प्रथमस्याऽऽज्यभागस्य चोदकप्राप्तामपवदितुमन्यां पुरोनुवाक्या-माह— अग्ने यं यज्ञमिति। हेऽग्नेऽध्वरं हिंसारहितं यं यज्ञं विश्वतः परिभूरसि सर्वतः प्राप्तवानसि, स इत्स एव यज्ञो देवेषु गच्छति।

अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्यामाह— सोम यास्त इति । हे सोम दाशुषे हविर्दत्तवते यजमानाय मयोभुवः सुखं भावयितुस्ते तव या ऊतयो रक्षणप्रकाराः सन्ति ताभिरूतिभिर्नोऽस्माकमविता रक्षको भव।

मन्त्रः

अ॒ग्निर्मू॒र्धा भुवः॑ ।

टीका

अथाऽऽग्नेयमष्टाकपालं निर्वपतीत्यस्मिन्हविषि याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति– अग्निर्मूर्धेति । अग्निमूर्धेति पुरोनुवाक्या । भुवो यज्ञस्येति याज्या। एत-च्चोभयमैष्टिके होत्रकाण्डे समाम्नातं, तच्चास्माभिरुदाहृत्य चक्षुषी वा एते यज्ञस्येत्य-स्मिन्ननुवाके व्याख्यातम्।

(मन्त्रः) - अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुत्पति॑ᳶ पृथि॒व्या अ॒यम् ।

अ॒पाꣳ रेताꣳ॑सि जिन्वति ॥

(टीका) तृतीया - अग्निरिति गायत्री ॥ अयमग्निर्मूर्धा प्रधानभूतः दिवः द्युलोकस्य ककुत् उच्छ्रितः आत्मेत्यर्थः अर्यमात्मना दिवो मूर्धत्वेन वतत इति । अयमेव पृथिव्याः पतिः पाता; अग्निर्हि पृथिव्यात्मना वर्तते । सोयमपां रेतांसि कार्यभूतानि स्थावरजङ्गमाख्यानि माध्यमिकाग्निरूपेण जिन्वति वृष्ट्या तर्पयति । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् । ‘उदात्तयणः’ इति पृथिव्याः ॥]

अन्या त्वग्निकाण्डे व्याख्यास्यते, यत्राम्नायते । ‘अग्निर्मूर्धा’ इत्यत्रानुवाके । इह तु प्रतीके अनयोर्गृह्येते । अयमग्निर्देवो दिवो मूर्धा प्रधानभूतः, पृथिव्याश्च ककुत् प्रधानः पतिः, अपां रेतांसि कार्यभूतानि भुवनानि जिन्वति प्रीणयतीति प्रथमा ॥

‘आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालमग्निमुद्वासयिष्यन्’ इति द्विहविष्कस्याग्नेयस्य याज्यानुवाक्ये - अग्निर्मूर्धा दिवः ककुत्, भुवो यज्ञस्येति गायत्रीत्रिष्टुभौ ॥ एतयोराद्या ‘उपप्रयन्तः’ इत्यत्र व्याख्याता ।

[कल्पः “ अग्निर्मूर्धेति तिस्रो गायत्रीः षुरस्तादुपदधात्यवेमुत्तराणि त्रीणि त्रीणि त्रिष्ठुभो दक्षिणतो जगतीः पश्वादनुष्टुभ उत्तरतो बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दाꣳसि यथावकाशमतिच्छन्दसं मध्ये द्विपदा अन्ततः ” इति। तत्र त्रिसृषु गाबत्रीषु पर्थमां गायत्रीमाह— अग्निर्मूर्धेति। अयमग्निरादित्यरूपेण दिवो द्युलोकस्य ककुदुच्छ्रितो मूधां शिरःस्थानीयः, पृथिव्याः पतिर्दाहपकादिकारित्वेन पालकोऽप्ययम्। किंच, अप रेतांस्युदककायांणिस्थात्वरजङ्गमशरीराणि जाठराग्निरूपेण जिन्वति प्रीणयति। ]

पूर्णमन्त्रपाठः

-[भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।

दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥

भुवो यज्ञस्य रजस उदकस्य च नेता प्रापयिता भवसि तदानीम् । कदा? यत्र शिवाभिः नियुद्भिरश्वैस्सचसे सम्बध्यसे । मरुतामश्वा नियुतस्तद्वन्तो वायव इह गृह्यन्ते । तदानीं यज्ञं च प्रवर्तयसि उदकं चावपातयसि । दिवि च मूर्धानं प्रधानभूतं यज्ञं च दधिषे स्थापयसि सुवर्षां स्वर्गीणां सम्भक्तारम् । स त्वं हे अग्ने तव जिह्वां हविषो वोध्रीं चकृषे कुरुष्वेति द्वितीया ॥]

मन्त्रः

त्वन्न॑स्सोम॒ या ते॒ धामा॑नि ।

टीका

१८५४ अथ सौम्यं चरुमित्यस्मिन्हविषि याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति— त्वं न सोमेति। त्वं नः सोम विश्वत इति पुरोनुवाक्या।

पूर्णमन्त्रपाठः

[ त्वन्न॑स्सोम वि॒श्वतो॒ रख्षा॑ राजन्नघाय॒तः ।

न रि॑ष्ये॒त्त्वाव॑त॒स्सखा᳚ ।

अस्य सौम्यस्य पुरोनुवाक्या - त्वन्न इति गायत्री ॥ हे सोमराजन् अः अस्मान् विश्वतः विश्वस्मात् अघायतः अघं पापमस्माकमिच्छतो जनात् रक्ष । ‘छन्दसि परेच्छायामपि’ इति क्यच्, ‘अश्वाघस्यात् ' इत्यात्वम्, ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । त्वावतः त्वत्सदृशस्य । ‘युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानम्’ इति वतिः, ‘आ सर्वनाम्नः’ इत्यात्वम् । त्वावतो हि सखा कश्चिदपि न रिष्येत् यज्ञविभ्रेषादिभिः हिंस्यो भवितुं नार्हति । तस्मात्तदनुरूपमस्मान्रक्ष । ‘द्व्यचोतस्तिङः’ इति संहितायां रक्षेत्यस्य दीर्घत्वम् ॥]

मन्त्रः

या ते॒ धामा॑नि ।

टीका

या ते धामानीति याज्या। एतच्योभयं स प्रत्नवन्नि काव्येत्यनुवाके व्याख्यातम्।

पूर्णमन्त्रपाठः

[या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्ँ या पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु ।

तेभि॑र्नो॒ विश्वैः᳚ सु॒मना॒ अहे॑ड॒न्राज᳚न्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ।

तत्रैव याज्या - या त इति त्रिष्टुप् ॥ हे सोमराजन् या यानि ते तव धामानि स्थानानि नामानि वा, जन्मानि वा, तेजांसि वा दिवि सन्ति, यानि च पृथिव्यां सन्ति, यानि च पर्वतेषु यानि ओषधीषु, यानि वाप्सु तेभिः तैर्विश्वैर्धामभिः ना मभिः सर्वात्मनास्मभ्यमुपकुर्वद्भिः, स्थानैर्वा सवर्त्र सन्निधानहेतुभिः, जन्मभिर्वा नानोपकारहेतुभिः, तेजोभिर्वा सर्वदोषक्षाळनैः अहेडन् अक्रुद्ध्यन् अस्या नादिकः [अज्ञानादिकं] सहमानः, अपि तु सुमना सानुग्रहमना एव भूत्वा । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् । हेदृ अनादरे । अस्माकं हव्यानि प्रतिगृभाय प्रतिगृहाण । ‘छन्दसि शायजपि’, ‘हृग्रहोर्भः’ इति भत्वम् । प्रतिगृह्य चास्माकं भ्रेषदोषं अपनयेति ॥]

मन्त्रः

तथ्स॑वि॒तुर्वरे᳚ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि ।

धियो॒ यो न॑ᳶ प्रचो॒दया᳚त् ।

टीका

अथ सावित्रं द्वादशकपालमित्येतस्य हविषः पुरोनुवाक्यामाह— तत्सवितुर्वरेण्यभिति। यः सवितास्माकं बुद्धीः प्रेरयति तस्य सवितुर्देवस्य वरणीयं भर्गस्तेजो ध्यायेम।

मन्त्रः

अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दख्षै॒ᳶ प्रभू॑ती पूरुष॒त्वता᳚ । [43]

दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वन्नो॒ अत्र॑ सुवता॒दना॑गसः ।

टीका

तत्रैव याज्यामाह— अचित्ती यदिति। पूरुषस्य भावः पूरुषत्वं पुरुषत्वमेव पूरुषत्वता। सा च प्रभूत्यतिवहुला देहेन्द्रियादिसंघातेषु पुरुषोऽहमस्मीतितादात्म्याभिधानभ्रान्तिरत्यन्तं दृढेत्यर्थः। तथा सत्यचित्ती कर्तव्याकर्तव्योरज्ञानेन दीनैदक्षैर्विषयलम्पटतया दीनत्वं प्राप्तैः स्वस्वव्यापारकुशलैरिन्द्रियैर्दैव्य जने देवतासंबन्धिनि शरीरे यच्चकृम यत्पापं वयं कृतवन्तः, हे सवितस्त्वं देवेषु मनुष्येषु चात्रास्मिन्कर्मणि नोऽस्माननागसः पापरहिता यथा भवामस्तथा सुवतात्प्रेरय।

मन्त्रः

चो॒द॒यि॒त्री सू॒नृता॑ना॒ञ्चेत॑न्ती सुमती॒नाम् ।

य॒ज्ञन्द॑धे॒ सर॑स्वती ।

टीका

अथ सारस्वतं चरुमित्यस्य पुरोनुवाक्यामाह— चोदयित्रीति। स्नृतानां प्रियवाक्यानां [णा] चोदयित्री प्रेरयित्री सुमतीनां शोभनबुद्धीनामस्माकं कृत्यं चेतन्ती जानन्ती सरस्वती यज्ञमिमं दधे धारितवती।

मन्त्रः

पावी॑रवी क॒न्या॑ चि॒त्रायु॒स्सर॑स्वती वी॒रप॑त्नी॒ धिय॑न्धात् ।

ग्नाभि॒रच्छि॑द्रꣳ शर॒णꣳ स॒जोषा॑ दुरा॒धर्ष॑ङ्गृण॒ते शर्म॑ यꣳसत् ।

टीका

तत्रैव याज्यामाह— पावीरवी कन्येति। सरस्वती धियं धादस्मदीये कर्मणि सावधानां बुद्धिं धारयतु । कीदृशी, पावीरवी पातॄन्वीरांश्च वयति जनयतीति पावीरवी । कन्या कमनीया। चित्रायुर्विचित्रं जीवनं यस्याः सा। वीरपत्नी वीराणां पालयित्री । ग्नाभिश्छन्दोभिर्युक्ता सरस्वती सजोषा यजमानेन समानप्रीतिः सतीगृणते स्तुवते यजमानाय शर्म यंसत्सुखं प्रयच्छतु । कीदृशं शर्म, अच्छिद्रमविछिन्नं शरण रक्षकं दुराधर्षमन्यैर्धर्षयितुमशक्यम् ।

मन्त्रः

पू॒षा गा अन्वे॑तु नᳶ पू॒षा र॑ख्ष॒त्वर्व॑तः ।

पू॒षा वाजꣳ॑ सनोतु नः ।

टीका

अथ पौष्णं चरुमित्यस्य पुरोनुवाक्यामाह— पूषा गा अन्वेत्विति। अयं पूषा नोऽस्माकं गा अन्वेतु रक्षणाय पृष्ठतो गच्छतु। किंचायं पूषाऽर्वतोऽश्वान्रक्षतु। पूषा नोऽस्मभ्यं वाजमन्नं सनोतु संपादयतु।

मन्त्रः

शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑ अ॒न्यत् [44] विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।

विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ।

टीका

तत्रैव याज्यामाह— १८५५ शुक्रं ते अन्यदिति। हे पूषंस्ते तव शुक्रं शुद्धस्वरूपमन्यदनेकप्रकारम्, उदयकाले रक्तवर्णं रूपमन्यत्, मध्याह्नकाले श्वेतवर्णं रूपमन्यत्, इत्येवमनेक-प्रकारत्वम् । तथा ते तव यजतं पूजनमप्यन्यत्। प्रातःकाले मित्रस्य चर्षणीधृत इत्यादिभिर्मन्त्रैः पूज्यसे। मध्याह्ने त्वा सत्येनेत्यादिभिः । तथा त्वया निष्पादिते अहनी अपि, विषुरूपे नानारूपे। अहःशब्दश्छत्रिन्यायेन रात्रिमप्युपलक्षयति। अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम् । एवं हि चित्रकार्यकृदपि त्वं द्यौरि-वासि। आकाशं यथैकरूपं तद्वत्त्वमपि पक्षपातराहित्यादेकरूपोऽसि । मीयन्ते पदार्था याभिश्चत्तवृत्तिभिस्ताश्चित्तवृत्तयो मायाः । कव्यदानवाचिना च स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे स्वधावोऽन्नवन्विश्वा हि मायाः सर्वां अपि अन्यदीयचित्त-वृत्तीरवसि रक्षसि । हे पूषन्निह कर्मणि ते तव रातिर्भद्राऽस्तु फलप्रदानं समीचीनं भवतु ।

मन्त्रः

ते॑ऽवर्धन्त॒ स्वत॑वसो महित्व॒नाऽऽनाक॑न्त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ ।

विष्णु॒र्यद्धाव॒द्वृष॑णम्मद॒च्युत॒व्ँवयो॒ न सी॑द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ।

टीका

अथ मारुतं सप्तकपालमित्यस्य पुरोनुवाक्यामाह— तेऽवर्धन्तेति। तवो बलं, स्वं, स्वाधीनं तवो येषां ते स्वतवसः। तादृशास्ते मरुतो महीत्वना महत्त्वेन स्वकीयेनावर्धन्त । ते मरुतो नाकं स्वर्गमातस्थुः प्राप्तवन्तः। उरु सदश्चक्रिरे स्वर्गे यजमानाय स्थानं कृतवन्तः। वृषणं कामानां वषंकं, मदच्युतं हर्षक्षारकमत्यन्तं हर्षकारणमित्यर्थः। तादृशं यद्वर्हिर्मरु-त्संबन्धि कर्म विष्णुर्ह विष्णुरेवाऽऽवत्पालितबांस्तस्मिन्प्रिये बर्हिषि मरुतोऽधिष्ठाय वयो न वय इव सीदन्। यथा पक्षिणः सायंकाले वृक्षे सीद्रन्ति तद्वदेव तिष्ठन्तीति।

मन्त्रः

प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् ।

ये सहाꣳ॑सि॒ सह॑सा॒ सह॑न्ते [45] रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ।

२२ तत्रैव याज्यामाह— प्र चित्रमर्कमिति। हे ऋत्विग्यजमानाश्चित्रमर्कं विविधमर्चनं मारुताय मरुत्समूहाय प्रभरध्वं प्रकर्षेण संपादयत। कीदृशाय मारुताय, गृणते हविर्दानाय गृणते, तुराय शीघ्रमामिने(णे), स्वतवसे स्वाधीनबलाय। हे ऋत्विग्यजमाना ये भवन्तः सहसा मरुतां बलेन सहांसि वैरिबलानि सहन्तऽभिभवन्ति ते यूयं भरध्व-मिति पूर्वत्रान्वयः । हेऽग्ने त्वमेव तत्पश्येत्यध्याहारः। किं द्रष्टव्यं तदाश्चर्य- १८५६ मिति तदुच्यते इयं पृथिवी मखेभ्यो मारुतयज्ञेभ्यो रेजते कम्पते। कथं नामैतदीया यज्ञा निर्विघ्नेन समाप्यन्त इति प्रयत्नं करोति एतदिदमिति।

मन्त्रः

विश्वे॑ दे॒वा विश्वे॑ देवाः ।

टीका

अथ वैश्वदेवीमामिक्षामित्येतस्मिन्हविषि याज्यानुवाक्ययोः प्रतीके दर्शयति — विश्वे देवा इति । विश्वे देवा ऋतावृध इति पुरोनुवाक्या । विश्वे देवाः शृणुतेति याज्या । एतच्चोभयं नवोनवो भवतीत्येतस्मिन्ननुवाके व्याख्यातम् ।

पूर्णमन्त्रपाठः

विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षन्ता॒य्ँयुज्य॒म्पयः॑ ।

अथ ‘वैश्वदेवीं सांग्रहणीं निर्वपेद्ग्रामकामः’ इत्यस्य पुरोनुवाक्या - विश्वे देवा ऋतावृध इति गायत्री ॥ विश्वेदेवाः ऋतावृधः ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारः । ण्यन्तात्क्विप्, ‘बहुलमन्यत्रापि’ इति णिलुक्, ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घत्वम् । हवनश्रुतः आह्वानस्य श्रोतारः आह्वानप्रयोजनस्य कर्तार इति । ह्वयतेर्लेटि ‘बहुलं छन्दसि’ इति संप्रसारणम् । ते ऋतुभिः कालावयवैः पर्वादिभिस्सह जुषन्तां सेवन्तां युज्यं योग्यं पयः पयसि चरुम् अत एव वचनादिति ॥

पूर्णमन्त्रपाठः

विश्वे॑ देवाश्शृणु॒तेमꣳ हव॑म्मे॒ ये अ॒न्तरि॑ख्षे॒ य उप॒ द्यवि॒ ष्ठ ।

ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥

तत्रैव याज्या - विश्वे देवाः शृणुतेति त्रिष्टुप् ॥ हे विश्वेदेवाः मे मम इमं हवमाह्वानं शृणूत । ये यूयमन्तरिक्षे स्थ, ये च उप समीपे पृथिव्यां स्थ, ये च दिवि द्युलोके स्थ, ये चाग्निजिह्वाः ये चाग्नेः जिह्वायां स्थिताः हविर्भाजः । तात्स्थ्यात्ताछब्द्यम् । यद्वा - अग्निर्जिह्वास्थानीयो येषाम् । छान्दसमन्तोदात्तत्वम् । उतवा अपिवा ये यजत्राः यजनीयाः पूजामात्रभाजः । ते सर्वेपि यूयं अस्मिन् बर्हिषि यज्ञे आसाद्य आसित्वा मादयध्वं तृप्यत । मद् तृप्तियोगे, चौरादिकः, अनुदात्तेत्, तृप्ताश्चास्माकं ग्रामं साधयतेति ॥

मन्त्रः

द्यावा॑ नᳶ पृथि॒वी इ॒मꣳ सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् ।

य॒ज्ञन्दे॒वेषु॑ यच्छताम् ।

टीका

द्यावापृथिव्यमेककपालमित्यस्य पुरोनुवाक्यामाह— द्यावा नः पृथिवीति। द्यावापृथिवी द्युदेवता पृथिवीदेवता चेत्युभे अद्या-स्मिन्दिने नोऽस्मदीयमिमं यज्ञं देवेषु समर्पयेताम्। कीदृशं यज्ञं, फलस्य साधकं, दिविस्पृशम् अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठत इति न्यायेन स्वर्गस्पर्शयुक्तम्।

मन्त्रः

प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिᳵ कृ॑णुध्व॒ꣳ॒ सद॑ने ऋ॒तस्य॑ ।

आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यात॒म्महि॑ वा॒व्ँवरू॑थम् ।

टीका

तत्रैव याज्यामाह— प्र पूर्वजे पितरेति। प्रपूर्वजे प्रथमोत्पन्ने द्यावापृथिव्यौ पितरा मातापितृ-समाने। ‘द्यौः पिता । पृथिवी माता’ इति श्रुत्यन्तरात् । हे ऋत्विग्यजमाना ऋतस्य सदने यज्ञस्य स्थाने नव्यसीभिरतिशयेन नूतनाभिर्गीर्भिर्मन्त्ररूपाभिर्वाग्भिः कृणुध्वं द्यावापृथिव्योः स्तुतिं कुरुध्वम् । हे द्यावापृथिव्यौ दैव्येन जनेन देवसंबन्धिना पुरुष-समूहेन सह नोऽस्मान्प्रत्यायातम्। वां युवयोः संबन्धि त्ररूथं यज्ञगृहं महि पूज्यम् ।

मन्त्रः

अ॒ग्निꣵ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ।

टीका

अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह— अग्निꣳ स्तोमेनेति । हे यजमान त्वं समिधानोऽग्निं दीपयन्नमर्त्यं मरण-रहितमग्निं स्विष्टकृद्रूपं स्तोमन स्तोत्रेण तोषयित्वाऽनेन प्रकारेण बोधय। केन प्रकारे-णेति तदुच्यतेनोऽस्मदीयानि हव्या हवींषि देवेषु दधत्स्थापयेति।

मन्त्रः

स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ।

टीका

तत्रैव याज्यामाह— स हव्यवाडिति। स्विष्टकृद्रूपोऽग्निर्धिया करुणायुक्तेन चेतसा समृण्वति सम्यगिह प्राप्नोतु । कीदृशोऽग्निः । हव्यं वहतीति हव्यवाट् । अमर्त्यो मरणरहितः । उशिगनुग्रहपूर्वमस्मान्कामयमानः । दूतो देवानामाज्ञाकारी । चनोहितः, चनसां मनुष्याणां यजमानानां हितोऽभीष्टकारी ।

मन्त्रः

शन्नो॑ भवन्तु

टीका

१८५७ अथ वाजिनो यजतीति विहिते कर्मणि याज्यानुवाक्ययोः प्रतीके दशंयति - शं नो भवन्न्विति।

शं नो भवन्तु वाजिन इति पुरोनुवाक्या ।

पूर्णमन्त्रपाठः

[ शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वस्स्व॒र्काः ।

ज॒म्भय॒न्तोऽहि॒व्ँवृक॒ꣳ॒ रख्षाꣳ॑सि॒ सने᳚म्य॒स्मद्यु॑यवन्नमी॑वाः ॥

शं नो भवन्त्विति त्रिष्टुप् । आस्तारपङ्क्तिपक्षे देवतातेत्यादिः त्रिपदा त्रिष्टुप् ॥ नोस्माकं शं भवन्तु सुखहेतवो भवन्तु हवेषु आह्वानेषु । पूर्ववदप् । वाजिनोश्वाः देवताता देवास्तायन्ते विस्तार्यन्ते पृथक्पृथगाराध्यन्तेस्मिन्निति देवतातिर्यज्ञः । परमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन ‘अनुनासिकस्य क्विझलोः’ इति पूर्वपदस्य दीर्घत्वम्, तत्रानुनासिकलोपः, पूर्ववत्सप्तम्या डादेशः । दासीभारादिः । मितद्रवः व्याख्यातम् । स्वर्काः शोभनगमनाः शोभनस्तुतयो वा । ‘नञ्सुभ्याम्’ इति स्वरः । जम्भयन्तः भञ्जयन्तः अहिमागत्य हन्तारं वृकं हिंसकं चोरादिकं रक्षांसि च । यद्वा - अहिमागत्य हन्तारं वृकमपहर्तारम् । कुक वृक आदाने, इगुपधात्कः । रक्षांसि धर्मविघ्नकारीणि । सनेमि क्षिप्रमित्येके, पुराणमित्यन्ये । अस्मदस्मत्तः युयवन् यावयन्तु पृथक्कुर्वन्तु ।

किञ्च - अमीवाः रोगांश्च युयवन्नित्येव । आगत्य हिंसन्तीत्यमीवाः । मीयतेराङ्पूर्वाद्वप्रत्ययः, उपसर्गस्य च ह्रस्वत्वं निपात्यते । यौतेर्लेटि शपश्लुः, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् ङित्त्वाभावे गुणः ॥]

अथामिक्षानिष्पादिनो वाजिनहविषो याज्यानुवाक्ययोः प्रतीके दर्शयति — शं नो भवन्त्विति । शं नो भवन्तु वाजिनो हवेष्विति पुरोनुवाक्या ।

मन्त्रः

वाजे॑वाजे ।

टीका

वाजेवाजेऽवत वाजिन इति याज्या । एतच्चोभयं देवस्याहंꣳ सवितुरित्यनुवाके व्याख्यातम् ।

पूर्णमन्त्रपाठः

[ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ॥

अ॒स्य मध्व॑ᳶ पिबत मा॒दय॑ध्वन्तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः᳚ ॥

अश्वान् धावतोनुमन्त्रयते - वाजेवाज इत्यादिभिश्चतसृभिः । आद्या त्रिष्टुप् । ‘वाजिनो नः’ इति प्रथमपादान्तः ॥ वाजेवाजे अन्नेऽन्ने साध्ये वाजिनः अश्वाः अस्मानवत रक्षत तल्लम्भयित्वा । किञ्च - धनेषु अवतेति वनानि चास्मान् लम्भयत । हे विप्रा मेधाविनः यथा तद्रागिणः अमृताः अमरणाः ऋतज्ञाः सत्यज्ञास्सत्यवन्तः अस्य मध्वः मधुसदृशस्य घृतस्य पिबत । पूर्ववत्कर्मणि षष्ठी । नुमभावश्छान्दसः । पीत्वा च मादयध्वं तृप्यत । मद तृप्तियोगे, चुरादिरनुदात्तेत् । तृप्ताश्च यात गच्छत । पथिभिर्मार्गैर्देवयानैः देवा यैर्गच्छन्ति, तैर्मनोहरैः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥]

अत्र विनियोगसंग्रहः— अथ याज्या वैश्वदेवे चातुर्मास्यादिपर्वणि।

अग्ने सो अनुवाक्ये ते अग्नीषोमाज्यभागयोः॥

अग्निर्भुवस्तथाऽऽग्नेये त्वं नो या ते च सौमिके।

तत्सेति युग्मं सावित्रे चोद सारस्वते तथा॥

पूषा पौष्णो मारुते ते विश्वे द्वे वैश्वदेविके।

द्यावा द्यावापृथिव्ये स्यादग्निं स्विष्टकृतो यजेः।

शं वाजे वाजिने मन्त्रा द्वात्रिंशतिरुदीरिताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशेकृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्॥

पुमार्थांश्चतुरो देवाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमः प्रपाठकः ॥ १॥

—---------------------------

पञ्चशत् 2 #
TS 4.1.11.2 TS 4.1.11.2
दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वन्नो॒ अत्र॑ सुवता॒दना॑गसः ॥ चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नां । य॒ज्ञ्ं द॑धे॒ सर॑स्वती ॥ पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्रꣳ शर॒णꣳ स॒जोषा॑ दुरा॒धर्.षं॑ गृण॒ते शर्म॑ यꣳसत् ॥ पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजꣳ॑ सनोतु नः ॥ शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्य - [ ]
पदपाठः (Word-by-word)
दे॒वेषु । च॒ । स॒वि॒तः॒ । मानु॑षेषु । च॒ । त्वम् । नः॒ । अत्र॑ । सु॒व॒ता॒त् । अना॑गसः ॥ चो॒द॒यि॒त्री । सू॒नृता॑नाम् । चेत॑न्ती । सु॒म॒ती॒नामिति॑ सु - म॒ती॒नाम् ॥ य॒ज्ञ्म् । द॒धे॒ । सर॑स्वती ॥ पावी॑रवी । क॒न्या᳚ । चि॒त्रायु॒रिति॑ चि॒त्र - आ॒युः॒ । सर॑स्वती । वी॒रप॒त्नीति॑ वी॒र - प॒त्नी॒ । धिय᳚म् । धा॒त् ॥ ग्नाभिः॑ । अच्छि॑द्रम् । श॒र॒णम् । स॒जोषा॒ इति॑ स-जोषाः᳚ । दु॒रा॒धर्.ष॒मिति॑ दुः - आ॒धर्.ष᳚म् । गृ॒ण॒ते । शर्म॑ । यꣳ॒॒स॒त् ॥ पू॒षा । गाः । अन्विति॑ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व॑तः ॥ पू॒षा । वाज᳚म् । स॒नो॒तु॒ । नः॒ ॥ शु॒क्रम् । ते॒ । अ॒न्यत् । य॒ज॒तम् । ते॒ । अ॒न्यत् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.1.11.3 TS 4.1.11.3
-द्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥ ते॑ऽवर्द्धन्त॒ स्वत॑वसो महित्व॒ना ऽऽनाकं॑ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ । विष्णु॒ र्यद्धाऽऽव॒द्-वृष॑णं मद॒च्युतं॒ ॅवयो॒ न सी॑द॒न्नधि॑ ब॒र्॒.हिषि॑ प्रि॒ये ॥ प्रचि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरद्ध्वं । ये सहाꣳ॑सि॒ सह॑सा॒ सह॑न्ते॒ - [ ]
पदपाठः (Word-by-word)
विषु॑रूपे॒ इति॒ विषु॑ - रू॒पे॒ । अह॑नी॒ इति॑ । द्यौः । इ॒व॒ । अ॒सि॒ ॥ विश्वाः᳚ । हि । मा॒याः । अव॑सि । स्व॒धा॒व॒ इति॑ स्वधा - वः॒ । भ॒द्रा । ते॒ । पू॒ष॒न्न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥ ते । अ॒व॒द्‌र्ध॒न्त॒ । स्वत॑वस॒ इति॒ स्व - त॒व॒सः॒ । म॒हि॒त्व॒नेति॑ महि - त्व॒ना । एति॑ । नाक᳚म् । त॒स्थुः । उ॒रु । च॒क्रि॒रे॒ । सदः॑ ॥ विष्णुः॑ । यत् । ह॒ । आव॑त् । वृष॑णम् । म॒द॒च्युत॒मिति॑ मद - च्युत᳚म् । वयः॑ । न । सी॒द॒न्न् । अधीति॑ । ब॒र्॒.हिषि॑ । प्रि॒ये ॥ प्रेति॑ । चि॒त्रम् । अ॒र्कम् । गृ॒ण॒ते । तु॒राय॑ । मारु॑ताय । स्वत॑वस॒ इति॒ स्व - त॒व॒से॒ । भ॒र॒द्ध्व॒म् ॥ ये । सहाꣳ॑सि । सह॑सा । सह॑न्ते ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.1.11.4 TS 4.1.11.4
रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥ विश्वे॑ दे॒वा विश्वे॑ देवाः ॥ द्यावा॑ नः पृथि॒वी इ॒मꣳ सि॒द्ध्रम॒द्य दि॑वि॒स्पृशं᳚ । य॒ज्ञ्ं दे॒वेषु॒ यच्छतां ॥ प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुद्ध्वꣳ॒॒ सद॑ने ऋ॒तस्य॑ । आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ ॅवरू॑थं ॥ अ॒ग्निꣳ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यं । ह॒व्या दे॒वेषु॑ नो दधत् ॥ स ह॑व्य॒वाडम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ( ) । अ॒ग्निर्द्धि॒या समृ॑ण्वति ॥ शन्नो॑ भवन्तु॒, वाजे॑वाजे> 8 ॥
पदपाठः (Word-by-word)
रेज॑ते । अ॒ग्ने॒ । पृ॒थि॒वी । म॒खेभ्यः॑ ॥ विश्वे᳚ । दे॒वाः । विश्वे᳚ । दे॒वाः॒ ॥ द्यावा᳚ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒द्ध्रम् । अ॒द्य । दि॒वि॒स्पृश॒मिति॑ दिवि - स्पृश᳚म् ॥ य॒ज्ञ्म् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥ प्रेति॑ । पू॒र्व॒जे इति॑ पूर्व-जे । पि॒तरा᳚ । नव्य॑सीभिः । गी॒र्भिः । कृ॒णु॒द्ध्व॒म् । सद॑ने॒ इति॑ । ऋ॒तस्य॑ ॥ एति॑ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी । दैव्ये॑न । जने॑न । या॒त॒म् । महि॑ । वा॒म् । वरू॑थम् ॥ अ॒ग्निम् । स्तोमे॑न । बो॒ध॒य॒ । स॒मि॒धा॒न इति॑ सं - इ॒धा॒नः । अम॑र्त्यम् ॥ ह॒व्या । दे॒वेषु॑ । नः॒ । द॒ध॒त् ॥ सः । ह॒व्य॒वाडिति॑ हव्य - वाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनो॑हितः ( ) ॥ अ॒ग्निः । धि॒या । समिति॑ । ऋ॒ण्व॒ति॒ ॥ शम् । नः॒ । भ॒व॒न्तु॒ । वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ ॥
पदसंख्या: 58