अनुवाकः 7 TS 4.1.7

(A7)

(इ॒मे शि॒वो अ॒ग्ने - ऽति॒ - सौभ॑गाय॒ - चतु॑स्त्रिꣳशच्च)

अनुवाकः 7 - Complete Audio

TS 4.1.7 - स्वरानुगामी

0:00 0:00
PS1.1 समा᳚स्त्वाऽग्न ऋ॒तवो॑ वर्द्धयन्तु संॅवथ्स॒रा
PS1.2 ऋष॑यो॒ यानि॑ स॒त्या
PS1.3 सं दि॒व्येन॑ दीदिहि रोच॒नेन॒
PS1.4 विश्वा॒ आ भा॑हि प्र॒दिशः॑
PS1.5 पृथि॒व्याः
PS1.6 सं चे॒द्ध्यस्वा᳚ऽग्ने॒ प्र च॑
PS1.7 बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय
PS1.8 मा च॑ रिषदुपस॒त्ता ते॑
PS1.9 अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒
PS1.10 माऽन्ये
PS1.11 त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे
PS1.12 शि॒वो अ॑ग्ने - [
PS1.13 ]
PS2.1 सं॒ ॅवर॑णे भवा नः
PS2.2 स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे
PS2.3 गये॑ जागृ॒ह्य प्र॑युच्छन्न्
PS2.4 इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं
PS2.5 मा त्वा॒ निक्र॑न् पूर्व॒चितो॑
PS2.6 निका॒रिणः॑
PS2.7 क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्द्धतां
PS2.8 ते॒ अनि॑ष्टृतः
PS2.9 क्ष॒त्रेणा᳚ऽग्ने॒ स्वायुः॒ सꣳ र॑भस्व
PS2.10 मि॒त्रेणा᳚ऽग्ने मित्र॒धेये॑ यतस्व
PS2.11 स॒जा॒तानां᳚ मद्ध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने
PS2.12 विह॒व्यो॑ दीदिही॒ह
PS2.13 अति॒ - [ ]
PS3.1 निहो॒ अति॒ स्रिधो ऽत्यचि॑त्ति॒-मत्यरा॑तिमग्ने
PS3.2 विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यꣳ॑
PS3.3 स॒हवी॑राꣳ र॒यिन्दाः᳚
PS3.4 अ॒ना॒धृ॒ष्यो जा॒तव॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्-दी॑दिही॒ह
PS3.5 विश्वा॒ आशाः᳚ प्रमु॒ञ्चन् मानु॑षीर्भि॒यः
PS3.6 शि॒वाभि॑र॒द्य परि॑ पाहि नो
PS3.7 वृ॒धे
PS3.8 बृह॑स्पते सवितर्बो॒धयै॑नꣳ॒॒ सꣳशि॑तं चिथ्सं
PS3.9 त॒राꣳ सꣳ शि॑शाधि
PS3.10 व॒र्द्धयै॑नं मह॒ते सौभ॑गाय॒- [ ]
PS4.1 विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः
PS4.2 अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒र मु॑ञ्चः
PS4.3 प्रत्यौ॑हता-म॒श्विना॑ मृ॒त्युम॑स्माद् दे॒वाना॑-मग्ने भि॒षजा॒ शची॑भिः
PS4.4 उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रं
PS4.5 दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.1.7.1 TS 4.1.7.1
समा᳚स्त्वाऽग्न ऋ॒तवो॑ वर्द्धयन्तु संॅवथ्स॒रा ऋष॑यो॒ यानि॑ स॒त्या । सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्याः ॥ सं चे॒द्ध्यस्वा᳚ऽग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय । मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ माऽन्ये ॥ त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने - [ ]
पदपाठः (Word-by-word)
समाः᳚ । त्वा॒ । अ॒ग्ने॒ । ऋ॒तवः॑ । व॒द्‌र्ध॒य॒न्तु॒ । स॒ॅवं॒थ्स॒रा इति॑ सं-व॒थ्स॒राः । ऋष॑यः । यानि॑ । स॒त्या ॥ समिति॑ । दि॒व्येन॑ । दी॒दि॒हि॒ । रो॒च॒नेन॑ । विश्वाः᳚ । एति॑ । भा॒हि॒ । प्र॒दिश॒ इति॑ प्र - दिशः॑ । पृ॒थि॒व्याः ॥ समिति॑ । च॒ । इ॒द्ध्यस्व॑ । अ॒ग्ने॒ । प्रेति॑ । च॒ । बो॒ध॒य॒ । ए॒न॒म् । उदिति॑ । च॒ । ति॒ष्ठ॒ । म॒ह॒ते । सौभ॑गाय ॥ मा । च॒ । रि॒ष॒त् । उ॒प॒स॒त्तेत्यु॑प - स॒त्ता । ते॒ । अ॒ग्ने॒ । ब्र॒ह्माणः॑ । ते॒ । य॒शसः॑ । स॒न्तु॒ । मा । अ॒न्ये ॥ त्वाम् । अ॒ग्ने॒ । वृ॒ण॒ते॒ । ब्रा॒ह्म॒णाः । इ॒मे । शि॒वः । अ॒ग्ने॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाकः ७ अग्निचयनाङ्गपशुसामिधेन्यः

-५ त्रिष्टुप्, ६ विराड्रूपा, १० अनुष्टुप् । अग्निर्ऋषिः

चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः

मन्त्रः

समा᳚स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु सव्ँवथ्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।

सन्दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॑ᳶ पृथि॒व्याः ।

टीका

[अथ चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः] षष्ठेऽनुवाक उखासंस्कार उक्तः । अथ सप्तमेऽनुवाके पञ्चपश्वङ्गभूता आग्निक्यः सामिधेन्य उच्यन्ते।

कल्पः—‘एकर्विंशतिं चतुर्विशतिं वा पराचीः सामिधेनीरन्वाहैकादश प्राकृतीः समास्त्वाऽग्न इति दशाऽऽग्निकीः’ इति । तत्राऽऽद्यामाह— समास्त्वाऽग्न इति । समाशब्दः संवत्सरवाची । संवत्सरशब्देन तु तदव यवा मासा अर्धमासाश्चोपलक्ष्यन्ते । हेऽग्ने संवत्सर ऋतवो मासा अर्धमासाश्चेत्येते कालविशेषाः । तथर्पयो मन्त्रद्रष्टारः । तथा यानि सत्यानि सत्यवचनानि सन्ति ते सर्वेऽपि त्वां वर्धयन्तु । तैर्वर्धितस्त्वं दिव्येन द्युलोकार्हेण रोचनेन तेजसा संदीदिहि सभ्यग्दीप्यस्व । किंच त्वदीयया दीप्त्या पृथिव्याः संबन्धिनीः प्रदिशः सर्वा दिशो विदिशश्चाऽऽभाहि सर्वतो भासय ।

मन्त्रः

सञ्चे॒ध्यस्वा᳚ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय ।

मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शस॑स्सन्तु॒ माऽन्ये ।

टीका

अथ द्वितीयामाह— सं चेध्यस्वाग्न इति । हेऽग्ने त्वं समिध्यस्व च स्वयमपि दीप्तो भव । एनं प्रबोधय च यजमानं कर्मानुष्ठानाय प्रबुद्धं कुरु । महते सौभगायोत्तिष्ठ १८१४ च यजमानस्यात्यन्तसौभाग्यार्थमुद्युक्तोऽपि भव । हेऽग्ने ते तवोपसत्ता परिचारकश्च मत्परिषन्मा हिंस्यताम् । किंच ते त्वदीया ब्रह्माणो ब्राह्मणा ऋत्विग्यजमाना यशसः सन्तु यशरिवनो भवन्तु । अन्ये त्वत्परिचर्याविमुका यशस्विनो मा भूवन् ।

मन्त्रः

त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने [25] स॒व्ँवर॑णे भवा नः ।

स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन्न् ।

टीका

अथ तृतीयामाह— त्वामग्न इति । हेऽग्न इमे ब्राह्मणा ऋत्विग्यजमानास्त्वां वृणते संभजन्त आराधयन्ति । हेऽग्ने नोऽस्माकं संवरणेऽपराधानामाच्छादने निमित्तभूते सति शिवः शान्तो भव, अपराधं मा प्रकटयेत्यर्थः । किंच नोऽस्माकं सपत्नहा वीरघाती, अभिमातिजित्पापजयकारी च भूत्वा स्वे गये स्वकीये गृहेऽप्रयुछन्प्रमादमकुर्वन्ञ्जागृहि सावधानो भव । अस्माद्धितं विचारयेत्यर्थः ।

मन्त्रः

इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम्मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ ।

ख्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतान्ते॒ अनि॑ष्टृतः ।

टीका

अथ चतुर्थीमाह— इहैवाग्न इति । हेऽग्न इहैव गृह एव रयिं धनमधिधारयाधिक्येन संषा-दय । पूर्वचितो येऽस्मत्तोऽपि पूर्वमग्नेश्चेतारस्तेऽस्मान्प्रति निकारिणो निराकर्तारो भृत्वा त्वामस्मामिश्चीयमानमग्निं मा निक्रन्मेमैव निराकुर्वन्तु । हेऽग्ने तुभ्यं तव क्षत्रं बलं सुयममस्तु सुस्थितं भवतु । ते तत्रोपसत्ता परिचारकोऽनिष्टृतः केनापि नित रामहिंसितः सन्वर्धताम् ।

मन्त्रः

ख्ष॒त्रेणा᳚ग्ने॒ स्वायु॒स्सꣳ र॑भस्व मि॒त्रेणा᳚ग्ने मित्र॒धेये॑ यतस्व ।

स॒जा॒ताना᳚म्मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ।

टीका

अथ पञ्चमीमाह— क्षत्त्रेणाग्न इति । हेऽग्ने क्षत्रेण त्वदीयेन बलेन स्वायुरस्मदीयं शोभनमायुः संरभस्व संरक्षाऽऽयुःसंरक्षणेऽप्रमत्तो भव । हेऽग्ने मित्रधेये मित्राणामस्माकं धारणे मित्रेणानुग्रहयुक्तेन चित्तेन यतस्व प्रतस्व प्रयत्नं कुरु । अग्निना सह प्रजापतेर्मुखतो जातत्वाद्ब्राह्मणा अग्नेः सजातास्तेषां मध्यमस्था एधि मध्यमे प्रदेशेऽवस्थितो भव । सर्वदा ब्राह्मणान्पूजयेत्यर्थः । हूयतेऽत्रेति हवा यज्ञा विविधाश्च ते हवाश्च विहवाः विहवानर्हतीति विहव्यः । हेऽग्ने त्वमिह भूमौ राज्ञां विहव्यो विविधयज्ञप्रवर्तकः सन्दीदिहि, अतिशयेन दीप्यस्व ।

मन्त्रः

अति॑ [26] निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।

विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिन्दाः᳚ ।

टीका

अथ षष्ठीमाह— अति निहो अतीति । निकृष्टानि श्वशुकरादिजन्मानि जिहीते प्राप्नोति यैर्दुरितैस्तानि दुरितानि हकारान्तेन निहशब्देनोच्यन्ते । शरीरशोषणादिहेतवो रोग-विशेषाः स्रिधुशब्दनोच्यन्ते । हेऽग्ने निहो दुरितान्यतिसहस्वातिशयेन विना १८१५ शय । स्त्रिधो रोगांश्चातिसहस्व । अचित्तिं कर्मानुष्ठानविषयज्ञानं चातिसहस्व । अरातिं कर्मविघ्नकारिणं शत्रु चातिसहस्व । हिशब्दोऽपिशब्दार्थः । किंबहुना, हेऽग्ने विश्वान्यपि दुरितान्यनिष्टकारणानि सहस्व विनाशय । अथानन्तरमस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां सयिं धनं दा देहि ।

मन्त्रः

अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने ख्षत्र॒भृद्दी॑दिही॒ह ।

विश्वा॒ आशाः᳚ प्रमु॒ञ्चन्मानु॑षीर्भि॒यश्शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ।

टीका

अथ सप्तमीमाह— अनाधृष्य इति । हेऽग्ने त्वमिह कर्मणि दीदिहि दीप्यस्व । कीदृशस्त्वम् । अनाधृष्य इतः परं केनाप्यधर्षणीयः । जातवेदा उत्पन्नसमस्तजगदभिज्ञः । अनिष्टृत इतः पूर्वमपि केनाप्यहिंसितः । विराड्विविधं राजमानः । क्षत्रं बलं बिभर्तीति क्षत्र-भृत् किंच यथोक्तविशेणषविशिष्टस्त्वं शिवाभिः शान्ताभिरनुग्रह दृष्टिभिरद्यास्मिन्क-र्मणि नोऽस्मान्वृधेऽभिवृद्धये परिपाहि सर्वतः पालय । किं कुर्वत् । बिश्वा आशा निषिद्धाचरणविषयाः सर्वास्तृष्णा मानुषीर्भियो मनुष्येषु प्रसक्ता व्याध्यादिभीतीश्च प्रमुञ्चन्प्रकर्षेण निवारयन् ।

मन्त्रः

बृह॑स्पते सवितर्बो॒धयै॑न॒ꣳ॒ सꣳशि॑तञ्चिथ्सन्त॒राꣳ सꣳ शि॑शाधि ।

व॒र्धयै॑नम्मह॒ते सौभ॑गाय [27] विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।

टीका

अथाष्टमीमाह— बृहस्पत इति । अत्र बृहस्पतिसवितृशब्दावग्निपरौ । सामिधेनीनामाग्नेय-त्वात् । बृहस्पतिसवितृभ्यां तुल्य हेऽग्ने एनं यजमानं बोधय कर्मणि बुद्धिमन्तं कुरु। संशितंचित्पूर्वमेव निशितबुद्धिमप्येनं संतरां संशिशाधि पुनरप्यतिशयेन सम्यगनुशा-सनवन्तं कुरु । एनं यजमानं महते सौभगाय वर्धय । विश्वे सर्वेऽपि देवा एनं यज-मानमनुमदन्तु समीचीनोऽयमिति हृष्यन्तु ।

मन्त्रः

अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।

प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ।

टीका

अथ नवमीमाह— अमुत्रभूयादिति । भूयो भावः । अमुत्र स्वर्गे भूयोऽमुत्रभूयः । स्वर्गे चिरावस्थानमित्यर्थः । पञ्चमी निमित्तार्था । अधशब्दो धकारयुक्त इदानीमित्येतस्मिन्नर्थे वर्तते । हे बृहस्पतितुल्याग्नेऽमुत्रभूयात्स्वर्गे चिरावस्थानं निमित्तीकृत्याथेदानीं यम-स्याभिशस्तेर्यमसंबन्धिहिंसानिमित्तात्पापादस्मानमुञ्चो मोचितवानसीति यत्तेनास्माकं परलोकविषये चिन्ता नास्तीति शेषः । हेऽग्ने देवानां भिषजावश्विनौ देवौ शचीभिः । स्वकीयशक्तिभिरस्माद्यजमानान्मृत्युं प्रत्यौहताम्, अपमृत्युमिह लोके निराकुरुताम् ।

मन्त्रः

उद्व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।

दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ [28]

टीका

अथ दशमीमाह— उद्वयं तमस इति । वयं तमस उत्तरं ज्योतिस्तमसो विनाशकत्वेनोत्कृष्ट- १८१६ मग्निसंबद्धं ज्योतिरुत्परि पश्यन्त उत्कर्षेण सर्वतोऽवलोकयन्तो देवत्रा देवेषु मध्ये सूर्यं देवं सृर्यरूपेण वर्तमानमग्निसंबद्धमेवोत्तयं ज्योतिरगन्म प्राप्तास्म ।

अत्र विनियोगसंग्रहः— समास्त्वा सामिधेन्यः स्युर्दशैता आग्निके पशौ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
पञ्चशत् 2 #
TS 4.1.7.2 TS 4.1.7.2
सं॒ ॅवर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्य प्र॑युच्छन्न् ॥ इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ निक्र॑न् पूर्व॒चितो॑ निका॒रिणः॑ । क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्द्धतां ते॒ अनि॑ष्टृतः ॥ क्ष॒त्रेणा᳚ऽग्ने॒ स्वायुः॒ सꣳ र॑भस्व मि॒त्रेणा᳚ऽग्ने मित्र॒धेये॑ यतस्व । स॒जा॒तानां᳚ मद्ध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ॥ अति॒ - [ ]
पदपाठः (Word-by-word)
सं॒ॅवर॑ण॒ इति॑ सं - वर॑णे । भ॒व॒ । नः॒ ॥ स॒प॒त्न॒हेति॑ सपत्न-हा । नः॒ । अ॒भि॒मा॒ति॒जिदित्य॑भिमाति - जित् । च॒ । स्वे । गये᳚ । जा॒गृ॒हि॒ । अप्र॑युच्छ॒न्नित्यप्र॑ - यु॒च्छ॒न्न् ॥ इ॒ह । ए॒व । अ॒ग्ने॒ । अधीति॑ । धा॒र॒य॒ । र॒यिम् । मा । त्वा॒ । नीति॑ । क्र॒न्न् । पू॒र्व॒चित॒ इति॑ पूर्व - चितः॑ । नि॒का॒रिण॒ इति॑ नि - का॒रिणः॑ ॥ क्ष॒त्रम् । अ॒ग्ने॒ । सु॒यम॒मिति॑ सु - यम᳚म् । अ॒स्तु॒ । तुभ्य᳚म् । उ॒प॒स॒त्तेत्यु॑प-स॒त्ता । व॒द्‌र्ध॒ता॒म् । ते॒ । अनि॑ष्टृतः ॥ क्ष॒त्रेण॑ । अ॒ग्ने॒ । स्वायु॒रिति॑ सु - आयुः॑ । समिति॑ । र॒भ॒स्व॒ । मि॒त्रेण॑ । अ॒ग्ने॒ । मि॒त्र॒धेय॒ इति॑ मित्र - धेये᳚ । य॒त॒स्व॒ ॥ स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् । म॒द्ध्य॒म॒स्था इति॑ मद्ध्यम-स्थाः । ए॒धि॒ । राज्ञा᳚म् । अ॒ग्ने॒ । वि॒ह॒व्य॑ इति॑ वि - ह॒व्यः॑ । दी॒दि॒हि॒ । इ॒ह ॥ अतीति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.1.7.3 TS 4.1.7.3
निहो॒ अति॒ स्रिधो ऽत्यचि॑त्ति॒-मत्यरा॑तिमग्ने । विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यꣳ॑ स॒हवी॑राꣳ र॒यिन्दाः᳚ ॥ अ॒ना॒धृ॒ष्यो जा॒तव॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्-दी॑दिही॒ह । विश्वा॒ आशाः᳚ प्रमु॒ञ्चन् मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ॥ बृह॑स्पते सवितर्बो॒धयै॑नꣳ॒॒ सꣳशि॑तं चिथ्सं त॒राꣳ सꣳ शि॑शाधि । व॒र्द्धयै॑नं मह॒ते सौभ॑गाय॒- [ ]
पदपाठः (Word-by-word)
निहः॑ । अतीति॑ । स्रिधः॑ । अतीति॑ । अचि॑त्तिम् । अतीति॑ । अरा॑तिम् । अ॒ग्ने॒ ॥ विश्वा᳚ । हि । अ॒ग्ने॒ । दु॒रि॒तेति॑ दुः - इ॒ता । सह॑स्व । अथ॑ । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । स॒हवी॑रा॒मिति॑ स॒ह - वी॒रा॒म् । र॒यिम् । दाः॒ ॥ अ॒ना॒धृ॒ष्य इत्य॑ना - धृ॒ष्यः । जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ । अनि॑ष्टृतः । वि॒राडिति॑ वि - राट् । अ॒ग्ने॒ । क्ष॒त्र॒भृदिति॑ क्षत्र - भृत् । दी॒दि॒हि॒ । इ॒ह ॥ विश्वाः᳚ । आशाः᳚ । प्र॒मु॒ञ्चन्निति॑ प्र - मु॒ञ्चन्न् । मानु॑षीः । भि॒यः । शि॒वाभिः॑ । अ॒द्य । परीति॑ । पा॒हि॒ । नः॒ । वृ॒धे ॥ बृह॑स्पते । स॒वि॒तः॒ । बो॒धय॑ । ए॒न॒म् । सꣳशि॑त॒मिति॒ सं - शि॒त॒म् । चि॒त् । स॒तं॒रामिति॑ सं - त॒राम् । समिति॑ । शि॒शा॒धि॒ ॥ व॒द्‌र्धय॑ । ए॒न॒म् । म॒ह॒ते । सौभ॑गाय ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.1.7.4 TS 4.1.7.4
विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥ अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒र मु॑ञ्चः । प्रत्यौ॑हता-म॒श्विना॑ मृ॒त्युम॑स्माद् दे॒वाना॑-मग्ने भि॒षजा॒ शची॑भिः ॥ उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रं । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मं ॥
पदपाठः (Word-by-word)
विश्वे᳚ । ए॒न॒म् । अन्विति॑ । म॒द॒न्तु॒ । दे॒वाः ॥ अ॒मु॒त्र॒भूया॒दित्य॑मुत्र - भूया᳚त् । अध॑ । यत् । य॒मस्य॑ । बृह॑स्पते । अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ । अमु॑ञ्चः ॥ प्रतीति॑ । औ॒ह॒ता॒म् । अ॒श्विना᳚ । मृ॒त्युम् । अ॒स्मा॒त् । दे॒वाना᳚म् । अ॒ग्ने॒ । भि॒षजा᳚ । शची॑भि॒रिति॒ शचि॑ - भिः॒ ॥ उदिति॑ । व॒यम् । तम॑सः । परीति॑ । पश्य॑न्तः । ज्योतिः॑ । उत्त॑र॒मित्युत् - त॒र॒म् ॥ दे॒वम् । दे॒व॒त्रेति॑ देव - त्रा । सूर्य᳚म् । अग॑न्म । ज्योतिः॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् ॥
पदसंख्या: 34