वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ सं ॅव॑साथां भ॒र्तम॒ग्निं पु॑री॒ष्यं᳚ ॥ संॅव॑साथाꣳ सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना᳚ । अ॒ग्निम॒न्त र्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒ मज॑स्र॒मित् ॥ पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑राः । अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दद्ध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्द्ध्नो विश्व॑स्य वा॒घतः॑ ॥ तमु॑ त्वा द॒द्ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒- [ ]
पदपाठः (Word-by-word)
वर्म॑ । च॒ । स्थः॒ । अच्छि॑द्रे॒ इति॑ । ब॒हु॒ले इति॑ । उ॒भे इति॑ ॥ व्यच॑स्वती॒ इति॑ । समिति॑ । व॒सा॒था॒म् । भ॒र्तम् । अ॒ग्निम् । पु॒री॒ष्य᳚म् ॥ समिति॑ । व॒सा॒था॒म् । सु॒व॒र्विदेति॑ सुवः - विदा᳚ । स॒मीची॒ इति॑ । उर॑सा । त्मना᳚ ॥ अ॒ग्निम् । अ॒न्तः । भ॒रि॒ष्यन्ती॒ इति॑ । ज्योति॑ष्मन्तम् । अज॑स्रम् । इत् ॥ पु॒री॒ष्यः॑ । अ॒सि॒ । वि॒श्वभ॑रा॒ इति॑ वि॒श्व - भ॒राः॒ ॥ अथ॑र्वा । त्वा॒ । प्र॒थ॒मः । निरिति॑ । अ॒म॒न्थ॒त् । अ॒ग्ने॒ ॥ त्वाम् । अ॒ग्ने॒ । पुष्क॑रात् । अधीति॑ । अथ॑र्वा । निरिति॑ । अ॒म॒न्थ॒त॒ ॥ मू॒द्र्ध्नः । विश्व॑स्य । वा॒घतः॑ ॥ तम् । उ॒ । त्वा॒ । द॒द्ध्यङ् । ऋषिः॑ । पु॒त्रः । ई॒धे॒ ।