अनुवाकः 2 TS 4.1.2

(A2)

(प्र॒तूर्व॒न्थ् - सूर्य॑स्य - तिष्ठ॒ - जिघ॑र्मि - भे॒त्तारं॑ - ॅविꣳश॒तिश्च॑)

अनुवाकः 2 - Complete Audio

TS 4.1.2 - स्वरानुगामी

0:00 0:00
PS1.1 इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि
PS1.2 वि॒दथे॑षु क॒व्या
PS1.3 तया॑ दे॒वाः सु॒तमा ब॑भूवुर्.
PS1.4 ऋ॒तस्य॒ साम᳚न्थ् स॒रमा॒रप॑न्ती
PS1.5 प्रतू᳚र्तं ॅवाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒ॅवतं᳚
PS1.6 दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒
PS1.7 नाभिः॑ पृथि॒व्यामधि॒ योनिः॑
PS1.8 यु॒ञ्जाथाꣳ॒॒ रास॑भं ॅयु॒वम॒स्मिन्. यामे॑ वृषण्वसू
PS1.9 अ॒ग्निं भर॑न्तमस्म॒युं
PS1.10 योगे॑योगे त॒वस्त॑रं॒ ॅवाजे॑वाजे हवामहे
PS1.11 सखा॑य॒ इन्द्र॑म॒तये᳚
PS1.12 प्र॒तूर्व॒- [ ]
PS2.1 -न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान् मयो॒भूरेहि॑
PS2.2 उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्ति ग॑व्यूति॒रभ॑यानि कृ॒ण्वन्न्
PS2.3 पू॒ष्णा स॒युजा॑ स॒ह
PS2.4 पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑रि॒ष्य॑-मङ्गिर॒स्व-दच्छे᳚ह्य॒ग्निं पु॑री॒ष्य॑
PS2.5 -मङ्गिर॒स्वद-च्छे॑मो॒ऽग्निं पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑रिष्यामो॒ऽग्निं पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑रामः
PS2.6 अन्व॒ग्निरु॒षसा॒-मग्र॑मख्य॒-दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः
PS2.7 अनु॒ सूर्य॑स्य - [ ]
PS3.1 पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी
PS3.2 आ त॑तान
PS3.3 आ॒गत्य॑ वा॒ज्यद्ध्व॑नः॒ सर्वा॒ मृधो॒ विधू॑नुते
PS3.4 अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चक्षु॑षा॒
PS3.5 नि चि॑कीषते
PS3.6 आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वं
PS3.7 भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒
PS3.8 यतः॒ खना॑म॒ तं ॅव॒यं
PS3.9 द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मा
PS3.10 ऽन्तरि॑क्षꣳ समु॒द्रस्ते॒ योनिः॑
PS3.11 वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ-
PS3.12 [ ]
PS4.1 पृतन्य॒तः
PS4.2 उत्क्रा॑म मह॒ते सौभ॑गाया॒-स्मादा॒स्थाना᳚द् द्रविणो॒दा वा॑जिन्न्
PS4.3 व॒यꣳ स्या॑म सुम॒तौ पृ॑थि॒व्या
PS4.4 अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः
PS4.5 उद॑क्रमीद् द्रविणो॒दा वा॒ज्यर्वाऽकः॒ स
PS4.6 लो॒कꣳ सुकृ॑तं पृथि॒व्याः
PS4.7 ततः॑ खनेम सु॒प्रती॑कम॒ग्निꣳ सुवो॒
PS4.8 रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे
PS4.9 अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑
PS4.10 तासाꣳ॒॒ स्थाना॒दुज्जि॑हता॒-मोष॑धयः सुपिप्प॒लाः
PS4.11 जिघ॑र्म्य॒- [ ]
PS5.1 -ग्निं मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्तं॒
PS5.2 भुव॑नानि॒ विश्वा᳚
PS5.3 पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒
PS5.4 ॅव्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सं ॅविदा॑नं
PS5.5 आ त्वा॑ जिघर्मि॒ वच॑सा
PS5.6 घृ॒तेना॑ऽर॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व
PS5.7 मर्य॑श्रीः स्पृह॒यद्-व॑र्णो अ॒ग्निर्नाऽभि॒मृशे॑ त॒नुवा॒ जर्.हृ॑षाणः
PS5.8 परि॒ वाज॑पतिः क॒विर॒ग्निर्. ह॒व्यान्य॑क्रमीत्
PS5.9 दध॒द् रत्ना॑नि दा॒शुषे᳚
PS5.10 परि॑ त्वाऽग्ने॒ पुरं॑ ॅव॒यं
PS5.11 ॅविप्रꣳ॑ सहस्य धीमहि
PS5.12 धृ॒षद् व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑
PS5.13 ( ) भङ्गु॒राव॑तः
PS5.14 त्वम॑ग्ने॒ द्युभि॒स्त्व-मा॑शुशु॒क्षणि॒स्त्व-म॒द्भ्यस्त्व-मश्म॑न॒स्परि॑
PS5.15 त्वं ॅवने᳚भ्य॒ स्त्वमोष॑धीभ्य॒ स्त्वं
PS5.16 नृ॒णां नृ॑पते जायसे॒ शुचिः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.1.2.1 TS 4.1.2.1
इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वाः सु॒तमा ब॑भूवुर्. ऋ॒तस्य॒ साम᳚न्थ् स॒रमा॒रप॑न्ती ॥ प्रतू᳚र्तं ॅवाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒ॅवतं᳚ । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ नाभिः॑ पृथि॒व्यामधि॒ योनिः॑ ॥ यु॒ञ्जाथाꣳ॒॒ रास॑भं ॅयु॒वम॒स्मिन्. यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युं ॥ योगे॑योगे त॒वस्त॑रं॒ ॅवाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑म॒तये᳚ ॥ प्र॒तूर्व॒- [ ]
पदपाठः (Word-by-word)
इ॒माम् । अ॒गृ॒भ्ण॒न्न् । र॒श॒नाम् । ऋ॒तस्य॑ । पूर्वे᳚ । आयु॑षि । वि॒दथे॑षु । क॒व्या ॥ तया᳚ । दे॒वाः । सु॒तम् । एति॑ । ब॒भू॒वुः॒ । ऋ॒तस्य॑ । सामन्न्॑ । स॒रम् । आ॒रप॒न्तीत्या᳚ - रप॑न्ती ॥ प्रतू᳚र्त॒मिति॑ प्र - तू॒र्त॒म् । वा॒जि॒न्न् । एति॑ । द्र॒व॒ । वरि॑ष्ठाम् । अन्विति॑ । सं॒ॅवत॒मिति॑ सं - वत᳚म् ॥ दि॒वि । ते॒ । जन्म॑ । प॒र॒मम् । अ॒न्तरि॑क्षे । नाभिः॑ । पृ॒थि॒व्याम् । अधीति॑ । योनिः॑ ॥ यु॒ञ्जाथा᳚म् । रास॑भम् । यु॒वम् । अ॒स्मिन्न् । यामे᳚ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण् - व॒सू॒ ॥ अ॒ग्निम् । भर॑न्तम् । अ॒स्म॒युमित्य॑स्म - युम् ॥ योगे॑योग॒ इति॒ योगे᳚ - यो॒गे॒ । त॒वस्त॑र॒मिति॑ त॒वः - त॒र॒म् । वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ । ह॒वा॒म॒हे॒ ॥ सखा॑यः । इन्द्र᳚म् । ऊ॒तये᳚ ॥ प्र॒तूर्व॒न्निति॑ प्र - तूर्वन्न्॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

चतुर्थकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः - मृदाक्रमणम्

त्रिष्टुप् - ३,४,१९ गायत्री, ११-१२, २० अनुष्टुप्, २ उपरिष्टाद् बृहती, १३ पुरस्ताद् बृहती, ५ प्रस्तारपङ्क्तिः, १,१०, १४-१५,१७-१८, २१ मध्ये ज्योतिः । अग्निर्ऋषिः ।

मन्त्रः

इ॒माम॑गृभ्णन्रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या । तया॑ दे॒वास्सु॒तमा ब॑भूवुर्ऋ॒तस्य॒ साम᳚न्थ्स॒रमा॒रप॑न्ती ।

टीका

[अथ चतुर्थकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः] ।

प्रथमेऽनुवाकेऽभ्र्यादानमुक्तम् । अथ द्वितीये मृदाक्रान्तिरुच्यते ।

कल्पः — “इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीꣳ रशनामादाय” इति ।

पाठस्तु — इमामगृभ्णन्निति । कवयो विद्वांस ऋत्विजस्तानर्हन्तीति कव्या यज्ञाः । कव्या विदथेषु कव्येषु यज्ञेषु ज्योतिष्टोमादिषु ऋतस्याऽऽयुषि आयुरागमनमश्वस्याऽऽगमने निमित्तमूते सति । ऋतशब्दो यज्ञवाची सन्नत्र तत्साधनमश्वमुपलक्षयति । पूर्वे महर्षय इमां रशनामगृभ्णन्स्वीकृतवन्तः । अयमर्थः रशनया बद्धमश्वमानीय मृत्खननस्थाने तमश्वमाक्रमय्य तया मृदा निष्पन्नायामुखायामग्निमुत्पाद्येष्टकाचिते देशे ज्योतिष्टोमादय ऋत्विग्भिरनुष्ठेयाः । एतत्सर्वं मनसि निधाय पूर्वे महर्षयोऽश्वागमनं निमित्तीकृत्य रशनां स्वीकृतवन्त इति । षोऽन्तकर्मणीत्यस्माद्धातोरुत्पन्नत्वात्सामञ्शब्दोऽवसानवाची । ऋतस्य सामन्यज्ञस्य परिसमाप्तये सरं सरणमृत्विग्यजमानानां प्रवृत्तिमारपन्ती कथयन्ती प्रापयन्तीत्यर्थः । या रशना पूर्वोक्तरीत्या यज्ञसमाप्तिपर्यन्तं प्रवृत्तिकारिणी भवति तया रशनया पुरा देवाः सुतमाबभूवुः सोमयागं प्राप्नुयुः । तादृशीमिमां रशनां गृहीतवन्तः । तमिमं मन्त्रं विनियुङ्क्ते — “व्यृद्धं वा एतद्यज्ञस्य यदयजुष्केण क्रियत इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते यजुष्कृत्यै यज्ञस्य समृद्ध्यै” (सं.का.५ प्र.१ अ.२) इति ।

यदङ्गमयजुष्केण मन्त्ररहितेन व्यापारेण निष्पाद्यते यज्ञस्य संबन्धि तदेतदङ्गं समृद्धिहीनमेव । तस्मादिमामिति मन्त्रमुच्चार्य रशनामाददीत । अश्वोऽभिधीयते वद्ध्वा धार्यते यया रशनया सेयमश्वाभिधानी । यद्यपीमामगृभ्णन्नित्यृगेवैषा तथाऽपि यजुर्वेदपठितत्वाद्यजुष्ट्वोपचारः । तस्मिन् मन्त्रे पठिते सति रशनादानं सयजुष्कत्वात्समृद्धं भवति ।

मन्त्रः

प्रतू᳚र्तव्ँवाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ स॒व्ँवत᳚म् । दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑ख्षे॒ नाभि॑ᳶ पृथि॒व्यामधि॒ योनिः॑ ।

टीका

कल्पः — “प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभिदधाति” इति । पाठस्तु — प्रतूर्तं वाजिन्निति । संवन्यते सम्यग्भज्यते मृद्ग्रहणार्थं सेब्यत इति खननयोग्या भूमिः संवत् । सा च पाषाणाद्यभावेनातिप्रशस्तत्वाद्वरिष्ठेत्युच्यते । हे वाजिन्नश्व वरिष्ठां संवतमनुलक्ष्य प्रतूर्तमाद्रवातिशीघ्रमागच्छ । ते तवाश्वस्य दिवि द्युलोके परममुत्कृष्टं जन्म रोहितादिदेवाश्वरूपेण द्युलोके जन्म प्रसिद्धम् । “रोहितेन त्वाऽग्निर्देवतां गमयत्वित्याहैते वै देवाश्वाः” इति ह्यन्यत्राऽऽम्नातम् । तथा तव नाभिरन्तरिक्षे वर्तते । नियुन्नामका हि वायोरश्वास्तदीयं रथं वहन्तोऽन्तरिक्षे संचरन्ति, तद्रूपेणास्यान्तरिक्षवर्तित्वम् । नाभिशब्देन कृत्स्रशरीरमुपलक्ष्यते । तथा पृथिव्यामधि योनिर्भूमेरुपरि तव निवासस्थानं, तत्तु प्रत्यक्षमेव दृश्यते । एवंमहिमा त्वं शीघ्रमागच्छेति पूर्वत्रान्वयः । एनं मन्त्रं विनियुङ्क्ते — ‘प्रतूर्तं वाजिन्ना द्रवेत्यश्वमभि दधाति रूपमेवास्यैतन्महिमानं व्याचष्टे” (सं.का.५ प्र.१ अ.२) इति ।

वाजिन्नाद्रवेत्येवं शीघ्रमागमनमश्वस्य स्वरूपभूतमेव महिमानमेतन्मन्त्रवाक्यं प्रकाशयति । अथवाऽस्य मन्त्रस्यैतद्रूपं वाक्यजातं द्युजन्मादिरूपं महिमानमेनं व्याचष्टे । वस्तुतो द्युजन्माभावेऽपि प्रशंसनार्थमेवमुच्यत इत्यर्थः ।

मन्त्रः

यु॒ञ्जाथा॒ꣳ॒ रास॑भय्ँयु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निम्भर॑न्तमस्म॒युम् ।

टीका

कल्पः — ‘‘तूष्णीं गर्दभरशनामादाय युञ्जाथाꣳ रासभं युवमिति गर्दभम्” इति मन्त्रमन्तरेणैव गर्दभस्य रशनामादाय युञ्जाथामिति मन्त्रेण गर्दभमभिदध्यात् ।

पाठस्तु — युञ्जाथाꣳ रासभमिति । यजमानाः पत्नी चेत्येतौ हे दंपती युवं रासभमस्मिन्यामे युञ्जाथाम् । यामो मृद्वहनरूपो नियमविशेषस्तस्मिन्निमित्तभूते सति युवामुभौ गर्दभं रशनया बध्नीतम् । कीदृशौ युवाम् । वृषण्वसू यागनिष्पादनद्वारा फलाभिवर्षणनिमित्तभूतं वसु धनं ययोस्तौ वृषण्वसू । कीदृशं रासभम् । अग्निं भरन्तमग्निहेतुं मृदं वोढुं समर्थम् । अस्मयुमस्मानात्मन इच्छन्तमस्मद्धितैषिणमिति यावत् । एतं मन्त्रं विनियुङ्क्ते — “युञ्जाथाꣳ रासभं युवमिति गर्दभभसत्येव गर्दभं प्रतिष्ठापयति तस्मादश्वाद्गर्दभोऽसत्तरः” [सं.का.५ प्र.१ अ.२] इति ।

गर्दभमित्यत्राभिदधातीति शेषोऽनुवर्तते । अस्मिन्याम इति मन्त्रेऽभिहितं मृद्वहनमसदित्युच्यते । भारवहनस्य निकृष्टव्यापारत्वात् । अत एतन्मन्त्रपाठेनासत्येव निकृष्ट एव व्यापारे गर्दभं स्थापितवान्भवति । यस्मादत्र निकृष्टकार्ये स्थापितस्तस्माल्लोकेऽपि गर्दभोऽश्वान्निकृष्टतरः । रजकादय एव हि तमाद्रियन्ते न तु राजामात्यादयः ।

मन्त्रः

योगे॑योगे त॒वस्त॑र॒व्ँवाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये᳚ ।

टीका

कल्पः — “योगेयोगे तवस्तरमिति तिसृभिरश्वप्रथमा अभिप्रव्रजन्ति यत्र मृदं खनिष्यन्तः स्युः” इति । तत्र प्रथमामाह — योगेयोगे इति ।

युज्यतेऽनुष्ठीयत इति योगः कर्म । योगेयोगे तत्तत्कर्मणि तवस्तरं वलवत्तरमश्वमिन्द्रमिन्द्रियप्रदभूतये रक्षणाय वाजेवाजे तत्तदन्नप्राप्तिनिमित्तं सखायः परस्परं सख्यं प्राप्ता ऋत्विग्यजमाना वयं हवामह आह्वयामः ।

मन्त्रः

प्र॒तूर्वन्न्॑ [5] एह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान्मयो॒भूरेहि॑ । उ॒र्व॑न्तरि॑ख्ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन्न् ।

टीका

अथ द्वितीयामाह — प्रतूर्वन्नेहीति । हेऽश्व त्वमेहि आगच्छ किं कुर्वन् । प्रतूर्वन्, विरोधिनः शत्रून्हिंसन्नशस्तीरवक्रामन्भ्रातृव्यः क्रियमाणा अपकीर्तीर्निवारयन् । किंच रुद्रस्य क्रूरदेवस्य यद्गाणपत्यं पशूसमूहपतित्वं तस्माद्गाणपत्यादागत्य मयोभूरस्माकं सुखं भावयन्ने (न्नि) हि । उरु विस्तीर्णमन्तरिक्षमनु वीक्ष्येहि विश्रम्भेण गच्छ । किं कुर्वन् । गव्यूतौ गोसमूहे स्वस्ति श्रेयो यथा भवति तथा वर्तमानः स्वस्तिगव्यूतिस्तादृशस्त्वमभयानि कृण्वन्व्याघ्रादिभ्यो भयपरिहारं कुर्वन् ।

मन्त्रः

पू॒ष्णा स॒युजा॑ स॒ह ।

टीका

अथ तृतीयामाह — पूष्णा सयुजेति । सह युज्यते सहायभूतो वर्तत इति सयुक् । तादृशेन पूष्णा पोषकेण देवेन सह हेऽश्व पृथिव्याः सधस्थात्पुरीष्यमग्निमच्छेहि प्राप्तुं गच्छ । खनितुं योग्या कृत्स्नाऽपि मृत्तिका सह तिष्ठति मिलित्वा वर्ततेऽत्रेति सधस्थः प्रदेशविशेषः । तस्मात्प्रदेशादाप्तुमित्यन्वयः । अङ्गिरस्वदिति दृष्टान्तः पूर्ववत् । अत्र प्रथमायामृचि प्रथमभागे वीप्सायास्तात्पर्यं दर्शयति — “योगेयोगे तवस्तरमित्याह योगेयोगे एवैनं युङ्क्ते” (सं.का.५ प्र.१ अ.२) इति ।

रथवहनं योद्धृवहनं वा यद्यदश्वस्य योग्यं कर्म तत्र सर्वत्रैनमश्वं योजयत्येव लौकिकः । तस्मादत्रापि योगेयोगे इति वीप्सोच्यते ।

द्वितीयभागे वाजशब्दार्थं दर्शयति — “वाजेवाजे हवामह इत्याहान्नं वै वाजोऽन्नमेवाव रुन्धे” [सं.का.५ प्र.१ अ.२] इति ।

तृतीयभाग इन्द्रशब्दतात्पर्यं दर्शयति — “सखाय इन्द्रमूतय इत्यहेन्द्रियमेवाव रुन्धे” [सं.का.५ प्र.१ अ.२] इति ।

अनेन मन्त्रेण साध्यमश्वपुरःसरं गमनं विधत्ते — ‘अग्निर्देवेभ्यो निलायत तं प्रजापतिरन्वविन्दत्प्राजापत्योऽश्वोऽश्वेन सं भरत्यनुवित्त्यै’ [सं.का.५ प्र.१ अ.२] इति ।

केनाप्यपराधेन देवेभ्यो निर्गतमग्निं प्रजापतिरन्विष्य लब्धवान् । अश्वश्च प्रजापतिजन्यत्वात्प्राजापत्यः । तस्मादश्वेन सहाग्निहेतुं मृदं संभरितुं गच्छेत् । तच्च गमनमग्नेरनुवेदनाय भवति ।

तत्राश्वस्य गर्दभात्पुरतो गमनं विधत्ते — ‘पापवस्यसं वा एतत्क्रियते यच्छ्रेयसा च पापीयसा च समानं कर्म कुर्वन्ति पापीयान्ह्यश्वाद्गर्दभोऽश्वं पूर्वं नयन्ति पापवस्यसस्य व्यावृत्त्यै तस्माच्छ्रेयाꣳसं पापीयान्पश्चादन्वेति’ [सं.का.५ प्र.१ अ.२] इति ।

श्रेयसोत्तमेन च साधनेन पापीयसा निकृष्टेनापि साधनेन समानं तुल्यमेकं कार्यं कुर्वन्तीति यत्तदेतत्पापवस्यसमेव क्रियते । पापमेव वसु धनं यस्य कर्मणस्तत्पापवसु, अतिशयेन पापवसु तत्पापवस्यसमत्यन्तं निकृष्टप्रित्यर्थः । गर्दभोऽश्वात्पापीयानिति प्रसिद्धम् । अत उभयोः समानं मा भूदित्यश्यं पूर्वं पुरतो नयेयुः । तथा सति पापवस्यसं निवारितं भवति । यस्मादेवं तस्माल्लोकेऽपि विद्याधनादिभिः श्रेयान्पुरुषः पुरतो गच्छति, निकृष्टः शिष्यो दरिद्रो वा पश्चादनुगच्छति ।

द्वितीयमन्त्रगतस्याशस्तीरवक्रामन्नित्यस्य तात्पर्यं दर्शयति — ‘बहुर्वै भवतो भ्रातृव्यो भवतीव खलु वा एष योऽग्निं चिनुते वज्र्यश्वः प्रतूर्वन्नेह्यवक्रामन्नशस्तीरित्याह वज्रेणैव पाप्मानं भ्रातृव्यमव क्रामति’ [सं.का.५ प्र.१ अ.२] इति ।

भवतो भूतिमैश्वर्यं प्राप्नुवतः पुरुषस्य भ्रातृव्यो विघ्नकारी बहुर्भवत्येव । श्रेयांसि बहुविघ्नानीति न्यायात् । अतोऽत्र योऽग्निं चिनुत एष भवतीव खलु श्रेयः प्राप्नोत्येव खलु । अतोऽनेन भ्रातृव्यपरिहारोऽन्वेषणीयः । अश्वश्च वज्रयुक्तेन्द्रसमानः । अतोऽश्वं संबोध्याशस्तीरवक्रामन्नित्युक्त्याऽश्वरूपेण वज्रेणैव विघ्नकारिणं पाप्मानं भ्रातृव्यं निराकरोति ।

तन्मन्त्रगतस्यैव गाणपत्यादित्यस्य तात्पर्यं दर्शयति — ‘रुद्रस्य गाणपत्यादित्याह रौद्रा वै पशवो रुद्रादेव पशून्निर्याच्याऽऽत्मने कर्म कुरुते’ [सं.का.५ प्र.१ अ.२] इति । पशूनां रौद्रत्वं वरादवगम्यते । ‘सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानिति’ इत्यत्र रुद्रस्य वर आम्नातः । तस्मादत्र रुद्रस्य गाणपत्यान्मयोभूरेहीत्युक्त्या पशुस्वामिनो रुद्रादेव तान्पशून्निःशेषेण याचित्वा तैः पशुभिः स्वार्थं कर्म करोति । तृतीयमन्त्रे सयुजेत्यस्य तात्पर्यं दर्शयति — ‘पूष्णा सयुजा सहेत्याह पूषा वा अध्वनाꣳ संनेता समष्ट्यै’ [सं.का.५ प्र.१ अ.२] इति ।

पोषको देव एवोपद्रवपरिहारेण मार्गाणां सम्यङ्नेता भवति । अतस्तेन सह समष्ट्यै संगत्यै पूष्णा सयुजेत्युच्यते ।

मन्त्रः

पृ॒थि॒व्यास्स॒धस्था॑त् .. अ॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑हि ।

टीका

तस्मिन्नेव मन्त्रे पुरीष्यमिति विशेषणस्याङ्गिरस्वदिति दृष्टान्तस्य च तात्पर्यं दर्शयति — ‘पुरीषायतनो वा एष यदग्निरङ्गिरसो वा एतमग्रे देवतानाꣳ समभरन्पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदच्छेहीत्याह सायतनमेवैनं देवताभिः सं भरति । [सं.का.५ प्र.१ अ.२] इति ।

पुरीषस्य पांसोः पूर्वोक्तरीत्या परम्परयाऽग्न्यायतनत्वम् । अतः पुरीष्यशब्देनाग्निं सायतनमेव संपादयति । अङ्गिरसश्च पुरा तमेतमग्निं देवतानां पुरतः संपादितवन्तः । अतोऽङ्गिरस्वदित्युक्त्या देवताभिः सहितमेनं संपादितवान्भवति ।

मन्त्रः

अ॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मः ।

टीका

अग्निं पुरीष्यमिति । कल्पः — ‘अग्निं पुरीष्यमङ्गिरस्वदच्छेम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयतेऽपश्यन्निर्दिशति’ इति ।

मृत्खनं प्रति गच्छन्तः पुरुषा मार्गमध्ये यदि केनापि द्वेप्येण संगच्छेरन् । तदानीमिमं मन्त्रं पठेत् । इमो गच्छाम इत्यर्थः । शेषं पूर्ववत् । यदि द्वेष्यं न पश्यति तदाऽपि तं मनसा निर्दिश्य पठेत् ।

अनेन पाठेन द्वेष्यस्यान्नं विनाश्यत इत्येतद्दर्शयति — ‘अग्निं पुरीष्यमङ्गिरस्वदच्छेम इत्याह येन संगच्छते वाजमेवास्य वृङ्क्ते’ (सं.का.५ प्र.१ अ.२) इति ।

मन्त्रः

अग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामः ।

टीका

अग्निं पुरीष्यमिति । कल्पः — ‘अग्निं पुरीष्यमङ्गिरस्वद्भरिष्याम इति वल्मीकवपा या सूर्यस्योदेतोस्तामुद्धृत्योपतिष्ठते’ इति ।

वल्मीकस्य योऽवयव उन्नतत्वेनाभिवृद्धः सेयं वपा, तथाविधासु वपासु मध्ये या वपा सूर्योदयस्याभिमुखा तस्या अग्रं किंचिदुद्धृत्य तां वपामनेन मन्त्रेणोपतिष्ठते । भरिष्यामः संपादयिष्यामः । शेषं पूर्ववत् ।

अनेन मन्त्रेण वपोपस्थानं विधत्ते — ‘प्रजापतये प्रतिप्रोच्याग्निः संभृत्य इत्याहुरियं वै प्रजापतिस्तस्या एतच्छ्रोत्रं यद्वल्मीकोऽग्निं पुरीष्प्रमङ्गिरस्वद्भरिष्याम इति । वल्मीकवपामुपतिष्ठते साक्षादेव प्रजापतये प्रतिप्रोच्याग्निंꣳ सं भरति’ (सं.का.५ प्र.१ अ.२) इति ।

प्रजापतेः सकाशादनुज्ञां लब्ध्वाऽयमग्निः संपादनीय इत्येवमभिज्ञा आहुस्तच्चोपपन्नम् । प्रजापतिना पूर्वमग्नेर्लब्धत्वात् । तं प्रजापतिरन्वविन्ददिति पूर्वत्रोक्तम् । कथं तर्हि प्रजापतये वक्तव्यमिति चेत्तदुच्यते प्रजापतिना सृष्टत्वादियं पृथिव्येव प्रजापतिः । तस्याश्च वल्मीकवपैव श्रोत्रम् । अत एवाऽऽधानब्राह्मणे समाम्नातम् — ‘श्रोत्रꣳ ह्येतत्पृथिव्याः । यद्वल्मीकः । इति । तस्मात्तां वपामनेन मन्त्रेणोपतिष्ठते । तेनोपस्थानेन व्यवधानमन्तरेणैव प्रजापतये कथयित्वाऽग्निं संभरति ।

मन्त्रः

अग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः ।

टीका

अग्निं पुरीष्यमिति । कल्पः — ‘अत्वरमाणाः प्रत्यायन्त्यग्निं पुरीष्यमङ्गिरस्वद्भराम इति येन द्वेष्येण संगच्छते तमभिमन्त्रयतेऽपश्यन्निर्दिशति’ इति ।

यद्वद्गमनकाले तद्वदागमनकालेऽपि । तत्र भरिष्याम इति पाठः । अत्र तु भराम इति विशेषः । यद्यप्यागमनस्य नायं कालस्तथाऽपि प्रसङ्गाद्बुद्धिस्थमन्त्रोऽयमाम्नातस्तं चोपरिष्टादुत्कर्षेत् ।

गमनकालीनमन्त्रवदस्यापि तात्पर्यं दर्शयति — ’अग्निं पुरिष्यमङ्गिरस्वद्भराम इत्याह येन संगच्छते वाजमेवास्य वृङ्क्ते’ (सं.का.५ प्र.१ अ.२) इति ।

मन्त्रः

अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य [6] पु॒रु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ।

टीका

कल्पः ‘अन्वग्निरुषसामग्रमख्यदिति वल्मीकवपायाः प्रक्रामति’ इति ।

पाठस्तु — अन्वग्निरुषसामिति । अयमग्निरुषसामुषःकालानामग्रमुपक्रममन्वख्यत्’ अनुक्रमेण प्रकाशितवान् । अयं जातवेदाः प्रथमो मुख्यः सन्नहान्यप्यन्वख्यत् । किंच सूर्यस्य पुरुत्रा पुरून्बहून्रश्मीननुक्रमेणाख्यत् । किंच द्यावापृथिवी उभे अप्यनुक्रमेणाऽऽततान सर्वतो व्याप्तवान् ।

अनेन मन्त्रेणोषःकालादीनां क्रमेणाऽऽविर्भावः सिध्यतीत्येतद्दर्शयति - “अन्वग्निरुषसामग्रमख्यदित्याहानुख्यात्यै” (सं.का.५ प्र.१ अ.२) इति ।

मन्त्रः

आ॒गत्य॑ वा॒ज्यध्व॑न॒स्सर्वा॒ मृधो॒ वि धू॑नुते । अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चख्षु॑षा॒ नि चि॑कीषते ।

टीका

कल्पः — “आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमिति द्वाभ्यां मृत्खनमश्वमाक्रमय्य” इति । तत्र प्रथमायाः पाठस्तु — आगत्येति । अयं वाज्यध्वनो मार्गादागत्य प्राप्य सर्वा मृधो मार्गश्रमादीन्सर्वान्बाधकान्विधूनुते विविधं कम्पयति । विनाशयतीत्यर्थः । यत्र पांसवः सहावतिष्ठन्त तत्स्थानं सधस्थं, महति विस्तीर्णे सधस्थेऽयमश्वश्चक्षुषा दृष्ट्वाऽग्निमग्निहेतुं मृदं निचिकीषते नितरां चेतुं संपादयितुमिच्छति ।

मन्त्रः

आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यत॒ᳵ खना॑म॒ तव्ँव॒यम् ।

टीका

अथ द्वितीयामाह — आक्रम्येति । हे वाजिन्पृथिवीमाक्रम्य पादस्पर्शेन परीक्ष्य त्वं रुचा स्वकीयेन तेजसा मानसज्ञानेनेत्यर्थः । अग्निमिच्छाग्निहेतुं मृदं निश्चिनु । भूम्या वृत्त्वाय पृथिव्या सह वरणं कृत्वा पृथिवीं पृष्ट्वेत्यर्थः । नोऽस्माकं ब्रूहि अयं प्रदेशोऽग्निहेतुमृद्योग्य इति कथय । यस्मात्प्रदेशात्तादृशी मृल्लभ्यते तं प्रदेशं वयं खनाम ।

अत्रैतयोर्द्वयोर्मन्त्रयोः पृथगुपयोगं दर्शयति — “आगत्य वाज्यध्वन आक्रम्य वाजिन्पृथिवीमित्याहेच्छत्येवैनं पूर्वया विन्दत्युत्तरया” (सं.का.५ प्र.१ अ.२) इति ।

पूर्वस्यामृचि निचिकीषत इत्यभिधानादिच्छामात्रं तया संपद्यते । उत्तरस्यामृचि नो ब्रूहीत्युक्तत्वात्तया तं प्रदेशं लभते । विधत्ते — “द्वाभ्यामा क्रमयति प्रतिष्ठित्या अनुरूपाभ्यां तस्मादनुरूपाः पशवः प्रजायन्ते” (सं.का.५ प्र.१ अ.२) इति ।

मन्त्रयोर्द्वित्वं हि द्वाभ्यां प्रतिष्ठित्यै संपद्यते । तत्र पूर्वो मन्त्र इच्छाया अनुरूपः । उत्तरमन्त्रो लाभस्यानुरूपः । तच्च पूर्वमुदाहृतम् । यस्मादनुरूपाभ्यां मन्त्राभ्यामाक्रमयति तस्माद्यजमानस्याग्निहोत्राद्यनुष्ठानस्यानुरूपा एव गवाद्याः पशवः प्रजायन्ते ।

मन्त्रः

द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑ख्षꣳ समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चख्षु॑षा॒ त्वम॒भि ति॑ष्ठ [7] पृ॒त॒न्य॒तः ।

टीका

कल्पः — “द्यौस्ते पृष्ठमित्यश्वस्य पृष्ठं संमार्ष्टि” इति । पाठस्तु — द्यौस्ते पृष्ठमिति । हेऽश्व द्युलोकस्तव पृष्ठं, पृथिवी सधस्थं तवाग्निना सहावस्थानप्रदेशः । अन्तरिक्षलोकस्तव मध्यशरीरवर्ती जीवात्मा । समुद्रस्तव जन्मकारणम् । ‘अप्सुयोनिर्वा अश्वः’ इति श्रुतेः । एवं स्तूयमानस्त्वं चक्षुषा विख्याय, उखायोग्यां मृदं विलोक्य पृतन्यतः संग्रामं कर्तुमिच्छतः शत्रून्राक्षसादींस्तस्यां मृदि गूढरूपेणावस्थितानभितिष्ठ पादेनाऽऽक्रम्य विनाशय ।

मन्त्रोक्तं द्युलोकदिसंबन्धमुपपादयति — “द्यौस्ते पृष्ठं पृथिवी सधस्थमित्याहैभ्यो वा एतं लोकेभ्यः प्रजापतिः समैरयद्रूपमेवास्यैतन्महिमानं व्याचष्टे” [सं.का.५ प्र.१ अ.२] इति ।

पुरा कदाचित्प्रजापतिरेतमश्वमेतेषु लोकेष्वन्विष्य समानीतवान् । तस्माद्विद्यमानमेव द्युलोकादिसंबन्धरूपं महिमानं मन्त्रो व्याचष्टे । अतो नास्माभिर्वक्तव्यं किंचिदस्ति ।

मृदाक्रमणवेलायामश्वपादस्याधस्ताद्द्वेष्यविषयध्यानं विधत्ते — ‘वज्री वा एष यदश्वो दद्भिरन्यतोदद्भ्यो भूयाल्ँलोमभिरुभयादद्भ्यो यं द्विष्यात्तमधस्पदं ध्यायेद्वज्रेणैवैनꣳ स्तृणुते’ [सं.का.५ प्र.१ अ.२] इति ।

वज्रसमानं दन्तपङ्क्तिद्वयमस्यास्तीत्यश्वो वज्री, तस्मादन्यतोदद्भ्य एकदन्तपङ्क्तियुक्तेभ्यो गवादिभ्योऽयमश्वो दद्भिर्भूयान्दन्तैरधिकः । उभयादद्भ्यो दन्तपङ्क्तिद्वययुक्तेभ्यश्च गर्दभादिभ्योऽयमश्वो लोमभिः केसरैः पुच्छगतैश्च भूयान् । अतस्तादृशस्याश्वस्याधस्पदं पादस्याधस्ताद्द्वेष्ये ध्याते सति, अश्वखुररूपेण वज्रेणैवैनं द्वेष्यं हिनस्ति ।

मन्त्रः

उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना᳚द्द्रविणो॒दा वा॑जिन्न् । व॒यꣵ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निङ्ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः ।

टीका

कल्पः ‘उत्क्रामोदक्रमीदिति द्वाभ्यां मृत्खनादुदञ्चमश्वमुखत्क्रमय्य’ इति ।

मृद्यस्मिन्प्रदेशे खन्यते स प्रदेशो मृत्खनः । तस्मादश्वमुदङ्मुखत्वेन निर्गमयेत् । तत्र प्रथमामृचमाह — उत्क्रामेति । हे वाजिन्द्रविणोदा धनप्रदस्त्वं यजमानस्य महते सौभगाय सौभाग्याभिवृद्ध्यर्थमस्मादास्थानात्खननप्रदेशादुत्क्रामोद्गतो भव । वयं पृथिब्याः सुमतावनुग्रहचित्ते स्याम तिष्ठेम । कीदृशा वयम् । अस्या उपस्थे पृथिव्या उपरि अग्निमग्निहेतुं मृदं खनिष्यन्तः खनितुमुद्युक्ताः ।

मन्त्रः

उद॑क्रमीद्द्रविणो॒दा वा॒ज्यर्वाक॒स्स लो॒कꣳ सुकृ॑तम्पृथि॒व्याः । तत॑ᳵ खनेम सु॒प्रती॑कम॒ग्निꣳ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ।

टीका

अथ द्वितीयामाह — उदक्रमीदिति । द्रविणोदा यामद्वारेण धनप्रदो वाजी तथैवान्नप्रद इयर्तीत्यर्वा गमनकुशल इत्यर्थः । तादृशोऽयमश्वः स्थानादस्मादुदक्रमीत् । स उत्कान्तोऽश्वः सुकृतमाक्रमणेन विरुद्धान्राक्षसादीनपहत्य सुष्ठु कृतं पृथिव्याः संवन्धिनं लोकं खननप्रदेशमकः कृतवान्। ततः प्रदेशादग्निमग्नियोग्यां भूमिं मृदं खनेम कीदृशमग्निं सुप्रतीकं सुमुखम्। ये खनितारो वर्य ते कीद्दशाः, सुवरधिरुहाणाः स्वर्गेऽधिरोहणकामाः। कीदृशे स्वर्गे, उत्तमे सुखयुक्ते नाके कं सुखमकं दुःखं तद्रहिते। तदिदं मन्त्रद्वयं विनियुङ्क्ते— “उत्क्रामोदक्रमीदिति द्वाभ्यामुत्क्रमयति प्रतिष्ठित्या अनुरूपाभ्यां तस्मादनुरूपाः पशवः प्र जायन्ते” [सं. का. ५ प्र. १ अ. ३] इति।

मन्त्रयोरादावुत्क्रमणाभिधानादनुष्ठेयार्थं प्रत्यनुरूपत्वम्।

मन्त्रः

अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒ख्ष्माय॑ प्र॒जाभ्यः॑ ।

तासा॒ꣳ॒ स्थाना॒दुज्जि॑हता॒मोष॑धयस्सुपिप्प॒लाः ।

टीका

कल्पः—“अपो देवीरुप सृजेत्यश्वस्य पदेऽप उपसृज्य” इति। पाठस्तु– अपो देवीरिति। देवीर्दवनशीला अप उपसृज्य। अस्मिन्खननप्रदेशेऽ-हमुपसृजामि। कीदृशीरपः। मधुमतीर्मधुराः। किमर्थम्। अयक्ष्माय प्रजाभ्यः १७६९ प्रजानामारोग्याय। तासां प्रक्षिप्तानामपां स्थानादस्मात्प्रदेशात्सुपिप्पलाः शोभन फला ओषधय उज्जिहतामुत्पद्यान्ताम्। अनेन मन्त्रेणोदकसेचनं विधत्ते— “अप उप सृजति यत्र वा आप उपगच्छन्ति तदोषधयः प्रति तिष्ठन्त्योषधीः प्रतीतिष्ठन्तीः पशवोऽनु प्रति तिष्ठन्ति पशून्यज्ञो यज्ञं यजमानो यजमानं प्रजास्तस्मादप उप सृजति प्रतिष्ठित्यै” [सं. का. ५ प्र. १ अ. ३] इति।

अपामोषधीनां पशूनां यज्ञस्य यजमानस्य प्रजानां चोत्तरोत्तरप्रतिष्ठा पूर्वपूर्वाधीनेति प्रसिद्धम्। तस्मात्सर्वप्रतिष्ठार्थमप उपसृजेत्।

मन्त्रः

जिघ॑र्मि [8] अ॒ग्निम्मन॑सा घृ॒तेन॑ प्रति॒ख्ष्यन्त॒म्भुव॑नानि॒ विश्वा᳚ ।

पृ॒थुन्ति॑र॒श्चा वय॑सा बृ॒हन्त॒व्ँव्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सव्ँविदा॑नम् ।

टीका

कल्पः—“ पदे हिरण्यं निधाय जिघर्म्यग्निमा त्वा जिघर्मीति मनस्वतीभ्यामे कामाहुतिं हिरण्ये हुत्वा ” इति। तत्र प्रथमामृचमाह— जिघर्म्यग्निमिति। अहमग्निं मनसा घ्यायन्घृतेन जिघार्मि क्षारयामि दीपयामि वा। कीदृशमग्निम्। विश्वा भुवनाति प्रतिक्ष्यन्तं सर्वषु लोकेषु प्रत्येक निवसन्तम्। तिरश्चा पृथुं तिर्यक्प्रमाणेन विस्तृतं, वयसा बृहन्तं वयउपलक्षितेन कालेन प्रौढम्। पृथुंमित्यनेन बहुदेशव्याप्तिः, वयसेत्यनेन च बहुकालव्याप्तिरुक्ता। किंच, यदन्नं व्यचिष्ठमतिशयेन विविधमञ्चनं गमनं पूजनं वा यस्य तद्व्याचिष्ठं भक्ष्यभोज्यादिरूपेण बहुविधं स्वादुत्वेन पूज्यं चेत्यर्थः। तादृशमन्नं रभसं शीघ्रमेव विदानं लभमानम्। अथ द्वितीयामाह— आ त्वा जिघर्मीति। हेऽग्ने त्वामाजिघर्मि वचसा मन्त्रेणानेन घृतेन सर्वतः क्षारयामि। अरक्षसा मनसा क्रौर्यरहितेन चित्तेन तद्घृतं जुषस्व। अप-मग्निमर्यश्रीर्मर्यैराश्रयणीयः। स्पृहयद्वर्णो यजमानैः स्पृहणीयरूपः। नाभिमृशे-ऽभिमर्शनं कर्तुं न शक्यः। तनुवा जर्हृषाणो घृतपानपुष्टेन शरीरेणात्यन्तं हृष्टः। ईदृशमग्निं त्वामाजिघर्मीति योजना। आभ्यां मन्त्राभ्यां हिरण्ये होमं विधत्ते— “यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षाꣳसि यज्ञꣳहन्युर्हिर-ण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञꣳ रक्षाꣳ सि घ्नन्ति” [सं. का. ५ प्र. १ अ. ३] इति।

अग्निरहितभूप्रदेशे होमेनाध्वर्युरन्धो भवति। होमाधिकरणस्याग्नेर-दर्शनात्। १७७० एतदेव च्छिद्रमुपलभ्य रक्षांसि यज्ञं विनाशयेयुः। अत एतद्दोषपरिहाराय भूमौ हिरण्यं निधाय तस्मिञ्जुहुयात्। तथा सति हिरण्यस्याग्निसदृशत्वादयं प्रदेशोऽ–ग्निमानेव भवतीति नोक्तदोषद्वयम्।

प्रथममन्त्रस्य प्रथमपादे मनःशब्दस्योपयोगं दर्शयति— “जिघर्म्यग्निं मनसा घृतेनेत्याह मनसा हि पुरुषो यज्ञमाभिगच्छति” (सं. का. ५ प्र. १ अ. ३) इति।

मनसा यज्ञाभिगमनं नाम यज्ञं करिष्य इत्येवंरूपः संकल्पः।

द्वितीयपादस्य तात्पर्यं दर्शयति— “प्रतिक्ष्यन्तं भुवनानि विश्वेत्याह सर्वꣳह्येष प्रत्यङ्क्षेति” (सं. का. ५ प्र. १ अ. ३) इति।

एषोऽग्निः सर्वं यजमानमुद्दिश्य प्रत्यङभिमुखः क्षेति निवसति।

तृतीयपादे पृथुं बृहन्तमित्यनयोस्वात्पर्यं दर्शयति— “पृथुं तिरश्चा वयसा बृहन्तामित्याहाल्पो ह्येष जातो महान्भवति” (सं. का. ५ प्र. १ अ. ३) इति।

एषोऽग्निर्जातमात्रेणाल्पः पश्चादाहुतिभिर्वर्धमानो देशव्याप्त्या कालव्याप्त्या च महान्भवति।

चतुर्थपादे व्यचिष्ठमिति पदेन सूचितं पूजार्थत्वलक्षणं स्वादुत्वं दर्शयति— “व्यचिष्ठमन्नꣳ रभसं विदानमित्याहान्नमेवास्मै स्वदयति” (सं. का. ५ प्र. १ अ. ३) इति। वेदनं प्रशंसति— सर्वमस्मै स्वदते य एवं वेद ” (सं. का. ५ प्र. १ अ. ३ ) इति।

मन्त्रः

आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑र॒ख्षसा॒ मन॑सा॒ तज्जु॑षस्व ।

मर्य॑श्रीस्स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒नुवा॒ जर्हृ॑षाणः ।

टीका

द्वितीयमन्त्रस्य प्रथमपादे वचसेतिपदस्याभिप्रायं दर्शयति— “आ त्वा जिघर्मि वचसा घृतेनेत्याह तस्माद्यत्पुरुषो मनसाऽभिगच्छति तद्वाचा वदति” (सं. का. ५ प्र. १ अ. ३) इति।

यस्मात्प्रथममन्त्रे मनसेत्युक्त्वा द्वितीयमन्त्रे वचसेत्युक्तं तस्माल्लोकेऽपि पुरुषो यत्कार्यं मनसा चिन्तयति तत्पश्चाद्वाचा वदति।

१७७१ द्वितीयपादे रक्षोनिषेधवाचिशब्दस्य तात्पर्यमाह— “अरक्षसेत्याह रक्षसामपहत्यै” [सं. का. ५ प्र. १ अ. ३] इति।

तृतीयपादे मनुष्यैराश्रयणीयत्वेन वर्णस्य स्पृहणीयत्वेन चाग्नौ पूज्यत्वं संपाद्यत इति दर्शयति— मर्यश्रीः स्पृहयद्वर्णो अग्निरित्याहापचितिमेवास्मिन्दधाति ” (सं. का. ५ प्र. १ अ. ३ ) इति। वेदनं प्रशंसति “अपचितिमान्भवति य एवं वेद” [सं. का. ५ प्र. १ अ. ३] इति।

मन्त्रयोरुभयोर्मनः शब्दोपेतत्वे प्रशंसति— “मनसा त्वै तामाप्तुमर्हति यामध्वर्युरनग्नावाहुतिं जुहोति मनस्वतीभ्यां जुहोत्याहुत्योराप्त्यै” (सं. का. ५ प्र. १ अ. ३) इति।

अनग्नौ हूयमानाऽऽहुतिर्मनसैव प्राप्तुमर्हति। अग्नौ हुतेत्येवं मनसा संकल्पयितुं शक्यवात्। तस्मादाहुत्योः प्राप्तये मनःशब्दयुक्ताभ्यामृग्भ्यां जुहुयात्। मन्त्रद्वित्वं प्रशंसति— “द्वाभ्यां प्रतिष्ठित्यै” [सं. का. ५ प्र. १ अ. ३] इति।

मन्त्रः

परि॒ वाज॑पतिᳵ क॒विर॒ग्निर्ह॒व्या न्य॑क्रमीत् ।

दध॒द्रत्ना॑नि दा॒शुषे᳚ ।

टीका

कल्पः—“ अपादाय हिरण्यं परि वाजपतिः कविरिति तिसृभिरभ्रिया मृत्खनं परिलिखति बाह्यां वर्षीयसीम् ” इति। तत्र प्रथमामाह— परि वाजपतिरिति। अयमग्निर्हव्यानि परितोऽक्रमीत्स्वीकृतवान्। कीदृशोऽग्निः, वाजपतिरन्नस्य पालयिता। किं कुर्वन्, दाशुषे हविर्दत्तवते यजमानाय रत्नानि दधद्रमणीयानि धनानि संपादयन्।

मन्त्रः

परि॑ त्वाग्ने॒ पुर॑व्ँव॒यव्ँविप्रꣳ॑ सहस्य धीमहि ।

धृ॒षद्व॑र्णन्दि॒वेदि॑वे भे॒त्तार॑म्भङ्गु॒राव॑तः ।

टीका

अथ द्वितीयामाह— परि त्वाऽग्न इति। सहसि बले भवः सहस्यः । “सहसस्पुत्रो अद्भुतः” इति श्रुत्यन्तरात्। तादृशबलवन्हेऽग्ने वयं त्वां परिघीमाही परितः स्वी कुर्मः। कीदृशं त्वां, पुरमसकृदपेक्षितफलानां पूरयितारं, विप्रं ब्राह्मणजात्यभिमानिनं देवं, घृषद्वर्णं घृषन्वैरिणां घर्षयिता वर्णः स्वरूपविशेषो यस्यासौ घृषद्वर्णस्तं, १७७२ दिवेदिवे प्रतिदिने भङ्गुरावतो भेत्तारं भञ्जनीयं पापं भङ्गुरं तदस्यास्तीति भङ्गुरावन्विघातको रक्षसादिस्तस्य विनशयितारम्।

मन्त्रः

त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒ख्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।

त्वव्ँवने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वन्नृ॒णान्नृ॑पते जायसे॒ शुचिः॑ ॥ [9]

टीका

अथ तृतीयामाह– त्वमग्ने द्युभिरिति। हेऽग्ने त्वं द्युभिः स्वर्गैर्निमित्तभूतैस्तव तत्र यागशालासु जायसे। किंच, त्वमाशुशुक्षणिरार्द्रां भूमिं शीघ्रमेव शोषयिता जायसे। त्वमद्भ्यो वर्षधाराभ्योऽशनिरूपेण जायसे। त्वमश्मनस्परि पाषाणस्यो पाषाणान्तरसंघट्टनेन जायसे। त्वं वनेभ्यो दावाग्निरूपेण जायसे। ओषधिकार्येभ्यो भेषजेभ्यस्त्वं जायसे। यद्वा वंशद्वयसंघर्षणादिभ्यो जायसे। नृणां नृपते सर्वेषामपि मनुष्याणां पालक त्वं गृहेगृहे शुचिःशद्धिहेतुः सञ्जायसे। ‘पुर्नदाहेन मृन्मयम्’ इत्यादिस्मृतेः । एतैर्मन्त्रैः साध्यं परिलेखनं विधत्ते— “यज्ञमुखेयज्ञमुखे बै क्रियमाणे यज्ञꣳ रक्षाꣳ सि जिघाꣳ सन्त्येतर्हि खलु वा एतद्यज्ञमुखं यर्ह्येनदाहुतिरश्नुते परि लिखति रक्षासामपहत्यै ” [सं. का. ५ प्र. १ अ. ३ ] इति।

यज्ञस्य मुखं प्रारभ्भो यज्ञमुखं, यदा यदा यज्ञः प्रारभ्यते तदा तदा रक्षांस्यागत्य यज्ञं हन्तुमिच्छन्ति। एवं च सत्यत्राप्यश्वपदाङ्कितमेतत्स्थानमाहुति-र्यदा प्राप्नेति तदानीमेतदेवाश्वपदस्थानं यज्ञप्रारम्भरूपं भवति। अतोऽत्र प्राप्तानां रक्षसामपहत्यै परिलेखनं कुर्यात्। तत्र मन्त्रत्रयं विनियुङ्क्ते— “तिसृभिः परि लिखति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्माद्रक्षाꣳ स्यप हन्ति” [सं. का. ५ प्र. १ अ. ३] इति।

आहवनीयगार्हपत्यदक्षिणाग्निरूपेणाग्निस्त्रिगुणत्वम्। सर्वस्मादप्ये-तस्मादग्ने रक्षसामपघातो मन्त्रत्रित्वेन संपद्यते।

षरिवाजपतिरित्येतां विशेषाकारेण विधत्ते— “गायत्रिया परि लिखति तेजो वै गायत्री तेजसैवैनं परि गृह्णाति” (सं. का. ५ प्र. १ अ. ३) इति।

पादत्रयोपेतत्वादियं गायत्री। तस्याश्चाग्निना सह प्रजापतिमुखादुत्पन्न- त्वात्तेजस्त्वम्। एनमाग्निपदेशम्। त्वमग्ने द्युभिरित्येतां विधत्ते— १७७३ “त्रिष्टुभा परिलिखतीन्द्रियं वै त्रिष्टुगिन्द्रियेणैवैनं परि गृह्णाति” [सं. का. ५ प्र. १ अ. १] इति। परि त्वाऽग्न इत्येतां विधत्ते— “अनुष्टुभा परि लिखत्यनुष्टप्सर्वाणि छन्दाꣳसि परिभूः पर्याप्त्यै” (सं. का. ५ प्र. १ अ. ३) इति।

वाग्रूपेयमनुष्टुत्सर्वाणि च्छन्दांसि परितो भवति व्याप्नोतीति परिभूः। अतः सेयं पर्याप्त्यै संपद्यते।

अस्या अनुष्टुभः पाठप्राप्तं मन्त्रद्वयमध्यवर्तित्वं प्रशंसति— “मध्यतोऽनुष्टुभा वाग्वा अनुष्टुप्तस्मान्मध्यतो वाचा वदामः” (सं. का. ५ प्र. १ अ. ३) इति।

अनुष्टुभा परिलिखतीति शेषः। यस्माद्वाग्रूपाऽनुष्टुब्मध्यतः पठिता तस्माद्वयमपि मुखमध्यवर्तिजिह्वासाध्यया वाचा संभाषणं कुर्मः।

गायत्रीत्रिष्टुभोः पाठप्राप्तमाद्यन्तरूपत्वं प्रशंसति— “गायत्रिया प्रथमया परि लिखत्यथानुष्टुभाऽथ त्रिष्टुभा तेजौ वै गायत्री प्रज्ञोऽनुष्टुगिन्द्रियं त्रिष्टुप्तेजसा चैवेन्द्रियेण चोभयतो यज्ञं परि गृह्णाति” (सं. का. ५ प्र. १ अ. ३) इति।

पूर्व प्रशस्ताऽपि मध्यवर्तिन्यनुष्टुप्पुनरपि पार्श्वस्थाभ्यां सह प्रशस्यते। यज्ञनिष्पादकवाग्रूपत्वादनुष्टुभो यज्ञत्वम्। तस्मादुभयतो गायत्रीत्रिष्टुभोः पाठेन मध्यवर्तिनं यज्ञमेव तेजसा चैवेन्द्रियेण चोभयतः परिगृहतिवान्भवति।

अत्र विनियोगसंग्रहः— इमां रज्जुं समादाय प्रतू तुरगबन्धनम्।

युञ्जा गर्दभमाबन्ध्य योगे यान्ति त्रिभिर्मृदम्॥

इमोन्तादग्निमित्यादेर्गमने द्वेष्यमन्त्रणम्।

ष्यामोन्तेन वपा जप्या रामोन्ताद्द्वेष्यमन्त्रणम्॥

अन्वग्नि गच्छेदागत्य द्वाभ्यामाक्रमयेद्भुवम्।

द्यौस्तेऽश्वपृष्ठं संमार्ष्टि ह्युत्क्रा द्वाभ्यी तदुत्क्रमः॥

१७७४ अपः पदेऽपो निनयेज्जिघद्वाभ्यां जुहोति हिः।

परित्रिभिः परिलिखेदेकविंशतिरिरिताः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
पञ्चशत् 2 #
TS 4.1.2.2 TS 4.1.2.2
-न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान् मयो॒भूरेहि॑ । उ॒र्व॑न्तरि॑क्ष॒मन्वि॑हि स्व॒स्ति ग॑व्यूति॒रभ॑यानि कृ॒ण्वन्न् ॥ पू॒ष्णा स॒युजा॑ स॒ह । पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑रि॒ष्य॑-मङ्गिर॒स्व-दच्छे᳚ह्य॒ग्निं पु॑री॒ष्य॑ -मङ्गिर॒स्वद-च्छे॑मो॒ऽग्निं पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑रिष्यामो॒ऽग्निं पु॑री॒ष्य॑-मङ्गिर॒स्वद्-भ॑रामः ॥ अन्व॒ग्निरु॒षसा॒-मग्र॑मख्य॒-दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य - [ ]
पदपाठः (Word-by-word)
एति॑ । इ॒हि॒ । अ॒व॒क्राम॒न्नित्य॑व - क्रामन्न्॑ । अश॑स्तीः । रु॒द्रस्य॑ । गाण॑पत्या॒दिति॒ गाण॑ - प॒त्या॒त् । म॒यो॒भूरिति॑ मयः - भूः । एति॑ । इ॒हि॒ ॥ उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । स्व॒स्तिग॑व्यूति॒रिति॑ स्व॒स्ति - ग॒व्यू॒तिः॒ । अभ॑यानि । कृ॒ण्वन्न् ॥ पू॒ष्णा । स॒युजेति॑ स - युजा᳚ । स॒ह ॥ पृ॒थि॒व्याः । स॒धस्था॒दिति॑ स॒ध - स्था॒त् । अ॒ग्निम् । पु॒रि॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । अच्छ॑ । इ॒हि॒ । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । अच्छ॑ । इ॒मः॒ । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । भ॒रि॒ष्या॒मः॒ । अ॒ग्निम् । पु॒री॒ष्य᳚म् । अ॒ङ्गि॒र॒स्वत् । भ॒रा॒मः॒ ॥ अन्विति॑ । अ॒ग्निः । उ॒षसा᳚म् । अग्र᳚म् । अ॒ख्य॒त् । अन्विति॑ । अहा॑नि । प्र॒थ॒मः । जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ॥ अन्विति॑ । सूर्य॑स्य ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.1.2.3 TS 4.1.2.3
पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ॥ आ॒गत्य॑ वा॒ज्यद्ध्व॑नः॒ सर्वा॒ मृधो॒ विधू॑नुते । अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चक्षु॑षा॒ नि चि॑कीषते ॥ आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वं । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तं ॅव॒यं ॥ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मा ऽन्तरि॑क्षꣳ समु॒द्रस्ते॒ योनिः॑ । वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ- [ ]
पदपाठः (Word-by-word)
पु॒रु॒त्रेति॑ पुरु - त्रा । च॒ । र॒श्मीन् । अन्विति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । एति॑ । त॒ता॒न॒ ॥ आ॒गत्येत्या᳚ - गत्य॑ । वा॒जी । अद्ध्व॑नः । सर्वाः᳚ । मृधः॑ । वीति॑ । धू॒नु॒ते॒ ॥ अ॒ग्निम् । स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । म॒ह॒ति । चक्षु॑षा । नीति॑ । चि॒की॒ष॒ते॒ ॥ आ॒क्रम्येत्या᳚ - क्रम्य॑ । वा॒जि॒न्न् । पृ॒थि॒वीम् । अ॒ग्निम् । इ॒च्छ॒ । रु॒चा । त्वम् ॥ भूम्याः᳚ । वृ॒त्वाय॑ । नः॒ । ब्रू॒हि॒ । यतः॑ । खना॑म । तम् । व॒यम् ॥ द्यौः । ते॒ । पृ॒ष्ठम् । पृ॒थि॒वी । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । आ॒त्मा । अ॒न्तरि॑क्षम् । स॒मु॒द्रः । ते॒ । योनिः॑ ॥ वि॒ख्यायेति॑ वि - ख्याय॑ । चक्षु॑षा । त्वम् । अ॒भीति॑ । ति॒ष्ठ॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.1.2.4 TS 4.1.2.4
पृतन्य॒तः ॥ उत्क्रा॑म मह॒ते सौभ॑गाया॒-स्मादा॒स्थाना᳚द् द्रविणो॒दा वा॑जिन्न् । व॒यꣳ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः ॥ उद॑क्रमीद् द्रविणो॒दा वा॒ज्यर्वाऽकः॒ स लो॒कꣳ सुकृ॑तं पृथि॒व्याः । ततः॑ खनेम सु॒प्रती॑कम॒ग्निꣳ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे ॥ अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासाꣳ॒॒ स्थाना॒दुज्जि॑हता॒-मोष॑धयः सुपिप्प॒लाः ॥ जिघ॑र्म्य॒- [ ]
पदपाठः (Word-by-word)
पृ॒त॒न्य॒तः ॥ उदिति॑ । क्रा॒म॒ । म॒ह॒ते । सौभ॑गाय । अ॒स्मात् । आ॒स्थाना॒दित्या᳚ - स्थाना᳚त् । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः । वा॒जि॒न्न् ॥ व॒यम् । स्या॒म॒ । सु॒म॒ताविति॑ सु - म॒तौ । पृ॒थि॒व्याः । अ॒ग्निम् । ख॒नि॒ष्यन्तः॑ । उ॒पस्थ॒ इत्यु॒प - स्थे॒ । अ॒स्याः॒ ॥ उदिति॑ । अ॒क्र॒मी॒त् । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः । वा॒जी । अर्वा᳚ । अकः॑ । सः । लो॒कम् । सुकृ॑त॒मिति॒ सु-कृ॒त॒म् । पृ॒थि॒व्याः ॥ ततः॑ । ख॒ने॒म॒ । सु॒प्रती॑क॒मिति॑ सु-प्रती॑कम् । अ॒ग्निम् । सुवः॑ । रुहा॑णाः । अधीति॑ । नाके᳚ । उ॒त्त॒म इत्यु॑त् - त॒मे ॥ अ॒पः । दे॒वीः । उपेति॑ । सृ॒ज॒ । मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । अ॒य॒क्ष्माय॑ । प्र॒जाभ्य॒ इति॑ प्र-जाभ्यः॑ ॥ तासा᳚म् । स्थाना᳚त् । उदिति॑ । जि॒ह॒ता॒म् । ओष॑धयः । सु॒पि॒प्प॒ला इति॑ सु - पि॒प्प॒लाः ॥ जिघ॑र्मि ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.1.2.5 TS 4.1.2.5
-ग्निं मन॑सा घृ॒तेन॑ प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वा᳚ । पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ ॅव्यचि॑ष्ठ॒मन्नꣳ॑ रभ॒सं ॅविदा॑नं ॥ आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑ऽर॒क्षसा॒ मन॑सा॒ तज्जु॑षस्व । मर्य॑श्रीः स्पृह॒यद्-व॑र्णो अ॒ग्निर्नाऽभि॒मृशे॑ त॒नुवा॒ जर्.हृ॑षाणः ॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्. ह॒व्यान्य॑क्रमीत् । दध॒द् रत्ना॑नि दा॒शुषे᳚ ॥ परि॑ त्वाऽग्ने॒ पुरं॑ ॅव॒यं ॅविप्रꣳ॑ सहस्य धीमहि । धृ॒षद् व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ ( ) भङ्गु॒राव॑तः ॥ त्वम॑ग्ने॒ द्युभि॒स्त्व-मा॑शुशु॒क्षणि॒स्त्व-म॒द्भ्यस्त्व-मश्म॑न॒स्परि॑ । त्वं ॅवने᳚भ्य॒ स्त्वमोष॑धीभ्य॒ स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥
पदपाठः (Word-by-word)
अ॒ग्निम् । मन॑सा । घृ॒तेन॑ । प्र॒ति॒क्ष्यन्त॒मिति॑ प्रति - क्ष्यन्त᳚म् । भुव॑नानि । विश्वा᳚ ॥ पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त᳚म् । व्यचि॑ष्ठम् । अन्न᳚म् । र॒भ॒सम् । विदा॑नम् ॥ एति॑ । त्वा॒ । जि॒घ॒र्मि॒ । वच॑सा । घृ॒तेन॑ । अ॒र॒क्षसा᳚ । मन॑सा । तत् । जु॒ष॒स्व॒ ॥ मर्य॑श्री॒रिति॒ मर्य॑-श्रीः॒ । स्पृ॒ह॒यद्व॑र्ण॒ इति॑ स्पृह॒यत् - व॒र्णः॒ । अ॒ग्निः । न । अ॒भि॒मृश॒ इत्य॑भि - मृशे᳚ । त॒नुवा᳚ । जर्.हृ॑षाणः ॥ परीति॑ । वाज॑पति॒रिति॒ वाज॑ - प॒तिः॒ । क॒विः । अ॒ग्निः । ह॒व्यानि॑ । अ॒क्र॒मी॒त् ॥ दध॑त् । रत्ना॑नि । दा॒शुषे᳚ ॥ परीति॑ । त्वा॒ । अ॒ग्ने॒ । पुर᳚म् । व॒यम् । विप्र᳚म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ॥ धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत् - व॒र्ण॒म् । दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ । भे॒त्तार᳚म् ( ) । भ॒ङ्गु॒राव॑त॒ इति॑ भङ्गु॒र - व॒तः॒ ॥ त्वम् । अ॒ग्ने॒ । द्युभि॒रिति॒ द्यु - भिः॒ । त्वम् । आ॒शु॒शु॒क्षणिः॑ । त्वम् । अ॒द्भ्य इत्य॑त् - भ्यः । त्वम् । अश्म॑नः । परि॑ ॥ त्वम् । वने᳚भ्यः । त्वम् । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । त्वम् । नृ॒णाम् । नृ॒प॒त॒ इति॑ नृ-प॒ते॒ । जा॒य॒से॒ । शुचिः॑ ॥
पदसंख्या: 70