अनुवाकः 5 TS 4.1.5

(A5)

(मि॒त्रः - क॑रो - त्व॒न्तरि॑क्षमसि॒ - प्र - च॒त्वारि॑ च)

अनुवाकः 5 - Complete Audio

TS 4.1.5 - स्वरानुगामी

0:00 0:00
PS1.1 वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒
PS1.2 बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः
PS1.3 सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हꣳ
PS1.4 सु॒हव॑स्य॒ प्रणी॑तौ
PS1.5 आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता
PS1.6 न॑ ऊ॒र्जे द॑धातन
PS1.7 म॒हे रणा॑य॒ चक्ष॑से
PS1.8 यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑
PS1.9 भाजयते॒ह नः॑
PS1.10 उ॒श॒तीरि॑व मा॒तरः॑
PS1.11 तस्मा॒ अरं॑ गमाम वो॒
PS1.12 यस्य॒ क्षया॑य॒ जिन्व॑थ
PS1.13 आपो॑ ज॒नय॑था च नः
PS1.14 मि॒त्रः - [ ]
PS2.1 सꣳ॒॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒
PS2.2 ज्योति॑षा स॒ह
PS2.3 सुजा॑तं जा॒तवे॑दसम॒ग्निं ॅवै᳚श्वान॒रं ॅवि॒भुं
PS2.4 अ॒य॒क्ष्माय॑ त्वा॒ सꣳ सृ॑जामि प्र॒जाभ्यः॑
PS2.5 विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः
PS2.6 सꣳ सृ॑ज॒न्त्वा-नु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्
PS2.7 रु॒द्राः स॒भृंत्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे
PS2.8 तेषां᳚ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते
PS2.9 सꣳ सृ॑ष्टां॒ ॅवसु॑भी रु॒द्रैर्द्धीरैः᳚
PS2.10 कर्म॒ण्यां᳚ मृदं᳚
PS2.11 हस्ता᳚भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली
PS2.12 क॑रोतु॒ - [ ]
PS3.1 तां
PS3.2 सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा
PS3.3 सा तुभ्य॑मदिते मह॒ ओखां
PS3.4 द॑धातु॒ हस्त॑योः
PS3.5 उ॒खां क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒-मदि॑तिर्द्धि॒या
PS3.6 मा॒ता पु॒त्रं ॅयथो॒पस्थे॒ साऽग्निं
PS3.7 बि॑भर्तु॒ गर्भ॒ आ
PS3.8 म॒खस्य॒ शिरो॑ऽसि य॒ज्ञ्स्य॑ प॒दे स्थः॑
PS3.9 वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑सा
PS3.10 ऽङ्गिर॒स्वत् पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒
PS3.11 त्रैष्टु॑भेन॒ छन्द॑सा ऽङ्गिर॒स्वद॒न्तरि॑क्षमस्या -
PS3.12 [ ]
PS4.1 -दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्
PS4.2 द्यौर॑सि॒ विश्वे᳚ त्वा दे॒वा
PS4.3 वै᳚श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा-ऽङ्गिर॒स्वद्-दिशो॑ऽसि ध्रु॒वाऽसि॑
PS4.4 धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोषं॑
PS4.5 गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान्. यज॑माना॒याऽदि॑त्यै॒
PS4.6 रास्ना॒ऽस्य दि॑तिस्ते॒ बिलं॑ गृह्णातु॒
PS4.7 पाङ्क्ते॑न॒ छन्द॑सा ऽङ्गिर॒स्वत्
PS4.8 कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ ॅयोनि॑म॒ग्नये᳚
PS4.9 तां पु॒त्रेभ्यः॒ सं प्रा
PS4.10 ( ) य॑च्छ॒ददि॑तिः श्र॒पया॒निति॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.1.5.1 TS 4.1.5.1
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हꣳ सु॒हव॑स्य॒ प्रणी॑तौ ॥ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ मि॒त्रः - [ ]
पदपाठः (Word-by-word)
वीति॑ । पाज॑सा । पृ॒थुना᳚ । शोशु॑चानः । बाध॑स्व । द्वि॒षः । र॒क्षसः॑ । अमी॑वाः ॥ सु॒शर्म॑ण॒ इति॑ सु - शर्म॑णः । बृ॒ह॒तः । शर्म॑णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒हव॒स्येति॑ सु-हव॑स्य । प्रणी॑ता॒विति॒ प्र-नी॒तौ॒ ॥ आपः॑ । हि । स्थ । म॒यो॒भुव॒ इति॑ मयः-भुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ॥ म॒हे । रणा॑य । चक्ष॑से ॥ यः । वः॒ । शि॒वत॑म॒ इति॑ शि॒व-त॒मः॒ । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ॥ उ॒श॒तीः । इ॒व॒ । मा॒तरः॑ ॥ तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ॥ आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥ मि॒त्रः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाकः ५ उस्रानिर्माणम्

त्रिष्टुप्, २-४ गायत्री, ५,७-१०, १९ अनुष्टुप् , ३,७ बृहती , ६ महाबृहती अग्निर्ऋषिः ।

चतुर्थकाण्डे प्रथमप्रपाठकेपञ्चमोऽनुवाकः

मन्त्रः

वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒ख्षसो॒ अमी॑वाः ।

सु॒शर्म॑णो बृह॒तश्शर्म॑णि स्याम॒ग्नेर॒हꣳ सु॒हव॑स्य॒ प्रणी॑तौ ।

टीका

[अथ चतुर्थकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः]।

चतुर्थेऽनुवाके मृदाहरणमुक्तम्। अथ पञ्चम उखानिमीणमुच्यते— कल्पः—‘वि पाजसेति विस्रस्य’ इति। पाठस्तु— वि पाजसेति । हेऽग्ने पृथुना विस्तृतेन पाजसा बलेन शोशुचानो दीप्यमानस्त्वं द्विषः शत्रुन्रक्षसो राक्षसानमीवा रोगांश्च विशेषेण बाधस्व। अहं सुशर्मणः शोभनसुखस्य बृहतः प्रौढस्य सुवहस्य सुखेनाऽऽह्वातुं शक्यस्याग्नेः प्रणीतौ परिचर्यायां सत्यां यच्छर्म सुखं तस्मिन्सुखे स्यां सर्वदाऽवतिष्ठेय। तमिमं मन्त्रं विनियुङ्क्ते— ‘वारुणो वा अग्निरुपनद्धो वि पाजसेति वि स्रꣳ सयति सवितृप्रसूत एवास्य विषूचीं वरुणमेनिं वि सृजति’ (सं. का. ५ प्र. १ अ. ६) इति।

यद्यप्यमन्त्रकेण लौकिकविस्रंसनेन लौकिकबन्धो निवर्तते तथाऽपि सवितृप्रेरणन्तरेण वरुणपाशस्य निवृत्त्यभावात्सवितृप्रेरणाय मन्त्रपाठः। अस्य मन्त्रस्य बन्धविमोचनायैव सवित्रा परमेश्वरेण निर्मितत्वात्तत्पाठे सति सवितृमेरितो भवति। वरुणस्या संबन्धिनो पाशबन्धकृता बाधा वरुणमेनिः। सा च विषूची सर्वतः प्रसृता बहुधा रज्जुभिरावेष्ट्याऽऽहृतत्वात्। अस्याग्नेस्तादृशीं वरुणमेनिं मन्त्रेण विमोचितवान्भवति।

मन्त्रः

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।

म॒हे रणा॑य॒ चख्ष॑से ।

टीका

कल्पः — ‘आपो हि ष्ठा मयोभुव इति तिसृभिरप उपसृज्य’ इति।

तत्र प्रथमामाह— १७९८ आपो हि ष्ठेति। हिशब्द एवकारार्थः प्रसिद्ध्यर्थो वा। हे आपो यूयमेव मयोभुवः स्थ सुखस्य भावयित्र्यो भवत। स्नानपानादिहेतुत्वेन सुखोत्पादकत्वं प्रसिद्धम्। तास्तादृश्यो यूयं नोऽस्मानूर्जे रसाय भवदीयरसानुभवार्थं दधातन स्थापय-त। किंच महे महते रणाय रमणीयाय चक्षसे दर्शनाय दधातन, अस्मान्परतत्त्वसा-क्षात्कारयोग्यान्कुरुतेत्यर्थः।

मन्त्रः

यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।

उ॒श॒तीरि॑व मा॒तरः॑ ।

टीका

अथ द्वितीयामाह— यो वः शिवतम इति। यो युष्माक्रं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति, इहास्मिन्कर्मणि नोऽस्मांस्तस्य भाजयत (तं) रसं प्रापयत। तत्र दृष्टान्तः—उशतीरिव मातर इति। कामयमानाः प्रीतियुक्ता मातरो यथा वत्सान्स्वकीयस्तन्यरसं प्रापयन्ति तद्वत्।

मन्त्रः

तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ ख्षया॑य॒ जिन्व॑थ ।

आपो॑ ज॒नय॑था च नः ।

टीका

अथ तृतीयामाह— तस्मा अरमिति। यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ, तस्मै रसाय वौ युष्मानरं गमामालं भृशं प्राप्नुमः । किंच हे आपो यूयं नोऽस्माञ्जनयथ प्रजोत्पादकन्कुरुथ। एतैर्मन्त्रैः साध्यं जलमेलनं विधत्ते— ‘अप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति। अस्याग्नेः शुचं शोकं दाहमित्यर्थः।

आपो हि ष्ठेत्याद्युचस्तत्र विनियुङ्क्ते— ‘तिसृभिरुप सृजति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति।

आहवनीयादिरूपेणाग्नेस्त्रैगुण्यम्। तस्य सर्वस्याग्नेर्मन्त्रत्रयेण दाहशान्तिः।

मन्त्रः

मि॒त्रः [18] स॒ꣳ॒सृज्य॑ पृथि॒वीम्भूमि॑ञ्च॒ ज्योति॑षा स॒ह ।

सुजा॑तञ्जा॒तवे॑दसम॒ग्निव्ँवै᳚श्वान॒रव्ँवि॒भुम् ।

टीका

कल्पः—‘मित्रः सꣳ सृज्य पृथिवीमिति द्वाभ्यां संजर्जनीयैः संसृजत्यर्मक-पालैः पित्रैः पिष्टैर्वेण्वङ्गारैर्व्रीहितुषैः पलाशकषायेण शर्कराभिः पिष्टाभिः कृष्णाजिन लोमभिरजलोमभिः ’ इति। तत्र प्रथमामाह— मित्रः सꣳसृज्येति। मित्रनामकः सर्वेषामाप्तो देवः पृथिवी भूमिं विस्तृता-मिमां भृदं, चशब्दादस्यां मुद्युपसृष्टा जपश्च ज्योतिषा ज्योतिःशब्दोपलक्षितेदार्ढ्यहेतु-ना वक्ष्यमाणार्मकपालादिना संसृज्याग्निं सुजातमकरोदिति शेषः। अग्निशब्दोपल-क्षितामुखां निर्मितवानित्यर्थः। कीदृशमग्निं, जातवेदसमुत्पन्नप्राण्यभिज्ञं १७९९ वैश्वानरं सर्वपुरुषोपकारकत्वेन तत्संबन्धिनं विभुं सर्वेषु यजमानगृहेषु व्याप्तम।

मन्त्रः

मि॒त्रः [18] स॒ꣳ॒सृज्य॑ पृथि॒वीम्भूमि॑ञ्च॒ ज्योति॑षा स॒ह ।

सुजा॑तञ्जा॒तवे॑दसम॒ग्निव्ँवै᳚श्वान॒रव्ँवि॒भुम् ।

टीका

अथ द्वितीयामाह— अयक्ष्माय त्वेति। हेऽग्ने त्वां प्रजाभ्यः प्रजानामयक्ष्माय रोगाभावय संसृजामि अर्मकपालादिभिः संयोजयामि। वैश्वानराः सर्वपुरुषोपकारिणो विश्वे सर्वेऽपि देवा आनुष्टुभेन च्छन्दसा सहकारिणा युक्तास्त्वां संसृजन्तु। किंवत्। अङ्गिरस्वत। यथाऽङ्गिरसः पूर्वं संयोजितवन्तस्तद्वत्।

मन्त्रे देवतान्तरपरित्यागेन मित्रस्यैव स्वीकारे कारणं दर्शयति— “मित्रः सꣳ सृज्य पृथिवीमित्याह मित्रो वै शिवो देवानां तेनैवैनꣳ सꣳ सृजति शान्त्यै” (सं. का. ५ प्र. १ अ. ६) इति।

देवानां मध्ये मित्रः शिवः शान्तः । अतोऽग्नेः शान्त्यै मित्रास्य स्वीकारः।

अथ दार्ढ्यहेतुभिः कपालैः संसर्गं विधत्ते— यद्ग्राभ्याणां पात्राणां कपालैः सꣳ सृजेद्ग्राम्याणि पात्राणि शुचाऽर्पयेदर्भ-कपालैः सꣳ जत्येतानि वा अनुपजीवनीयानि तान्येव शुचाऽर्पयति” (सं. का. ५ प्र. १ अ. ६) इति।

पाकसाधनानां भाणडानां कपालैः संसर्गे सति सर्वाण्यति भाण्डानि शुचाऽर्पयेत्, गृहदाहादिकृतेन भङ्गेन योजितानि भवेयुः। अतस्तन्मा भूदित्यर्मक-पालैः संयोजयेत् । चिरकालशून्यग्रामभूमाववस्थिनानि पुरातनान्यर्मकपालानि, तेषां प्राणिभिरनुपजीवनीयत्वात्तान्येव भङ्गेन योजितानि भवति, न तु गृहोपकार णानि भाण्डानि। अथ भूमिष्ठैः क्षुद्रपाषाणैश्चूर्णीकृतेः संसर्ग विधत्ते— “शंर्कराभिः सꣳसृजति धृत्या अथो शंत्वाय” (सं. का. ५ प्र. १ अ. ६) इति।

घृत्यै निर्माणकाले भङ्गराहित्येन दार्ढ्याय। अथो शंत्वाय पाककालेऽपि भङ्गराहित्येन सुखावस्थानाय। द्रव्यान्तरसंसर्गं विधत्ते— ‘अजलोमैः सꣳ सृजत्येषा वा अग्नेः प्रिया तूर्यदजा प्रिययैवेनं तनुवं सꣳ सृजत्यथो तेजसा” (सं. का. ५ प्र. १ अ. ६) इति।

अजत्वाजातेरग्नेश्च प्रजापतिमुखजत्वसाम्यादजेयमग्नेः प्रिया तनूः । न केवलं १८०० प्रियत्वं किंत्वग्निसंबन्धात्तेजोरूपत्वमपि। अतः प्रियया तन्वा तेजसा चाग्निं समर्धयति । पुनरपि द्रव्यान्तरसंसर्गं विधत्ते— “कृष्णाजिनस्य लोमभिः सꣳ सृजति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञꣳसꣳसृजति” [सं. का. ५ प्र. १ अ. ६] इति।

अन्यत्र “यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वा” इत्युक्तत्वाद्यज्ञस्य कृष्णाजिनत्वम् । अतः कृष्णाजिनरूपेण यज्ञेनाग्निरूपं यज्ञं संसृजति।

मन्त्रः

रु॒द्रास्स॒म्भृत्य॑ पृथि॒वीम्बृ॒हज्ज्योति॒स्समी॑धिरे ।

तेषा᳚म्भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ।

टीका

कल्पः—“रुद्राः संभृत्य पृथिवीमिति मृदं संक्षिप्यं” इति। पाठस्तु— रुद्राः संभृत्येति। रुद्रनामका देवाः पृथिवीमुखानिष्पादिकां मृदं संभृत्य सम्यग्भरणं कृत्वोखाकरणाय मृदु यथा भवति तथा हस्ताभ्यां संघट्टनं कृत्वेत्यर्थः। तथा कृत्वा बृहज्ज्योतिः समीधिरे प्रौढमग्निं दीपितवन्तः । तेषां रुद्राणामयमग्निर्भानु-र्भासमानोऽजस्र इन्निरन्तर एव शुक्रो दीप्तियुक्तो देवेषु रोचते शोभते। मन्त्रः

सꣳसृ॑ष्टा॒व्ँवसु॑भी रु॒द्रैर्धीरैः᳚ कर्म॒ण्या᳚म्मृद᳚म् ।

हस्ता᳚भ्याम्मृ॒द्वीङ्कृ॒त्वा सि॑नीवा॒ली क॑रोतु [19] ताम् ।

टीका

कल्पः — “सꣳ सृष्टां वसुभिरिति तिसृभिः कर्त्रे प्रयच्छति” (सं. का. ५ प्र. १ अ. ६) इति। तत्र प्रथमामाह— सꣳसृष्टां वसुभिरिति। पूर्वमन्त्रे रुद्रशब्देन वसवोऽप्युपलक्षिताः । अतो धीरैर्बुद्धिर्वसुभी रुद्रैश्च या मृदर्मकपालादिभिः संयोजिता सती कर्मण्योखा कर्मयोग्या संपन्ना जाता तां मृदं सिनीवाली देवी पुनरपि हस्ताभ्यां मृद्वीं कृत्वा करोतु, उखां निष्पादयतु।

मन्त्रः

सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा ।

सा तुभ्य॑मदिते मह॒ ओखान्द॑धातु॒ हस्त॑योः ।

टीका

अथ द्वितीयामाह— सिनिवालीति। या सिनीवाली सुकपर्दा, कपर्दोऽत्र स्त्रीणामुचितः केशब-न्धविशेषः। शोभनः कपर्दो यस्याः सा सुकपर्दा । कुरीरशब्देन स्त्रीभिः शृङ्गारार्थं शिरसि धार्यमाणं जालकमुच्यते। शोभनं कुरीरं यस्याः सुकुरीरा । उपशेते सम्य-क्शयनं करोति यैरवयवविशेषैस्ते सर्व उपशास्तोषां समूह औपशः। शोभन औपशो यस्याः सा स्वौपशा। हे महे प्रौढेऽदिते भूमिदेवि सा सिनीवाली तुभ्यं तव हस्तयोरु-खामादधातु।

मन्त्रः

उ॒खाङ्क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या ।

मा॒ता पु॒त्रय्ँयथो॒पस्थे॒ साग्निम्बि॑भर्तु॒ गर्भ॒ आ ।

टीका

अथ तृतीयामाह— १८०१ उखां करोत्विति। इयमदितिर्धिया बुद्धिकौशलेन बाहुभ्यां हस्तकौशलेन शक्त्या शरीरबलेन चेमामुखां करोतु। यथा लोके माता स्वकीयं पुत्रमुपस्थ उत्सङ्गे बिभर्ति तथा साऽदितिर्गर्भे स्वोत्सङ्गे तमग्निमा कर्मसमाप्तेर्विभर्तुं।

उक्तस्य मन्त्रचतुष्ठयस्य तात्पर्यं दर्शयति— ‘रुद्राः संभृत्य पृथिवीमित्याहैता वा एतं देवता अग्रे समभरन्ताभिरेवैनꣳ सं भरति’ [सं. का. ५ प्र. १ अ. ६] इति।

रुद्राः वसवः सिनिवाल्यदितिश्चेत्येतच्छब्दपरामृष्टा देवताः।

मखस्येति ।

मन्त्रः

म॒खस्य॒ शिरो॑ऽसि

टीका

कल्पः—‘मखस्य शिरोऽसीति पिण्डं कृत्वा’ इति।

हे मृत्पिण्ड त्वं मखस्य यज्ञस्य शिरः स्थानमसि।

तत्र मखशब्दार्थे दर्शयति— ‘मखस्य शिरोऽसीत्याह यज्ञो वे मखस्तस्यैनच्छिरो यदुखा तस्मादेवमाह’ (सं. का. ५ प्र. १ अ. ६) इति।

[सं. का. ५ प्र. १ अ. ६] इति।

यज्ञस्येति।

मन्त्रः

य॒ज्ञस्य॑ प॒दे स्थः॑ ।

टीका

कल्पः—‘यज्ञस्य पदे स्थ इति कृष्णाजिनं पुष्करपर्णे चाभिमृ-शति’ इति।

हे कृष्णाजिनपुष्करपर्णे युवामुभे यज्ञस्य पादरूपे स्थः ।

कृष्णाजिनपुष्करपर्णयोर्यज्ञप्राप्तिहेतुत्वाद्यज्ञपदत्वं प्रसिद्धमित्यतेद्दर्शयति— ‘यज्ञस्य पदे स्थ इत्याह यज्ञस्य ह्येते अथो प्रतिष्ठित्यै’ (सं. का. ५ प्र. १ अ. ६) इति।

संयुक्तमन्त्रः

वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत्पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद॒न्तरि॑ख्षमसि [20]

आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्द्यौर॑सि॒ विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राᳵ कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्दिशो॑ऽसि ध्रु॒वासि॑ धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोष॑ङ्गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान्यज॑माना॒य

मन्त्रः

वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑सा ।

अ॒ङ्गि॒र॒स्वत्पृ॑थि॒व्य॑सि (ध्रु॒वासि॑ । धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोष॑ङ्गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान्यज॑माना॒य । )।

रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।

अ॒ङ्गि॒र॒स्वद॒न्तरि॑ख्षमसि [20] (ध्रु॒वासि॑ । धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोष॑ङ्गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान्यज॑माना॒य । ) ।

आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑सा ।

अ॒ङ्गि॒र॒स्वद्द्यौर॑सि (ध्रु॒वासि॑ । धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोष॑ङ्गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान्यज॑माना॒य । )।

टीका

कल्पः—“वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसेति चतुर्भिर्महिष्युख करोति बहुभार्यस्याध्वर्युरेकभारस्य क्रियमाणामेतैरेव यजमानोऽनुमन्त्रयते” इति।

पाठस्तु— वसवस्त्वा कृण्वन्त्विति । हे उखे वस्वाख्या देवाः सहकारिणा गायत्रेण च्छन्दसा सहाङ्गिरस इव त्वां कृण्वन्तु निष्पादयन्तु । त्वं च पृथिवीरूपाऽसि। एवमुत्तरेषु त्रिष्वपि योज्यम् ।

Mantra

विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राᳵ कृ॑ण्व॒न्तु , आनु॑ष्टुभेन॒ छन्द॑सा ।

२२२ वैश्वानराः सर्वमनुष्योपकारिणः ।

मन्त्रः

अ॒ङ्गि॒र॒स्वद्दिशो॑ऽसि ।

ध्रु॒वासि॑ ।

धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोष॑ङ्गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान्यज॑माना॒य ।

टीका

हे उखे त्वं १८०२ घ्रुवाऽसि दृढाऽसि । अतो मय्यध्वर्यावन्यस्मिन्वोखाकर्तरि प्रजादिकं धारय स्थापय। यजमानार्थमपि प्रजादिकं संपादय। सोऽयं घ्रुवाऽत्यादिरन्त्यभागः पूर्वेष्वपि त्रिष्वनुषज्यते।

संसृष्टामित्याद्यृग्भिः कत्र प्रदानं वसवास्त्वेत्यादिभिर्यजुर्भिर्यजमानानुमन्त्रणं च क्रमेण विधत्ते— ‘प्रान्याभिर्यच्छत्यन्वन्यैर्मन्त्रयते मिधुनत्वाय’ [सं. का. ५ प्र. १ अ. ६] इति।

अन्याभिर्मसवस्त्वेत्यादियजुर्भ्यो विलक्षणाभिर्ऋग्भिरन्यैः संसृष्टमित्या-दिभ्य ऋग्भ्यो विलक्षणैर्वसवस्त्वेत्यादिभिर्यजुर्भिर्ऋचां स्त्रीलिङ्गत्वाद्यजुषामतथा-त्वान्मिथुनत्वम् । निर्मातव्याया उखाया कक्ष्यात्रयं विधत्ते— ‘त्र्युद्धिं करोति त्रय इम लोका एषां लोकानामाप्त्यै’ [सं. का. ५ प्र. १ अ. ६] इति।

उद्धिरूर्ध्वभवस्थितोऽवयवविशेषः यथा भाण्डस्योपर्यन्यद्भाण्डं तस्याप्यु-परि पुनरप्यन्यद्भाण्डमिति कक्ष्यात्रयं तथेयमेकैवोखा कक्ष्यात्रयबुक्ता कार्या ।

वसवस्त्वेत्यादिभिर्मन्त्रैर्यजमानस्यानुमन्त्रणं पूर्वं विहितमिदानीं तैरेव मन्त्रै कर्तुः कर्मनिष्पादनं विधत्ते— ‘छन्दोभिः करोति वीर्यं वै छन्दाꣳसि वीर्योणैवैनां करोति’ (सं. का. ५ प्र. १ अ. ६) इति। छन्दोभिश्छन्दोलिङ्गकैर्वसवस्त्वेत्यादिभिर्मन्त्रैः। अदित्या इति ।

मन्त्रः

अदि॑त्यै॒ रास्ना॑ऽसि ,

टीका

कल्पः– ‘अदित्यै रास्नाऽसीति रास्नां करोति’ इति ।

रशनासदृशी भाण्डस्य बलगता रेखा रास्ना । हे रेखे त्वमदित्यै भूमिरू-पाया उखाया रास्ना काञ्चीगुणस्थानीया रशनाऽसि।

मन्त्रः

अदि॑तिस्ते॒ बिल॑ङ्गृह्णातु॒ पाङ्क्ते॑न॒ छन्द॑साऽङ्गिर॒स्वत् ।

टीका

कल्पः–‘अदितिस्ते बिलं गृह्णात्विति बिलं कृत्वा’ इति। पाठस्तु– अदितिस्ते बिलमिति । हे उखेऽदितिर्भूमिः सहकारिणा पाङ्क्तेन च्छन्दसा सहाङ्गिरस इव ते तव बिलमन्तश्छिद्रं गृह्वातु करोतु। एतं मन्त्रं विनियुङ्क्ते— १८०३ “यजुषा बिलं करोति व्यावृत्यै” (सं. का. ५ प्र. १ अ. ६) इति।

लौकिकस्य हि भाण्डस्य मन्त्रमन्तरणैव बिलं क्रियते। अत्र तु समन्त्रक-मिति व्यावृत्तिः। उखायाः प्रादेशपरिमाणं विधत्ते— ‘इयतीं करोति प्रजापतिना यज्ञमुखेन संमिताम्’ (सं. का. ५ प्र. १ अ. ६) इति।

यज्ञपुरुषस्य मुखं मूर्धचु (चि) बुकयोर्मध्यवर्ति प्रादेशमात्रं, तच्च प्रजाप-तिसृष्टत्वात्प्रजापतिस्वरूपं, तेन मुखेन परिमिता भवति। तत्परिमाणं हस्तेनाभिनीय प्रदर्शनार्थमियतीत्युच्यते। अथ विधत्ते— “द्विस्तानां करोति द्यावापृथिव्योर्दोहाय” (सं. का. ५ प्र. १ अ. ६) इति।

यथा योषितः स्तनावेवमस्या उखाया द्वौ स्तनाकारौ मृदा निष्षाद्यौ।

तथा सति द्वित्वसाम्याद्द्यावापृथिव्योः सारांशदोहनं संपद्यते।

पक्षान्तरं विधत्ते— ‘चतुस्तनां करोति पशूनां दोहाय’ [सं. का. ५ प्र. १ अ. ६] इति।

‘अष्टास्तगां करोति छन्दसां दोहाय’ [सं. का. ५ प्र. १ अ. ६] इति।

अष्टौ छन्दांसि मन्त्रान्तरे समाम्नातानि— ‘गायत्री त्रिष्टुब्जगत्यनुष्टुक्प-ङ्क्त्या सह । बृहत्युष्णिहा ककुत्’ इति।

अष्टत्वसंख्यासाम्याच्छन्दसां सारदोहनं संपद्यते। तदेतत्सर्वं सूत्रकारेण संगृहीतम्— ‘अश्रीणां रास्नायाश्च संधौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति’ इति। अधिकारिविशेषेणाश्रिषु संख्याविशेषं विधत्ते— ‘नवाश्रिमभिचरतः कुर्यात्त्रिषृतमेव वज्रꣳ संभृत्य भ्रातृव्याय प्र हरति स्तृत्यै’ [सं. का. ५ प्र. १ अ. ६] इति।

त्रिवृत्स्तोमस्य नवभिर्ऋग्भिरुपेतत्वादश्रिसंख्या त्रिवृत्संपद्यते । स च त्रिवृ १८०४ त्स्तोमो वैरिविनाशकत्वाद्वज्रसमानः । अतो नवसंख्या भ्रातृव्याय वज्रप्रहरणं संपद्यते । अभिचाराभावे त्वश्रिसंख्यां सूत्रकारो दर्शयति– ‘कुर्वं श्चतस्त्रोऽश्री प्रति-दिशमुन्नयत्यष्टाश्रीर्वा’ इति।

मन्त्रः

कृ॒त्वाय॒ सा म॒हीमु॒खाम्मृ॒न्मयी॒य्ँयोनि॑म॒ग्नये᳚ ।

ताम्पु॒त्रेभ्य॒स्सम्प्राय॑च्छ॒ददि॑तिश्श्र॒पया॒निति॑ ॥ [21]

टीका

कल्पः—‘कृत्वाय सा महीमुखामित्युत्तरसः सिकतासु प्रतिष्ठाप्य’ इति। पाठस्तु— कृत्वाय सेति । सेयमदितिर्मृन्मयीं मृत्कार्यामग्नये योनिमग्नेः कारणभूतां महीं महतीमुखां कृत्वाय निष्पाद्य ततस्तामुखां पुत्रेभ्यः स्वपुत्रसदृशेभ्यः श्रपणका-रिम्यः संप्रायच्छत्सम्यग्दत्तवती। किं ब्रुवतीति ततुच्यते— श्रपयानिति अपयन्तु भवन्त इति ब्रुवती । तमेतं मन्त्रं विनियुङ्क्ते ‘कृत्वाय सा महीमुखामित नि दधाति देवतास्वेनैनां प्रति ष्ठापर्यति’ [सं. का. ५ प्र. १ अ. ६] इति।

अदितिपुत्राणां देवतारूपत्वाद्देवतासु प्रतिष्ठापनं संपद्यते।

अत्र विनियोगसंग्रहः— वि पा विस्रंसयेदापस्त्रिभिर्मृदि जलं क्षिपेत्।

मित्रोद्वाभ्यां शर्करादियोगो रुद्रेति संक्षिपेत्॥

संसृत्त्रिभिर्मृत्तिकां तामुखाकर्त्रे प्रयच्छति।

मख पिण्डकृतिर्यज्ञ चर्मपर्णाभिमर्शनम्॥

कुर्याद्वसचतुर्भिस्तां घ्रुवासीत्यनुषज्यते।

अदि रा नामदि बिलं कुर्यात्कृत्वाय तामुखाम्॥

सिकतासु स्थापयीत मन्त्रा एकोनविंशतिः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
पञ्चशत् 2 #
TS 4.1.5.2 TS 4.1.5.2
सꣳ॒॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह । सुजा॑तं जा॒तवे॑दसम॒ग्निं ॅवै᳚श्वान॒रं ॅवि॒भुं ॥ अ॒य॒क्ष्माय॑ त्वा॒ सꣳ सृ॑जामि प्र॒जाभ्यः॑ । विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः सꣳ सृ॑ज॒न्त्वा-नु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत् ॥ रु॒द्राः स॒भृंत्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे । तेषां᳚ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ॥ सꣳ सृ॑ष्टां॒ ॅवसु॑भी रु॒द्रैर्द्धीरैः᳚ कर्म॒ण्यां᳚ मृदं᳚ । हस्ता᳚भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली क॑रोतु॒ - [ ]
पदपाठः (Word-by-word)
सꣳ॒॒सृज्येति॑ सं - सृज्य॑ । पृ॒थि॒वीम् । भूमि᳚म् । च॒ । ज्योति॑षा । स॒ह ॥ सुजा॑त॒मिति॒ सु - जा॒त॒म् । जा॒तवे॑दस॒मिति॑ जा॒त-वे॒द॒स॒म् । अ॒ग्निम् । वै॒श्वा॒न॒रम् । वि॒भुमिति॑ वि - भुम् ॥ अ॒य॒क्ष्माय॑ । त्वा॒ । समिति॑ । सृ॒जा॒मि॒ । प्र॒जाभ्य॒ इति॑ प्र-जाभ्यः॑ ॥ विश्वे᳚ । त्वा॒ । दे॒वाः । वै॒श्वा॒न॒राः । समिति॑ । सृ॒ज॒न्तु॒ । आनु॑ष्टुभे॒नेत्यानु॑-स्तु॒भे॒न॒ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् ॥ रु॒द्राः । स॒भृंत्येति॑ सं - भृत्य॑ । पृ॒थि॒वीम् । बृ॒हत् । ज्योतिः॑ । समिति॑ । ई॒धि॒रे॒ ॥ तेषा᳚म् । भा॒नुः । अज॑स्रः । इत् । शु॒क्रः । दे॒वेषु॑ । रो॒च॒ते॒ ॥ सꣳसृ॑ष्टा॒मिति॒ सं - सृ॒ष्टा॒म् । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । रु॒द्रैः । धीरैः᳚ । क॒र्म॒ण्या᳚म् । मृद᳚म् ॥ हस्ता᳚भ्याम् । मृ॒द्वीम् । कृ॒त्वा । सि॒नी॒वा॒ली । क॒रो॒तु॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.1.5.3 TS 4.1.5.3
तां ॥ सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते मह॒ ओखां द॑धातु॒ हस्त॑योः ॥ उ॒खां क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒-मदि॑तिर्द्धि॒या । मा॒ता पु॒त्रं ॅयथो॒पस्थे॒ साऽग्निं बि॑भर्तु॒ गर्भ॒ आ ॥ म॒खस्य॒ शिरो॑ऽसि य॒ज्ञ्स्य॑ प॒दे स्थः॑ । वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑सा ऽङ्गिर॒स्वत् पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ऽङ्गिर॒स्वद॒न्तरि॑क्षमस्या - [ ]
पदपाठः (Word-by-word)
ताम् ॥ सि॒नी॒वा॒ली । सु॒क॒प॒र्देति॑ सु - क॒प॒र्दा । सु॒कु॒री॒रेति॑ सु - कु॒री॒रा । स्वौ॒प॒शेति॑ सु - औ॒प॒शा ॥ सा । तुभ्य᳚म् । अ॒दि॒ते॒ । म॒हे॒ । एति॑ । उ॒खाम् । द॒धा॒तु॒ । हस्त॑योः ॥ उ॒खाम् । क॒रो॒तु॒ । शक्त्या᳚ । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । अदि॑तिः । धि॒या ॥ मा॒ता । पु॒त्रम् । यथा᳚ । उ॒पस्थ॒ इत्यु॒प - स्थे॒ । सा । अ॒ग्निम् । बि॒भ॒र्तु॒ । गर्भे᳚ । आ ॥ म॒खस्य॑ । शिरः॑ । अ॒सि॒ । य॒ज्ञ्स्य॑ । प॒दे इति॑ । स्थः॒ ॥ वस॑वः । त्वा॒ । कृ॒ण्व॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । पृ॒थि॒वी । अ॒सि॒ । रु॒द्राः । त्वा॒ । कृ॒ण्व॒न्तु॒ । त्रैष्टु॑भेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । अ॒न्तरि॑क्षम् । अ॒सि॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.1.5.4 TS 4.1.5.4
-दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् द्यौर॑सि॒ विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा-ऽङ्गिर॒स्वद्-दिशो॑ऽसि ध्रु॒वाऽसि॑ धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्यꣳ॑ सजा॒तान्. यज॑माना॒याऽदि॑त्यै॒ रास्ना॒ऽस्य दि॑तिस्ते॒ बिलं॑ गृह्णातु॒ पाङ्क्ते॑न॒ छन्द॑सा ऽङ्गिर॒स्वत् ॥ कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ ॅयोनि॑म॒ग्नये᳚ । तां पु॒त्रेभ्यः॒ सं प्रा ( ) य॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥
पदपाठः (Word-by-word)
आ॒दि॒त्याः । त्वा॒ । कृ॒ण्व॒न्तु॒ । जाग॑तेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । द्यौः । अ॒सि॒ । विश्वे᳚ । त्वा॒ । दे॒वाः । वै॒श्वा॒न॒राः । कृ॒ण्व॒न्तु॒ । आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् । दिशः॑ । अ॒सि॒ । ध्रु॒वा । अ॒सि॒ । धा॒रय॑ । मयि॑ । प्र॒जामिति॑ प्र-जाम् । रा॒यः । पोष᳚म् । गौ॒प॒त्यम् । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । स॒जा॒तानिति॑ स - जा॒तान् । यज॑मानाय । अदि॑त्यै । रास्ना᳚ । अ॒सि॒ । अदि॑तिः । ते॒ । बिल᳚म् । गृ॒ह्णा॒तु॒ । पाङ्क्ते॑न । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् ॥ कृ॒त्वाय॑ । सा । म॒हीम् । उ॒खाम् । मृ॒न्मयी॒मिति॑ मृत्-मयी᳚म् । योनि᳚म् । अ॒ग्नये᳚ ॥ ताम् । पु॒त्रेभ्यः॑ । सम् । प्रेति॑ ( ) । अ॒य॒च्छ॒त् । अदि॑तिः । श्र॒पयान्॑ । इति॑ ॥
पदसंख्या: 54