अनुवाकः 10 TS 4.1.10

(A10)

(नाभा॒ - वने॒ ये - न॑यामि॒ - क्षामा॑ रु॒क्मो᳚ - ऽष्टात्रिꣳ॑शच्च)

अनुवाकः 10 - Complete Audio

TS 4.1.10 - स्वरानुगामी

0:00 0:00
PS1.1 यद॑ग्ने॒ यानि॒ कानि॒ चाऽऽते॒
PS1.2 दारू॑णि द॒द्ध्मसि॑
PS1.3 तद॑स्तु॒ तुभ्य॒मिद्-घृ॒तं तज्जु॑षस्व यविष्ठ्य
PS1.4 यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति
PS1.5 सर्वं॒ तद॑स्तु ते घृ॒तं
PS1.6 तज्जु॑षस्व यविष्ठ्य
PS1.7 रात्रिꣳ॑ रात्रि॒मप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै
PS1.8 रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा
PS1.9 ते॒ प्रति॑वेशा रिषाम
PS1.10 नाभा॑ - [ ]
PS2.1 पृथि॒व्याः स॑मिधा॒-नम॒ग्निꣳ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे
PS2.2 इ॒र॒म्म॒दं बृ॒हदु॑क्थं॒ ॅयज॑त्रं॒ जेता॑रम॒ग्निं
PS2.3 पृत॑नासु सास॒हिं
PS2.4 याः सेना॑ अ॒भीत्व॑रीरा-व्या॒धिनी॒-रुग॑णा उ॒त
PS2.5 ये स्ते॒ना ये च॒
PS2.6 तस्क॑रा॒स्ताꣳस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये᳚
PS2.7 दꣳष्ट्रा᳚भ्यां म॒लिम्लू॒न् जंभ्यै॒-स्तस्क॑राꣳ उ॒त
PS2.8 हनू᳚भ्याꣳ स्ते॒नान्-भ॑गव॒स्ताꣳ-स्त्वं खा॑द॒ सुखा॑दितान्
PS2.9 ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒-स्तस्क॑रा॒ वने᳚
PS2.10 ये - [ ]
PS3.1 कक्षे᳚ष्वघा॒ यव॒स्ताꣳस्ते॑ दधामि॒ जंभ॑योः
PS3.2 यो अ॒स्मभ्य॑मराती॒याद्-यश्च॑ नो॒ द्वेष॑ते॒ जनः॑
PS3.3 निन्दा॒द्यो अ॒स्मान् दिफ्सा᳚च्च॒ सर्वं॒
PS3.4 तं म॑स्म॒सा कु॑रु
PS3.5 सꣳशि॑तं मे॒ ब्रह्म॒ सꣳशि॑तं
PS3.6 ॅवी॒र्यं॑ बलं᳚
PS3.7 सꣳशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒ऽहमस्मि॑ पु॒रोहि॑तः
PS3.8 उदे॑षां बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बलं᳚
PS3.9 क्षि॒णोमि॒ ब्रह्म॑णा॒-ऽमित्रा॒नुन्न॑यामि॒ - [ ]
PS4.1 स्वाꣳ अ॒हं
PS4.2 दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्.ष॒मायुः॑
PS4.3 श्रि॒ये रु॑चा॒नः
PS4.4 अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑-भि॒र्यदे॑नं॒ द्यौरज॑नयथ् सु॒रेताः᳚
PS4.5 विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते
PS4.6 क॒विः प्राऽसा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे
PS4.7 वि नाक॑मख्यथ् सवि॒ता वरे॒ण्योऽनु॑
PS4.8 प्र॒याण॑मु॒षसो॒ वि॑राजति
PS4.9 नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒
PS4.10 शिशु॒मेकꣳ॑ समी॒ची
PS4.11 द्यावा॒ क्षामा॑ रु॒क्मो -
PS4.12 [ ]
PS5.1 अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं
PS5.2 धा॑रयन् द्रविणो॒दाः
PS5.3 सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न् त्रि॒वृत्ते॒ शिरो॑
PS5.4 गाय॒त्रं चक्षुः॒ स्तोम॑ आ॒त्मा
PS5.5 साम॑ ते त॒नूर्वा॑मदे॒व्यं बृ॑हद्-रथन्त॒रे
PS5.6 प॒क्षौ य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ छन्दाꣳ॒॒स्यङ्गा॑नि॒
PS5.7 धिष्णि॑याः श॒फा यजूꣳ॑षि॒ नाम॑
PS5.8 सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् दिवं॑ गच्छ॒
PS5.9 सुवः॑ पत

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.1.10.1 TS 4.1.10.1
यद॑ग्ने॒ यानि॒ कानि॒ चाऽऽते॒ दारू॑णि द॒द्ध्मसि॑ । तद॑स्तु॒ तुभ्य॒मिद्-घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥ रात्रिꣳ॑ रात्रि॒मप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥ नाभा॑ - [ ]
पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । यानि॑ । कानि॑ । च॒ । एति॑ । ते॒ । दारू॑णि । द॒द्ध्मसि॑ ॥ तत् । अ॒स्तु॒ । तुभ्य᳚म् । इत् । घृ॒तम् । तत् । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥ यत् । अत्ति॑ । उ॒प॒जिह्वि॒केत्यु॑प - जिह्वि॑का । यत् । व॒म्रः । अ॒ति॒सर्प॒तीत्य॑ति-सर्प॑ति ॥ सर्व᳚म् । तत् । अ॒स्तु॒ । ते॒ । घृ॒तम् । तत् । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥ रात्रिꣳ॑रात्रि॒मिति॒ रात्रि᳚म् - रा॒त्रि॒म् । अप्र॑याव॒मित्यप्र॑-या॒व॒म् । भर॑न्तः । अश्वा॑य । इ॒व॒ । तिष्ठ॑ते । घा॒सम् । अ॒स्मै॒ ॥ रा॒यः । पोषे॑ण । समिति॑ । इ॒षा । मद॑न्तः । अग्ने᳚ । मा । ते॒ । प्रति॑वेशा॒ इति॒ प्रति॑ - वे॒शाः॒ । रि॒षा॒म॒ ॥ नाभा᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाकः १० अग्निधारणम्

-३, ५-१०,अनुष्टुप् , ३-४,११, १३ त्रिष्टुप्, १२ जगती अग्निर्ऋषिः ।

चतुर्थकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः

मन्त्रः

यद॑ग्ने॒ यानि॒ कानि॒ चा ते॒ दारू॑णि द॒ध्मसि॑ ।

तद॑स्तु॒ तुभ्य॒मिद्घृ॒तन्तज्जु॑षस्व यविष्ठ्य ।

टीका

( अथ चतुर्थकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः ) ।

नवमऽनुवाकेऽग्न्युत्पादनमुक्तम । अथ दशमेऽग्निधारणमुच्यते ।

कल्पः—“यदग्ने यानि कानि चेति पञ्चभिरौदुम्बरमपरशुवृक्णमुख्य इध्म मभ्यादधाति” इति । तत्र प्रथमामाह— यदग्ने यानि कानीति । हेऽग्ने ते त्वदर्थं यानि कानि च दारूणि, दारु-शब्देन कुठारच्छेदरहितमविदारितं काष्ठमुच्यते । तादृशानि यानि कान्यप्यरण्ये पतितानि काष्ठान्यानीय दध्मसि धारयाम इति यत्तत्सर्वं तुभ्यं त्वदर्थं घृतमिद्घृतमेव घृतवत्प्रियमस्तु । हे यविष्ठ्य युवतम तद्दारुजातं जुषस्व ।

मन्त्रः

यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।

सर्व॒न्तद॑स्तु ते घृ॒तन्तज्जु॑षस्व यविष्ठ्य ।

टीका

अथ द्वितीयामाह— यदत्त्युपजिह्विकेति । जिह्वाः प्रधानज्वालाः । तत्समीपवर्तिनी क्षुद्रज्वा- १८४३ लोपजिह्विका । अस्माभिररण्यादानीतेषु दारुषु मध्ये यद्दारु महारण्ये दावाग्ने-रुपजिह्विका स्वल्पज्वालाऽत्ति भक्षयतीषद्दहतीत्यर्थः । वम्रशब्दः पिपीलिकासदृशं क्षुद्रजीवमाचष्टे । स च यत्काष्ठमतिसर्पति अतिशयेन सर्पति प्राप्नोति । काष्ठावय-वेषु तत्र तत्र सारं भक्षयतीत्यर्थः । तत्सर्वमित्यादि पूर्ववत् ।

मन्त्रः

रात्रि॑ꣳरात्रि॒मप्र॑याव॒म्भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒समस्मै ।

रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ।

टीका

अथ तृतीयामाह— रात्रिꣳरात्रिमिति। हेऽग्ने ते तव प्रतिवेशा प्रत्यासन्ना वयं मा रिषाम हिंसा न प्राप्नुमः । किं कुर्वन्तः। रायस्पोषेण धनपुष्ट्या धनपोषेणेषाऽन्नेन चसम्यङ्मदन्तः। तथा रात्रिं रात्रिमप्रयावं प्रतिदिनं पृथग्मावमकृत्वा । एकमपि दिनमवर्जयित्वेत्यर्थः। अस्मा अग्नये घासं समिद्रूपं भक्ष्यं भरन्तः संपादयन्तः । तत्र दृष्टान्तः—तिष्ठतेऽ-श्वायेव वाजिशालायां बद्ध्वा स्थापिताय प्रौढायाश्वायैकमपि दिनमवर्जयित्वा यथा घासं प्रयच्छन्ति तद्वत् ।

मन्त्रः

नाभा᳚ [38] पृ॒थि॒व्यास्स॑मिधा॒नम॒ग्निꣳ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।

इ॒र॒म्म॒दम्बृ॒हदु॑क्थ॒य्ँयज॑त्र॒ञ्जेता॑रम॒ग्निम्पृ॑तनासु सास॒हिम् ।

टीका

अथ चतुर्थीमाह— नाभा पृथिव्या इति । बृहते प्रौढाय रायस्पोषायाग्निमिमं वयं हवामह आह्वयामः । कीदृशमग्निं, पृथिव्या नाभा समिधानमुखाया मध्ये सम्यग्दीप्यमानम् । इरया समिद्रूपेणान्नेन माद्यतीतीरंमदस्तम् । बृहन्ति प्रौढान्युक्थानि प्रशंसनानि यस्या-सौ बृहदुक्थस्तम् । यजत्रं यागहेतुं, जेतारं राक्षसादिविषये जयशीलं पृतनास्वाग्निं संग्रामेष्वग्रे गच्छन्तं, सासहिमस्मदपराधानामतिशयेन सोढारम् ।

मन्त्रः

यास्सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त ।

ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताꣳस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये᳚ ।

टीका

अथ पञ्चमीमाह— याः सेना इति । याः काश्चित्परकीयाः सेना अभीत्वरीरस्मदाभिमुख्येन गमनशीला आव्याधिनीः सर्वतोऽस्मान्पीडयन्त्य उगणा उत्कृष्टगणोपेता बहुस्तोमा इत्यर्थः । एवंविधा याः सेनाः सन्ति, उतापि च ये स्तेना गुप्तचोरा ये च तस्कराः प्रकटचोरास्तान्सर्वांस्तवाऽऽस्ये मुखेऽपिदधामि प्रक्षिपामि ।

एतान्मन्त्रान्विनियुङ्क्ते— “न ह स्म वै पुराऽग्निरपरशुवृक्णं दहति तदस्मै प्रयोग एवर्षिरस्वदयद्यग्ने यानि कानि चेति समिधमा दधात्यपरशुवृक्णमेवास्मै स्वदयति” [सं. का. ५ प्र. १ अ. १०] इति।

पुरैतन्मन्त्रयोगात्पूर्वं कदाचिदप्यग्निरपरशुवृक्णं परशुच्छेदरहितं काष्ठं न ***१८४४ ह स्म वै दहति सर्वथा न दहति। अविदारितं काष्ठमग्नौ प्रक्षिप्तमपि न भस्मी भव-ति, किंतु ज्वालया क्वचित्कृष्णं भवतीत्यर्थः । एवं सति प्रयोगः प्रयुज्यमान क्रषि-रेव यदग्ने यानीति मन्त्र एवास्मा अग्नये तत्काष्ठमविदारितमस्वदयत्स्वादूकृतवान्। एतदर्थमेव यद्दारु तद्धृतमस्त्विति मन्त्रे पठ्यते। तस्माद्यदग्न इत्यादिमन्त्रैः समिध-मादध्यात्तेनास्मां अग्नये परशुच्छेदरहितं काष्ठं स्वदयत्येव ।

एतद्वेदनं प्रशंसति— “सर्वमस्मै स्वदते य एवं वेद” (सं. का. ५ प्र. १ अ. १०) इति।

यत्काष्ठमपरशुवृक्णमभ्याधेयं तस्य जातीविशेषं विधत्ते— “औदुम्बरीमा दधात्यूर्ग्वा उदुम्बर ऊर्जमेवास्मा अपि दधाति” (सं. का. ५ प्र. १ अ. १०) इति।

यदग्न इत्यादिमन्त्रसंघरूपं सूक्तं प्रशंसति— “प्रजापतिरग्निमसृजत तꣳ सृष्टꣳ रक्षाꣳ स्यजिघाꣳ सन्त्स एतद्राक्षोघ्नम-पश्यत्तेन वै स रक्षाꣳ स्यपाहत यद्राक्षोघ्नं भवत्यग्नेरेव तेन जाताद्रक्षाꣳस्यप हन्ति” (सं. का. ५ प्र. १ अ. १०) इति।

रक्षोघ्नोऽयमाग्निस्तत्सूक्तं राक्षोघ्नं यदग्ने यानि कानि चेत्यारभ्यामित्रा-नुन्नयामि स्वाꣳ अहमित्येतदन्तम् । अनेन सूक्तेन रक्षांसि प्रजापतिर्हतवान् । तस्माद-त्राप्यनेन सूक्तेन तथैव भवितव्यम् । तेन सूक्तेनोत्पन्नागदग्नेः सकाशाद्रक्षांसि विना-शयति।

मन्त्रः

दꣵष्ट्रा᳚भ्याम्म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राꣳ उ॒त ।

हनू᳚भ्याꣳस्ते॒नान्भ॑गव॒स्ताꣳस्त्वङ्खा॑द॒ सुखा॑दितान् ।

टीका

कल्पः—“दꣳ ष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं समिधमादधाति” इति।

पाठस्तु— दꣳष्ट्राभ्यामिति। गुप्ताः प्रकटाश्चेति द्विविधाश्चोराः। प्रकटा अपि द्विविधाः, अरण्येषु मार्गमध्येऽपहृत्य प्रत्यक्षमेव पलायमानाः प्रकटाः । ततोऽप्यतिप्रकटा निर्भ-या ग्रामेष्वेवाऽऽगत्य बन्दिकराः । त एतेऽत्र मलिम्लब इत्युच्यन्ते मलं पापाधिक्य-मेषामस्तीति मलिनाः । तथाविधा भूत्वा म्लोचयन्ति चौर्य कुर्व- १८४५ न्तीति मलिम्लवस्तान् । दन्तपङ्क्तिमध्ये याभ्यां तीक्ष्णदन्ताम्यां क्रमुकादिकं भक्ष्यते ते दंष्ट्रे । ततः पुरोवर्तिनो बहिर्दृश्यमाना दन्ता जम्भ्याः । अन्तलर्नि तु हनू । तत्र मलिम्लून्दष्ट्राभ्यां पडियित्वा जम्भ्यैस्तस्करानपि पडियित्वा हनूभ्यां स्तेनान्पीडयित्वा हे भगवः पूजानीयाग्ने तान्सर्वान्सुखादितान्पुनर्जीवनरहिता यथा भवन्ति तथा त्वं खाद भक्षय । एतन्मन्त्रसाध्यं समिदाधानं विधत्ते— “आश्वत्थीमा दधात्यश्वत्थो वै वनस्पतीनाꣳ सपत्नसाहो विजित्यै” [सं. का. ५ प्र. १ अ. १०] इति।

सपत्नान्सहतेऽभिभवतीत सपत्नसाहः। अश्वरूपधारिणोऽग्नेरस्मिन्वृक्षेऽ-वस्थितत्वादश्वत्थस्य सपत्नसाहत्वम् । तत्रावस्थानमाधानब्राह्मणे श्रूयते-‘अग्निर्दे-वेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत् । तदश्वत्थस्याश्व-त्थत्वम्” इति। अतस्तदीया समिद्विजयाय संपद्यते।

मन्त्रः

ये जने॑षु म॒लिम्ल॑वस्स्ते॒नास॒स्तस्क॑रा॒ वने᳚ ।

ये [39] कख्षे᳚ष्वघा॒यव॒स्ताꣳस्ते॑ दधामि॒ जम्भ॑योः ।

टीका

कल्पः—“ये जनेषु मलिम्लव इति वैकङ्कन्तीम्” इति। आदधातीति शेषः पाठस्तु— ये जनेष्विति। ग्रामवर्तिषु जनेषु वनेषु गच्छत्सु च ये त्रिविधाः पूर्वोक्ता-श्चोराः सन्ति, ये चान्ये व्याघ्रादयः कक्षे, स्थित्वाऽघायवो भवन्ति, अघं पापं हिंसन-मिच्छन्तीत्यघायवः, तान्सर्वांस्तव जम्भयोर्दधामि ।

एतन्मन्त्रसाध्यं समिदाधानं विधत्ते— “वैकङ्कतीमा दधाति भा एवाव रुन्धे” [सं. का. ५ प्र. १ अ. १०] इति।

मन्त्रः

यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ ।

निन्दा॒द्यो अ॒स्मान्दिफ्सा᳚च्च॒ सर्व॒न्तम्म॑स्म॒सा कु॑रु ।

टीका

कल्पः—“यो अस्मभ्यमरातीयादिति शमीमयीम्” इति। पाठस्तु— यो अस्मभ्यमिति। पूर्वं चोरभेदा दर्शिताः। इदानीं शत्रुभेदा उच्यन्ते। ते च त्रिविधा अरातयो द्वेषिणो निन्दकाश्चेति। तत्र दातव्यत्येन प्राप्तं धनं यो न ददाति सोऽयमरातिः । कार्यविघातं यः करोति स द्वेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः । हन्तुकामश्चतुर्थः । तत्र योऽस्मभ्यमस्माकमरातीयादरातित्व मिच्छति, यो यजमानानस्मान्द्वेषते कार्यनाशेन बाधते, योऽप्यन्योऽस्मान्निन्दान्निन्दति, यश्चापरोऽ-स्मान्दिप्साद्दम्भितुं हिंसितुमिच्छति, तं सर्वं जनं मस्मसा कुरु। चूर्णजन्यशब्दस्यानुक-रणं मस्मसेति, चूर्णी कुर्वित्यर्थः।

१८४६ एतन्मन्त्रसाध्यं समिदाधानं विधत्ते— शमीमयीमा दधाति शान्त्यै” (सं. का. ५ प्र. १ अ. १०) इति।

मन्त्रः

सꣳशि॑तम्मे॒ ब्रह्म॒ सꣳशि॑तव्ँवीर्य॑म्बल᳚म् ।

सꣳशि॑तङ्ख्ष॒त्रञ्जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ।

टीका

कल्पः “ सꣳ शितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे यजमानं वाचयं-स्तूष्णीमौदुम्वर्यौ समिधावादधाति” इति। तत्र प्रथमामाह— सꣳ शितं मे ब्रह्मेति। मे मदीयं ब्रह्म ब्राह्मण्यं संशितं सम्यक्तक्ष्णिकृतं शास्त्रीयमार्गवर्ति कृतमित्यर्थः। तथा वीर्यमिन्द्रियशक्तिः। बलं शरीरजशक्तिः। तदुभयं संशितं सम्यक्स्वकार्यक्षमं, तथा यस्य क्षत्त्रस्य राज्ञोऽहं पुरोहितोऽस्मि मे मदीयं तत्क्षत्त्रं जिष्णु जयशीलं यथा भवति तथा संशितम्। अस्त्विति शेषः।

मन्त्रः

उदे॑षाम्बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बल᳚म् ।

ख्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि [40] स्वाꣳ अ॒हम् ।

टीका

अथ द्वितीयामाह— उदेषां बाहू इति। एषां स्वकीयानां राजब्राह्मणादीनां मध्य एकैकस्य वाहूं उदतिरमुत्कर्षेण वर्वितवानस्मि। लौकिकोक्तिरियम्। लोके हि योऽन्यस्मादुत्कृष्टो भवति तं जना एवमाहुः-स्वकीयहस्तमुपरितनं कृतवानिति। वर्चः कान्तिः। तामप्युदतिरम्। बलं शरिरं तदव्युदतिरम्। ब्रह्मणा मन्त्रसामर्थ्येनामित्राञ्शत्रून्क्षिणोमि क्षीणान्करोमि। स्वान्स्वकीयान्पुरुषानहमुन्नयाम्युत्कर्षं प्रापयामि।

एतन्मन्त्रसाध्यं यजमानवाचनं विधत्ते— “सꣳ शितं मे ब्रह्मोदेषां बाहू अतिरमित्युत्तमे औदुम्बरी वाचयति ब्रह्मणैव क्षत्त्रꣳसꣳ श्यति क्षत्त्रेण ब्रह्म तस्माद्ब्राह्मणो राजन्यवानत्यन्यं ब्राह्मणं तस्माद्राजन्यो ब्राह्मणवानत्यन्यꣳ राजन्यम्” [सं. का. ५ प्र. १ अ. १०] इति।

उत्तमे राक्षोघ्न सूक्तस्यान्तिमे ऋचौ यजमानं वाचयेत्। औदुम्बर्यौ द्वे समि-धौ तूष्णीमादध्यादिति शेषः । प्रथममन्त्रे ब्रह्मक्षत्त्रयोः संशितत्वं यदुक्तं तत्र परस्परो-पकारो विज्ञायते। ब्राह्मणेनैव पुरोहितेन राजा धर्मे तीक्ष्णीकृतो भवति। राज्ञा निया-मकेन ब्रह्म-णोऽपि संशितः स्वाचारे नियमितो भवति। यस्मादेवं तस्माद्रा- १८४७ जन्येन स्वामिना युक्तो ब्राह्मणः स्वामिरहितं ब्राह्मणमत्येति। राजाऽपि धर्मबोधकेन पुरोहितेन ब्राह्मणेन युक्तस्तद्रा हितमधार्मिकं राजन्यं राजानमत्येति।

मन्त्रः

दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑श्श्रि॒ये रु॑चा॒नः ।

अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑न॒न्द्यौरज॑नयथ्सु॒रेताः᳚ ।

टीका

कल्पः—“एकविंशतिनिर्बाधो रुक्मः सूत्रोतस्तं दृशानो रुक्म इति समासीनो यजमानोऽन्तर्निर्बाधं प्रतिमुच्य बहिर्निर्बाधान्कुरुते” इति । पाठस्तु— दृशानो रुक्म इति। दृशानो दर्शनीयरूपो रुक्मः सुवर्णनिर्मितः फलका कार आभरणविशेष उर्व्या महत्या दीप्त्या व्यद्यौद्विद्योतते स्म । किं कुर्वन् । दुर्मर्ष-मतिरस्कार्यमायुर्जीवनं श्रिये श्रयितुं रुचानो वाञ्छन् । तथाविधोऽग्निर्वयोभिरन्नैर्हवि-र्भिरमृतोऽभवत् । यद्यस्मादेनमग्निं द्यौर्द्युलोकवासिदेवगणः सुरेताः सन्नजनयत्तस्मादभृतत्वं युक्तम् । अत्र रुक्मस्यग्निधारणाङ्गत्वादग्नित्वमुपचरितम् । अनेन मन्त्रेण साध्यं रुक्मप्रतिमाकं विधत्ते— “मृत्युर्वा एष यदग्निरमृतꣳ हिरण्यꣳ रुक्ममन्तरं प्रति मुञ्चतेऽमृतमेव मृत्योरन्तर्धत्ते” (सं. का. ५ प्र. १ अ. १०) इति।

अग्नेर्दाहेन विनाशुकत्वान्मृत्युत्वं, हिरण्यस्याग्निसंपर्केऽपि भस्मीभावदर्श-नादमृतत्वम् । एवं सति धारयिष्यमाणस्याग्नेः स्वकीयस्योरसश्चान्तरं मध्यवर्ती यथा भवति तथा रुक्मं दीर्घसूत्रेण प्रोतं गले प्रतिमुञ्चत् । तेन प्रतिमुक्तेन दाहकादग्निरू-पान्मृत्योरमृतं रुक्मं व्यवधानरूपं कृतवान्भवति ।

तस्य रुक्मस्य बिन्दुसदृशानाकारविशेषान्विधत्ते— “एकवीꣳ शतिनिर्बाधो भवत्येकविꣳ शतिर्वै देवलोका द्वादश माताः पञ्चर्तंवस्त्रय इमे लोका असावादित्य एकविꣳश एतावन्तो वै देवलोकास्तभ्ये एव भ्रातृव्यमन्तरेति” (सं. का. ५ प्र. १ अ. १०) इति।

सुवर्णफलके निम्नोन्नतभावमापद्य स्पर्शकारिणं पुरुषं निःशेषेण बाधन्त इति निर्बाधाः स्फोटसदृशा अवयवविशेषाः । ते चैकावॅशतिसंख्याका यस्निरुक्मे सोऽयमेकविंशतिनिर्बाधः । तादृशं रुक्मं कुर्यात् । लोक्यन्ते भज्यन्ते यैर्देशकाला-दिसाधनविशेषैस्ते लोकाः। मासादयश्च वेदानां भोगसाधनानीति त एव लोका- १८४८ इत्युच्यन्ते । अतो निर्बाधगतयैकविंशतिसंख्यया मासादिकेम्य आदित्यान्तेभ्य एकविंशतिलोकेभ्यो भ्रातृव्यमन्तरितं करोति।

विहितान्निर्बाधान्प्रशंसति— “निर्बाधैर्वै देवा असुरान्निर्बाधेऽकुर्वत तन्निर्बाधानां निर्बाधत्वं निर्बाधी भवती भ्रातृव्यानेव निर्बाधे कुरुते” [सं. का. ५ प्र. १ अ. १०] इति।

चर्मखड्गधारिणो देवाश्चर्मणो बहिर्भागे शचितैः कंस्यादिमयैः प्रौढस्फोटा-कारैर्निर्बाधैः । स्वग्रहणार्थमागतानसुरानास्फाल्या भूमिपतनादिरूपे निर्वाधे स्थितान-कुर्वत । यस्मान्निश्चितबाधा एते तस्मान्निर्बाधाः । अतोऽत्र रुक्मस्य निर्बाधित्वेन भ्रातृव्यान्सर्वान्निश्चितबाधे पतितान्कुरुते।

मन्त्रः

विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विᳶ प्रासा॑वीद्भ॒द्रन्द्वि॒पदे॒ चतु॑ष्पदे ।

वि नाक॑मख्यथ्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ।

टीका

कल्पः—“विश्वा रूपाणीति शिक्यपाशं प्रतिमुञ्चते” इति। पाठस्तु— विश्व रूपाणि प्रतीति। कविर्विद्वान्वरेण्यः श्रेष्ठः सविता विश्वा रूपाणि समस्तानि जगद्रूपाणि प्रतिमुञ्चते स्वस्मिन्स्वी करोति। प्रकाशयतीत्यर्थः। द्विपदे चतु-ष्पदे मनुष्याणां पशूनां च भद्रं स्वस्वव्यवहारप्रकाशनरूपं श्रेयः प्रासावी त्संपादितवा-न् । नाकं स्वर्गं विशेषेणाख्यत्प्रकाशितवान्। उषसः प्रयाणमनूषः कालेऽतीते सति विराजति विशेषेण प्रकाशते।

अनेन मन्त्रेण साध्यं शिक्यपाशप्रतिमोकं विधत्ते— “सावित्रिया प्रति मुञ्चते प्रसूत्यै” [सं. का. ५ प्र. १ अ. १०] इति ।

सविता वरेण्य इति मन्त्रलिङ्गादियं सावित्री सम्यक्प्ररेणाय संपद्यते ।

मन्त्रः

नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची ।

द्यावा॒ ख्षामा॑ रु॒क्मः [41] अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निन्धा॑रयन्द्रविणो॒दाः ।

टीका

कल्पः — ‘नक्तोषासेति कृष्णाजिनमुत्तरम्” इति। प्रतिमुञ्चत इत्यनुव र्तते। पाठस्तु— नक्तोषासेति। नक्तं चोषाश्च नक्तोवासा रात्रिदिवसावित्यर्थः समनसा परस्परमेकमतियुक्ते, विरूपे रात्रिः कृष्णा दिवसस्तु शुक्ल इत्येवं विलक्षणरूपे, समीची समीच्यावनूकूले सत्यै, एकं शिशुमग्निं धापयेते यजमानकर्तृकमग्निधारणं संपादयतः । द्यावा द्युलोके क्षामा क्षितौ भूलोकेऽन्तस्तदुभयमध्यवर्तिन्यन्तरिक्षे रुक्मो विभाति । अयमग्निर्विशेषेण प्रकाशते । दीव्यन्ति विहरन्तीति देवाःप्राणाः । ते च द्रविणोदा यागद्वोरण द्रविणं धनरूपं फलं प्रायच्छन्ति । तादृशा यजमानस्य प्राणा अग्निमेतं धारयन्धृतवन्तः।

१८४९ एतन्मन्त्रसाध्यं कृष्णाजिनप्रतिमोकं विधत्ते— “नक्तोषासेत्युत्तरयाऽहोरात्राभ्यामेवैनमुद्यच्छते” [सं. का. ५ प्र. १ अ. १०] इति।

पूर्वां सावित्रीमृचमपेक्ष्येयमुत्तरा तया कृष्णाजिनं प्रतिमुञ्चत इति शेषः । तथा सति तन्मन्त्रप्रतिपादिताभ्यामेवैनमूर्ध्वं धृतवान्भवति।

तस्य मन्त्रस्य चतुर्थपादे देवशब्देन प्राणा विवक्षिता इति दर्शयति— “देवा अग्निं धारयन्द्रविणोदा इत्याह प्राणा वै देवा द्रविणोदा अहोरात्रा-भ्यामेवैनमुद्यत्य प्राणैर्दाधार” [सं. का. ५ प्र. १ अ. १०] इति।

उद्यमनमात्रमहोरात्रयोः कृत्यं, धारणं तु प्राणानामित्यर्थः।

रुक्मशिक्यपाशकृष्णाजिनानां यः प्रतिमोकस्तस्य काल उपवेशनं विधत्ते ‘आसीनः प्रति मुञ्चते तस्मादासीनाः प्रजाः प्र जायन्ते’ (सं. का. ५ प्र. १ अ. १०) इति।

तस्मादासीनप्रतिमोकाल्लोकेऽपि प्रजाः आसीना एवोत्पद्यन्ते न तूत्थिताः।

कृष्णाजिनस्य शिक्याद्वहिर्देशर्वीतत्वं विधत्ते— ‘कृष्णाजिनमुत्तरं तेजो वै हिरण्यं ब्रह्म कृष्णाजिनं तेजसा चैवैनं ब्रह्मणा चोभयतः परि गृह्णाति’ (सं. का. ५ प्र. १ अ. १०) इति।

शिक्यस्यैकतो रुक्ममन्यतः कृष्णाजिनमिति तेजोरूपेण रुक्मेण वेदरूपेण कृष्णाजिनेन चोभयतः शिक्यं परिगृहीतं भवति। कृष्णाजिनस्य ब्रह्मरूपत्वं दीक्षाप्रकरणे समाम्नातम्—‘ब्रह्मणो वा एतद्रूपम् । यत्कृष्णाजिनम्’ इति । शिक्यस्योद्यमनहेतुरज्जुसंख्यां विधत्ते— ‘षडुद्यामꣳ शिवये भवति षड्वा ऋतव ऋतुभिरेवैनमुद्यच्छते’ [सं. का. ५ प्र. १ अ. १०] इति।

‘यद्द्वादशोद्यामꣳ संवत्सरेणैव’ [सं. का. ५ प्र. १ अ. १०] इति।

द्वादश मासाः संवत्सर इत्युक्तत्वात्संवत्सरेणैवैनमुद्यच्छते।

१८५० शिक्यस्य प्रकृतिद्रव्यं विधत्ते— “मौञ्जं भवत्यूर्ग्वै मुञ्जा ऊर्जैवनꣳ समर्धयति” [सं. का. ५ प्र. १ अ. १०] इति।

संयुक्तमन्त्रः

सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रञ्चख्षु॒स्स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम्बृ॑हद्रथन्त॒रे प॒ख्षौ य॑ज्ञाय॒ज्ञिय॒म्पुच्छ॒ञ्छन्दा॒ꣳ॒स्यङ्गा॑नि॒ धिष्णि॑याश्श॒फा यजूꣳ॑षि॒ नाम॑ ।

मन्त्रः

सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न् , त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रञ्चख्षु॒स् स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यम् बृ॑हद्रथन्त॒रे प॒ख्षौ, य॑ज्ञाय॒ज्ञिय॒म्पुच्छ॒ञ्, छन्दा॒ꣳ॒स्यङ्गा॑नि॒, धिष्णि॑याश्श॒फा, यजूꣳ॑षि॒ नाम॑ ।

टीका

कल्पः—“सुपर्णोऽसि गरुत्मानित्युख्यमवेक्षते” इति। पाठस्तु— सुपर्णोऽसि गरुत्मानिति । हेऽग्ने त्वं सुपर्णः पक्षिरूपोऽसि। पक्ष्याकारेण चेष्यमाणत्वात् । अत एवाऽऽम्नायते—‘वयसां वा एष प्रतिमया चीयते यदग्निः” इति । तत्र दृष्टान्तः—यथा गरुत्मान्पक्षिराजस्तद्वत्। पक्ष्याकारस्यावयवाः संप (पा) द्यन्ते त्रिवृत्ते शिरो बहिष्पवमानस्तोत्रे योऽयं त्रिवृत्स्तोमः स एव स्तोमस्तव शिर-स्थानीयः । प्रजापतिमुखजन्यत्वेनोक्तत्वात्।

यद्रायत्राख्यं साम तच्छिदीयं चक्षुः।

यः पञ्चदशादिस्तोमस्तव स जीवात्मा ।

यद्गायदेव्यं साम तच्छिरोव्यतिरिक्ततनुस्थानीयम्।

ये बृहद्रथंतराख्ये सामनी ते तव पक्षस्थानीये ।

यद्यज्ञायज्ञियाख्यं साम तत्तव पुच्छस्थानीयम् ।

यानि गायत्र्यादीनि च्छन्दांसि तानि हृदयाद्यङ्गस्थानीयानि ।

ये सौमिकवेद्यां होत्रियादिधिष्णियास्ते तव शफस्थानीयाः। यानि यजूंषि तानि तव नामस्थानीयानि। एतं मन्त्रं विनियुङ्क्ते— ‘सुपर्णोऽसि गरुत्मानित्यवेक्षते रूपमेवास्यैतन्महिमानं व्याचष्टे’ (सं. का. ५ प्र. १ अ. १०) इति।

अवेक्षते, उख्यमिति शेषः। मन्त्रस्वरूपेणैवार्थप्रतीतेर्नात्र पृथग्व्याख्यात-व्यमस्ति ।

मन्त्रः

सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् ,

टीका

कल्पः—‘सुपर्णोऽसि गरुत्मानित्यादायोत्थाय’ इति। पाठस्तु— सुपर्णोऽसि गरुत्मानिति। हेऽग्ने त्वं गरुड इव पक्षिरूपोऽसि ।

मन्त्रः

दिव॑ङ्गच्छ॒ सुव॑ᳶ पत ॥ [42]

टीका

अत आकाशं प्रति गच्छ । ततोऽपि स्वर्गलोकं प्राप्नुहि । मन्त्रस्य स्वर्गप्राप्तिपरत्वं दर्शयति— “दिवं गच्छ सुवः पतेत्याह सुवर्गमेवैनं लोकं गमयति’ (सं. का. ५ प्र. १ अ. १०) इति । एवं यजमानमात्मानम्।

अत्र विनियोगसंग्रहः — यदग्ने पञ्चभिः काष्ठं वन्हावोदुम्बरं क्षिपेत् ॥

१८५१ दꣳष्ट्राऽऽश्वत्थीमादधाती ये ज वैकङ्कर्तों॑ तथा ॥

यो अस्मभ्यं शमीकाष्ठं संशितद्वयवाचनम् ।

दृशा रुक्मं निजे कण्ठे बद्ध्वा विश्वेतिमन्त्रतः ॥

साग्न्युखाशिक्यपाशं तु स्वाम्यत्र प्रतिमुञ्चते ।

नक्तोऽजिनं चोपरिष्टात्सुपर्णोऽग्निमवेक्षते ।

सुपर्णः साग्निरुत्तिष्ठेन्मन्त्राः पञ्चदशेरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
पञ्चशत् 2 #
TS 4.1.10.2 TS 4.1.10.2
पृथि॒व्याः स॑मिधा॒-नम॒ग्निꣳ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे । इ॒र॒म्म॒दं बृ॒हदु॑क्थं॒ ॅयज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिं ॥ याः सेना॑ अ॒भीत्व॑रीरा-व्या॒धिनी॒-रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताꣳस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये᳚ ॥ दꣳष्ट्रा᳚भ्यां म॒लिम्लू॒न् जंभ्यै॒-स्तस्क॑राꣳ उ॒त । हनू᳚भ्याꣳ स्ते॒नान्-भ॑गव॒स्ताꣳ-स्त्वं खा॑द॒ सुखा॑दितान् ॥ ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒-स्तस्क॑रा॒ वने᳚ । ये - [ ]
पदपाठः (Word-by-word)
पृ॒थि॒व्याः । स॒मि॒धा॒नमिति॑ सं-इ॒धा॒नम् । अ॒ग्निम् । रा॒यः । पोषा॑य । बृ॒ह॒ते । ह॒वा॒म॒हे॒ ॥ इ॒र॒मं॒दमिती॑रं - म॒दम् । बृ॒हदु॑क्थ॒मिति॑ बृ॒हत् - उ॒क्थ॒म् । यज॑त्रम् । जेता॑रम् । अ॒ग्निम् । पृत॑नासु । सा॒स॒हिम् ॥ याः । सेनाः᳚ । अ॒भीत्व॑री॒रित्य॑भि - इत्व॑रीः । आ॒व्या॒धिनी॒रित्या᳚ - व्या॒धिनीः᳚ । उग॑णाः । उ॒त ॥ ये । स्ते॒नाः । ये । च॒ । तस्क॑राः । तान् । ते॒ । अ॒ग्ने॒ । अपीति॑ । द॒धा॒मि॒ । आ॒स्ये᳚ ॥ दꣳष्ट्रा᳚भ्याम् । म॒लिम्लून्न्॑ । जंभ्यैः᳚ । तस्क॑रान् । उ॒त ॥ हनू᳚भ्या॒मिति॒ हनु॑ - भ्या॒म् । स्ते॒नान् । भ॒ग॒व॒ इति॑ भग - वः॒ । तान् । त्वम् । खा॒द॒ । सुखा॑दिता॒निति॒ सु - खा॒दि॒ता॒न् ॥ ये । जने॑षु । म॒लिम्ल॑वः । स्ते॒नासः॑ । तस्क॑राः । वने᳚ ॥ ये ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.1.10.3 TS 4.1.10.3
कक्षे᳚ष्वघा॒ यव॒स्ताꣳस्ते॑ दधामि॒ जंभ॑योः ॥ यो अ॒स्मभ्य॑मराती॒याद्-यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान् दिफ्सा᳚च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ॥ सꣳशि॑तं मे॒ ब्रह्म॒ सꣳशि॑तं ॅवी॒र्यं॑ बलं᳚ । सꣳशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒ऽहमस्मि॑ पु॒रोहि॑तः ॥ उदे॑षां बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बलं᳚ । क्षि॒णोमि॒ ब्रह्म॑णा॒-ऽमित्रा॒नुन्न॑यामि॒ - [ ]
पदपाठः (Word-by-word)
कक्षे॑षु । अ॒घा॒यव॒ इत्य॑घ - यवः॑ । तान् । ते॒ । द॒धा॒मि॒ । जंभ॑योः ॥ यः । अ॒स्मभ्य॒मित्य॒स्म-भ्य॒म् । अ॒रा॒ती॒यात् । यः । च॒ । नः॒ । द्वेष॑ते । जनः॑ ॥ निन्दा᳚त् । यः । अ॒स्मान् । दिफ्सा᳚त् । च॒ । सर्व᳚म् । तम् । म॒स्म॒सा । कु॒रु॒ ॥ सꣳशि॑त॒मिति॒ सं - शि॒त॒म् । मे॒ । ब्रह्म॑ । सꣳशि॑त॒मिति॒ सं - शि॒त॒म् । वी॒र्य᳚म् । बल᳚म् ॥ सꣳशि॑त॒मिति॒ सं - शि॒त॒म् । क्ष॒त्रम् । जि॒ष्णु । यस्य॑ । अ॒हम् । अस्मि॑ । पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ ॥ उदिति॑ । ए॒षा॒म् । बा॒हू इति॑ । अ॒ति॒र॒म् । उदिति॑ । वर्चः॑ । उदिति॑ । उ॒ । बल᳚म् ॥ क्षि॒णोमि॑ । ब्रह्म॑णा । अ॒मित्रान्॑ । उदिति॑ । न॒या॒मि॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.1.10.4 TS 4.1.10.4
स्वाꣳ अ॒हं ॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्.ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑-भि॒र्यदे॑नं॒ द्यौरज॑नयथ् सु॒रेताः᳚ ॥ विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्राऽसा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यथ् सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि॑राजति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो - [ ]
पदपाठः (Word-by-word)
स्वान् । अ॒हम् ॥ दृ॒शा॒नः । रु॒क्मः । उ॒र्व्या । वीति॑ । अ॒द्यौ॒त् । दु॒र्मर्.ष॒मिति॑ दुः - मर्.ष᳚म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ॥ अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयो॑भि॒रिति॒ वयः॑ - भिः॒ । यत् । ए॒न॒म् । द्यौः । अज॑नयत् । सु॒रेता॒ इति॑ सु - रेताः᳚ ॥ विश्वा᳚ । रू॒पाणि॑ । प्रतीति॑ । मु॒ञ्च॒ते॒ । क॒विः । प्रेति॑ । अ॒सा॒वी॒त् । भ॒द्रम् । द्वि॒पद॒ इति॑ द्वि-पदे᳚ । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ॥ वीति॑ । नाक᳚म् । अ॒ख्य॒त् । स॒वि॒ता । वरे᳚ण्यः । अन्विति॑ । प्र॒याण॒मिति॑ प्र - यान᳚म् । उ॒षसः॑ । वीति॑ । रा॒ज॒ति॒ ॥ नक्तो॒षासा᳚ । सम॑न॒सेति॒ स - म॒न॒सा॒ । विरू॑पे॒ इति॒ वि-रू॒पे॒ । धा॒पये॑ते॒ इति॑ । शिशु᳚म् । एक᳚म् । स॒मी॒ची इति॑ ॥ द्यावा᳚ । क्षाम॑ । रु॒क्मः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.1.10.5 TS 4.1.10.5
अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न् त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षुः॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यं बृ॑हद्-रथन्त॒रे प॒क्षौ य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ छन्दाꣳ॒॒स्यङ्गा॑नि॒ धिष्णि॑याः श॒फा यजूꣳ॑षि॒ नाम॑ ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् दिवं॑ गच्छ॒ सुवः॑ पत ॥
पदपाठः (Word-by-word)
अ॒न्तः । वीति॑ । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न्न् । द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ॥ सु॒प॒र्ण इति॑ सु - प॒र्णः । अ॒सि॒ । ग॒रुत्मान्॑ । त्रि॒वृदिति॑ त्रि - वृत् । ते॒ । शिरः॑ । गा॒य॒त्रम् । चक्षुः॑ । स्तोमः॑ । आ॒त्मा । साम॑ । ते॒ । त॒नूः । वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् । बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । प॒क्षौ । य॒ज्ञा॒य॒ज्ञिय᳚म् । पुच्छ᳚म् । छन्दाꣳ॑सि । अङ्गा॑नि । धिष्णि॑याः । श॒फाः । यजूꣳ॑षि । नाम॑ ॥ सु॒प॒र्ण इति॑ सु - प॒र्णः । अ॒सि॒ । ग॒रुत्मान्॑ । दिव᳚म् । ग॒च्छ॒ । सुवः॑ । प॒त॒ ॥
पदसंख्या: 38