अनुवाकः 8 TS 4.1.8

(A8)

(अ॒ग्नेः स - सर॑स्वती॒ - द्याꣳ - स॒ह - विश्वं॒ - चतु॑स्त्रिꣳशच्च)

अनुवाकः 8 - Complete Audio

TS 4.1.8 - स्वरानुगामी

0:00 0:00
PS1.1 ऊ॒र्द्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्द्ध्वा
PS1.2 शु॒क्रा शो॒चीꣳष्य॒ग्नेः
PS1.3 द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः
PS1.4 तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः
PS1.5 प॒थ आऽन॑क्ति॒ मद्ध्वा॑ घृ॒तेन॑
PS1.6 मद्ध्वा॑ य॒ज्ञ्ं न॑क्षसे प्रीणा॒नो
PS1.7 नरा॒शꣳसो॑ अग्ने
PS1.8 सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः
PS1.9 अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा
PS1.10 अ॒ग्निꣳ स्रुचो॑ अद्ध्व॒रेषु॑ प्र॒यथ्सु॑
PS1.11 स य॑क्षदस्य महि॒मान॑म॒ग्नेः स
PS1.12 - [ ]
PS2.1 ई॑ म॒न्द्रासु॑ प्र॒यसः॑
PS2.2 वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च
PS2.3 द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे᳚ व्र॒ता
PS2.4 द॑दन्ते अ॒ग्नेः
PS2.5 उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः
PS2.6 ते अ॑स्य॒ योष॑णे दि॒व्ये
PS2.7 न योना॑वु॒षासा॒नक्ता᳚
PS2.8 इ॒मं ॅय॒ज्ञ्म॑वता मद्ध्व॒रं नः॑
PS2.9 दैव्या॑ होतारावू॒र्द्ध्व-म॑द्ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतं
PS2.10 कृ॒णु॒तं नः॒ स्वि॑ष्टिं
PS2.11 ति॒स्रो दे॒वीर्ब॒र्॒.हिरेदꣳ स॑द॒न्त्विडा॒ सर॑स्वती॒-
PS2.12 [ ]
PS3.1 भार॑ती
PS3.2 म॒ही गृ॑णा॒ना
PS3.3 तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीरं᳚
PS3.4 रा॒यस्पोषं॒ ॅवि ष्य॑तु॒ नाभि॑म॒स्मे
PS3.5 वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑
PS3.6 अ॒ग्निर्.ह॒व्यꣳ श॑मि॒ता सू॑दयाति
PS3.7 अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒
PS3.8 इन्द्रा॑य ह॒व्यं
PS3.9 विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्तां
PS3.10 हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः
PS3.11 पति॒रेक॑ आसीत्
PS3.12 स दा॑धार पृथि॒वीं द्या
PS3.13 - [ ]
PS4.1 -मु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
PS4.2 यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒
PS4.3 इद्राजा॒ जग॑तो ब॒भूव॑
PS4.4 य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः᳡कस्मै॑
PS4.5 दे॒वाय॑ ह॒विषा॑ विधेम
PS4.6 य आ᳚त्म॒दा ब॑ल॒दा यस्य॒
PS4.7 विश्व॑ उ॒पास॑ते प्र॒शिषं॒ ॅयस्य॑
PS4.8 दे॒वाः
PS4.9 यस्य॑ छा॒याऽमृतं॒ ॅयस्य॑ मृ॒त्युः
PS4.10 कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
PS4.11 यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑
PS4.12 समु॒द्रꣳ र॒सया॑ स॒हा -
PS4.13 [ ]
PS5.1 -ऽऽहुः
PS5.2 यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू
PS5.3 कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
PS5.4 यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने
PS5.5 अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने
PS5.6 यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒
PS5.7 कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
PS5.8 येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑
PS5.9 दृ॒ढे येन॒ सु॒वः॑ स्तभि॒तं
PS5.10 ॅयेन॒ नाकः॑
PS5.11 यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः᳡कस्मै॑
PS5.12 दे॒वाय॑ ह॒विषा॑ विधेम
PS5.13 आपो॑ ह॒ यन्म॑ह॒ती र्विश्व॒
PS5.14 - [ ]
PS6.1 -माय॒न् दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निं
PS6.2 ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेकः᳡कस्मै॑ दे॒वाय॑
PS6.3 ह॒विषा॑ विधेम
PS6.4 यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्-दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निं
PS6.5 यो दे॒वेष्वधि॑ दे॒व एक॒
PS6.6 आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑
PS6.7 विधेम

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.1.8.1 TS 4.1.8.1
ऊ॒र्द्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्द्ध्वा शु॒क्रा शो॒चीꣳष्य॒ग्नेः । द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ॥ तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः । प॒थ आऽन॑क्ति॒ मद्ध्वा॑ घृ॒तेन॑ ॥ मद्ध्वा॑ य॒ज्ञ्ं न॑क्षसे प्रीणा॒नो नरा॒शꣳसो॑ अग्ने । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा । अ॒ग्निꣳ स्रुचो॑ अद्ध्व॒रेषु॑ प्र॒यथ्सु॑ ॥ स य॑क्षदस्य महि॒मान॑म॒ग्नेः स - [ ]
पदपाठः (Word-by-word)
ऊ॒द्‌र्ध्वाः । अ॒स्य॒ । स॒मिध॒ इति॑ सं-इधः॑ । भ॒व॒न्ति॒ । ऊ॒द्‌र्ध्वा । शु॒क्रा । शो॒चीꣳषि॑ । अ॒ग्नेः ॥ द्यु॒मत्त॒मेति॑ द्यु॒मत् - त॒मा॒ । सु॒प्रती॑क॒स्येति॑ सु - प्रती॑कस्य । सू॒नोः ॥ तनू॒नपा॒दिति॒ तनू᳚-नपा᳚त् । असु॑रः । वि॒श्ववे॑दा॒ इति॑ वि॒श्व-वे॒दाः॒ । दे॒वः । दे॒वेषु॑ । दे॒वः ॥ प॒थः । एति॑ । अ॒न॒क्ति॒ । मद्ध्वा᳚ । घृ॒तेन॑ ॥ मद्ध्वा᳚ । य॒ज्ञ्म् । न॒क्ष॒से॒ । प्री॒णा॒नः । नरा॒शꣳसः॑ । अ॒ग्ने॒ ॥ सु॒कृदिति॑ सु - कृत् । दे॒वः । स॒वि॒ता । वि॒श्ववा॑र॒ इति॑ वि॒श्व - वा॒रः॒ ॥ अच्छ॑ । अ॒यम् । ए॒ति॒ । शव॑सा । घृ॒तेन॑ । ई॒डा॒नः । वह्निः॑ । नम॑सा ॥ अ॒ग्निम् । स्रुचः॑ । अ॒द्ध्व॒रेषु॑ । प्र॒यथ्स्विति॑ प्र॒यत् - सु॒ ॥ सः । य॒क्ष॒त् । अ॒स्य॒ । म॒हि॒मान᳚म् । अ॒ग्नेः । सः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अनुवाकः ८ आप्रियो याज्यापुरोनुवाक्याः

-६ पिपीलिकामध्या अनुष्टुप् ७, १०-१२ पिपीलिकामध्योष्णिक्, ८ पुर उष्णिक् ९ शङ्कुमती गायत्री , १३-२० त्रिष्टुप अग्निर्ऋषिः

चतुर्थकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः

मन्त्रः

ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीꣳष्य॒ग्नेः ।

द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ।

टीका

( अथ चतुर्थकाण्डे प्रथमप्रपाठकेऽष्टमोऽनुवाकः )।

सप्तमेऽनुवाकेऽग्निचयनाङ्गभूते पशौ सामिधेन्योऽभिहिताः । अथाष्टमे प्रयाजयाज्या आप्रीनाम(मि)का उच्यन्ते ।

कल्पः—‘ऊर्ध्वा अस्य समिधो भवन्तीति प्रयाजानामाप्रियो भवन्ति’ इति।

तत्र प्रथमामाह— ऊर्ध्वा अस्येति । प्रयाजानां सर्वेषामग्निविशेषा एव देवताः । तत्र प्रथम-प्रयाजदेवतामग्निविशेषरूपामयं समिच्छब्द आचष्टे । सम्यगि धे प्रकाशत इति व्युत्पत्तेः । बहुवचनं पूजार्थम् । अस्याग्नेः स्वरूपविशेषभूताः समिधः समिन्नामिका १८१९ देवता ऊर्ध्वा भवन्ति, अस्मच्छ्रेयोर्थमुद्युक्ता भवन्तु । तदुद्योगाच्छोचींषि ज्वालास्व-रूपाण्यूर्ध्वा भवन्तुत्तमानि भवन्तु । कीदृशानि शोचींषि, शुक्रा भास्वराणि द्युमत्त-माऽतिशयेन दीप्तिमन्ति । कीदृशस्याग्नेः, सुप्र॑तीकस्य सुमुखस्य सूनोः पुत्रवद्धित-कारिणः ।

मन्त्रः

तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः ।

प॒थ आन॑क्ति॒ मध्वा॑ घृ॒तेन॑ ।

टीका

अथ द्वितीयामाह— तनूनपादसुर इति । तनूर्न पातयति न विनाशयतीति तनूनपात्, शरीर-पालक इत्यर्थः । एतन्नामकः कश्चिदग्निविशेषो मध्वा मधुरेण घृतेन पथ आनक्ति स्वर्गसाधनत्वेन तन्मार्गभूतानि हवींषि घृतेनाऽऽक्तानि करोतु । कीदृशस्तनूनपात् । असू प्राणान्राति ददातीत्यसुरः । अत एव शरीरपालक इति युक्तम् । विश्वं वेत्तीति विश्ववेदाः । देवो द्योतनात्मको मनुष्यैः पूजनीयो वा । न केवलं मनुष्येष्वेव देवो-ऽपि तु देवेष्वप्यधिको देवः ।

मन्त्रः

मध्वा॑ य॒ज्ञन्न॑ख्षसे प्रीणा॒नो नरा॒शꣳसो॑ अग्ने ।

सु॒कृद्दे॒वस्स॑वि॒ता वि॒श्ववा॑रः ।

टीका

अथ तृतीयामाह— मध्वा यज्ञमिति । नरैः शंसनीयो नरशंसः । एतन्नामकः कश्चिदग्निवि-शेषः। हेऽग्ने त्वं नराशंसो भूत्वा मध्वा मधुरेण घृतेन प्रीणानस्तृप्यन्निमं यज्ञं नक्षसे प्राप्नोषि निर्वर्तयसीत्यर्थः । कीदृशो नराशंसः । सुष्ठु करोति वैकल्यं परिहरतीति सुकृत् । देवो द्योतनात्मकः सविता कर्मण्यस्माकं प्रेरकः । विश्वानि दुरितानि वार-यतीवि विश्ववारः ।

मन्त्रः

अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा ।

अ॒ग्निꣵ स्रुचो॑ अध्व॒रेषु॑ प्र॒यथ्सु॑ ।

टीका

अथ चतुर्थीमाह— अच्छायमेतीति । ईडान इत्यग्निविशेषस्य नामधेयम् । स्तुतिप्रियत्वादीडान इत्युच्यते । एतन्नामकोऽयं वह्निः शवसा बलेन युक्तः सन्नच्छ यज्ञं प्राप्तुमेति गच्छति। तमग्निमध्वरेषु प्रयत्सु यज्ञेषु प्रवर्तमानेषु स्रुचो घृतेन जुहूनिष्ठेनाऽऽज्येन नमसा नम-स्कारेण च परिचरेमेति शेषः ।

मन्त्रः

स य॑ख्षदस्य महि॒मान॑म॒ग्नेस्सः [29] ई॒ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ।

टीका

अथ पञ्चमीमाह— स यक्षदस्येति । बर्हिर्नामकः कश्चिदग्निविशेषः प्राकृते बर्हिरग्न आज्यस्य वेत्वित मन्त्रे प्रसिद्धत्वादिह प्रसिद्धवाचकेन तच्छब्देन परामृश्यते । स तादृशो बर्हि-र्नामकोऽग्निविशेषोऽस्य सामान्यरूपस्याग्नेर्महिमानं यक्षद्यजतु पूजयतु । स *ईं स एव बर्हिर्नामकोऽग्निर्मन्द्रासु हर्षजनिकासु स्तुतिरूपासु ऋक्षु प्रयसः प्रयासवान्, * मन्त्रेऽनुस्वारलोपश्छान्दसः ।

१८२० अधिकपरिचर्यायुक्त इत्यर्थः । किंचायं बर्हिर्नामकोऽग्निर्वसुः प्राणिनां वासयिता चेतिष्ठोऽतिशयेनाभिज्ञो वसुधातमश्च यजमानार्थं द्रव्यस्यातिशयेन धारयिता ।

मन्त्रः

द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे᳚ व्र॒ता द॑दन्ते अ॒ग्नेः ।

उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ।

टीका

अथ षष्ठीमाह— द्वारो देवीरन्वस्येति । द्वार्शब्देन स्त्रीमूर्तिधरः कश्चुदग्निविशेष उच्यते । पूजार्थं बहुवचनम् । या देव्यो द्वार्शब्दाभिधेयाः प्रथममग्नेर्व्रतमाचरन्ति ता द्वारो देवीरनु विश्वे सर्वे यजमाना अस्याग्नेः संबन्धीनि व्रतानि कर्माणि ददन्ते हविः प्रयच्छन्ति । कीदृशीर्द्वारः । उरुव्यचसो विस्तीर्णगतीर्धाभ्ना तेजसा प्रत्यमानाः प्राप्य- माणास्तेजास्विनीरित्यर्थः ।

मन्त्रः

ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता᳚ ।

इ॒मय्ँय॒ज्ञम॑वतामध्व॒रन्नः॑ ।

टीका

अथ सप्तमीमाह— ते अस्येति । उषासेत्युषःकालरूपा काचिदग्नेमूर्तिः, नक्तेति च रात्रिरूपा काचिदग्नेर्मूर्प्तिः । उषासा च नक्ता चोषासानक्ता । एतन्नामिके ये अस्याग्नेर्मूर्ती ते नोऽस्मदीयमिमं यज्ञं योनावस्मिन्स्थानेऽध्वरं हिंसारहितं यथा भवति तथाऽवतां रक्षताम् । कीदृश्यौ ते, योषणे परस्परमिश्रिते । तत्र दृष्टान्तः— दिव्ये न, यथा द्युलोकस्थे मूर्ती भासमाने भवत एवमेते मूर्ती ।

मन्त्रः

दैव्या॑ होतारावू॒र्ध्वम॑ध्व॒रन्नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् ।

कृ॒णु॒तन्न॒स्स्वि॑ष्टिम् ।

टीका

अथाष्टमीमाह— दैव्या होताराविति । होतृशब्दाभिधेयौ द्वावग्निविशेषौ । होतृत्वं च विविधं दैव्यं मानुषं च । तत्रैतौ होतारौ दैव्यौ । हे दैव्या होतारावग्नेर्जिह्वां ज्वालामभिलक्ष्य प्रवृत्तमूर्ध्वमत्युच्छ्रितं नोऽध्वरमस्मदीयमिमं यज्ञं गृणीतं प्रख्या पयतम् । किंच नोऽस्मदर्थं स्विष्टिं कृणुतं वैगुण्यं परिहत्येतामिष्टिं शोभनां कुरुतम् ।

मन्त्रः

ति॒स्रो दे॒वीर्ब॒र्हिरेदꣳ स॑द॒न्त्विडा॒ सर॑स्वती [30] भार॑ती ।

म॒ही गृ॑णा॒ना ।

टीका

अथ नवमीमाह— तिस्रो देवोरिति । इडा सरस्वती भारतीत्यादिशब्दवाच्यास्तिस्रो देव्योऽ-ग्निमूर्तयो याः सन्ति ता इदं बर्हिरिमं यज्ञमासदन्तु । प्राप्नुवन्तु । तासां प्रत्येके विशेषणमाह—मही महती गृणाना यज्ञं प्रख्यापयन्ती ।

मन्त्रः

तन्न॑स्तु॒रीप॒मद्भु॑तम्पुरु॒ख्षु त्वष्टा॑ सु॒वीर᳚म् ।

रा॒यस्पोष॒व्ँवि ष्य॑तु॒ नाभि॑म॒स्मे ।

टीका

अथ दशमीमाह— तन्नस्तुरीपमिति । त्वष्टेति कश्चिदग्निविशेषः । सोऽयमस्मे अस्मासु तदैश्वर्यं, विष्यतु विशेषेणावंसितं करोतु संपूर्ण करोत्वित्यर्थः । कीदृशमैश्वर्यं, नोऽ-स्मदर्थं तुरीपं तूर्णमेव प्राप्यमाणम् । अद्भुतं गवाश्वादिबाहुल्येऽऽश्चर्यरूपं, पुरुक्षु पुरुभिर्बहुभिमर्नुष्यैः क्षूयते शब्द्यते प्रशस्यत इति पुरुक्षु ( तादृशम् ) । शोभना १८२१ वीराः पुत्रा यस्मिंस्तत्सुवीरं, रायो धनस्य पोषः पुष्टिर्यस्मिंस्तद्रायस्पोपं, नाभिं रथचक्रगतानामराणां नाभिरिव सर्मेषां बन्धूनामाश्रयभूतं [ तादृशम् ] ।

मन्त्रः

वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ ।

अ॒ग्निर्ह॒व्यꣳ श॑मि॒ता सू॑दयाति ।

टीका

अथैकादशीमाह वनस्पतेऽवेति । वनस्पतिनामकः कश्चिदुग्निविशेषः । हे वनस्पते त्वं रणाणो दानशीलः सन्रममाणो वा देवेष्वस्माभिर्यष्टव्येषु त्मनाऽवसृजास्मद्दत्तं हविः स्वयमेव स्थापय । अस्माभिः प्रार्थितोऽयमग्निः शमिता दुरितापशमस्य कर्ता सन्हव्यं सूदयाति, अस्मदीयं हर्विर्देवेषु सूदयतु ।

मन्त्रः

अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् ।

विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम् ।

टीका

अथ द्वादशीमाह— अग्ने स्वाहेति । स्वाहाकाराभिमानी कश्चिदग्निविशेषः । तादृश हे जात-वेदोऽग्न इन्द्रार्थमिदं हव्यं स्वाहा कृणुहि स्वाहुतं कुरु ।

विश्वे देवाः सर्वेऽपि देवा-स्तदा तदा मया दीयमानमिदं हविर्जुषन्ताम् । यद्यप्येकादशेव प्रयाजास्तथाऽपि द्वितीयतृतीययोर्मन्त्रयोः पुरुषभेदेन व्यवस्थियत्वान्मन्त्राणां द्वादशसंख्या न विरुद्यते । सा च व्यवस्था सूत्रकारेण दर्शिता– “नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानां तनूनपादितरेषां गोत्राणाम्” इति।

मन्त्रः

हि॒र॒ण्य॒ग॒र्भस्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तᳶ पति॒रेक॑ आसीत् ।

स दा॑धार पृथि॒वीन्द्याम् [31] उ॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

टीका

कल्पः—हिरण्यगर्भः समवर्तताग्र इति स्रुच्यमाघारयति” इति। पाठस्तु— हिरण्यगर्भ इति । हिरण्ये ब्रह्माण्डरूपे गर्भरूपेणावस्थितः प्रजापतिर्हिर-ण्यगर्भः । स च भूतस्य प्राणिजातस्याग्रे समवर्तत प्राणिजातोत्पत्तेः पुरा स्वयं शरीरधारी बभूव । स च जात उत्पन्नमात्र एक एवोत्पत्स्यमानस्य सर्वस्य जगतः पतिरासीत् । क एव पृथिवी द्यां विस्तीर्णो दिवं दाधार धृतवान् । उतापि चेमां भूमिं दाधार । तादृशाय कस्मै प्रजापतये देवायाऽऽधाररूपेण हविषा विधेम परिचरेम् ।

मन्त्रः

यᳶ प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।

य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

टीका

कल्पः—“यः प्राणतो य आत्मदा इति प्राजापत्यस्य” इति।

यः पशुः प्राजापत्यस्तस्यैते याज्यानुवाक्ये इत्यर्थः । तत्र वपायां द्वे ऋचौ पुरोडाशे द्वे ऋचौ हविषि द्वे ऋचाविति षडृचो याज्यानुवाक्याः ।

तत्र प्रथमामाह— यः प्राणत इति । यः प्रजापतिरेक इदेक एव प्राणतः श्वासयुक्तस्य १८२२ निमिषतश्चक्षूर्निमेषयुक्तस्य च सर्वस्य जगतो महित्वा स्वमहिम्ना राजा बभूव । अत एव यः प्रजापतिरस्य द्विपदो मनुष्यादेश्चतुष्पदो गवादेश्चेसे नियमनाव समर्थो भवति। तादृशाय कस्यै देवाय हविषा विधेम ।

मन्त्रः

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिष॒य्ँयस्य॑ दे॒वाः ।

यस्य॑ छा॒यामृत॒य्ँयस्य॑ मृ॒त्युᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

टीका

अथ द्वितीयामाह— य आत्मदा इति । यः प्रजापतिरात्मदाः शरीरेषु जीवरूपेणऽऽत्मप्रद बलदाः सामर्थ्यप्रदश्च, यस्य प्रजापतेः प्रशिषमाज्ञां विश्वे सर्वे मनुष्या उपासते नातिवर्तन्ते । किंच यस्य प्रशिषं देवा अप्युपासते । अमृतममरणं मोक्षरूपं यस्य च्छाया, यस्य प्रजापतेश्छायावत्स्वाधीने, मृत्युः प्राणिनां मरणमपि यस्य च्छायेव स्वाधीनस्तादृशाय कस्मै देवाय हविषा विधेम ।

मन्त्रः

यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रꣳ र॒सया॑ स॒ह [32] आ॒हुः ।

यस्ये॒माᳶ प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

टीका

अथ तृतीयमाह— यस्येमे हिमवन्त इति । इमे हिमवन्तो हिमवत्प्रमुखाः पर्वता यस्य महित्वा महिम्ना वर्तन्ते । रसया भूभ्या सहावस्थितं समुद्रं यस्य स्वाधीनमाहुः । इमादृश्य-मानाः प्रदिशः प्राच्यादिदिशो यस्याधीना आहुः । यस्य प्रजापतेर्बाहू धर्माधर्माविति शेषः । तादृशाय कस्मा इत्यादि ।

मन्त्रः

यङ्क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैख्षे॑ता॒म्मन॑सा॒ रेज॑माने ।

यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

टीका

अथ चतुर्थीमाह— यं क्रन्दसी इति । प्रजापतेः क्रन्दनाद्रोदनादुत्पन्ने द्यावापृथिव्यौ क्रन्दसी अत एवान्यत्राऽऽम्नातम्—‘यदरोदीत्तदनयो रोदस्त्वम्’ इति । ते च द्यावापृथिव्या-ववसा रक्षणेन निमित्तेन यं प्रजापतिं मनसाऽभ्यैक्षेतामभित ईक्षणं कृतवत्यौ अय-मावां रक्षत्वित्याशासनं कृतवत्यावित्यर्थः । कीदृशौ द्यावापृथिव्यौ, तस्तभाने देवानां मनुष्याणां चावस्थानाय स्तम्भिते, रेजमाने दीप्यमाने सूरः सूर्यो यत्राधि यस्मिन्प्रजाप-तावधिश्रित्योदितौ व्येति उदयविषये विविधं गच्छति, तादृशाय कस्मै देवाय हविषा विधेम ।

मन्त्रः

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुव॑स्स्तभि॒तय्ँयेन॒ नाकः॑ ।

यो अ॒न्तरि॑ख्षे॒ रज॑सो वि॒मान॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

टीका

अथ पञ्चमीमाह— येन द्यौरुग्रेति । उग्रा पुण्यरहितैः प्राणिमिर्दुष्प्रामा द्यौः पृथिवी चेत्येते उभे येन प्रजापतिना दृढे कृते । सुवः स्वर्गसुखं येन प्रजापतिना स्तभितं पुण्य कृत्सु व्यवस्थापितम् । नाको दुःखरहितो मोक्षो येन प्रजापतिना ज्ञानिषु स्तभितः । यश्च प्रजापतिरन्तरिक्षे लोके रजसो राजसस्व यक्षगन्धर्वादेर्विमानो विमाता निर्माता, तादृशाय कस्मा इत्यादि ।

मन्त्रः

आपो॑ ह॒ यन्म॑ह॒तीर्विश्व᳚म् [33] आय॒न्दख्ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।

ततो॑ दे॒वाना॒न्निर॑वर्त॒तासु॒रेक॒ᳵ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

टीका

अथ षष्ठीमाह— १८२३ आपो ह यदिति । यद्यस्य प्रजापतेरनुग्रहान्महतीर्महत्य आपो विश्वमाय-न्विश्वाकार प्राप्ताः । अत एव स्मर्यते— “अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत्।

तदण्डमभवद्धैमम्” इति।

कीदृश्य आपः, दक्षमग्निचयने कुशलं यजमानं दधाना धारयन्त्य उत्पाद यन्त्यः । तथा चेतव्यमग्निं जनयन्तीरुत्पादयन्त्यः । ततस्तस्मात्प्रजापतेर्देवानां सर्वे-षामसुर्जीवनमेतुः प्राण एको निरवर्तत निष्पन्नः। तादृशाय कस्मा इत्यादि । सेयमृक्षष्ठी हविष याज्या ।

मन्त्रः

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दख्ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ [34]

टीका

तत्रैवान्यां विकल्पितां याज्यामाह— यश्चिदाप इति । आपइति द्वितीयाबहुवचनम् । यश्चिद्य एव प्रजापतिः पूर्वोक्तरीत्या विश्वाकारेण परिणता महतीरपो महिता स्वामहिम्ना पर्यपश्यदपां तथा-विधसामर्थ्याय कटाक्षेण वीक्षितवान् । कीदृशीरपः । दक्षं दधाना अग्निं जनयन्तीः। पूर्ववद्व्याख्येयम् । यः प्रजापतिर्देवेषु सर्वेष्वधिको देव आसीत्तादृशाय कस्मा इत्यादि।

एतस्मिन्नूर्ध्वा अस्येत्यादावष्टमानुवाके प्रयाजयाज्या आप्रीनामिका आद्या-रमन्त्रो याज्यानुवाक्याश्चोक्ताः । पूर्वस्मिंस्तु सप्तमेऽनुवाके सामिधेन्योऽभिहिताः । तासामेतासामुभयविधानामृचां पशुप्रयोगान्तः पातित्वेन पशुविधिमन्तरेण व्याख्या-तुमशक्यत्वात्पशुविधिरादौ वक्तव्यः । तेभ्योऽपि पशुभ्यः पुरुषशीर्षस्य पूर्वं संपादनी-यत्वादादौ तत्संपादनं विधत्ते— ‘एकविꣳ शत्या माषैः पुरुषशीर्षमच्छैत्यमेध्या वै माषा अमेध्यं पुरुषशीर्ष-ममेध्यैरेवास्यामेध्यं निरवदाय मेध्यं कृत्वाऽहरीत’ (सं. का. ५ प्र. १ अ. ८) इति।

एकविशतिसंख्याकानि माषबीजानि स्वीकृत्य तैर्युक्तः पुरुषशीर्षं प्राप्तुं गच्छेत् । तथा च सूत्रकारेणोक्तम् “सप्तैकविंशतिं वा माषानादाय पुरुषशिरोऽच्छैति वैश्यस्य राजन्यस्य चेषुहतस्याशनिहतस्य वा माषानुपन्युप्यायं योऽसि यस्य त इंद शिर इति पुरुषशिरः प्रच्छिद्यैतेन त्वमत्र शीर्षण्यानेधीति सप्तधा १८२४ वितृण्णां वल्मीकवपां शिरसां स्थाने प्रति निदधाति” इति । माषास्तावदपूतत्वाद्य-ज्ञानर्हाः । पुरुषशीर्षं चास्पृश्यत्वाद्यज्ञानर्हम् । ततो यथा रजका मलरूपेणोषेण वस्त्रमलमपनीय शोधयन्ति, एवमत्राप्यमेध्यैर्माषैः शिरोनिष्ठममेध्यभागं निःसार्य तच्छिरो यज्ञयोग्यं कृत्वा समानयति ।

माषसंख्यां प्रशंसति— “एकविꣳ शतिर्भवन्त्येकविꣳशो वै पुरुषः पुरुषस्याप्त्यै” (सं. का. ५ प्र. १ अ. ८) इति।

एकविंशतिसंख्यापूरकत्वं पुरुषस्यान्मत्राऽऽम्नातम्—“दश हस्त्या अङ्गु-लयो दश पद्या आत्मैकविꣳशः” इति। अतोऽत्र माषसंख्या पुरुषप्राप्त्यै संपद्यते। शिरश्छेदादूर्ध्वं शिरोरहिते कबन्धे वल्मीकवपास्थापनं विधत्ते— “व्यृद्धं वा एतत्प्राणैरमेध्यं यत्पुरुषशीर्षꣳ सप्तधा वितृण्णां वल्मीकवप” प्रति नि दधाति सप्त वै शीर्षण्याः प्राणाः प्राणैरेवैनत्समर्धयति मेध्यत्वायां” (सं. का. ५ प्र. १ अ. ८) इति।

यच्छिन्नं शिरस्तदेतत्प्राणैर्वियुक्तत्वादमेध्यम् । अतस्तदपनीयान्तःस्थितस-प्तच्छिद्रोपेतां वल्मीकस्या कांचिद्वपाकारां मृत्संहतिं शिरसः स्थाने प्रतिनिदधाति । जीवतः पुरुषस्य शिरोगतच्छिद्रेषु संचरन्तः प्राणा अपि सप्तैव । अतः सप्तच्छिद्रो-पेताया वयायास्तत्र स्थापनेनैतच्छिरोऽपि प्राणेः समृद्धं भवत्येवं तच्च प्राणोपतेत्वं मेध्यत्वाय संपद्यते ।

तत्र सूत्रकारेण योऽस्य कोष्ठस्य जगत इति तिस्र ऋचः पठित्वाऽन्ते यदुक्तं “तिसृभिर्यमगाथाभिः परिगायति” इति, तदेतद्विधत्ते— “यावन्तो वै मृत्युबन्धवस्तेषां यम आधिपत्यं परीयाय यमगाथाभिः परिगायति यमादेवैनद्वृङ्क्ते” (सं. का. ५ प्र. १ अ. ८) इति।

हिरण्यकक्ष्यान्तुधुरादित्यादिमन्त्रेणाऽऽम्नाता अन्यत्रापि कालान्तकादिश-ब्दैराम्नाता मृत्युबन्धवो यावन्तः सन्ति तेषां सर्वेषामाधिपत्यं यमः प्राप्तवान् । यमो गीयते यास्वृक्षु ता यमगाथाः । तासां पाठेन यमसकाशादेनत्पुरुपादिरो वृङ्क्ते १८२५ वर्जितं करोति । ताश्च यमगाथा योऽस्य कौष्ठ्येत्पाद्या आरण्यकाण्डे पितृमेधप्रपाठके सामाम्नाताः । अत्रापेक्षितानां यमगाथानां संख्यां विधत्ते— “तिसृभिः परि गायति त्रय इमे लोका एभ्य एवैनल्लोकेभ्यो वृङ्क्ते” (सं. का. ५ प्र. १ अ. ८) इति।

एनच्छिरो लोकेभ्यः पृथक्कृत्य स्वाधीनं करोतीत्यर्थः ।

प्रसङ्गात्पुरुषार्थं क्वंचिन्निषेधं दर्शयति— “तस्माद्रायते ने देयं गाथा हि तदवृङ्क्ते” (सं. का. ५ प्र. १ अ. ८) इति।

यस्तु ब्राह्मणो याजनाध्यापनप्रतिग्रहान्परित्यज्य गानेनैव जीविकां संपा दयति तादृशाय ब्राह्मणाय शास्त्रीयं देयं किमपि न दद्यात् । हि यस्माद्गाथा गानवि-द्यवै तद्द्रव्यममेध्यं कृत्वा वृङ्क्ते देवपितृकार्येभ्यो वर्जयति, तस्मात्तादृशाय न देयम्।

यदुक्तं सूत्रकारेण—“अग्निभ्यः कामाय पशूनालभते मुष्करान्प्राजापत्यमजं तूपरमुपाकृत्याश्वऋषभवृष्णिवस्तान्” इति । तदेतद्विधत्ते— “अग्निभ्यः पशूनालभते कामा वा अग्नयः कामानेवाव रुन्धे” (सं. का. ५ प्र. १ अ. ८) इति।

काम्यन्त इति कामा पुत्रपश्वादयः, तद्धेतवोऽग्नयः तस्मात्कामान्प्रामो-त्येव । एतेषु पशुषु कंचिद्विशेषं विधत्ते— “यत्पसून्नाऽऽलभेतानवरुद्धा अस्य पशवः स्युर्यत्पर्यग्निकृतानुत्सृजेद्यज्ञवे-शसं कुर्याद्यत्सꣳ स्थापयेद्यातयामानि शीर्षाणि स्युर्यत्पशूना लभते तेनैव पशूनव रुन्धे यत्पर्यग्निकृतानुत्सृजति शीर्ष्णामयातयामत्वाय प्राजापत्येन सꣳ स्थाप यति यज्ञो वै प्रजापतियंज्ञ एव यज्ञं प्रति ष्ठापयति” (सं. का. ५ प्र. १ अ. ८) इति।

अत्रेदं चिन्तनीयम्– किमाग्नेयाः पशव एव नाऽऽलभ्याः किंवा तान्वशूनु १८२६ पाकृत्य पर्यग्निकरणादूर्ध्वमुत्सृजेत्, आहोस्वित्समाप्तिपर्यन्तमनुतिष्ठेदिति । नाऽऽद्यः। न तृतीयाः । अत्रैवाश्ववृषभवृष्णिबस्ताशिरसां गतसारत्वेन भविष्यन्त्ययां चित्यामनु-पधेयत्वप्रसङ्गात् । एतद्दोषत्रयपरिहारयेत्थं कर्तव्यम्—आलम्भेनोत्सर्गेण च प्रथम-तृतीयदोषौ न भविष्यतः । प्रजापत्येन तूपरेण समापनाद्यज्ञभ्रंशरूपो मध्यमदोषोऽपि न भविष्यति। यज्ञोत्पादकत्वात्प्रजापतिर्यज्ञ एव । ततो यज्ञरूपे प्रजापतावेव क्रिय-माणं यज्ञं प्रतिष्ठापयति समापयति ।

इत्थमुपोद्घातत्वेन पशवो विहिताः । अथानुवाकद्वयोक्ता मन्त्रा व्याख्या-तव्याः ।

यद्यपि सामिधेन्यः पूर्वानुवाकोक्ताः पूर्वमेवानुष्ठेयाश्च तथाऽप्यभ्यर्हितं पूर्व-मिति वैयाकरणोक्तन्यायेन प्रयाजयाज्यानां प्रीतिहेतूनामभ्यर्हितत्वाद्वा सूची कटाह-न्यायेनाल्पवक्तव्यत्वाद्वा ता एवाऽऽप्रीः प्रथमं विधत्ते— “प्रजापतिः प्रजा असृजत स रिरिचानोऽमन्यत स एता आप्ररिपश्यत्ता-भिर्वै स मुखत आत्मानमाऽप्रीणीत यदेता आप्रियो भवन्ति यज्ञो वै प्रजापति र्यज्ञमे-वैताभिर्मुखत आप्रीणाति” (सं. का. ५ प्र. १ अ. ८) इति।

प्रजासृष्टौ सामर्थ्यस्योपक्षीणत्वाद्रिक्तोऽहमिति स प्रजापतिरमन्यत । ततः सामर्थ्यपूरिका एता आप्रीर्मनसा विचार्य निश्चितवान् । ततस्ताभिरेवाऽऽप्रीभिः स प्रजापतिर्यज्ञप्रारम्भ एव स्वात्मानं प्रतिमकरोत् । तस्मात्प्रयाजानुष्ठानार्थं एता आप्री-नामिका ऋचो भवेयुः। आत्मानमाप्रीणात्येताभिरित्युर्ध्वा अस्येत्याद्या ऋच आप्रियः। प्रजापतिजन्यत्वाद्यज्ञः प्रजापतिरेव । अतः प्रजापतिवदेतमेव यज्ञेमताभिर्ऋग्भिर्मु-खत एव प्रीतं करोति ।

तासामाप्रीणां बहुप्रकारच्छन्दस्त्वं पाठप्राप्तं प्रशंसति— “अपरिमितछन्दसो भवन्त्यपरिमितः प्रजापतिः प्रजापतेराप्त्यै” (सं. का. ५ प्र. १ अ. ८) इति।

१८२७ बहुप्रकारच्छन्दस्त्वं चैवं द्रष्टव्यम् सर्वाश्चैतास्त्रिपदाः । आसामाद्या अन्त्याश्च पादा एकादशाक्षराः । मध्यमः पञ्चाक्षरः षडक्षरः सप्ताक्षरोऽष्टाक्षरश्च पादः। ता एता पिपीलिकामध्यास्त्रिपदा उष्णिहः । दैव्या होतारावूर्ध्वं तिस्त्रो देवीरिति च गायत्र्याविति।

एषां छन्दसां मध्यमपादेषु यदेतत्तारतम्यं तदिदं प्रशंसति— “ऊनातिरिक्ता मिथुनाः प्रजात्यै” (सं. का. ५ प्र. १ अ. ८) इति।

पञ्चाक्षरात्वमारभ्याष्टाक्षरत्वपर्यन्तेषूत्तरोत्तरोपेक्षया पूर्वपूर्वस्योनत्वं पूर्वपूर्वापेक्षया तूत्तरोत्तरस्यातिरिक्तत्वम् ।

एवं कोटिद्वयात्मकत्वान्प्रिथुनत्वं तच्च प्रजननाय संपद्येत ।

आद्यन्तपादापेक्षया मध्यमपादस्य यदल्पत्वं तदिदं प्रशंसति— ‘लोमशं वै नामैतच्छन्दः प्रजापतेः पशवो लोमाशाः पशूनेवाव रुन्धे” (सं. का. ५ प्र. १ अ. ८) इति।

लोमसदृशं सूक्ष्म मध्यमस्य च्छन्दसस्तदिदं लोमशं, यथा हस्तपादतदङ्गु- ल्याद्यपेक्षया लोम्नः सूक्ष्मत्वम्, एवमाद्यन्तपादापेक्षया मध्यमपादस्य सूक्ष्मत्वमित्य-र्थः । प्रजापतेः सृष्टा एते पशवस्ते सर्वे लोमशाः । अतोऽस्य च्छन्दसो लोमशत्वसा-म्येन पशुप्राप्तिर्भवति।

एतास्वाप्रीषु च्छन्दसां नानाविधत्वं प्रशंसति— ‘सर्वाणि वा एता रूपाणि सर्वाणि रूपाण्यग्नौ चित्ये क्रियन्ते तस्मादेता अग्नेश्चित्यस्य भवन्ति” [सं. का. ५ प्र. १ अ. ८] इति।

‘सर्वाणि वा एता रूपाणि सर्वाणि रूपाण्यग्नौ चित्ये क्रियन्ते तस्मादेता अग्नेश्चित्यस्य भवन्ति” [सं. का. ५ प्र. १ अ. ८] इति।

ऊर्ध्वा अस्येत्याद्या या आप्रियस्ताः सर्वाणि रूपाणि न्यूनातिरिक्तभावेन विविधरूपयुक्ता भासन्ते । यश्च वक्ष्यमाणप्रकारेण चेतव्योऽग्निस्तस्मिन्नप्यग्नौ सर्वा-णि रूपाणि क्रियन्ते । पक्षित्वानिष्पत्तये पक्षपुच्छादीनि बहुनि रूपाणी कामानाभेदेन श्वेनकङ्कादिरूपाणि च । यस्मादाप्रीणां चित्याग्नेश्चस्ति सादृश्यं तस्मादेता अग्नेश्चि-त्यस्याऽऽप्रियो भवितुं योग्याः।

१८२८ तदेवमष्टमानुवाकोक्ता आप्रीर्व्याख्याय बहुवक्तव्यतया पूर्वमुपेक्षिताः सप्तमानुवाको-क्ताः सामिधेन्यः प्राप्तावसरतया व्याख्यायन्ते । तत्रैतासां सामिधे नीनां प्राकृतीभीः सामिधेनीभिः समुच्चयमभ्युषेत्य संख्याविशिष्टाः सामिधेनी र्विधत्ते— “एकविꣳशतिꣳ सामिधेनीरन्वाह रुग्वा एकविꣳ शो रुचमेव गच्छत्यथो प्रतिष्ठामेव प्रतिष्ठा ह्योकविꣳ शः” (सं. का. ५ प्र. १ अ. ८) इति।

सूत्रकारेण—“एकादश प्राकृतीः समास्त्वाग्न इति दशाऽऽग्निकीः” इति । ह्युक्तम् । सप्तमकाण्डे “य एवं विद्वाꣳ स एकविꣳशतिरात्रमासते रोचन्त एव” इत्ये-कविंशतिसंरूपाया दीप्तिहेतुत्वश्रावणादत्रत्यया संख्यया बुद्धिस्थ एकविंशस्तोमो दीप्तिरूपः। तथा प्रकृतौ काम्यसामिधेनीप्रस्ताव एकविंꣳशस्तोंमानां प्रतिष्ठेत्युक्तत्वा-त्प्रीतष्ठारूपश्च । अतस्तया संख्याया रुचं प्रतिष्ठां च प्राप्नोति । तत्रैव विकल्पितं पक्षान्तरं विधत्ते— “चतुर्विꣳशतिमन्वाह चतुर्विꣳशतिरर्धमासाः संवत्सरः संवत्सरोऽग्निर्वे-श्वानरः साक्षादेव वैश्वानरमव रुन्धे” (सं. का. ५ प्र. १ अ. ८) इति।

तत्र शाखान्तरोक्ता उपेमसृक्षि वाजयुरित्याद्यास्तिस्त्रो धाय्याः प्रक्षिप्य चतु-र्विशतिसंख्या पूरणीया । विश्वेषां नराणां हितो वैश्वानरः । दाहपाकादिकारित्वाद्धि-तत्वम् । तादृशोऽग्निः संवत्सररूपः । ‘संवत्सरं मुख्यं भृत्वा’ इत्यग्नेः संवत्सरसंब-न्धस्य वक्ष्यमाणत्वात् । ततश्चतुर्विशतिसंख्याया अर्धम संसवत्सरद्वारेण मुख्यमेव वैश्वानरं प्राप्नोति ।

प्रकृतौ यदुक्तं ‘त्रिः प्रथमाभन्वाह त्रिरुत्तमाम’ इति, तदेतदपवदितुं विधत्ते— ‘पराशरिन्वाह पराडिव हि सुवर्गो लोकः” (सं. का. ५ प्र. १ अ. ८) इति।

पराचीरनावृताः । स्वर्गलोकेऽपि पराङेव न कदाचिदावर्तते । तदेतत्सर्वं सूत्रकारेण संगृहीतम् “एकविंशति चतुर्विशतिं वा पराचीः सामिधेनीर न्वाह” इति।

१८२९ तत्राऽऽग्निकीषु प्रथमाया ऋचः प्रथमपादे संवत्सरवाचिनः समाशब्दस्य ऋतु शब्दस्य( च ) तात्पर्यं दर्शयति— “समास्त्वाऽग्न ऋतवो वर्धयन्त्वित्याह समाभिरेवाग्निं वर्धयत्यृतुभिः संवत्सरम्” (सं. का. ५ प्र. १ अ. ८) इति।

ऋतवः प्रवर्तमानाः संवत्सरं पूरयन्ति । सवंत्सरश्चोखाग्निधारणेनाग्निं वर्धयति ।

एवमृतूनां संवत्सरस्य चाभिवृद्धिसाधनत्वं प्रतिपाद्य चतुर्थपादे ‘आ भाहि, इत्यस्य तात्पर्यं दर्शयति— ‘विश्वा आ भाहि प्रदिशः पृथिव्या इत्याह तस्मादग्निः सर्वा दिशोऽनु विभाति’ (सं. का. ५ प्र. १ अ. ८) इति।

नवम्या ऋचस्तृतीयपादे प्रत्यौहतामितिपदस्य तात्पर्यं दर्शयति— ‘प्रत्यौहनामश्विनां मृत्युमस्मादित्याह मृत्युमेवास्मादप नुदति’ [सं. का. ५ प्र. १ अ. ८] इति।

दशम्या ऋचः प्रथमपादे तमः शब्दार्थं दर्शयति— ‘उद्वयं तमसस्परीत्याह षाप्मा वै तमः पाप्मानमेवास्मादष हन्ति” (सं. का. ५ प्र. १ अ. ८) इति।

चतुर्थपादे ज्योतिःशब्दार्थं दर्शयति— ‘अगन्म ज्योतिरुत्तममित्याहासा वा आदित्यो ज्योतिरुत्तममादित्यस्यैव सायुज्यं गच्छति’ (सं. का. ५ प्र. १ अ. ८) इति।

सायुज्यं सहभावम् ।

उद्वयं तमसस्परीत्यस्या ऋचः पाठप्राप्तं चरमभावित्वं प्रशंसति— न संवत्सरस्तिष्ठति नास्य श्रीस्तिष्ठति यस्यैताः क्रियन्ते ज्योतिष्मतीमुत्त मामन्वाह ज्योतिरेवास्मा उपरिष्टाद्दधाति सुवर्गस्य लोकस्यानुख्यात्यै’ ( सं. का. ५ प्र. १ अ. ८) इति।

यस्य यजमानस्यैताः समास्त्वाऽग्न इत्याद्याः सामिधेन्यः क्रियन्ते तस्य स्व-र्गाधिगत्यर्थमुख्याग्निधारणहेतुः संवत्सरो वा, एतदग्निसाधनसमूहरूपा श्रीर्वा न १८३० तिष्ठति न पर्यामोति, ज्योतिर्विरहात्ताभ्यां स्वर्गो नाधिगम्यत इत्यर्थः । अथ स्वर्गाधि-गतिक्षमां ज्योतिष्मतीमृचमुत्तमां बूयात् । पश्यन्तो ज्योतिरित्येवं ज्योतिःशब्दस्य विद्यमानत्वादुद्वयं तमसत्परीत्येषा ज्योतिष्मती । अस्मै यजमानार्थं ज्योतिष उपरि धारणादर्ध्वदशेवर्ती स्वर्गलोकोऽनुख्याता भवति ।

अत्र विनियोग संग्रह— ऊर्ध्वाः प्रयाजयाज्याः स्युर्द्वादशाऽऽप्रीतिनामिकाः ।

हिर स्रुवाधारहोमो यः प्राणेति द्वयं द्वयम् ॥

याज्यानुवाक्ये हि वपापुरोडाशहविःषु ताः ।

यश्चिद्विकल्पितो मन्त्र इति विंशतिरीरिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके अष्टमोऽनुवाकः ॥ ८ ॥
पञ्चशत् 2 #
TS 4.1.8.2 TS 4.1.8.2
ई॑ म॒न्द्रासु॑ प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ॥ द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे᳚ व्र॒ता द॑दन्ते अ॒ग्नेः । उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ॥ ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता᳚ । इ॒मं ॅय॒ज्ञ्म॑वता मद्ध्व॒रं नः॑ ॥ दैव्या॑ होतारावू॒र्द्ध्व-म॑द्ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतं । कृ॒णु॒तं नः॒ स्वि॑ष्टिं ॥ ति॒स्रो दे॒वीर्ब॒र्॒.हिरेदꣳ स॑द॒न्त्विडा॒ सर॑स्वती॒- [ ]
पदपाठः (Word-by-word)
ई॒म् । म॒न्द्रासु॑ । प्र॒यसः॑ ॥ वसुः॑ । चेति॑ष्ठः । व॒सु॒धात॑म॒ इति॑ वसु - धात॑मः । च॒ ॥ द्वारः॑ । दे॒वीः । अन्विति॑ । अ॒स्य॒ । विश्वे᳚ । व्र॒ता । द॒द॒न्ते॒ । अ॒ग्नेः ॥ उ॒रु॒व्यच॑स॒ इत्यु॑रु - व्यच॑सः । धाम्ना᳚ । पत्य॑मानाः ॥ ते इति॑ । अ॒स्य॒ । योष॑णे॒ इति॑ । दि॒व्ये इति॑ । न । योनौ᳚ । उ॒षासा॒नक्ता᳚ ॥ इ॒मम् । य॒ज्ञ्म् । अ॒व॒ता॒म् । अ॒द्ध्व॒रम् । नः॒ ॥ दैव्या᳚ । हो॒ता॒रौ॒ । ऊ॒द्‌र्ध्वम् । अ॒द्ध्व॒रम् । नः॒ । अ॒ग्नेः । जि॒ह्वाम् । अ॒भीति॑ । गृ॒णी॒त॒म् ॥ कृ॒णु॒तम् । नः॒ । स्वि॑ष्टि॒मिति॒ सु-इ॒ष्टि॒म् ॥ ति॒स्रः । दे॒वीः । ब॒र्॒.हिः । एति॑ । इ॒दम् । स॒द॒न्तु॒ । इडा᳚ । सर॑स्वती ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.1.8.3 TS 4.1.8.3
भार॑ती । म॒ही गृ॑णा॒ना ॥ तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीरं᳚ । रा॒यस्पोषं॒ ॅवि ष्य॑तु॒ नाभि॑म॒स्मे ॥ वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ । अ॒ग्निर्.ह॒व्यꣳ श॑मि॒ता सू॑दयाति ॥ अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यं । विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्तां ॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्या - [ ]
पदपाठः (Word-by-word)
भार॑ती ॥ म॒ही । गृ॒णा॒ना ॥ तत् । नः॒ । तु॒रीप᳚म् । अद्भु॑तम् । पु॒रु॒क्षु । त्वष्टा᳚ । सु॒वीर॒मिति॑ सु - वीर᳚म् ॥ रा॒यः । पोष᳚म् । वीति॑ । स्य॒तु॒ । नाभि᳚म् । अ॒स्मे इति॑ ॥ वन॑स्पते । अवेति॑ । सृ॒ज॒ । ररा॑णः । त्मना᳚ । दे॒वेषु॑ ॥ अ॒ग्निः । ह॒व्यम् । श॒मि॒ता । सू॒द॒या॒ति॒ ॥ अग्ने᳚ । स्वाहा᳚ । कृ॒णु॒हि॒ । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । इन्द्रा॑य । ह॒व्यम् ॥ विश्वे᳚ । दे॒वाः । ह॒विः । इ॒दम् । जु॒ष॒न्ता॒म् ॥ हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य-ग॒र्भः । समिति॑ । अ॒व॒र्त॒त॒ । अग्रे᳚ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् ॥ सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.1.8.4 TS 4.1.8.4
-मु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः᳡कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ ॅयस्य॑ दे॒वाः । यस्य॑ छा॒याऽमृतं॒ ॅयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रꣳ र॒सया॑ स॒हा - [ ]
पदपाठः (Word-by-word)
उ॒त । इ॒माम् । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ यः । प्रा॒ण॒त इति॑ प्र - अ॒न॒तः । नि॒मि॒ष॒त इति॑ नि - मि॒ष॒तः । म॒हि॒त्वेति॑ महि - त्वा । एकः॑ । इत् । राजा᳚ । जग॑तः । ब॒भूव॑ ॥ यः । ईशे᳚ । अ॒स्य । द्वि॒पद॒ इति॑ द्वि - पदः॑ । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ यः । आ॒त्म॒दा इत्या᳚त्म-दाः । ब॒ल॒दा इति॑ बल-दाः । यस्य॑ । विश्वे᳚ । उ॒पास॑त॒ इत्यु॑प - आस॑ते । प्र॒शिष॒मिति॑ प्र - शिष᳚म् । यस्य॑ । दे॒वाः ॥ यस्य॑ । छा॒या । अ॒मृत᳚म् । यस्य॑ । मृ॒त्युः । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ यस्य॑ । इ॒मे । हि॒मव॑न्त॒ इति॑ हि॒म - व॒न्तः॒ । म॒हि॒त्वेति॑ महि - त्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया᳚ । स॒ह ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.1.8.5 TS 4.1.8.5
-ऽऽहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सु॒वः॑ स्तभि॒तं ॅयेन॒ नाकः॑ ।यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः᳡कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ आपो॑ ह॒ यन्म॑ह॒ती र्विश्व॒ - [ ]
पदपाठः (Word-by-word)
आ॒हुः ॥ यस्य॑ । इ॒माः । प्र॒दिश॒ इति॑ प्र-दिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भ्यैक्षे॑ता॒मित्य॑भि - ऐक्षे॑तां । मन॑सा । रेज॑माने॒ इति॑ ॥ यत्र॑ । अधीति॑ । सूरः॑ । उदि॑ता॒वित्युत् - इ॒तौ॒ । व्येतीति॑ वि - एति॑ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ढे इति॑ । येन॑ । सुवः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ॥ यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒मान॒ इति॑ वि-मानः॑ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ आपः॑ । ह॒ । यत् । म॒ह॒तीः । विश्व᳚म् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 4.1.8.6 TS 4.1.8.6
-माय॒न् दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निं ।ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेकः᳡कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्-दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निं ।यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
पदपाठः (Word-by-word)
आयन्न्॑ । दक्ष᳚म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ॥ ततः॑ । दे॒वाना᳚म् । निरिति॑ । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒र्यप॑श्य॒दिति॑ परि-अप॑श्यत् । दक्ष᳚म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ॥ यः । दे॒वेषु॑ । अधीति॑ । दे॒वः । एकः॑ । आसी᳚त् । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥
पदसंख्या: 34