अनुवाकः 11 TS 4.2.11

(A11)

(हि - वृ॒ता - म॒ - एका॑दश च )

अनुवाकः 11 - Complete Audio

TS 4.2.11 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒
PS1.2 वाजे॑षु भूषथः
PS1.3 तद्वां᳚ चेति॒ प्रवी॒र्यं᳚
PS1.4 श्नथ॑द्-वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो
PS1.5 अ॒ग्नी सहु॑री सप॒र्यात्
PS1.6 इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒
PS1.7 सह॑सा वाज॒यन्ता᳚
PS1.8 प्र च॑र्.ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒
PS1.9 प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑
PS1.10 प्र सिन्धु॑भ्यः॒ प्रगि॒रिभ्यो॑ महि॒त्वा
PS1.11 प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नाऽत्य॒न्या
PS1.12 मरु॑तो॒ यस्य॒ हि -
PS1.13 [ ]
PS2.1 क्षये॑ पा॒था दि॒वो वि॑महसः
PS2.2 स सु॑गो॒पात॑मो॒ जनः॑
PS2.3 य॒ज्ञिर्वा॑ यज्ञ्वाहसो॒ विप्र॑स्य वा मती॒नां
PS2.4 मरु॑तः शृणु॒ता हवं᳚
PS2.5 श्रि॒यसे॒ कं भा॒नुभिः॒ सं
PS2.6 मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः
PS2.7 सुखा॒दयः॑
PS2.8 ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो
PS2.9 वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑
PS2.10 अव॑ ते॒ हेड॒> 1, उदु॑त्त॒मं
PS2.11 कया॑ नश्चि॒त्र आ भु॑वदू॒ती
PS2.12 स॒दा वृ॑धः॒ सखा᳚
PS2.13 कया॒ शचि॑ष्ठया वृ॒ता
PS3.1 को अ॒द्य यु॑ङ्क्ते धु॒रि
PS3.2 गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑
PS3.3 दुर्.हृणा॒यून्
PS3.4 आ॒सन्नि॑षून्. हृ॒थ्स्वसो॑ मयो॒भून्. य
PS3.5 ए॑षां भृ॒त्यामृ॒णध॒थ् स जी॑वात्
PS3.6 अग्ने॒ नया > 3,
PS3.7 ऽऽदे॒वानाꣳ॒॒ शन्नो॑ भवन्तु॒ >
PS3.8 5, वाजे॑वाजे
PS3.9 अ॒फ्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुद्ध्यसे
PS3.10 गर्भे॒ सञ्जा॑यसे॒ पुनः॑
PS3.11 वृषा॑ सोम द्यु॒माꣳ अ॑सि॒
PS3.12 वृषा॑ देव॒ वृष॑व्रतः
PS3.13 वृषा॒ धर्मा॑णि दधिषे
PS3.14 इ॒मं मे॑ ( )
PS3.15 वरुण॒ > 7, तत्त्वा॑
PS3.16 यामि॒त्वं नो॑ अग्ने॒स त्वं
PS3.17 नो॑ अग्ने> 10

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.2.11.1 TS 4.2.11.1
इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां᳚ चेति॒ प्रवी॒र्यं᳚ ॥ श्नथ॑द्-वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ॥ प्र च॑र्.ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्यः॒ प्रगि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नाऽत्य॒न्या ॥ मरु॑तो॒ यस्य॒ हि - [ ]
पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । रो॒च॒ना । दि॒वः । परीति॑ । वाजे॑षु । भू॒ष॒थः॒ ॥ तत् । वा॒म् । चे॒ति॒ । प्रेति॑ । वी॒र्य᳚म् ॥ श्नथ॑त् । वृ॒त्रम् । उ॒त । स॒नो॒ति॒ । वाज᳚म् । इन्द्रा᳚ । यः । अ॒ग्नी इति॑ । सहु॑री॒ इति॑ स - हु॒री॒ । स॒प॒र्यात् ॥ इ॒र॒ज्यन्ता᳚ । व॒स॒व्य॑स्य । भूरेः᳚ । सह॑स्त॒मेति॒ सहः॑ - त॒मा॒ । सह॑सा । वा॒ज॒यन्तेति॑ वाज - यन्ता᳚ ॥ प्रेति॑ । च॒र्॒.ष॒णिभ्य॒ इति॑ चर्.ष॒णि-भ्यः॒ । पृ॒त॒ना॒ । हवे॑षु । प्रेति॑ । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति॑ । दि॒वः । च॒ ॥ प्रेति॑ । सिन्धु॑भ्य॒ इति॒ सिन्धु॑ - भ्यः॒ । प्रेति॑ । गि॒रिभ्य॒ इति॑ गि॒रि - भ्यः॒ । म॒हि॒त्वेति॑ महि - त्वा । प्रेति॑ । इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ । विश्वा᳚ । भुव॑ना । अतीति॑ । अ॒न्या ॥ मरु॑तः । यस्य॑ । हि ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.2.11.2 TS 4.2.11.2
क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥ य॒ज्ञिर्वा॑ यज्ञ्वाहसो॒ विप्र॑स्य वा मती॒नां । मरु॑तः शृणु॒ता हवं᳚ ॥ श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अव॑ ते॒ हेड॒> 1, उदु॑त्त॒मं ॥ कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दा वृ॑धः॒ सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥
पदपाठः (Word-by-word)
क्षये᳚ । पा॒थ । दि॒वः । वि॒म॒ह॒स॒ इति॑ वि - म॒ह॒सः॒ ॥ सः । सु॒गो॒पात॑म॒ इति॑ सुगो॒प - त॒मः॒ । जनः॑ ॥ य॒ज्ञिः । वा॒ । य॒ज्ञ्॒वा॒ह॒स॒ इति॑ यज्ञ् - वा॒ह॒सः॒ । विप्र॑स्य । वा॒ । म॒ती॒नाम् ॥ मरु॑तः । शृ॒णु॒त । हव᳚म् ॥ श्रि॒यसे᳚ । कम् । भा॒नुभि॒रिति॑ भा॒नु - भिः॒ । समिति॑ । मि॒मि॒क्षि॒रे॒ । ते । र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । ते । ऋक्व॑भि॒रित्यृक्व॑ - भिः॒ । सु॒खा॒दय॒ इति॑ सु - खा॒दयः॑ ॥ ते । वाशी॑मन्त॒ इति॒ वाशि॑ - म॒न्तः॒ । इ॒ष्मिणः॑ । अभी॑रवः । वि॒द्रे । प्रि॒यस्य॑ । मारु॑तस्य । धाम्नः॑ ॥ अवेति॑ । ते॒ । हेडः॑ । उदिति॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् ॥ कया᳚ । नः॒ । चि॒त्रः । एति॑ । भु॒व॒त् । ऊ॒ती । स॒दावृ॑ध॒ इति॑ स॒दा - वृ॒धः॒ । सखा᳚ ॥ कया᳚ । शचि॑ष्ठया । वृ॒ता ॥
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.2.11.3 TS 4.2.11.3
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्.हृणा॒यून् । आ॒सन्नि॑षून्. हृ॒थ्स्वसो॑ मयो॒भून्. य ए॑षां भृ॒त्यामृ॒णध॒थ् स जी॑वात् ॥ अग्ने॒ नया > 3, ऽऽदे॒वानाꣳ॒॒ शन्नो॑ भवन्तु॒ > 5, वाजे॑वाजे। अ॒फ्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुद्ध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ वृषा॑ सोम द्यु॒माꣳ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ॥ इ॒मं मे॑ ( ) वरुण॒ > 7, तत्त्वा॑ यामि॒त्वं नो॑ अग्ने॒स त्वं नो॑ अग्ने> 10 ॥
पदपाठः (Word-by-word)
कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑वतः । भा॒मिनः॑ । दु॒र्॒.हृ॒णा॒यूनिति॑ दुः - हृ॒णा॒यून् ॥ आ॒सन्नि॑षू॒नित्या॒सन्न् - इ॒षू॒न् । हृ॒थ्स्वस॒ इति॑ हृथ्सु - असः॑ । म॒यो॒भूनिति॑ मयः - भून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥ अग्ने᳚ । नय॑ । एति॑ । दे॒वाना᳚म् । शम् । नः॒ । भ॒व॒न्तु॒ । वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ ॥ अ॒फ्स्वित्य॑प्- सु । अ॒ग्ने॒ । सधिः॑ । तव॑ । सः । ओष॑धीः । अन्विति॑ । रु॒द्ध्य॒से॒ ॥ गर्भे᳚ । सन्न् । जा॒य॒से॒ । पुनः॑ ॥ वृषा᳚ । सो॒म॒ । द्यु॒मानिति॑ द्यु-मान् । अ॒सि॒ । वृषा᳚ । दे॒व॒ । वृष॑व्रत॒ इति॒ वृष॑-व्र॒तः॒ ॥ वृषा᳚ । धर्मा॑णि । द॒धि॒षे॒ ॥ इ॒मम् । मे॒ ( ) । व॒रु॒ण॒ । तत् । त्वा॒ । या॒मि॒ । त्वम् । नः॒ । अ॒ग्ने॒ । सः । त्वम् । नः॒ । अ॒ग्ने॒ ॥
पदसंख्या: 61