पञ्चशत् 1 #
आ॒दि॒त्यं गर्भं॒ पय॑सा सम॒ञ्जन्थ् स॒हस्र॑स्य प्रति॒मां ॅवि॒श्वरू॑पं । परि॑ वृङ्ग्धि॒ हर॑सा॒ माऽभि मृ॑क्षः श॒तायु॑षं कृणुहि ची॒यमा॑नः ॥ इ॒मं मा हिꣳ॑सीर्द्वि॒पादं॑ पशू॒नाꣳ सह॑स्राक्ष॒ मेध॒ आ ची॒यमा॑नः । म॒युमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ॥ वात॑स्य॒ ध्राजिं॒ ॅवरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नꣳ स॑रि॒रस्य॒ मद्ध्ये᳚ । शिशुं॑ न॒दीनाꣳ॒॒ हरि॒मद्रि॑बुद्ध॒मग्ने॒ मा हिꣳ॑सीः - [ ]
पदपाठः (Word-by-word)
आ॒दि॒त्यम् । गर्भ᳚म् । पय॑सा । स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् । स॒हस्र॑स्य । प्र॒ति॒मामिति॑ प्रति - माम् । वि॒श्वरू॑प॒मिति॑ वि॒श्व-रू॒प॒म् ॥ परीति॑ । वृ॒ङ्ग्धि॒ । हर॑सा । मा । अ॒भीति॑ । मृ॒क्षः॒ । श॒तायु॑ष॒मिति॑ श॒त - आ॒यु॒ष॒म् । कृ॒णु॒हि॒ । ची॒यमा॑नः ॥ इ॒मम् । मा । हिꣳ॒॒सीः॒ । द्वि॒पाद॒मिति॑ द्वि - पाद᳚म् । प॒शू॒नाम् । सह॑स्रा॒क्षेति॒ सह॑स्र - अ॒क्ष॒ । मेधे᳚ । एति॑ । ची॒यमा॑नः ॥ म॒युम् । आ॒र॒ण्यम् । अन्विति॑ । ते॒ । दि॒शा॒मि॒ । तेन॑ । चि॒न्वा॒नः । त॒नुवः॑ । नीति॑ । सी॒द॒ ॥ वात॑स्य । ध्राजि᳚म् । वरु॑णस्य । नाभि᳚म् । अश्व᳚म् । ज॒ज्ञा॒नम् । स॒रि॒रस्य॑ । मद्ध्ये᳚ ॥ शिशु᳚म् । न॒दीना᳚म् । हरि᳚म् । अद्रि॑बुद्ध॒मित्यद्रि॑ - बु॒द्ध॒म् । अग्ने᳚ । मा । हिꣳ॒॒सीः॒ ।