अनुवाकः 6 TS 4.2.6

(A6)

(रपः॑ - पत॒त्रिणी॒- र्या - अꣳह॑सो॒ याः - खना॑मि वो॒ - ऽष्टाद॑श च)

अनुवाकः 6 - Complete Audio

TS 4.2.6 - स्वरानुगामी

0:00 0:00
PS1.1 या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गं पु॒रा
PS1.2 मन्दा॑मि ब॒भ्रूणा॑म॒हꣳ श॒तं धामा॑नि
PS1.3 स॒प्त च॑
PS1.4 श॒तं ॅवो॑ अबं॒ धामा॑नि
PS1.5 स॒हस्र॑मु॒त वो॒ रुहः॑
PS1.6 अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑
PS1.7 अग॒दं कृ॑त
PS1.8 पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त
PS1.9 अश्वा॑ इव स॒जित्व॑री-र्वी॒रुधः॑ पारयि॒ष्णवः॑
PS1.10 ओष॑धी॒रिति॑ मातर॒-स्तद्वो॑ देवी॒-रुप॑ ब्रुवे
PS1.11 रपाꣳ॑सि विघ्न॒तीरि॑त॒ रप॑ -
PS1.12 [ ]
PS2.1 -श्चा॒तय॑मानाः
PS2.2 अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे
PS2.3 वो॑ वस॒तिः कृ॒ता
PS2.4 गो॒भाज॒ इत् किला॑सथ॒ यथ्
PS2.5 स॒नव॑थ॒ पूरु॑षं
PS2.6 यद॒हं ॅवा॒जय॑-न्नि॒मा ओष॑धी॒र्॒.हस्त॑ आद॒धे
PS2.7 आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा
PS2.8 जी॑व॒गृभो॑ यथा
PS2.9 यदोष॑धयः सं॒गच्छ॑न्ते॒ राजा॑नः॒ समि॑ता विव
PS2.10 विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हा
PS2.11 ऽमी॑व॒ चात॑नः
PS2.12 निष्कृ॑ति॒-र्नाम॑वो मा॒ताऽथा॑ यू॒यꣳस्थ॒ संकृ॑तीः
PS2.13 स॒राः प॑त॒त्रिणीः᳚ - [ ]
PS3.1 स्थन॒ यदा॒ मय॑ति॒ निष्कृ॑त
PS3.2 अ॒न्या वो॑ अ॒न्याम॑व-त्व॒न्याऽन्यस्या॒ उपा॑वत
PS3.3 ताः सर्वा॒ ओष॑धयः संॅविदा॒ना
PS3.4 इ॒दं मे॒ प्राव॑ता॒ वचः॑
PS3.5 उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठा दि॑वेरते
PS3.6 धनꣳ॑ सनि॒ष्यन्ती॑ नामा॒त्मानं॒ तव॑ पूरुष
PS3.7 अति॒ विश्वाः᳚ परि॒ष्ठास्ते॒न इ॑व व्र॒जम॑क्रमुः
PS3.8 ओष॑धयः॒ प्राचु॑च्यवु॒ र्यत् किं
PS3.9 च॑ त॒नुवाꣳ॒॒ रपः॑
PS3.10 या - [ ]
PS4.1 -स्त॑ आत॒स्थु-रा॒त्मानं॒ ॅया आ॑विवि॒शुः
PS4.2 परुः॑ परुः
PS4.3 तास्ते॒ यक्ष्मं॒ ॅविबा॑धन्ता मु॒ग्रो म॑द्ध्यम॒शीरि॑व
PS4.4 सा॒कं ॅय॑क्ष्म॒ प्र प॑त
PS4.5 श्ये॒नेन॑ किकिदी॒विना᳚
PS4.6 सा॒कं ॅवात॑स्य॒-ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या
PS4.7 अ॒श्वा॒व॒तीꣳ सो॑मव॒ती मू॒र्जय॑न्ती॒ मुदो॑जसं
PS4.8 आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये
PS4.9 याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा
PS4.10 याश्च॑ पु॒ष्पिणीः᳚
PS4.11 बृह॒स्पति॑ प्रसूता॒ स्तानो॑ मुञ्च॒न्त्वꣳ ह॑सः
PS4.12 या - [ ]
PS5.1 ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑
PS5.2 तासां॒ त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑वे-सुव
PS5.3 अ॒व॒पत॑न्तीरवदन् दि॒व ओष॑दयः॒ परि॑
PS5.4 यं जी॒व म॒श्ञवा॑ महै॒
PS5.5 न स रि॑ष्याति॒ पूरु॑षः
PS5.6 याश्चे॒द मु॑प-शृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः
PS5.7 इ॒ह स॒ङ्गत्य॒ ताः सर्वा॑
PS5.8 अ॒स्मै सं द॑त्त भेष॒जं
PS5.9 मा वो॑ रिषत् खनि॒ता
PS5.10 यस्मै॑ चा॒हं खना॑मि वः
PS5.11 ( )
PS5.12 द्वि॒प-च्चतु॑ष्प-द॒स्माकꣳ॒॒ सर्व॑-म॒स्त्वना॑तुरं
PS5.13 ओष॑धयः॒ सं ॅव॑दन्ते॒ सोमे॑न
PS5.14 स॒ह राज्ञा᳚
PS5.15 यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.2.6.1 TS 4.2.6.1
या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।मन्दा॑मि ब॒भ्रूणा॑म॒हꣳ श॒तं धामा॑नि स॒प्त च॑ ॥ श॒तं ॅवो॑ अबं॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त । अश्वा॑ इव स॒जित्व॑री-र्वी॒रुधः॑ पारयि॒ष्णवः॑ ॥ ओष॑धी॒रिति॑ मातर॒-स्तद्वो॑ देवी॒-रुप॑ ब्रुवे । रपाꣳ॑सि विघ्न॒तीरि॑त॒ रप॑ - [ ]
पदपाठः (Word-by-word)
याः । जा॒ताः । ओष॑धयः । दे॒वेभ्यः॑ । त्रि॒यु॒गमिति॑ त्रि-यु॒गम् । पु॒रा ॥ मन्दा॑मि । ब॒भ्रूणा᳚म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥ श॒तम् । वः॒ । अ॒बं॒ । धामा॑नि । स॒हस्र᳚म् । उ॒त । वः॒ । रुहः॑ ॥ अथ॑ । श॒त॒क्र॒त्व॒ इति॑ शत - क्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥ पुष्पा॑वती॒रिति॒ पुष्प॑-व॒तीः॒ । प्र॒सूव॑ती॒रिति॑ प्र - सूव॑तीः । फ॒लिनीः᳚ । अ॒फ॒लाः । उ॒त ॥ अश्वाः᳚ । इ॒व॒ । स॒जित्व॑री॒रिति॑ स - जित्व॑रीः । वी॒रुधः॑ । पा॒र॒यि॒ष्णवः॑ ॥ ओष॑धीः । इति॑ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उपेति॑ । ब्रु॒वे॒ ॥ रपाꣳ॑सि । वि॒घ्न॒तीरिति॑ वि - घ्न॒तीः । इ॒त॒ । रपः॑ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.2.6.2 TS 4.2.6.2
-श्चा॒तय॑मानाः ॥ अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिः कृ॒ता । गो॒भाज॒ इत् किला॑सथ॒ यथ् स॒नव॑थ॒ पूरु॑षं ॥ यद॒हं ॅवा॒जय॑-न्नि॒मा ओष॑धी॒र्॒.हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ यदोष॑धयः सं॒गच्छ॑न्ते॒ राजा॑नः॒ समि॑ता विव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हा ऽमी॑व॒ चात॑नः ॥ निष्कृ॑ति॒-र्नाम॑वो मा॒ताऽथा॑ यू॒यꣳस्थ॒ संकृ॑तीः । स॒राः प॑त॒त्रिणीः᳚ - [ ]
पदपाठः (Word-by-word)
चा॒तय॑मानाः ॥ अ॒श्व॒त्थे । वः॒ । नि॒षद॑न॒मिति॑ नि - सद॑नम् । प॒र्णे । वः॒ । व॒स॒तिः । कृ॒ता ॥ गो॒भाज॒ इति॑ गो - भाजः॑ । इत् । किल॑ । अ॒स॒थ॒ । यत् । स॒नव॑थ । पूरु॑षम् ॥ यत् । अ॒हम् । वा॒जयन्न्॑ । इ॒माः । ओष॑धीः । हस्ते᳚ । आ॒द॒ध इत्या᳚-द॒धे ॥ आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒गृभ॒ इति॑ जीव - गृभः॑ । य॒था॒ ॥ यत् । ओष॑धयः । सं॒गच्छ॑न्त॒ इति॑ सं - गच्छ॑न्ते । राजा॑नः । समि॑ता॒विति॒ सं - इ॒तौ॒ । इ॒व॒ ॥ विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षो॒हेति॑ रक्षः - हा । अ॒मी॒व॒चात॑न॒ इत्य॑मीव - चात॑नः ॥ निष्कृ॑ति॒रिति॒ निः-कृ॒तिः॒ । नाम॑ । वः॒ । मा॒ता । अथ॑ । यू॒यम् । स्थ॒ । संकृ॑ती॒रिति॒ सं - कृ॒तीः॒ ॥ स॒राः । प॒त॒त्रिणीः᳚ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.2.6.3 TS 4.2.6.3
स्थन॒ यदा॒ मय॑ति॒ निष्कृ॑त ॥अ॒न्या वो॑ अ॒न्याम॑व-त्व॒न्याऽन्यस्या॒ उपा॑वत । ताः सर्वा॒ ओष॑धयः संॅविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥ उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठा दि॑वेरते । धनꣳ॑ सनि॒ष्यन्ती॑ नामा॒त्मानं॒ तव॑ पूरुष ॥ अति॒ विश्वाः᳚ परि॒ष्ठास्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒ र्यत् किं च॑ त॒नुवाꣳ॒॒ रपः॑ ॥ या - [ ]
पदपाठः (Word-by-word)
स्थ॒न॒ । यत् । आ॒मय॑ति । निरिति॑ । कृ॒त॒ ॥ अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः᳚ । उपेति॑ । अ॒व॒त॒ ॥ ताः । सर्वाः᳚ । ओष॑धयः । सं॒ॅवि॒दा॒ना इति॑ सं - वि॒दा॒नाः । इ॒दम् । मे॒ । प्रेति॑ । अ॒व॒त॒ । वचः॑ ॥ उदिति॑ । शुष्माः᳚ । ओष॑धीनां । गावः॑ । गो॒ष्ठादिति॑ गो - स्थात् । इ॒व॒ । ई॒र॒ते॒ ॥ धन᳚म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान᳚म् । तव॑ । पू॒रु॒ष॒ ॥ अतीति॑ । विश्वाः᳚ । प॒रि॒ष्ठा इति॑ परि - स्थाः । स्ते॒नः । इ॒व॒ । व्र॒जम् । अ॒क्र॒मुः॒ ॥ ओष॑धयः । प्रेति॑ । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒नुवा᳚म् । रपः॑ ॥ याः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.2.6.4 TS 4.2.6.4
-स्त॑ आत॒स्थु-रा॒त्मानं॒ ॅया आ॑विवि॒शुः परुः॑ परुः ।तास्ते॒ यक्ष्मं॒ ॅविबा॑धन्ता मु॒ग्रो म॑द्ध्यम॒शीरि॑व ॥सा॒कं ॅय॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना᳚ । सा॒कं ॅवात॑स्य॒-ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ अ॒श्वा॒व॒तीꣳ सो॑मव॒ती मू॒र्जय॑न्ती॒ मुदो॑जसं । आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ । बृह॒स्पति॑ प्रसूता॒ स्तानो॑ मुञ्च॒न्त्वꣳ ह॑सः ॥ या - [ ]
पदपाठः (Word-by-word)
ते । आ॒त॒स्थुरित्या᳚ - त॒स्थुः । आ॒त्मान᳚म् । याः । आ॒वि॒वि॒शुरित्या᳚-वि॒वि॒शुः । परुः॑ परु॒रिति॒ परुः॑ - प॒रुः॒ ॥ ताः । ते॒ । यक्ष्म᳚म् । वीति॑ । बा॒ध॒न्ता॒म् । उ॒ग्रः । म॒द्ध्य॒म॒शीरिति॑ मद्ध्यम - शीः । इ॒व॒ ॥ सा॒कम् । य॒क्ष्म॒ । प्रेति॑ । प॒त॒ । श्ये॒नेन॑ । कि॒कि॒दी॒विना᳚ ॥ सा॒कम् । वात॑स्य । ध्राज्या᳚ । सा॒कम् । न॒श्य॒ । नि॒हाक॒येति॑ नि - हाक॑या ॥ अ॒श्वा॒व॒तीमित्य॑श्व - व॒तीम् । सो॒म॒व॒तीमिति॑ सोम - व॒तीम् । ऊ॒र्जय॑न्तीम् । उदो॑जस॒मित्युत् - ओ॒ज॒स॒म् ॥ एति॑ । वि॒थ्सि॒ । सर्वाः᳚ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टता॑तय॒ इत्य॑रि॒ष्ट - ता॒त॒ये॒ ॥ याः । फ॒लिनीः᳚ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः᳚ ॥ बृह॒स्पति॑प्रसूता॒ इति॒ बृह॒स्पति॑ - प्र॒सू॒ताः॒ । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अꣳह॑सः ॥ याः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.2.6.5 TS 4.2.6.5
ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ ।तासां॒ त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑वे-सुव ॥ अ॒व॒पत॑न्तीरवदन् दि॒व ओष॑दयः॒ परि॑ । यं जी॒व म॒श्ञवा॑ महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ याश्चे॒द मु॑प-शृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।इ॒ह स॒ङ्गत्य॒ ताः सर्वा॑ अ॒स्मै सं द॑त्त भेष॒जं ॥मा वो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ( ) । द्वि॒प-च्चतु॑ष्प-द॒स्माकꣳ॒॒ सर्व॑-म॒स्त्वना॑तुरं ॥ ओष॑धयः॒ सं ॅव॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि ॥
पदपाठः (Word-by-word)
ओष॑धयः । सोम॑राज्ञी॒रिति॒ सोम॑ - रा॒ज्ञीः॒ । प्रवि॑ष्टा॒ इति॒ प्र-वि॒ष्टाः॒ । पृ॒थि॒वीम् । अनु॑ ॥ तासां᳚ । त्वम् । अ॒सि॒ । उ॒त्त॒मेत्यु॑त्- त॒मा । प्रेति॑ । नः॒ । जी॒वात॑वे । सु॒व॒ ॥ अ॒व॒पत॑न्ती॒रित्य॑व - पत॑न्तीः । अ॒व॒द॒न्न् । दि॒वः । ओष॑दयः । परि॑ ॥ यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पूरु॑षः ॥ याः । च॒ । इ॒दम् । उ॒प॒शृ॒ण्वन्तीत्यु॑प-शृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑गता॒ इति॒ परा᳚ - ग॒ताः॒ ॥ इ॒ह । स॒ङ्गत्येति॑ सं - गत्य॑ । ताः । सर्वाः᳚ । अ॒स्मै । समिति॑ । द॒त्त॒ । भे॒ष॒जम् ॥ मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै᳚ । च॒ । अ॒हम् । खना॑मि । वः॒ ( ) ॥ द्वि॒पदिति॑ द्वि-पत् । चतु॑ष्प॒दिति॒ चतुः॑-प॒त् । अ॒स्माक᳚म् । सर्व᳚म् । अ॒स्तु॒ । अना॑तुर॒मित्यना᳚ - तु॒र॒म् ॥ ओष॑धयः । समिति॑ । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा᳚ ॥ यस्मै᳚ । क॒रोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न्न् । पा॒र॒या॒म॒सि॒ ॥
पदसंख्या: 68