पञ्चशत् 1 #
ध्रु॒वाऽसि॑ ध॒रुणाऽस्तृ॑ता वि॒श्वक॑र्मणा॒ सुकृ॑ता । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णो व्य॑थमाना पृथि॒वीं दृꣳ॑ह ॥ प्र॒जाप॑तिस्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ प्रथो॑ऽसि पृथि॒व्य॑सि॒ भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री पृ॑थि॒वीं ॅय॑च्छ पृथि॒वीं दृꣳ॑ह पृथि॒वीं मा हिꣳ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ - [ ]
पदपाठः (Word-by-word)
ध्रु॒वा । अ॒सि॒ । ध॒रुणा᳚ । अस्तृ॑ता । वि॒श्वक॑र्म॒णेति॑ वि॒श्व - क॒र्म॒णा॒ । सुकृ॒तेति॒ सु - कृ॒ता॒ ॥ मा । त्वा॒ । स॒मु॒द्रः । उदिति॑ । व॒धी॒त् । मा । सु॒प॒र्ण इति॑ सु - प॒र्णः । अव्य॑थमाना । पृ॒थि॒वीम् । दृꣳ॒॒ह॒ ॥ प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । त्वा॒ । सा॒द॒य॒तु॒ । पृ॒थि॒व्याः । पृ॒ष्ठे । व्यच॑स्वतीम् । प्रथ॑स्वतीम् । प्रथः॑ । अ॒सि॒ । पृ॒थि॒वी । अ॒सि॒ । भूः । अ॒सि॒ । भूमिः॑ । अ॒सि॒ । अदि॑तिः । अ॒सि॒ । वि॒श्वधा॑या॒ इति॑ वि॒श्व - धा॒याः॒ । विश्व॑स्य । भुव॑नस्य । ध॒र्त्री । पृ॒थि॒वीम् । य॒च्छ॒ । पृ॒थि॒वीम् । दृꣳ॒॒ह॒ । पृ॒थि॒वीम् । मा । हिꣳ॒॒सीः॒ । विश्व॑स्मै । प्रा॒णायेति॑ प्रा - अ॒नाय॑ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । व्या॒नायेति॑ वि - अ॒नाय॑ । उ॒दा॒नायेत्यु॑त् - अ॒नाय॑ । प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ ।