अनुवाकः 5 TS 4.2.5

(A5)

(समो॑कसौ-विश्वरूपे-वि॒दुर्निर्.ऋ॑ति-र॒भि च॑ष्ट-इ॒ह-मि॒त्राय॒-द्वाविꣳ॑शतिश्च)

अनुवाकः 5 - Complete Audio

TS 4.2.5 - स्वरानुगामी

0:00 0:00
PS1.1 समि॑तꣳ॒॒ सङ्क॑ल्पेथाꣳ॒॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ
PS1.2 इष॒मूर्ज॑म॒भि सं॒ॅवसा॑नौ॒ सं ॅवां॒
PS1.3 मनाꣳ॑सि॒ सं ॅव्र॒ता समु॑
PS1.4 चि॒त्तान्याऽक॑रं
PS1.5 अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑
PS1.6 इष॒मूर्जं॒ ॅयज॑मानाय धेहि
PS1.7 पु॒री॒ष्य॑स्त्वम॑ग्ने रयि॒मान् पु॑ष्टि॒माꣳ अ॑सि
PS1.8 शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒
PS1.9 स्वां ॅयोनि॑मि॒हाऽस॑दः
PS1.10 भव॑तं नः॒ सम॑नसौ॒ समो॑कसा
PS1.11 - [ ]
PS2.1 -वरे॒पसौ᳚
PS2.2 मा य॒ज्ञ्ꣳ हिꣳ॑सिष्टं॒ मा
PS2.3 य॒ज्ञ्प॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य
PS2.4 नः॑
PS2.5 मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॑म॒ग्निꣳ
PS2.6 स्वे योना॑वभारु॒खा
PS2.7 तां ॅविश्वै᳚र्दे॒वैर्. ऋ॒तुभिः॑ संॅविदा॒नः
PS2.8 प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु
PS2.9 यद॒स्य पा॒रे रज॑सः शु॒क्रं ज्योति॒रजा॑यत
PS2.10 तं नः॑ पर्.ष॒दति॒ द्विषोऽग्ने॑
PS2.11 वैश्वानर॒ स्वाहा᳚
PS2.12 नमः॒ सु ते॑ निर्.ऋते
PS2.13 विश्वरूपे - [ ]
PS3.1 ऽय॒स्मयं॒ ॅवि चृ॑ता ब॒न्धमे॒तं
PS3.2 य॒मेन॒ त्वं ॅय॒म्या॑ सं
PS3.3 ॅविदा॒नोत्त॒मं नाक॒मधि॑ रोहये॒मं
PS3.4 यत्ते॑ दे॒वी निर्.ऋ॑तिराब॒बन्ध॒ दाम॑
PS3.5 ग्री॒वास्व॑ विच॒र्त्यं
PS3.6 इ॒दं ते॒ तद् विष्यां॒
PS3.7 ॅयायु॑षो॒ न मद्ध्या॒दथा॑ जी॒वः
PS3.8 पि॒तुम॑द्धि॒ प्रमु॑क्तः
PS3.9 यस्या᳚स्ते अ॒स्याः क्रू॒र आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय
PS3.10 भूमि॒रिति॑ त्वा॒ जना॑ वि॒दुर्निर्.ऋ॑ति॒
PS3.11 - [ ]
PS4.1 रिति॑ त्वा॒ ऽहं परि॑
PS4.2 वेद वि॒श्वतः॑
PS4.3 असु॑न्वन्त॒म य॑जमानमिच्छ स्ते॒नस्ये॒त्यान्-तस्क॑र॒स्यान् वे॑षि
PS4.4 अ॒न्य म॒स्म-दि॑च्छ॒ सा त॑
PS4.5 इ॒त्या नमो॑ देवि निर्.ऋते॒
PS4.6 तुभ्य॑मस्तु
PS4.7 दे॒वीम॒हं निर्.ऋ॑तिं॒ ॅवन्द॑मानः पि॒तेव॑
PS4.8 पु॒त्रं द॑सये॒ वचो॑भिः
PS4.9 विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒
PS4.10 शिरः॑ शिरः॒ प्रति॑ सू॒री
PS4.11 वि च॑ष्टे
PS4.12 नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ ॅविश्वा॑
PS4.13 रू॒पाऽभि च॑ष्टे॒ - [
PS4.14 ]
PS5.1 शची॑भिः
PS5.2 दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒
PS5.3 न त॑स्थौ सम॒रे प॑थी॒नां
PS5.4 सं ॅव॑र॒त्रा द॑धातन॒ निरा॑हा॒वान् कृ॑णोतन
PS5.5 सि॒ञ्चाम॑हा अव॒टमु॒द्रिणं॑ ॅव॒यं ॅविश्वाऽहाऽद॑स्त॒मक्षि॑तं
PS5.6 निष्कृ॑ताहा-वमव॒टꣳ सु॑वर॒त्रꣳ सु॑षेच॒नं
PS5.7 उ॒द्रिणꣳ॑ सिञ्चे॒ अक्षि॑तं
PS5.8 सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा
PS5.9 वि त॑न्वते॒ पृथ॑क्
PS5.10 धीरा॑ दे॒वेषु॑ सुम्न॒या
PS5.11 यु॒नक्त॒ सीरा॒ वि यु॒गा
PS5.12 त॑नोत कृ॒ते योनौ॑ वपते॒ह
PS5.13 - [ ]
PS6.1 बीजं᳚
PS6.2 गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒
PS6.3 अस॑न्नो॒ नेदी॑य॒ इथ् सृ॒ण्या॑
PS6.4 प॒क्वमा ऽय॑त्
PS6.5 लाङ्ग॑लं॒ पवी॑रवꣳ सु॒शेवꣳ॑ सुम॒तिथ्स॑रु
PS6.6 उदित् कृ॑षति॒ गामविं॑ प्रफ॒र्व्यं॑
PS6.7 च॒ पीव॑रीं
PS6.8 प्र॒स्थाव॑द्-रथ॒वाह॑नं
PS6.9 शु॒नं नः॒ फाला॒ वि
PS6.10 तु॑दन्तु॒ भूमिꣳ॑ शु॒नं की॒नाशा॑
PS6.11 अ॒भि य॑न्तु वा॒हान्
PS6.12 शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒
PS6.13 शुना॑सीरा शु॒नम॒स्मासु॑ धत्तं
PS6.14 कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒
PS6.15 ( ) वरु॑णाय च
PS6.16 इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑
PS6.17 घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒
PS6.18 विश्वै᳚र्दे॒वैरनु॑मता म॒रुद्भिः॑
PS6.19 ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ऽस्मान्थ् सी॑ते॒ पय॑सा॒ऽभ्या-व॑वृथ्स्व

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.2.5.1 TS 4.2.5.1
समि॑तꣳ॒॒ सङ्क॑ल्पेथाꣳ॒॒ संप्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒ॅवसा॑नौ॒ सं ॅवां॒ मनाꣳ॑सि॒ सं ॅव्र॒ता समु॑ चि॒त्तान्याऽक॑रं ॥ अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑ । इष॒मूर्जं॒ ॅयज॑मानाय धेहि ॥ पु॒री॒ष्य॑स्त्वम॑ग्ने रयि॒मान् पु॑ष्टि॒माꣳ अ॑सि । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां ॅयोनि॑मि॒हाऽस॑दः ॥ भव॑तं नः॒ सम॑नसौ॒ समो॑कसा - [ ]
पदपाठः (Word-by-word)
समिति॑ । इ॒त॒म् । समिति॑ । क॒ल्पे॒था॒म् । संप्रि॑या॒विति॒ सं - प्रि॒यौ॒ । रो॒चि॒ष्णू इति॑ । सु॒म॒न॒स्यमा॑ना॒विति॑ सु - म॒न॒स्यमा॑नौ ॥ इष᳚म् । ऊर्ज᳚म् । अ॒भीति॑ । सं॒ॅवसा॑ना॒विति॑ सं - वसा॑नौ । समिति॑ । वा॒म् । मनाꣳ॑सि । समिति॑ । व्र॒ता । समिति॑ । उ॒ । चि॒त्तानि॑ । एति॑ । अ॒क॒र॒म् ॥ अग्ने᳚ । पु॒री॒ष्य॒ । अ॒धि॒पा इत्य॑धि - पाः । भ॒व॒ । त्वम् । नः॒ ॥ इष᳚म् । ऊर्ज᳚म् । यज॑मानाय । धे॒हि॒ ॥ पु॒री॒ष्यः॑ । त्वम् । अ॒ग्ने॒ । र॒यि॒मानिति॑ रयि - मान् । पु॒ष्टि॒मानिति॑ पुष्टि-मान् । अ॒सि॒ ॥ शि॒वाः । कृ॒त्वा । दिशः॑ । सर्वाः᳚ । स्वाम् । योनि᳚म् । इ॒ह । एति॑ । अ॒स॒दः॒ ॥ भव॑तम् । नः॒ । सम॑नसा॒विति॒ स - म॒न॒सौ॒ । समो॑कसा॒विति॒ सं - ओ॒क॒सौ॒ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.2.5.2 TS 4.2.5.2
-वरे॒पसौ᳚ । मा य॒ज्ञ्ꣳ हिꣳ॑सिष्टं॒ मा य॒ज्ञ्प॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ ॥ मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॑म॒ग्निꣳ स्वे योना॑वभारु॒खा । तां ॅविश्वै᳚र्दे॒वैर्. ऋ॒तुभिः॑ संॅविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ॥ यद॒स्य पा॒रे रज॑सः शु॒क्रं ज्योति॒रजा॑यत । तं नः॑ पर्.ष॒दति॒ द्विषोऽग्ने॑ वैश्वानर॒ स्वाहा᳚ ॥ नमः॒ सु ते॑ निर्.ऋते विश्वरूपे - [ ]
पदपाठः (Word-by-word)
अ॒रे॒पसौ᳚ ॥ मा । य॒ज्ञ्म् । हिꣳ॒॒सि॒ष्ट॒म् । मा । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । जा॒त॒वे॒द॒सा॒विति॑ जात - वे॒द॒सौ॒ । शि॒वौ । भ॒व॒त॒म् । अ॒द्य । नः॒ ॥ मा॒ता । इ॒व॒ । पु॒त्रम् । पृ॒थि॒वी । पु॒री॒ष्य᳚म् । अ॒ग्निम् । स्वे । योनौ᳚ । अ॒भाः॒ । उ॒खा ॥ ताम् । विश्वैः᳚ । दे॒वैः । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅवि॒दा॒न इति॑ सं - वि॒दा॒नः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । वीति॑ । मु॒ञ्च॒तु॒ ॥ यत् । अ॒स्य । पा॒रे । रज॑सः । शु॒क्रम् । ज्योतिः॑ । अजा॑यत ॥ तम् । नः॒ । प॒र्॒.ष॒त् । अतीति॑ । द्विषः॑ । अग्ने᳚ । वै॒श्वा॒न॒र॒ । स्वाहा᳚ ॥ नमः॑ । स्विति॑ । ते॒ । नि॒र्॒.ऋ॒त॒ इति॑ निः - ऋ॒ते॒ । वि॒श्व॒रू॒प॒ इति॑ विश्व - रू॒पे॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.2.5.3 TS 4.2.5.3
ऽय॒स्मयं॒ ॅवि चृ॑ता ब॒न्धमे॒तं । य॒मेन॒ त्वं ॅय॒म्या॑ सं ॅविदा॒नोत्त॒मं नाक॒मधि॑ रोहये॒मं ॥ यत्ते॑ दे॒वी निर्.ऋ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑ विच॒र्त्यं । इ॒दं ते॒ तद् विष्यां॒ ॅयायु॑षो॒ न मद्ध्या॒दथा॑ जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥ यस्या᳚स्ते अ॒स्याः क्रू॒र आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय । भूमि॒रिति॑ त्वा॒ जना॑ वि॒दुर्निर्.ऋ॑ति॒ - [ ]
पदपाठः (Word-by-word)
अ॒य॒स्मय᳚म् । वीति॑ । चृ॒त॒ । ब॒न्धम् । ए॒तम् ॥ य॒मेन॑ । त्वम् । य॒म्या᳚ । सं॒ॅवि॒दा॒नेति॑ सं - वि॒दा॒ना । उ॒त्त॒ममित्यु॑त् - त॒मम् । नाक᳚म् । अधीति॑ । रो॒ह॒य॒ । इ॒मम् ॥ यत् । ते॒ । दे॒वी । निर्.ऋ॑ति॒रिति॒ निः - ऋ॒तिः॒ । आ॒ब॒बन्धेत्या᳚ - ब॒बन्ध॑ । दाम॑ । ग्री॒वासु॑ । अ॒वि॒च॒र्त्यमित्य॑वि - च॒र्त्यम् ॥ इ॒दम् । ते॒ । तत् । वीति॑ । स्या॒मि॒ । आयु॑षः । न । मद्ध्या᳚त् । अथ॑ । जी॒वः । पि॒तुम् । अ॒द्धि॒ । प्रमु॑क्त॒ इति॒ प्र - मु॒क्तः॒ ॥ यस्याः᳚ । ते॒ । अ॒स्याः । क्रू॒रे । आ॒सन्न् । जु॒होमि॑ । ए॒षाम् । ब॒न्धाना᳚म् । अ॒व॒सर्ज॑ना॒येत्य॑व-सर्ज॑नाय ॥ भूमिः॑ । इति॑ । त्वा॒ । जनाः᳚ । वि॒दुः । निर्.ऋ॑ति॒रिति॒ निः - ऋ॒तिः॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.2.5.4 TS 4.2.5.4
रिति॑ त्वा॒ ऽहं परि॑ वेद वि॒श्वतः॑ ॥ असु॑न्वन्त॒म य॑जमानमिच्छ स्ते॒नस्ये॒त्यान्-तस्क॑र॒स्यान् वे॑षि । अ॒न्य म॒स्म-दि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥ दे॒वीम॒हं निर्.ऋ॑तिं॒ ॅवन्द॑मानः पि॒तेव॑ पु॒त्रं द॑सये॒ वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒ शिरः॑ शिरः॒ प्रति॑ सू॒री वि च॑ष्टे ॥ नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ ॅविश्वा॑ रू॒पाऽभि च॑ष्टे॒ - [ ]
पदपाठः (Word-by-word)
इति॑ । त्वा॒ । अ॒हम् । परीति॑ । वे॒द॒ । वि॒श्वतः॑ ॥ असु॑न्वन्तम् । अय॑जमानम् । इ॒च्छ॒ । स्ते॒नस्य॑ । इ॒त्याम् । तस्क॑रस्य । अन्विति॑ । ए॒षि॒ ॥ अ॒न्यम् । अ॒स्मत् । इ॒च्छ॒ । सा । ते॒ । इ॒त्या । नमः॑ । दे॒वि॒ । नि॒र्॒.ऋ॒त॒ इति॑ निः - ऋ॒ते॒ । तुभ्य᳚म् । अ॒स्तु॒ ॥ दे॒वीम् । अ॒हम् । निर्.ऋ॑ति॒मिति॒ निः- ऋ॒ति॒म् । वन्द॑मानः । पि॒ता । इ॒व॒ । पु॒त्रम् । द॒स॒ये॒ । वचो॑भि॒रिति॒ वचः॑ - भिः॒ ॥ विश्व॑स्य । या । जाय॑मानस्य । वेद॑ । शिरः॑शिर॒ इति॒ शिरः॑-शि॒रः॒ । प्रतीति॑ । सू॒री । वीति॑ । च॒ष्टे॒ ॥ नि॒वेश॑न॒ इति॑ नि - वेश॑नः । स॒ङ्गम॑न॒ इति॑ सं - गम॑नः । वसू॑नाम् । विश्वा᳚ । रू॒पा । अ॒भीति॑ । च॒ष्टे॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 4.2.5.5 TS 4.2.5.5
शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नां ॥ सं ॅव॑र॒त्रा द॑धातन॒ निरा॑हा॒वान् कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टमु॒द्रिणं॑ ॅव॒यं ॅविश्वाऽहाऽद॑स्त॒मक्षि॑तं ॥ निष्कृ॑ताहा-वमव॒टꣳ सु॑वर॒त्रꣳ सु॑षेच॒नं । उ॒द्रिणꣳ॑ सिञ्चे॒ अक्षि॑तं ॥ सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या ॥ यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह - [ ]
पदपाठः (Word-by-word)
शची॑भि॒रिति॒ शचि॑ - भिः॒ ॥ दे॒वः । इ॒व॒ । स॒वि॒ता । स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । इन्द्रः॑ । न । त॒स्थौ॒ । स॒म॒र इति॑ सं - अ॒रे । प॒थी॒नाम् ॥ समिति॑ । व॒र॒त्राः । द॒धा॒त॒न॒ । निरिति॑ । आ॒हा॒वानित्या᳚ - हा॒वान् । कृ॒णो॒त॒न॒ ॥ सि॒ञ्चाम॑है । अ॒व॒टम् । उ॒द्रिण᳚म् । व॒यम् । विश्वा᳚ । अहा᳚ । अद॑स्तम् । अक्षि॑तम् ॥ निष्कृ॑ताहाव॒मिति॒ निष्कृ॑त - आ॒हा॒व॒म् । अ॒व॒टम् । सु॒व॒र॒त्रमिति॑ सु - व॒र॒त्रम् । सु॒षे॒च॒नमिति॑ सु - से॒च॒नम् ॥ उ॒द्रिण᳚म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥ सीरा᳚ । यु॒ञ्ज॒न्ति॒ । क॒वयः॑ । यु॒गा । वीति॑ । त॒न्व॒ते॒ । पृथ॑क् ॥ धीराः᳚ । दे॒वेषु॑ । सु॒म्न॒या ॥ यु॒नक्त॑ । सीरा᳚ । वीति॑ । यु॒गा । त॒नो॒त॒ । कृ॒ते । योनौ᳚ । व॒प॒त॒ । इ॒ह ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 4.2.5.6 TS 4.2.5.6
बीजं᳚ । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इथ् सृ॒ण्या॑ प॒क्वमा ऽय॑त् ॥ लाङ्ग॑लं॒ पवी॑रवꣳ सु॒शेवꣳ॑ सुम॒तिथ्स॑रु । उदित् कृ॑षति॒ गामविं॑ प्रफ॒र्व्यं॑ च॒ पीव॑रीं । प्र॒स्थाव॑द्-रथ॒वाह॑नं ॥ शु॒नं नः॒ फाला॒ वि तु॑दन्तु॒ भूमिꣳ॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हान् । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तं ॥ कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ ( ) वरु॑णाय च । इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ ॥घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै᳚र्दे॒वैरनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ऽस्मान्थ् सी॑ते॒ पय॑सा॒ऽभ्या-व॑वृथ्स्व ॥
पदपाठः (Word-by-word)
बीज᳚म् ॥ गि॒रा । च॒ । श्रु॒ष्टिः । सभ॑रा॒ इति॒ स-भ॒राः॒ । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्या᳚ । प॒क्वम् । एति॑ । अ॒य॒त् ॥ लाङ्ग॑लम् । पवी॑रवम् । सु॒शेव॒मिति॑ सु - शेव᳚म् । सु॒म॒तिथ्स॒र्विति॑ सुम॒ति - थ्‌स॒रु॒ ॥ उदिति॑ । इत् । कृ॒ष॒ति॒ । गाम् । अवि᳚म् । प्र॒फ॒र्व्य॑मिति॑ प्र-फ॒र्व्य᳚म् । च॒ । पीव॑रीम् ॥ प्र॒स्थाव॒दिति॑ प्र॒स्थ-व॒त् । र॒थ॒वाह॑न॒मिति॑ रथ - वाह॑नम् ॥ शु॒नम् । नः॒ । फालाः᳚ । वीति॑ । तु॒द॒न्तु॒ । भूमि᳚म् । शु॒नम् । की॒नाशाः᳚ । अ॒भीति॑ । य॒न्तु॒ । वा॒हान् ॥ शु॒नम् । प॒र्जन्यः॑ । मधु॑ना । पयो॑भि॒रिति॒ पयः॑ - भिः॒ । शुना॑सीरा । शु॒नम् । अ॒स्मासु॑ । ध॒त्त॒म् ॥ काम᳚म् । का॒म॒दु॒घ॒ इति॑ काम - दु॒घे॒ । धु॒क्ष्व॒ । मि॒त्राय॑ ( ) । वरु॑णाय । च॒ ॥ इन्द्रा॑य । अ॒ग्नये᳚ । पू॒ष्णे । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ॥ घृ॒तेन॑ । सीता᳚ । मधु॑ना । सम॒क्तेति॒ सम् - अ॒क्ता॒ । विश्वैः᳚ । दे॒वैः । अनु॑म॒तेत्यनु॑-म॒ता॒ । म॒रुद्भि॒रिति॑ म॒रुत् -भिः॒ ॥ ऊर्ज॑स्वती । पय॑सा । पिन्व॑माना । अ॒स्मान् । सी॒ते॒ । पय॑सा । अ॒भ्याव॑वृ॒थ्स्वेत्य॑भि - आव॑वृथ्स्व ॥
पदसंख्या: 72