अनुवाकः 8 TS 4.2.8

(A8)

(म॒हो - ऽनु॑ - यातु॒धाना॑ना॒ - मेका॑दश च)

अनुवाकः 8 - Complete Audio

TS 4.2.8 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒भ्य॑स्था॒द्-विश्वाः॒ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒
PS1.2 सोम॑ आह
PS1.3 बृह॒स्पतिः॑ सवि॒ता तन्म॑ आह
PS1.4 पू॒षा मा॑ऽधाथ् सुकृ॒तस्य॑ लो॒के
PS1.5 यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्थ्
PS1.6 स॑मु॒द्रादु॒त वा॒ पुरी॑षात्
PS1.7 श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू
PS1.8 उप॑स्तुतं॒ जनि॑म॒ तत् ते॑
PS1.9 अर्वन्न्
PS1.10 अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानं
PS1.11 वर्द्ध॑मानं म॒ह - [ ]
PS2.1 आ च॒ पुष्क॑रं दि॒वो
PS2.2 मात्र॑या वरि॒णा प्र॑थस्व
PS2.3 ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि
PS2.4 सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः
PS2.5 स बु॒द्ध्निया॑ उप॒मा अ॑स्य
PS2.6 वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑
PS2.7 हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः
PS2.8 पति॒रेक॑ आसीत्
PS2.9 स दा॑धार पृथि॒वीं द्यामु॒तेमां
PS2.10 कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
PS2.11 द्र॒फ्सश्च॑स्कन्द पृथि॒वीमनु॒ - [ ]
PS3.1 -द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑
PS3.2 तृ॒तीयं॒ ॅयोनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒फ्सं
PS3.3 जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚
PS3.4 नमो॑ अस्तु स॒र्पेभ्यो॒ ये
PS3.5 के च॑ पृथि॒वीमनु॑
PS3.6 ये अ॒न्तरि॑क्षे॒ ये दि॒वि
PS3.7 तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑
PS3.8 ये॑ऽदो रो॑च॒ने दि॒वो ये
PS3.9 वा॒ सूर्य॑स्य र॒श्मिषु॑
PS3.10 येषा॑म॒फ्सु सदः॑ कृ॒तं तेभ्यः॑
PS3.11 स॒र्पेभ्यो॒ नमः॑
PS3.12 या इष॑वो यातु॒ धाना॑नां॒
PS3.13 ( ) ॅये॑ वा॒
PS3.14 वन॒स्पतीꣳ॒॒रनु॑
PS3.15 ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑
PS3.16 स॒र्पेभ्यो॒ नमः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.2.8.1 TS 4.2.8.1
अ॒भ्य॑स्था॒द्-विश्वाः॒ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह । बृह॒स्पतिः॑ सवि॒ता तन्म॑ आह पू॒षा मा॑ऽधाथ् सुकृ॒तस्य॑ लो॒के ॥ यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्थ् स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुतं॒ जनि॑म॒ तत् ते॑ अर्वन्न् ॥ अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानं । वर्द्ध॑मानं म॒ह - [ ]
पदपाठः (Word-by-word)
अ॒भीति॑ । अ॒स्था॒त् । विश्वाः᳚ । पृत॑नाः । अरा॑तीः । तत् । अ॒ग्निः । आ॒ह॒ । तत् । उ॒ । सोमः॑ । आ॒ह॒ ॥ बृह॒स्पतिः॑ । स॒वि॒ता । तत् । मे॒ । आ॒ह॒ । पू॒षा । मा॒ । अ॒धा॒त् । सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । लो॒के ॥ यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒द्यन्नित्यु॑त्- यन्न् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ॥ श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उप॑स्तुत॒मित्युप॑ - स्तु॒त॒म् । जनि॑म । तत् । ते॒ । अ॒र्व॒न्न् ॥ अ॒पाम् । पृ॒ष्ठम् । अ॒सि॒ । योनिः॑ । अ॒ग्नेः । स॒मु॒द्रम् । अ॒भितः॑ । पिन्व॑मानम् ॥ वद्‌र्ध॑मानम् । म॒हः ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.2.8.2 TS 4.2.8.2
आ च॒ पुष्क॑रं दि॒वो मात्र॑या वरि॒णा प्र॑थस्व ॥ ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ द्र॒फ्सश्च॑स्कन्द पृथि॒वीमनु॒ - [ ]
पदपाठः (Word-by-word)
एति॑ । च॒ । पुष्क॑रम् । दि॒वः । मात्र॑या । व॒रि॒णा । प्र॒थ॒स्व॒ ॥ ब्रह्म॑ । ज॒ज्ञा॒नम् । प्र॒थ॒मम् । पु॒रस्ता᳚त् । वीति॑ । सी॒म॒तः । सु॒रुच॒ इति॑ सु - रुचः॑ । वे॒नः । आ॒वः॒ ॥ सः । बु॒द्ध्नियाः᳚ । उ॒प॒मा इत्युप॑-माः । अ॒स्य॒ । वि॒ष्ठा इति॑ वि-स्थाः । स॒तः । च॒ । योनि᳚म् । अस॑तः । च॒ । विवः॑ ॥ हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य - ग॒र्भः । समिति॑ । अ॒व॒र्त॒त । अग्रे᳚ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् ॥ सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ द्र॒फ्सः । च॒स्क॒न्द॒ । पृ॒थि॒वीम् । अन्विति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.2.8.3 TS 4.2.8.3
-द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ ॅयोनि॒मनु॑ स॒ञ्चर॑न्तं द्र॒फ्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥ नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒फ्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ या इष॑वो यातु॒ धाना॑नां॒ ( ) ॅये॑ वा॒ वन॒स्पतीꣳ॒॒रनु॑ । ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥
पदपाठः (Word-by-word)
द्याम् । इ॒मम् । च॒ । योनि᳚म् । अन्विति॑ । यः । च॒ । पूर्वः॑ ॥ तृ॒तीय᳚म् । योनि᳚म् । अन्विति॑ । स॒ञ्चर॑न्त॒मिति॑ सं - चर॑न्तम् । द्र॒फ्सम् । जु॒हो॒मि॒ । अन्विति॑ । स॒प्त । होत्राः᳚ ॥ नमः॑ । अ॒स्तु॒ । स॒र्पेभ्यः॑ । ये । के । च॒ । पृ॒थि॒वीम् । अनु॑ ॥ ये । अ॒न्तरि॑क्षे । ये । दि॒वि । तेभ्यः॑ । स॒र्पेभ्यः॑ । नमः॑ ॥ ये । अ॒दः । रो॒च॒ने । दि॒वः । ये । वा॒ । सूर्य॑स्य । र॒श्मिषु॑ ॥ येषा᳚म् । अ॒फ्स्वित्य॑प्- सु । सदः॑ । कृ॒तम् । तेभ्यः॑ । स॒र्पेभ्यः॑ । नमः॑ ॥ याः । इष॑वः । या॒तु॒धाना॑ना॒मिति॑ यातु - धाना॑नाम् ( ) । ये । वा॒ । वन॒स्पतीन्॑ । अनु॑ ॥ ये । वा॒ । अ॒व॒टेषु॑ । शेर॑ते । तेभ्यः॑ । स॒र्पेभ्यः॑ । नमः॑ ॥
पदसंख्या: 61