पञ्चशत् 1 #
मा नो॑ हिꣳसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवꣳ॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तोऽव॑ सर्पतु ॥ अग्ने॒ यत् ते॑ शु॒क्रं ॅयच्च॒न्द्रं ॅयत् पू॒तं ॅयद्-य॒ज्ञियं᳚ । तद्-दे॒वेभ्यो॑ भरामसि ॥ इष॒मूर्ज॑म॒हमि॒त आ - [ ]
पदपाठः (Word-by-word)
मा । नः॒ । हिꣳ॒॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव᳚म् । स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । ज॒जान॑ ॥ यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ अ॒भ्याव॑र्त॒स्वेत्य॑भि - आव॑र्तस्व । पृ॒थि॒वि॒ । य॒ज्ञेन॑ । पय॑सा । स॒ह ॥ व॒पाम् । ते॒ । अ॒ग्निः । इ॒षि॒तः । अवेति॑ । स॒र्प॒तु॒ ॥ अग्ने᳚ । यत् । ते॒ । शु॒क्रम् । यत् । च॒न्द्रम् । यत् । पू॒तम् । यत् । य॒ज्ञिय᳚म् ॥ तत् । दे॒वेभ्यः॑ । भ॒रा॒म॒सि॒ ॥ इष᳚म् । ऊर्ज᳚म् । अ॒हम् । इ॒तः । एति॑ ।