पञ्चशत् 1 #
विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हा गा॑य॒त्रं छन्द॒ आ रो॑ह पृथि॒वीमनु॒ विक्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यभिशस्ति॒हा त्रैष्टु॑भं॒ छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ विक्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो᳚ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आ रो॑ह॒ दिव॒मनु॒ विक्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ - [ ]
पदपाठः (Word-by-word)
विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । गा॒य॒त्रम् । छन्दः॑ । एति॑ । रो॒ह॒ । पृ॒थि॒वीम् । अनु॑ । वीति॑ । क्र॒म॒स्व॒ । निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒श॒स्ति॒हेत्य॑भिशस्ति - हा । त्रैष्टु॑भम् । छन्दः॑ । एति॑ । रो॒ह॒ । अ॒न्तरि॑क्षम् । अनु॑ । वीति॑ । क्र॒म॒स्व॒ । निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒रा॒ती॒य॒तः । ह॒न्ता । जाग॑तम् । छन्दः॑ । एति॑ । रो॒ह॒ । दिव᳚म् । अनु॑ । वीति॑ । क्र॒म॒स्व॒ । निर्भ॑क्त॒ इति॒ निः - भ॒क्तः॒ । सः । यम् । द्वि॒ष्मः । विष्णोः᳚ ।