अनुवाकः 3 TS 4.2.3

(A3)

(आ - तवो॒ - र्जाऽ - नु॒ - षोड॑श च)

अनुवाकः 3 - Complete Audio

TS 4.2.3 - स्वरानुगामी

0:00 0:00
PS1.1 अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑
PS1.2 प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑
PS1.3 नो धेहि द्वि॒पदे॒ चतु॑ष्पदे
PS1.4 उदु॑ त्वा॒ विश्वे॑ दे॒वा
PS1.5 अग्ने॒ भर॑न्तु॒ चित्ति॑भिः
PS1.6 स नो॑ भव शि॒वत॑मः
PS1.7 सु॒प्रती॑को वि॒भाव॑सुः
PS1.8 प्रेद॑ग्ने॒ ज्योति॑ष्मान्. याहि शि॒वेभि॑र॒र्चि॑भि॒स्त्वं
PS1.9 बृ॒हद्भि॑-र्भा॒नुभि॒-र्भास॒न् मा हिꣳ॑सी स्त॒नुवा᳚ प्र॒जाः
PS1.10 स॒मिधा॒ऽग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं
PS1.11 आ - [ ]
PS2.1 ऽस्मि॑न्. ह॒व्या जु॑होतन
PS2.2 प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ्
PS2.3 सूर्यो॒ न रोच॑ते बृ॒हद्भाः
PS2.4 अ॒भि यः पू॒रुं पृत॑नासु
PS2.5 त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः
PS2.6 शि॒वो नः॑
PS2.7 आपो॑ देवीः॒ प्रति॑ गृह्णीत॒
PS2.8 भस्मै॒तथ् स्यो॒ने कृ॑णुद्ध्वꣳ सुर॒भावु॑
PS2.9 लो॒के
PS2.10 तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी᳚र्मा॒तेव॑
PS2.11 पु॒त्रं बि॑भृ॒ता स्वे॑नं
PS2.12 अ॒फ्स्व॑ग्ने॒ सधि॒ष्टव॒- [ ]
PS3.1 सौष॑धी॒रनु॑ रुद्ध्यसे
PS3.2 गर्भे॒ सञ्जा॑यसे॒ पुनः॑
PS3.3 गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नां
PS3.4 गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि
PS3.5 प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने
PS3.6 सꣳ॒॒सृज्य॑ मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न् पुन॒राऽस॑दः
PS3.7 पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने
PS3.8 शेषे॑ मा॒तुर्यथो॒पस्थे॒ ऽन्तर॒स्याꣳ शि॒वत॑मः
PS3.9 पुन॑रू॒र्जा - [ ]
PS4.1 -नि व॑र्तस्व॒ पुन॑रग्न इ॒षा ऽऽयु॑षा
PS4.2 पुन॑र्नः पाहि वि॒श्वतः॑
PS4.3 स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒
PS4.4 पिन्व॑स्व॒ धार॑या
PS4.5 वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑
PS4.6 पुन॑स्त्वा ऽऽदि॒त्या रु॒द्रा वस॑वः॒
PS4.7 समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञिः
PS4.8 घृ॒तेन॒ त्वं त॒नुवो॑ वर्द्धयस्व
PS4.9 स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚
PS4.10 बोधा॑ नो अ॒स्य वच॑सो
PS4.11 यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः
PS4.12 पीय॑ति त्वो॒ अनु॑ (
PS4.13 ) त्वो गृणाति व॒न्दारु॑स्ते
PS4.14 त॒नुवं॑ ॅवन्दे अग्ने
PS4.15 स बो॑धि सू॒रिर्म॒घवा॑ वसु॒दावा॒ वसु॑पतिः
PS4.16 यु॒यो॒द्ध्य॑स्मद् द्वेषाꣳ॑सि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.2.3.1 TS 4.2.3.1
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ प्रेद॑ग्ने॒ ज्योति॑ष्मान्. याहि शि॒वेभि॑र॒र्चि॑भि॒स्त्वं । बृ॒हद्भि॑-र्भा॒नुभि॒-र्भास॒न् मा हिꣳ॑सी स्त॒नुवा᳚ प्र॒जाः ॥ स॒मिधा॒ऽग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिं । आ - [ ]
पदपाठः (Word-by-word)
अन्न॑पत॒ इत्यन्न॑ - प॒ते॒ । अन्न॑स्य । नः॒ । दे॒हि॒ । अ॒न॒मी॒वस्य॑ । शु॒ष्मिणः॑ ॥ प्रेति॑ । प्र॒दा॒तार॒मिति॑ प्र - दा॒तार᳚म् । ता॒रि॒षः॒ । ऊर्ज᳚म् । नः॒ । धे॒हि॒ । द्वि॒पद॒ इति॑ द्वि - पदे᳚ । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ॥ उदिति॑ । उ॒ । त्वा॒ । विश्वे᳚ । दे॒वाः । अग्ने᳚ । भर॑न्तु । चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ ॥ सः । नः॒ । भ॒व॒ । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । सु॒प्रती॑क॒ इति॑ सु - प्रती॑कः । वि॒भाव॑सु॒रिति॑ वि॒भा-व॒सुः॒ ॥ प्रेति॑ । इत् । अ॒ग्ने॒ । ज्योति॑ष्मान् । या॒हि॒ । शि॒वेभिः॑ । अ॒र्चिभि॒रित्य॒र्चि - भिः॒ । त्वम् ॥ बृ॒हद्भि॒रिति॑ बृ॒हत् - भिः॒ । भा॒नुभि॒रिति॑ भा॒नु - भिः॒ । भासन्न्॑ । मा । हिꣳ॒॒सीः॒ । त॒नुवा᳚ । प्र॒जा इति॑ प्र - जाः ॥ स॒मिधेति॑ सं - इधा᳚ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् ॥ एति॑ ।
पदसंख्या: 50
पञ्चशत् 2 #
TS 4.2.3.2 TS 4.2.3.2
ऽस्मि॑न्. ह॒व्या जु॑होतन ॥ प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यथ् सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑ ॥ आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तथ् स्यो॒ने कृ॑णुद्ध्वꣳ सुर॒भावु॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी᳚र्मा॒तेव॑ पु॒त्रं बि॑भृ॒ता स्वे॑नं ॥ अ॒फ्स्व॑ग्ने॒ सधि॒ष्टव॒- [ ]
पदपाठः (Word-by-word)
अ॒स्मि॒न्न् । ह॒व्या । जु॒हो॒त॒न॒ ॥ प्रप्रेति॒ प्र - प्र॒ । अ॒यम् । अ॒ग्निः । भ॒र॒तस्य॑ । शृ॒ण्वे॒ । वीति॑ । यत् । सूर्यः॑ । न । रोच॑ते । बृ॒हत् । भाः ॥ अ॒भीति॑ । यः । पू॒रुम् । पृत॑नासु । त॒स्थौ । दी॒दाय॑ । दैव्यः॑ । अति॑थिः । शि॒वः । नः॒ ॥ आपः॑ । दे॒वीः॒ । प्रतीति॑ । गृ॒ह्णी॒त॒ । भस्म॑ । ए॒तत् । स्यो॒ने । कृ॒णु॒द्ध्व॒म् । सु॒र॒भौ । उ॒ । लो॒के ॥ तस्मै᳚ । न॒म॒न्ता॒म् । जन॑यः । सु॒पत्नी॒रिति॑ सु - पत्नीः᳚ । मा॒ता । इ॒व॒ । पु॒त्रम् । बि॒भृ॒त । स्विति॑ । ए॒न॒म् ॥ अ॒फ्स्वित्य॑प् - सु । अ॒ग्ने॒ । सधिः॑ । तव॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 4.2.3.3 TS 4.2.3.3
सौष॑धी॒रनु॑ रुद्ध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ॥ गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नां । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ॥ प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । सꣳ॒॒सृज्य॑ मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न् पुन॒राऽस॑दः ॥ पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ ऽन्तर॒स्याꣳ शि॒वत॑मः ॥ पुन॑रू॒र्जा - [ ]
पदपाठः (Word-by-word)
सः । ओष॑धीः । अन्विति॑ । रु॒द्ध्य॒से॒ ॥ गर्भे᳚ । सन्न् । जा॒य॒से॒ । पुनः॑ ॥ गर्भः॑ । अ॒सि॒ । ओष॑धीनाम् । गर्भः॑ । वन॒स्पती॑नाम् ॥ गर्भः॑ । विश्व॑स्य । भू॒तस्य॑ । अग्ने᳚ । गर्भः॑ । अ॒पाम् । अ॒सि॒ ॥ प्र॒सद्येति॑ प्र - सद्य॑ । भस्म॑ना । योनि᳚म् । अ॒पः । च॒ । पृ॒थि॒वीम् । अ॒ग्ने॒ ॥ सꣳ॒॒सृज्येति॑ सं - सृज्य॑ । मा॒तृभि॒रिति॑ मा॒तृ - भिः॒ । त्वम् । ज्योति॑ष्मान् । पुनः॑ । एति॑ । अ॒स॒दः॒ ॥ पुनः॑ । आ॒सद्येत्या᳚-सद्य॑ । सद॑नम् । अ॒पः । च॒ । पृ॒थि॒वीम् । अ॒ग्ने॒ ॥ शेषे᳚ । मा॒तुः । यथा᳚ । उ॒पस्थ॒ इत्यु॒प - स्थे॒ । अ॒न्तः । अ॒स्याम् । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ ॥ पुनः॑ । ऊ॒र्जा ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 4.2.3.4 TS 4.2.3.4
-नि व॑र्तस्व॒ पुन॑रग्न इ॒षा ऽऽयु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥ पुन॑स्त्वा ऽऽदि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञिः । घृ॒तेन॒ त्वं त॒नुवो॑ वर्द्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ बोधा॑ नो अ॒स्य वच॑सो यविष्ठ॒ मꣳहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ ( ) त्वो गृणाति व॒न्दारु॑स्ते त॒नुवं॑ ॅवन्दे अग्ने ॥ स बो॑धि सू॒रिर्म॒घवा॑ वसु॒दावा॒ वसु॑पतिः । यु॒यो॒द्ध्य॑स्मद् द्वेषाꣳ॑सि ॥
पदपाठः (Word-by-word)
नीति॑ । व॒र्त॒स्व॒ । पुनः॑ । अ॒ग्ने॒ । इ॒षा । आयु॑षा ॥ पुनः॑ । नः॒ । पा॒हि॒ । वि॒श्वतः॑ ॥ स॒ह । र॒य्या । नीति॑ । व॒र्त॒स्व॒ । अग्ने᳚ । पिन्व॑स्व । धार॑या ॥ वि॒श्वफ्स्नि॒येति॑ वि॒श्व - फ्स्नि॒या॒ । वि॒श्वतः॑ । परि॑ ॥ पुनः॑ । त्वा॒ । आ॒दि॒त्याः । रु॒द्राः । वस॑वः । समिति॑ । इ॒न्ध॒ता॒म् । पुनः॑ । ब्र॒ह्माणः॑ । व॒सु॒नी॒थेति॑ वसु-नी॒थ॒ । य॒ज्ञिः ॥ घृ॒तेन॑ । त्वम् । त॒नुवः॑ । व॒द्‌र्ध॒य॒स्व॒ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः᳚ ॥ बोध॑ । नः॒ । अ॒स्य । वच॑सः । य॒वि॒ष्ठ॒ । मꣳहि॑ष्ठस्य । प्रभृ॑त॒स्येति॒ प्र - भृ॒त॒स्य॒ । स्व॒धा॒व॒ इति॑ स्वधा - वः॒ ॥ पीय॑ति । त्वः॒ । अन्विति॑ ( ) । त्वः॒ । गृ॒णा॒ति॒ । व॒न्दारुः॑ । ते॒ । त॒नुव᳚म् । व॒न्दे॒ । अ॒ग्ने॒ ॥ सः । बो॒धि॒ । सू॒रिः । म॒घवेति॑ म॒घ - वा॒ । व॒सु॒दावेति॑ वसु - दावा᳚ । वसु॑पति॒रिति॒ वसु॑ - प॒तिः॒ ॥ यु॒यो॒धि । अ॒स्मत् । द्वेषाꣳ॑सि ॥
पदसंख्या: 66