पञ्चशत् 1 #
गा॒य॒त्री त्रि॒ष्टुब् जग॑त्यनु॒ष्टुक् प॒ङ्क्त्या॑ स॒ह । बृ॒ह॒त्यु॑ष्णिहा॑ क॒कुथ् सू॒चीभिः॑ शिम्यन्तु त्वा ॥द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ याच॒ षट्प॑दा । सछ॑न्दा॒ या च॒ विच्छ॑न्दाः सू॒चीभिः॑ शिम्यन्तु त्वा ॥म॒हाना᳚म्नी रे॒वत॑यो॒ विश्वा॒ आशाः᳚ प्र॒सूव॑रीः । मेघ्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शिम्यन्तु त्वा ॥र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः । अश्व॑स्य वा॒जिन॑स्त्व॒चि सू॒चीभिः॑ शिम्यन्तु त्वा ॥ नारी᳚ - [ ]
पदपाठः (Word-by-word)
गा॒य॒त्री । त्रि॒ष्टुप् । जग॑ती । अ॒नु॒ष्टुगित्य॑नु-स्तुक् । प॒ङ्क्त्या᳚ । स॒ह ॥ बृ॒ह॒ती । उ॒ष्णिहा᳚ । क॒कुत् । सू॒चीभिः॑ । शि॒म्य॒न्तु॒ । त्वा॒ ॥ द्वि॒पदेति॑ द्वि - पदा᳚ । या । चतु॑ष्प॒देति॒ चतुः॑ - प॒दा॒ । त्रि॒पदेति॑ त्रि - पदा᳚ । या । च॒ । षट्प॒देति॒ षट् - प॒दा॒ ॥ सछ॑न्दा॒ इति॒ स - छ॒न्दाः॒ । या । च॒ । विच्छ॑न्दा॒ इति॒ वि - छ॒न्दाः॒ । सू॒चीभिः॑ । शि॒म्य॒न्तु॒ । त्वा॒ ॥ म॒हाना᳚म्नी॒रिति॑ म॒हा - ना॒म्नीः॒ । रे॒वत॑यः । विश्वाः᳚ । आशाः᳚ । प्र॒सूव॑री॒रिति॑ प्र - सूव॑रीः ॥ मेघ्याः᳚ । वि॒द्युत॒ इति॑ वि - द्युतः॑ । वाचः॑ । सू॒चीभिः॑ । शि॒म्य॒न्तु॒ । त्वा॒ ॥ र॒ज॒ताः । हरि॑णीः । सीसाः᳚ । युजः॑ । यु॒ज्य॒न्ते॒ । कर्म॑भि॒रिति॒ कर्म॑ - भिः॒ ॥ अश्व॑स्य । वा॒जिनः॑ । त्व॒चि । सू॒चीभिः॑ । शि॒म्य॒न्तु॒ । त्वा॒ ॥ नारीः᳚ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ अश्वमेधं काण्डं वैश्वदेवं तत्र संज्ञप्तस्याश्वस्य पत्न्यः सूचिभिः असिपथान् कल्पयन्ति गायत्रीत्रिष्टुबित्यादिभिः ॥ असिमार्गकल्पनं सुखविशसनार्थम् । तत्र महिषी सौवर्णीभिः सूचिभिः प्राक्क्रोडादसिपथान् कल्पयति प्रथमाभ्याम् । अथ राजतीभिः सूचीभिः वावाता प्रत्यक्क्रोडान् प्राङ्नाभेरुत्तराभ्याम् । अथोत्तराभ्यां लौहितीभिः सूचीभिः परिवृक्ती वेषमार्गं कल्पयति । सर्वश्चायमानुष्टुभोऽनुवाकः । कुविदङ्गेति त्रिष्टुप् । तत्र प्रथमा - जगत्यन्तः प्रथमः पादः । गायत्र्यादीनि छन्दांसि पङ्क्त्या सहितानि बृहती चोष्णिहा ककुप्च । उष्णिहाशब्द आकारान्तोप्यस्ति । यद्वा - उष्णिहा सहिता बृहती ककुप्च ककुदतिच्छन्दाः । तेन सर्वाणि छन्दांसि गृह्यन्ते इत्येकेन उष्णिग्विशेषेण ककुद्ग्रहणम् । यथोक्तम् 'मध्ये चेद्द्वादशाक्षरः ककुदुष्णिक्' इति । एतेनैव सर्वाणि छन्दांसि गृह्यन्ते इति तानि सर्वाणि छन्दांसि त्वां संशमयन्तु । शम्यतिः छान्दसः शमयतिकर्मा शमितृव्यापारमाचष्टे । विशसनकाले भविष्यतामसिपथानां प्रतिपथः छन्दः प्रतिरेव (?) शमितृत्वेन वर्तमाने कल्पितात् विशसनकाले दुःखं न भविष्यतीते प्रयोजनम् ॥
2 अथ द्वितीया - द्विपदा गायत्र्यादिः या च चतुष्पादा या च त्रिपदा । यथोक्तम् - 'एकद्वित्रिचतुष्पादुक्तपादं' इति या च । षट्पदा जगती, प्रदर्शनमात्रमिदं; तेन पञ्चपदा पङ्क्तिः सप्तपदा शक्वरी च गृह्यते । या च सछन्दा उक्ताद्युत्कृत्यन्तछन्दोलक्षणवती या च विछन्दाः छन्दोलक्षणरहिता देवानां गायत्र्यादिकाश्च सर्वास्त्वां सूचीभिः शिम्यन्तु शमयन्तु ॥
3 अथ तृतीया - महानाम्नीः महानाम्नी अत्रपूजितनामधेया । 'अन उपधालोपिनः' इति दीर्घः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । रेवतयः धनवत्यः । 'रयेर्मतौ बहुलम्' इति संप्रसारणम् । 'रेशब्दाच्च' इति मतुप उदात्तत्वम् । छान्दसं ञीपो ह्रस्वत्वम् । पदद्वयेन देवताविशेषा उच्यन्ते । आशानामेव विशेषणं सर्वा दिशः प्रसूवरीः प्रसवनशीलाः । 'अन्येभ्योपि दृश्यते' इति क्वनिप् । 'वनोरच' इति ञीब्रेफौ । पूर्वसवर्णदीर्घत्वम् । मेध्याः मेधेषु भवाः वाचः स्तनयित्नुशब्दो विद्युतश्च सूचीभिः शिम्यन्तु त्वा । गतम् ॥
4 चतुर्थी - सीसान्तुः प्रथमपादः । रजता रूप्यमय्यः हरिणीः हरिण्यः सौवर्ण्यः सीसाः आयस्याः युजः संहिताः कर्मसु योग्याः अत एव च कर्मभिः युज्यन्ते ईदृशीभिः सूचिभिः शिम्यन्तु त्वा । के ये अश्वस्य वेगवतो वाजिनः अन्नवतः तव त्वचि विशसनाय प्रवर्तन्ते । अस्यादयश्शमित्रादयो वा । यद्वा - सूचीभिः इति विभक्तिव्यत्ययः ईदृश्यः सूच्यः त्वां शिम्यन्तु इति ॥
5 पञ्चमी - लोमान्तः प्रथमपादः । नारीः नार्यः । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । पत्नयः पन्त्यः । महिषी वावाता परिवृक्ती राज्ञः पन्त्यः सर्वा एव पतिव्रताः । पूर्ववद्ध्रस्वत्वम् । लोम लोमानि जातावेकवचनम् । 'सुपां सुलुक्' इति वा द्वितीयाबहुवचनस्य लुक् । विचिन्वन्तु असिमार्गेभ्यो उपनयन्तु मनीषया स्वाभिप्रायेण देवानां पत्न्यः इन्द्राण्यादयश्च दिशः प्राच्यादयश्च प्राच्यादिव्यवस्थिताः मनुष्याश्चेत्यर्थः । सूचीभिरित्यादि गतम् ॥
6 षष्ठी - कुविदङ्गेति व्याख्यातेयं 'स्वाद्वीं त्वा' इत्यत्र । प्रसिद्धमेवैतत् - यथा यवादिबहुधान्यवन्तो यवादीन् सहोत्पद्यमानान् अनुपूर्वं परिपाट्या पृथक्कृत्य दान्ति लुनन्ती पृथक्त्वेन स्थापतन्ति परस्परं कुण्डपलालादिभ्यो वा तुषकणादिभ्यो वा पृथक्कृत्य शोधयन्ति तथा यूयमपि हे अस्यादय तेषां भोजनानि कृणुत अस्याद्युद्भ्रम्य तुषादिकं पृथक्कृत्य भोक्तव्यानि स्वादूनि कुरुत । इहेह स्थाने लोके वा केषां ये बर्हिषो यज्ञस्य वा नमोवृक्तिं नमस्कारनाशं न जग्मुः न गता अस्माकमुपकारिणः तेषां कृणुत । ये पुनर्नाशयन्ति ते तु अनेन विनाश्यन्तामिति ॥
इति पञ्चमे द्वितीये एकादशोनुवाकः ॥