अनुवाकः 12 TS 5.2.12

(A12)

(विलि॑ष्टं - त्रिꣳ॒॒शच्च॑)

अनुवाकः 12 - Complete Audio

TS 5.2.12 - स्वरानुगामी

0:00 0:00
PS1.1 कस्त्वा᳚ च्छ्यति॒ कस्त्वा॒ वि
PS1.2 शा᳚स्ति॒ कस्ते॒ गात्रा॑णि शिम्यति
PS1.3 क उ॑ ते शमि॒ता क॒विः
PS1.4 ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ विशा॑सतु
PS1.5 सं॒ॅव॒थ्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा
PS1.6 दैव्या॑ अद्ध्व॒र्यव॑स्त्वा॒ च्छ्यन्तु॒ वि
PS1.7 च॑ शासतु
PS1.8 गात्रा॑णि पर्व॒शस्ते॒ शिमाः᳚ कृण्वन्तु॒ शिम्य॑न्तः
PS1.9 अ॒र्द्ध॒मा॒साः परूꣳ॑षि ते॒ मासाः᳚
PS1.10 छ्यन्तु॒ शिम्य॑न्तः
PS1.11 अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टꣳ -
PS1.12 [ ]
PS2.1 सूदयन्तु ते
PS2.2 पृ॒थि॒वी ते॒ ऽन्तरि॑क्षेण वा॒युश्छि॒द्रं भि॑षज्यतु
PS2.3 द्यौस्ते॒ नक्ष॑त्रैः स॒ह रू॒पं
PS2.4 कृ॑णोतु साधु॒या
PS2.5 शं ते॒ परे᳚भ्यो॒ गात्रे᳚भ्यः॒ शम॒स्त्वव॑रेभ्यः
PS2.6 शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते
PS2.7 त॒नुवे॑ भुवत्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.2.12.1 TS 5.2.12.1
कस्त्वा᳚ च्छ्यति॒ कस्त्वा॒ वि शा᳚स्ति॒ कस्ते॒ गात्रा॑णि शिम्यति । क उ॑ ते शमि॒ता क॒विः ॥ ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ विशा॑सतु । सं॒ॅव॒थ्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा ॥दैव्या॑ अद्ध्व॒र्यव॑स्त्वा॒ च्छ्यन्तु॒ वि च॑ शासतु । गात्रा॑णि पर्व॒शस्ते॒ शिमाः᳚ कृण्वन्तु॒ शिम्य॑न्तः ॥अ॒र्द्ध॒मा॒साः परूꣳ॑षि ते॒ मासाः᳚ छ्यन्तु॒ शिम्य॑न्तः । अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टꣳ - [ ]
पदपाठः (Word-by-word)
कः । त्वा॒ । छ्य॒ति॒ । कः । त्वा॒ । वीति॑ । शा॒स्ति॒ । कः । ते॒ । गात्रा॑णि । शि॒म्य॒ति॒ ॥ कः । उ॒ । ते॒ । श॒मि॒ता । क॒विः ॥ ऋ॒तवः॑ । ते॒ । ऋ॒तु॒धेत्यृ॑तु - धा । परुः॑ । श॒मि॒तारः॑ । वीति॑ । शा॒स॒तु॒ ॥ सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । धाय॑सा । शिमी॑भिः । शि॒म्य॒न्तु॒ । त्वा॒ ॥ दैव्याः᳚ । अ॒द्ध्व॒र्यवः॑ । त्वा॒ । छ्यन्तु॑ । वीति॑ । च॒ । शा॒स॒तु॒ ॥ गात्रा॑णि । प॒र्व॒श इति॑ पर्व - शः । ते॒ । शिमाः᳚ । कृ॒ण्व॒न्तु॒ । शिम्य॑न्तः ॥ अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । परूꣳ॑षि । ते॒ । मासाः᳚ । छ्य॒न्तु॒ । शिम्य॑न्तः ॥ अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । म॒रुतः॑ । विलि॑ष्ट॒मिति॒ वि - लि॒ष्ट॒म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ अश्वं विशसति कस्त्वाछ्यतीत्यनुवाकेन ॥ अयमपि सर्व आनुष्टुभोनुवाकः । प्रथमा गायत्री । कः प्रजापतिः स एव त्वा छ्यति छिनत्ति स एव योग्य इति । छो छेदने, 'ओतश्श्यनि' इत्योकारलोपः । क एव त्वां विशास्ति विशसतीत्यनया भूयुक्तं करोति । विपूर्वश्शास्तिर्विशसने । यद्वा - शसु हिंसायां इत्यस्य 'बहुलं छन्दसि' इति शपो लुक्, वर्णव्यत्ययेन अकारः । क एव ते तव गात्राणि शिम्यति शमयति सुखेन विशसति । यद्वा - अविनाशेन अङ्गानि विशस्य स्थापयति । यस्मादेवं तस्मात् क एव शमिता शमयिता कविः मेधावी अवयवविभागज्ञः । 'शमिता यज्ञे' इति ण्यन्तस्य निपात्यते ॥
2 अथ द्वितीया - ऋतवो वसन्तादयः ते तव शमितारो भूत्वा ऋतुधा ऋतावृतौ तत्तदृत्वनुरूपं कालेकाले वा । वीप्सायां छान्दसो धाप्रत्ययः । परुः परूंषि पर्वाणि विशासतु विशसन्तु । यद्वा - परुरिति वीप्स्यते । परुः पर्वविभागेनेत्यर्थः । संवत्सरस्य धायसा साधारण्येन तदधीनत्वात्तेषां शिमीभिः विशसनकर्मभिः हविर्भागादानसमर्थाभिः शिम्यन्तु ऋतवः । 'वहिहाधाम्नीभ्यः छन्दसि' इति दधातेरसुन् । णिदिति हि तत्रानुवर्तते । शिम्यतेः 'इन् सर्वधातुभ्यः' इतीन्प्रत्ययः, छान्दसं दीर्घत्वम् ॥
3 तृतीया - दैव्याः दिव्याः । 'देवाद्ययञौ' इति यञ् । अध्वर्युः अध्वरस्य नेता । क्यचि 'कव्यध्वरपृतनस्यर्चि' इति लोपः 'क्याच्छन्दसि' इति उप्रत्ययः । त्वा छ्यन्तु संविशसन्तु च । ते तव गात्राणि पर्वशः । 'संख्यैकवचनाच्च' इति शस् । विशसनसमर्थाः ते दैव्या अध्वर्यवः शिम्यन्तः शमयन्तः कृण्वन्तु पर्वशः कुर्वन्तु ॥
4 चतुर्थी - अर्धमासाः परूंषि पर्वाणि पूर्णमासादयो मासाश्च छ्यन्तु छेदनेन त्वा हविः कुर्वन्तु शिम्यन्तः शमयन्तः । यद्वा - अर्धमासाश्च तव परूंषि अवयवान् शिम्यन्तु छ्यन्तु अहोरात्राणि मरुतश्च ते विलिष्टं विनाशितं विश्लिश्टं वा सूदयन्तु क्षारयन्तु स्वादुकुर्वन्तु वा । यद्वा - यद्विलिष्टं यागायोग्यं यद्विरूपं विशसितं तद्विनाशयन्तु ॥
5 पञ्चमी - पृथिवी अन्तरिक्षेण सहितो वायुश्च तव छिद्रं विनष्टं भिषज्यतु अविनष्टं करोतु । द्यौरपि नक्षत्रैस्सह तव रूपं कृणोतु साधु । द्वितीयाया याजादेशः । यागासाधनं कुर्वन्त्विति ॥
6 षष्ठी - ते तव परेभ्यो गात्रेभ्यः हविष्ट्वं प्रतिपाद्यमानेभ्यः शं सुखमस्तु । अवरेभ्यः हविष्ट्वं प्रतिपाद्यमानेभ्यश्च शमस्तु । अस्थभ्यः अस्थिभ्यश्च शमस्तु । 'छन्दस्यपि दृश्यते' इत्यनङ् । मज्जभ्यश्च शमस्तु । किं बहुना ते तव तनुवः शरीरस्य शं सुखमेव भुवत् भवतु । तनूशब्द ऊकारान्तोप्यस्ति । भवतेर्लेट् 'बहुलं छन्दसि' इति शपो लुक् 'लेटोडाटौ' इत्यडागमः 'भूसुवोस्तिङि' इति गुणाभावः ॥
इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये पञ्चमे काण्डे द्वितीयप्रश्ने द्वादशोनुवाकः ॥

समाप्तो द्वितीयप्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-3

पञ्चशत् 2 #
TS 5.2.12.2 TS 5.2.12.2
सूदयन्तु ते ॥ पृ॒थि॒वी ते॒ ऽन्तरि॑क्षेण वा॒युश्छि॒द्रं भि॑षज्यतु । द्यौस्ते॒ नक्ष॑त्रैः स॒ह रू॒पं कृ॑णोतु साधु॒या ॥ शं ते॒ परे᳚भ्यो॒ गात्रे᳚भ्यः॒ शम॒स्त्वव॑रेभ्यः । शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते त॒नुवे॑ भुवत् ॥
पदपाठः (Word-by-word)
सू॒द॒य॒न्तु॒ । ते॒ ॥ पृ॒थि॒वी । ते॒ । अ॒न्तरि॑क्षेण । वा॒युः । छि॒द्रम् । भि॒ष॒ज्य॒तु॒ ॥ द्यौः । ते॒ । नक्ष॑त्रैः । स॒ह । रू॒पम् । कृ॒णो॒तु॒ । सा॒धु॒या ॥ शम् । ते॒ । परे᳚भ्यः । गात्रे᳚भ्यः । शम् । अ॒स्तु॒ । अव॑रेभ्यः ॥ शम् । अ॒स्थभ्य॒ इत्य॒स्थ - भ्यः॒ । म॒ज्जभ्य॒ इति॑ म॒ज्ज - भ्यः॒ । शम् । उ॒ । ते॒ । त॒नुवे᳚ । भु॒व॒त् ॥
पदसंख्या: 30