अनुवाकः 8 TS 5.2.8

(A8)

(ए॒ष वै - प॒शु - र्य - म॑सर्प - दे॒ष यत् - तस्मा॒त् - तस्मा᳚थ् - स॒प्तविꣳ॑शतिश्च)

अनुवाकः 8 - Complete Audio

TS 5.2.8 - स्वरानुगामी

0:00 0:00
PS1.1 स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं ॅवै स्व॑यमातृ॒ण्णेमामे॒वोप॑
PS1.2 ध॒त्ते ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚
PS1.3 दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑
PS1.4 प्र॒जाप॑तिनै॒वाऽग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां
PS1.5 च॒ यज॑मानस्य च प्रा॒णमपि॑
PS1.6 दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒
PS1.7 अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑
PS1.8 इत्या॑हुरे॒ष वा - [
PS1.9 ]
PS2.1 अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒णस्तस्मै᳚ प्रथ॒मामिष्ट॑कां॒ ॅयजु॑ष्कृतां॒
PS2.2 प्रय॑च्छे॒त् तां ब्रा᳚ह्म॒णश्चोप॑ दद्ध्याता-म॒ग्नावे॒व
PS2.3 तद॒ग्निं चि॑नुत ईश्व॒रो वा
PS2.4 ए॒ष आर्ति॒मार्तो॒र्यो-ऽवि॑द्वा॒निष्ट॑का-मुप॒दधा॑ति॒ त्रीन्. वरा᳚न्
PS2.5 दद्या॒त् त्रयो॒ वै प्रा॒णाः
PS2.6 प्रा॒णानाꣳ॒॒ स्पृत्यै॒ द्वावे॒व देयौ॒
PS2.7 द्वौ हि प्रा॒णावेक॑ ए॒व
PS2.8 देय॒ एको॒ हि प्रा॒णः
PS2.9 प॒शु - [ ]
PS3.1 -र्वा ए॒ष यद॒ग्निर्न खलु॒
PS3.2 वै प॒शव॒ आय॑वसे रमन्ते
PS3.3 दूर्वेष्ट॒कामुप॑ दधाति पशू॒नां धृत्यै॒
PS3.4 द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ काण्डा᳚त् काण्डात्
PS3.5 प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा
PS3.6 नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण
PS3.7 श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः
PS3.8 प्र॒जाप॑ते॒राप्त्यै॑ देवल॒क्ष्मं ॅवै त्र्या॑लिखि॒ता
PS3.9 तामुत्त॑रलक्ष्माणं दे॒वा उपा॑दध॒ता-ध॑रलक्ष्माण॒-मसु॑रा॒ यं
PS3.10 - [ ]
PS4.1 का॒मये॑त॒ वसी॑यान्थ् स्या॒दित्युत्त॑रलक्ष्माणं॒ तस्योप॑
PS4.2 दद्ध्या॒द्-वसी॑याने॒व भ॑वति॒ यं का॒मये॑त॒
PS4.3 पापी॑यान्थ् स्या॒दित्यध॑रलक्ष्माणं॒ तस्योप॑ दद्ध्यादसुरयो॒नि-मे॒वैन॒मनु॒
PS4.4 परा॑ भावयति॒ पापी॑यान् भवति
PS4.5 त्र्यालिखि॒ता भ॑वती॒मे वै लो॒कास्त्र्या॑लिखि॒तैभ्य
PS4.6 ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्यङ्गि॑रसः सुव॒र्गं
PS4.7 ॅलो॒कं ॅय॒तः पु॑रो॒डाशः॑ कू॒र्मो
PS4.8 भू॒त्वाऽनु॒ प्रास॑र्प॒ - [
PS4.9 ]
PS5.1 -द्यत् कू॒र्ममु॑प॒दधा॑ति॒ यथा᳚ क्षेत्र॒विदञ्ज॑सा॒
PS5.2 नय॑त्ये॒वमे॒वैनं॑ कू॒र्मः सु॑व॒र्गं ॅलो॒कमञ्ज॑सा
PS5.3 नयति॒ मेधो॒ वा ए॒ष
PS5.4 प॑शू॒नां ॅयत् कू॒र्मो यत्
PS5.5 कू॒र्ममु॑प॒ दधा॑ति॒ स्वमे॒व मेधं॒
PS5.6 पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते
PS5.7 श्मशा॒नं ॅवा ए॒तत् क्रि॑यते॒
PS5.8 यन्मृ॒तानां᳚ पशू॒नाꣳ शी॒र्॒.षाण्यु॑पधी॒यन्ते॒ यज्जीव॑न्तं
PS5.9 कू॒र्ममु॑प॒ दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा
PS5.10 ए॒ष यत् - [
PS5.11 ]
PS6.1 कू॒र्मो मधु॒ वाता॑ ऋताय॒त
PS6.2 इति॑ द॒द्ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैनं॑
PS6.3 ग्रा॒म्यं ॅवा ए॒तदन्नं॒ ॅयद्-दद्ध्या॑र॒ण्यं
PS6.4 मधु॒ यद्द॒द्ध्ना म॑धुमि॒श्रेणा᳚ भ्य॒नक्त्यु॒भय॒स्या
PS6.5 ऽव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी
PS6.6 च॑ न॒ इत्या॑हा॒ ऽऽभ्यामे॒वैन॑मुभ॒यतः॒
PS6.7 परि॑गृह्णाति॒ प्राञ्च॒मुप॑ दधाति सुव॒र्गस्य॑
PS6.8 लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॒मुप॑
PS6.9 दधाति॒ तस्मा᳚त् - [
PS6.10 ]
PS7.1 पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑
PS7.2 तिष्ठन्ते॒ यो वा अप॑नाभिम॒ग्निं
PS7.3 चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्रवि॑शति॒
PS7.4 स ए॑नमीश्व॒रो हिꣳसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा
PS7.5 वा अ॒ग्नेर्नाभिः॒ सना॑भिमे॒वाऽग्निं चि॑नु॒ते
PS7.6 हिꣳ॑साया॒ औदु॑म्बरं भव॒त्यूर्ग्वा उ॑दु॒म्बर॒
PS7.7 ऊर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒त उप॑
PS7.8 दधाति मद्ध्य॒त ए॒वास्मा॒ ऊर्जं॑
PS7.9 दधाति॒ तस्मा᳚न्-( )-मद्ध्य॒त ऊ॒र्जा
PS7.10 भु॑ञ्जत॒ इय॑द्-भवति प्र॒जाप॑तिना यज्ञ्मु॒खेन॒
PS7.11 संमि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑-र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै
PS7.12 य॒ज्ञो वै᳚ष्ण॒वा वन॒स्पत॑यो य॒ज्ञ्
PS7.13 ए॒व य॒ज्ञ्ं प्रति॑ष्ठापयति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.2.8.1 TS 5.2.8.1
स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं ॅवै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाऽग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वा - [ ]
पदपाठः (Word-by-word)
स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । इ॒यम् । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं-आ॒तृ॒ण्णा । इ॒माम् । ए॒व । उपेति॑ । ध॒त्ते॒ । अश्व᳚म् । उपेति॑ । घ्रा॒प॒य॒ति॒ । प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अ॒स्या॒म् । द॒धा॒ति॒ । अथो॒ इति॑ । प्रा॒जा॒प॒त्य इति॑ प्रजा - प॒त्यः । वै । अश्वः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । प्र॒थ॒मा । इष्ट॑का । उ॒प॒धी॒यमा॒नेत्यु॑प-धी॒यमा॑ना । प॒शू॒नाम् । च॒ । यज॑मानस्य । च॒ । प्रा॒णमिति॑ प्र - अ॒नम् । अपीति॑ । द॒धा॒ति॒ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । भ॒व॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । अथो॒ इति॑ । सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । अ॒ग्नौ । अ॒ग्निः । चे॒त॒व्यः॑ । इति॑ । आ॒हुः॒ । ए॒षः । वै ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्वयमातृण्णामिति ॥ स्वयमेव शर्करां छिद्रिताम् । 'स्वयं क्तेन' इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयमिति । पृथिवीकल्पा, छिद्रवत्त्वाद्वा ॥
2 अश्वमित्यादि । गतम् ॥
3 प्रथमेति ॥ प्रथमं उपधीयमाना अपिदधाति । तच्च स्वयमातृण्णायाः छिद्रवत्तया प्राणानामुत्सृष्ट्यै भवति । सुवर्गस्य लोकस्य अनुख्यात्यै अनुवीक्षणाय भवति ॥
4 यजुष्कृतामिति ॥ 'ध्रुवाऽसि धरुणा' इत्यनेन मन्त्रेणाभिमृष्टाम् । ब्राह्मणश्चेति । अध्वर्युश्च सहोपदध्याताम् । अब्राह्मणस्याप्रसङ्गात् ब्राह्मणग्रहणं जातिमात्रप्रतिपत्त्यर्थम् । तेनाविद्वान् गृह्यते । वक्ष्यति च - 'योऽविद्वानिष्टकामुपदधाति' इति ॥
5 आर्तोरिति ॥ 'ईश्वरे तोसुन्कसुनौ' इति तोसुन् । उभयत्रापि 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । गोपोषं पुष्णातीतिवदेको धात्वर्थसामान्यवचनः । वरानिति । चतुर्वर्षा गौर्वरः । त्रय इति । प्रापानव्यानाः 'प्राण्यापान्यव्यान्य' इत्यादौ त्रयाणामेव ग्रहणात् । स्पृत्यै । स्पृ प्रीतौ ॥
6 प्राणापानौ 'प्राणापानौ मृत्योर्मा पातम्' इत्यादौ द्वयोरेव तयोर्ग्रहणात् । एको हीति । अन्येषां तद्विकल्पत्वान्मुख्यो गृह्यते । पशुर्वा इति । पशुसदृशोऽयमग्निः यत्र चरितव्यः तत्रैव रमन्ते खल्विति । यवसो घासः स एवायवसः स्वार्थिकोऽञ् । यवसाभावे न रमन्ते । यद्वा - यवसरहितो देशः आयवसः; छान्दसो वर्णविकारः । 'नञ्सुभ्याम्' इत्येतद्बाधित्वा बहुव्रीहिस्वरः पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - आङीषदर्थे, अल्पभक्ष्ये देशे पशवो न रमन्ते । तस्मात् दूर्वेष्टकामुपदधाति प्रभूततृणत्वाय ॥
7 द्वाभ्यामिति ॥ 'काण्डात्काण्डात्' 'या शतेन' इत्येताभ्यां प्रतिष्ठित्यै भवति पशूनाम् । काण्डेनकाण्डेन हीति । सर्वेण काण्डेन ह्येषा पृथिव्यां प्रतिष्ठिता भवति । साहस्र इति । सहस्रलाभहेतुः । 'शतमानविंशतिक' इत्यण् ॥
8 देवलक्ष्ममित्यादि ॥ देवसम्बन्धि लक्षणं देवलक्ष्मम् । 'नपुंसकादन्यतरस्याम्' इत्यच् समासान्तः । यदियमषाढा त्र्यालिखिता भवति । त्रिरालिखिता त्र्यालिखिता । वृत्तौ सुजर्थोऽन्तर्भवति सप्तपर्णादिषु विस्पेव भवति? तिसृभिः लेखाभिरङ्कितेति यावत् । तामित्यादि । असुरा इति । उपादधतेत्येव । वसीयान् वसुमत्तरः । 'विन्मतोर्लुक्' 'टेः' इति टिलोपः ॥
9 असुरयोनिमिति ॥ असुरयोनिमनुप्रविष्टं एतं पराभूतं करोति ॥
10 अङ्गिरस इत्यादि ॥ कूर्मोपधानविधिः । यथेति । क्षेत्रज्ञो ह्यञ्जसा नयति आर्जवेन नयति । एवं कूर्मोऽपि स्वर्गमार्गज्ञः अञ्जसा नयति ॥
11 मेधो वा इत्यादि ॥ यज्ञतुल्यः इष्टसाधनत्वात् । उपतिष्ठन्ते समीपे तिष्ठन्ति । 'अकर्मकाच्च' इत्यात्मनेपदम् ॥
12 अश्मशानचिदिति ॥ श्मशानमिव चीयत इति । 'कर्मण्याख्यायाम्' इति क्विप् । वास्तव्य इति । सुखेन वस्ता वास्तव्यः । 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत् । यस्मादनेन जीवता चिरं स्थातव्यमत्र तस्माद्दध्ना मधुमिश्रेणाभ्यनक्ति 'मधु वाता ऋतायते' इति तिसृभिः । एतत्स्वदयिता चिरं जीविष्यतीति । स्वदयतिः चुरादिरदन्तः ॥
13 ग्राम्यमिति ॥ 'ग्रामाद्यखञौ' इति यः । मही द्यौरिति गायत्र्या एनमवहारेण परिवेष्ट्य पुरस्तात्प्रत्यञ्चमुपदधाति । आभ्यामिति । द्यावापृथिवीभ्यामुपतिष्ठते इति । सङ्गतिकरणे आत्मनेपदम् ॥
14 यो वा इत्यादि ॥ उलूखलोपधानविधिः । गतः । तस्मान्मध्यत इति । मध्यमे वयसि देहमध्ये वा । आद्यादिभ्यस्तसिः ॥
15 इयदिति ॥ प्रादेशमात्रम् । इदं परिमाणमस्येति 'किमिदंभ्यां वोघः' इति 'इदं किमोरीश्की ' यस्येति इलोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । प्रजापतिनेति । 'यज्ञमुखं वै प्रजापतिः' इति प्रजापत्यात्मना परिमितेन यज्ञमुखेन सम्मितमिदमुलूखलम् । केचिदाहुः - यत्किंचित्परिमाणपरिमितमियत् प्रजापतिश्च परिमितिः परिमितात्मा, तस्मात्तत्तुल्यमिति । अन्नमेवाकरिति । अवघातेन अन्नमेवास्यै करोति उत्पादयति । छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेर्लोपः ॥
16 वैष्णव्येति ॥ तद्विष्णोरिति गायत्री । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वात् 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । विष्णुर्वा इति । वैष्णवे उलूखले वैष्णवीमृचं प्रयुञ्जानो यज्ञं प्रतिष्ठापयति । उभयोर्वैष्णवत्वाद्विष्णोश्च यज्ञत्वात् । वनस्पतिशब्दस्य सुट्स्वरावुक्तौ ॥
इति पञ्चमे द्वितीये अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.2.8.2 TS 5.2.8.2
अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒णस्तस्मै᳚ प्रथ॒मामिष्ट॑कां॒ ॅयजु॑ष्कृतां॒ प्रय॑च्छे॒त् तां ब्रा᳚ह्म॒णश्चोप॑ दद्ध्याता-म॒ग्नावे॒व तद॒ग्निं चि॑नुत ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्यो-ऽवि॑द्वा॒निष्ट॑का-मुप॒दधा॑ति॒ त्रीन्. वरा᳚न् दद्या॒त् त्रयो॒ वै प्रा॒णाः प्रा॒णानाꣳ॒॒ स्पृत्यै॒ द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒ एको॒ हि प्रा॒णः प॒शु - [ ]
पदपाठः (Word-by-word)
अ॒ग्निः । वै॒श्वा॒न॒रः । यत् । ब्रा॒ह्म॒णः । तस्मै᳚ । प्र॒थ॒माम् । इष्ट॑काम् । यजु॑ष्कृता॒मिति॒ यजुः॑ - कृ॒ता॒म् । प्रेति॑ । य॒च्छे॒त् । ताम् । ब्रा॒ह्म॒णः । च॒ । उपेति॑ । द॒द्ध्या॒ता॒म् । अ॒ग्नौ । ए॒व । तत् । अ॒ग्निम् । चि॒नु॒ते॒ । ई॒श्व॒रः । वै । ए॒षः । आर्ति᳚म् । आर्तो॒रित्या-अ॒र्तोः॒ । यः । अवि॑द्वान् । इष्ट॑काम् । उ॒प॒द॒धा॒तीत्यु॑प - दधा॑ति । त्रीन् । वरान्॑ । द॒द्या॒त् । त्रयः॑ । वै । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । स्पृत्यै᳚ । द्वौ । ए॒व । देयौ᳚ । द्वौ । हि । प्रा॒णाविति॑ प्र - अ॒नौ । एकः॑ । ए॒व । देयः॑ । एकः॑ । हि । प्रा॒ण इति॑ प्र - अ॒नः । प॒शुः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.2.8.3 TS 5.2.8.3
-र्वा ए॒ष यद॒ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति पशू॒नां धृत्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ काण्डा᳚त् काण्डात् प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒क्ष्मं ॅवै त्र्या॑लिखि॒ता तामुत्त॑रलक्ष्माणं दे॒वा उपा॑दध॒ता-ध॑रलक्ष्माण॒-मसु॑रा॒ यं - [ ]
पदपाठः (Word-by-word)
वै । ए॒षः । यत् । अ॒ग्निः । न । खलु॑ । वै । प॒शवः॑ । आय॑वसे । र॒म॒न्ते॒ । दू॒र्वे॒ष्ट॒कामिति॑ दूर्वा - इ॒ष्ट॒काम् । उपेति॑ । द॒धा॒ति॒ । प॒शू॒नाम् । धृत्यै᳚ । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । काण्डा᳚त्काण्डा॒दिति॒ काण्डा᳚त् - का॒ण्डा॒त् । प्र॒रोह॒न्तीति॑ प्र-रोह॑न्ती । इति॑ । आ॒ह॒ । काण्डे॑नकाण्डे॒नेति॒ काण्डे॑न - का॒ण्डे॒न॒ । हि । ए॒षा । प्र॒ति॒तिष्ठ॒तीति॑ प्रति - तिष्ठ॑ति । ए॒वा । नः॒ । दू॒र्वे॒ । प्रेति॑ । त॒नु॒ । स॒हस्रे॑ण । श॒तेन॑ । च॒ । इति॑ । आ॒ह॒ । सा॒ह॒स्रः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । दे॒व॒ल॒क्ष्ममिति॑ देव-ल॒क्ष्मम् । वै । त्र्या॒लि॒खि॒तेति॑ त्रि - आ॒लि॒खि॒ता । ताम् । उत्त॑रलक्ष्माण॒मित्युत्त॑र - ल॒क्ष्मा॒ण॒म् । दे॒वाः । उपेति॑ । अ॒द॒ध॒त॒ । अध॑रलक्ष्माण॒मित्यध॑र - ल॒क्ष्मा॒ण॒म् । असु॑राः । यम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.2.8.4 TS 5.2.8.4
का॒मये॑त॒ वसी॑यान्थ् स्या॒दित्युत्त॑रलक्ष्माणं॒ तस्योप॑ दद्ध्या॒द्-वसी॑याने॒व भ॑वति॒ यं का॒मये॑त॒ पापी॑यान्थ् स्या॒दित्यध॑रलक्ष्माणं॒ तस्योप॑ दद्ध्यादसुरयो॒नि-मे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान् भवति त्र्यालिखि॒ता भ॑वती॒मे वै लो॒कास्त्र्या॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्यङ्गि॑रसः सुव॒र्गं ॅलो॒कं ॅय॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वाऽनु॒ प्रास॑र्प॒ - [ ]
पदपाठः (Word-by-word)
का॒मये॑त । वसी॑यान् । स्या॒त् । इति॑ । उत्त॑रलक्ष्माण॒मित्युत्त॑र-ल॒क्ष्मा॒ण॒म् । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । वसी॑यान् । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । पापी॑यान् । स्या॒त् । इति॑ । अध॑रलक्ष्माण॒मित्यध॑र- ल॒क्ष्मा॒ण॒म् । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । अ॒सु॒र॒यो॒निमित्य॑सुर - यो॒निम् । ए॒व । ए॒न॒म् । अनु॑ । परेति॑ । भा॒व॒य॒ति॒ । पापी॑यान् । भ॒व॒ति॒ । त्र्या॒लि॒खि॒तेति॑ त्रि - आ॒लि॒खि॒ता । भ॒व॒ति॒ । इ॒मे । वै । लो॒काः । त्र्या॒लि॒खि॒तेति॑ त्रि - आ॒लि॒खि॒ता । ए॒भ्यः । ए॒व । लो॒केभ्यः॑ । भ्रातृ॑व्यम् । अ॒न्तः । ए॒ति॒ । अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒तः । पु॒रो॒डाशः॑ । कू॒र्मः । भू॒त्वा । अनु॑ । प्रेति॑ । अ॒स॒र्प॒त् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.2.8.5 TS 5.2.8.5
-द्यत् कू॒र्ममु॑प॒दधा॑ति॒ यथा᳚ क्षेत्र॒विदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैनं॑ कू॒र्मः सु॑व॒र्गं ॅलो॒कमञ्ज॑सा नयति॒ मेधो॒ वा ए॒ष प॑शू॒नां ॅयत् कू॒र्मो यत् कू॒र्ममु॑प॒ दधा॑ति॒ स्वमे॒व मेधं॒ पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते श्मशा॒नं ॅवा ए॒तत् क्रि॑यते॒ यन्मृ॒तानां᳚ पशू॒नाꣳ शी॒र्॒.षाण्यु॑पधी॒यन्ते॒ यज्जीव॑न्तं कू॒र्ममु॑प॒ दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा ए॒ष यत् - [ ]
पदपाठः (Word-by-word)
यत् । कू॒र्मम् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । यथा᳚ । क्षे॒त्र॒विदिति॑ क्षेत्र - वित् । अञ्ज॑सा । नय॑ति । ए॒वम् । ए॒व । ए॒न॒म् । कू॒र्मः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अञ्ज॑सा । न॒य॒ति॒ । मेधः॑ । वै । ए॒षः । प॒शू॒नाम् । यत् । कू॒र्मः । यत् । कू॒र्मम् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । स्वम् । ए॒व । मेध᳚म् । पश्य॑न्तः । प॒शवः॑ । उपेति॑ । ति॒ष्ठ॒न्ते॒ । श्म॒शा॒नम् । वै । ए॒तत् । क्रि॒य॒ते॒ । यत् । मृ॒ताना᳚म् । प॒शू॒नाम् । शी॒र्॒.षाणि॑ । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । यत् । जीव॑न्तम् । कू॒र्मम् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । तेन॑ । अश्म॑शानचि॒दित्यश्म॑शान - चि॒त् । वा॒स्त॒व्यः॑ । वै । ए॒षः । यत् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.2.8.6 TS 5.2.8.6
कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒द्ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैनं॑ ग्रा॒म्यं ॅवा ए॒तदन्नं॒ ॅयद्-दद्ध्या॑र॒ण्यं मधु॒ यद्द॒द्ध्ना म॑धुमि॒श्रेणा᳚ भ्य॒नक्त्यु॒भय॒स्या ऽव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑हा॒ ऽऽभ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति॒ प्राञ्च॒मुप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मा᳚त् - [ ]
पदपाठः (Word-by-word)
कू॒र्मः । मधु॑ । वाताः᳚ । ऋ॒ता॒य॒त इत्यृ॑त - य॒ते । इति॑ । द॒द्ध्ना । म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ । अ॒भीति॑ । अ॒न॒क्ति॒ । स्व॒दय॑ति । ए॒व । ए॒न॒म् । ग्रा॒म्यम् । वै । ए॒तत् । अन्न᳚म् । यत् । दधि॑ । आ॒र॒ण्यम् । मधु॑ । यत् । द॒द्ध्ना । म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ । अ॒भ्य॒नक्तीत्य॑भि - अ॒नक्ति॑ । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इति॑ । आ॒ह॒ । आ॒भ्याम् । ए॒व । ए॒न॒म् । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्णा॒ति॒ । प्राञ्च᳚म् । उपेति॑ । द॒धा॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं-अ॒ष्ट्यै॒ । पु॒रस्ता᳚त् । प्र॒त्यञ्च᳚म् । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 5.2.8.7 TS 5.2.8.7
पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒ यो वा अप॑नाभिम॒ग्निं चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्रवि॑शति॒ स ए॑नमीश्व॒रो हिꣳसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नाभिः॒ सना॑भिमे॒वाऽग्निं चि॑नु॒ते हिꣳ॑साया॒ औदु॑म्बरं भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्-( )-मद्ध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्-भवति प्र॒जाप॑तिना यज्ञ्मु॒खेन॒ संमि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑-र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो वै᳚ष्ण॒वा वन॒स्पत॑यो य॒ज्ञ् ए॒व य॒ज्ञ्ं प्रति॑ष्ठापयति ॥
पदपाठः (Word-by-word)
पु॒रस्ता᳚त् । प्र॒त्यञ्चः॑ । प॒शवः॑ । मेध᳚म् । उपेति॑ । ति॒ष्ठ॒न्ते॒ । यः । वै । अप॑नाभि॒मित्यप॑ - ना॒भि॒म् । अ॒ग्निम् । चि॒नु॒ते । यज॑मानस्य । नाभि᳚म् । अनु॑ । प्रेति॑ । वि॒श॒ति॒ । सः । ए॒न॒म् । ई॒श्व॒रः । हिꣳसि॑तोः । उ॒लूख॑लम् । उपेति॑ । द॒धा॒ति॒ । ए॒षा । वै । अ॒ग्नेः । नाभिः॑ । सना॑भि॒मिति॒ स - ना॒भि॒म् । ए॒व । अ॒ग्निम् । चि॒नु॒त॒ । अहिꣳ॑सायै । औदु॑बंरम् । भ॒व॒ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्ज᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । म॒द्ध्य॒तः । उपेति॑ । द॒धा॒ति॒ । म॒द्ध्य॒तः । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् ( ) । म॒द्ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । इय॑त् । भ॒व॒ति॒ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । य॒ज्ञ्॒मु॒खेनेति॑ यज्ञ् - मु॒खेन॑ । सम्मि॑त॒मिति॒ सं - मि॒त॒म् । अवेति॑ । ह॒न्ति॒ । अन्न᳚म् । ए॒व । अ॒कः॒ । वै॒ष्ण॒व्या । ऋ॒चा । उपेति॑ । द॒धा॒ति॒ । विष्णुः॑ । वै । य॒ज्ञ्ः । वै॒ष्ण॒वाः । वन॒स्पत॑यः । य॒ज्ञे । ए॒व । य॒ज्ञ्म् । प्रतीति॑ । स्था॒प॒य॒ति॒ ॥
पदसंख्या: 77