पञ्चशत् 1 #
स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं ॅवै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाऽग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वा - [ ]
पदपाठः (Word-by-word)
स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । इ॒यम् । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं-आ॒तृ॒ण्णा । इ॒माम् । ए॒व । उपेति॑ । ध॒त्ते॒ । अश्व᳚म् । उपेति॑ । घ्रा॒प॒य॒ति॒ । प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अ॒स्या॒म् । द॒धा॒ति॒ । अथो॒ इति॑ । प्रा॒जा॒प॒त्य इति॑ प्रजा - प॒त्यः । वै । अश्वः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । प्र॒थ॒मा । इष्ट॑का । उ॒प॒धी॒यमा॒नेत्यु॑प-धी॒यमा॑ना । प॒शू॒नाम् । च॒ । यज॑मानस्य । च॒ । प्रा॒णमिति॑ प्र - अ॒नम् । अपीति॑ । द॒धा॒ति॒ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । भ॒व॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । अथो॒ इति॑ । सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । अ॒ग्नौ । अ॒ग्निः । चे॒त॒व्यः॑ । इति॑ । आ॒हुः॒ । ए॒षः । वै ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्वयमातृण्णामिति ॥ स्वयमेव शर्करां छिद्रिताम् । 'स्वयं क्तेन' इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयमिति । पृथिवीकल्पा, छिद्रवत्त्वाद्वा ॥
2 अश्वमित्यादि । गतम् ॥
3 प्रथमेति ॥ प्रथमं उपधीयमाना अपिदधाति । तच्च स्वयमातृण्णायाः छिद्रवत्तया प्राणानामुत्सृष्ट्यै भवति । सुवर्गस्य लोकस्य अनुख्यात्यै अनुवीक्षणाय भवति ॥
4 यजुष्कृतामिति ॥ 'ध्रुवाऽसि धरुणा' इत्यनेन मन्त्रेणाभिमृष्टाम् । ब्राह्मणश्चेति । अध्वर्युश्च सहोपदध्याताम् । अब्राह्मणस्याप्रसङ्गात् ब्राह्मणग्रहणं जातिमात्रप्रतिपत्त्यर्थम् । तेनाविद्वान् गृह्यते । वक्ष्यति च - 'योऽविद्वानिष्टकामुपदधाति' इति ॥
5 आर्तोरिति ॥ 'ईश्वरे तोसुन्कसुनौ' इति तोसुन् । उभयत्रापि 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । गोपोषं पुष्णातीतिवदेको धात्वर्थसामान्यवचनः । वरानिति । चतुर्वर्षा गौर्वरः । त्रय इति । प्रापानव्यानाः 'प्राण्यापान्यव्यान्य' इत्यादौ त्रयाणामेव ग्रहणात् । स्पृत्यै । स्पृ प्रीतौ ॥
6 प्राणापानौ 'प्राणापानौ मृत्योर्मा पातम्' इत्यादौ द्वयोरेव तयोर्ग्रहणात् । एको हीति । अन्येषां तद्विकल्पत्वान्मुख्यो गृह्यते । पशुर्वा इति । पशुसदृशोऽयमग्निः यत्र चरितव्यः तत्रैव रमन्ते खल्विति । यवसो घासः स एवायवसः स्वार्थिकोऽञ् । यवसाभावे न रमन्ते । यद्वा - यवसरहितो देशः आयवसः; छान्दसो वर्णविकारः । 'नञ्सुभ्याम्' इत्येतद्बाधित्वा बहुव्रीहिस्वरः पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - आङीषदर्थे, अल्पभक्ष्ये देशे पशवो न रमन्ते । तस्मात् दूर्वेष्टकामुपदधाति प्रभूततृणत्वाय ॥
7 द्वाभ्यामिति ॥ 'काण्डात्काण्डात्' 'या शतेन' इत्येताभ्यां प्रतिष्ठित्यै भवति पशूनाम् । काण्डेनकाण्डेन हीति । सर्वेण काण्डेन ह्येषा पृथिव्यां प्रतिष्ठिता भवति । साहस्र इति । सहस्रलाभहेतुः । 'शतमानविंशतिक' इत्यण् ॥
8 देवलक्ष्ममित्यादि ॥ देवसम्बन्धि लक्षणं देवलक्ष्मम् । 'नपुंसकादन्यतरस्याम्' इत्यच् समासान्तः । यदियमषाढा त्र्यालिखिता भवति । त्रिरालिखिता त्र्यालिखिता । वृत्तौ सुजर्थोऽन्तर्भवति सप्तपर्णादिषु विस्पेव भवति? तिसृभिः लेखाभिरङ्कितेति यावत् । तामित्यादि । असुरा इति । उपादधतेत्येव । वसीयान् वसुमत्तरः । 'विन्मतोर्लुक्' 'टेः' इति टिलोपः ॥
9 असुरयोनिमिति ॥ असुरयोनिमनुप्रविष्टं एतं पराभूतं करोति ॥
10 अङ्गिरस इत्यादि ॥ कूर्मोपधानविधिः । यथेति । क्षेत्रज्ञो ह्यञ्जसा नयति आर्जवेन नयति । एवं कूर्मोऽपि स्वर्गमार्गज्ञः अञ्जसा नयति ॥
11 मेधो वा इत्यादि ॥ यज्ञतुल्यः इष्टसाधनत्वात् । उपतिष्ठन्ते समीपे तिष्ठन्ति । 'अकर्मकाच्च' इत्यात्मनेपदम् ॥
12 अश्मशानचिदिति ॥ श्मशानमिव चीयत इति । 'कर्मण्याख्यायाम्' इति क्विप् । वास्तव्य इति । सुखेन वस्ता वास्तव्यः । 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत् । यस्मादनेन जीवता चिरं स्थातव्यमत्र तस्माद्दध्ना मधुमिश्रेणाभ्यनक्ति 'मधु वाता ऋतायते' इति तिसृभिः । एतत्स्वदयिता चिरं जीविष्यतीति । स्वदयतिः चुरादिरदन्तः ॥
13 ग्राम्यमिति ॥ 'ग्रामाद्यखञौ' इति यः । मही द्यौरिति गायत्र्या एनमवहारेण परिवेष्ट्य पुरस्तात्प्रत्यञ्चमुपदधाति । आभ्यामिति । द्यावापृथिवीभ्यामुपतिष्ठते इति । सङ्गतिकरणे आत्मनेपदम् ॥
14 यो वा इत्यादि ॥ उलूखलोपधानविधिः । गतः । तस्मान्मध्यत इति । मध्यमे वयसि देहमध्ये वा । आद्यादिभ्यस्तसिः ॥
15 इयदिति ॥ प्रादेशमात्रम् । इदं परिमाणमस्येति 'किमिदंभ्यां वोघः' इति 'इदं किमोरीश्की ' यस्येति इलोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । प्रजापतिनेति । 'यज्ञमुखं वै प्रजापतिः' इति प्रजापत्यात्मना परिमितेन यज्ञमुखेन सम्मितमिदमुलूखलम् । केचिदाहुः - यत्किंचित्परिमाणपरिमितमियत् प्रजापतिश्च परिमितिः परिमितात्मा, तस्मात्तत्तुल्यमिति । अन्नमेवाकरिति । अवघातेन अन्नमेवास्यै करोति उत्पादयति । छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेर्लोपः ॥
16 वैष्णव्येति ॥ तद्विष्णोरिति गायत्री । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वात् 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । विष्णुर्वा इति । वैष्णवे उलूखले वैष्णवीमृचं प्रयुञ्जानो यज्ञं प्रतिष्ठापयति । उभयोर्वैष्णवत्वाद्विष्णोश्च यज्ञत्वात् । वनस्पतिशब्दस्य सुट्स्वरावुक्तौ ॥
इति पञ्चमे द्वितीये अष्टमोनुवाकः ॥