अनुवाकः 9 TS 5.2.9

(A9)

(ऊ॒नान्तस्योप॑ - प्रा॒णाः - स्या॒दिति॒ - वै प॒शवो॑ - रुन्धे॒ - चतु॑श्चत्वारिꣳशच्च)

अनुवाकः 9 - Complete Audio

TS 5.2.9 - स्वरानुगामी

0:00 0:00
PS1.1 ए॒षां ॅवा ए॒तल्लो॒कानां॒ ज्योतिः॒
PS1.2 सम्भृ॑तं॒ ॅयदु॒खा यदु॒खा-मु॑प॒दधा᳚त्ये॒भ्य ए॒व
PS1.3 लो॒केभ्यो॒ ज्योति॒रव॑ रुन्धे मद्ध्य॒त
PS1.4 उप॑ दधाति मद्ध्य॒त ए॒वास्मै॒
PS1.5 ज्योति॑र्दधाति॒ तस्मा᳚न्मद्ध्य॒तो ज्योति॒रुपा᳚ऽऽस्महे॒ सिक॑ताभिः
PS1.6 पूरयत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ रू॒पꣳ रू॒पेणै॒व
PS1.7 वै᳚श्वान॒रमव॑ रुन्धे॒ यं का॒मये॑त॒
PS1.8 क्षोधु॑कः स्या॒दित्यू॒नां तस्योप॑ -
PS1.9 [ ]
PS2.1 दद्ध्या॒त् क्षोधु॑क ए॒व भ॑वति॒
PS2.2 यं का॒मये॒ता-नु॑पदस्य॒-दन्न॑मद्या॒दिति॑ पू॒र्णां तस्योप॑
PS2.3 दद्ध्या॒दनु॑पदस्य-दे॒वान्न॑मत्ति स॒हस्रं॒ ॅवै प्रति॒
PS2.4 पुरु॑षः पशू॒नां ॅय॑च्छति स॒हस्र॑म॒न्ये
PS2.5 प॒शवो॒ मद्ध्ये॑ पुरुषशी॒र्॒.षमुप॑ दधाति
PS2.6 सवीर्य॒त्वायो॒-खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्-गमयति॒ व्यृ॑द्धं॒
PS2.7 ॅवा ए॒तत् प्रा॒णैर॑मे॒द्ध्यं ॅयत्
PS2.8 पु॑रुषशी॒र्.षम॒मृतं॒ खलु॒ वै प्रा॒णा
PS2.9 - [ ]
PS3.1 अ॒मृतꣳ॒॒ हिर॑ण्यं प्रा॒णेषु॑ हिरण्यश॒ल्कान्
PS3.2 प्रत्य॑स्यति प्रति॒ष्ठामे॒वैन॑द्-गमयि॒त्वा प्रा॒णैः सम॑र्द्धयति
PS3.3 द॒द्ध्ना म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑
PS3.4 शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॑ ग्रा॒म्यं ॅवा
PS3.5 ए॒तदन्नं॒ ॅयद्-दद्ध्या॑र॒ण्यं मधु॒ यद्द॒द्ध्ना
PS3.6 म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्या-व॑रुद्ध्यै पशुशी॒र्॒.षाण्युप॑ दधाति
PS3.7 प॒शवो॒ वै प॑शुशी॒र्॒.षाणि॑ प॒शूने॒वाव॑
PS3.8 रुन्धे॒ यं का॒मये॑ताप॒शुः स्या॒दिति॑
PS3.9 - [ ]
PS4.1 विषू॒चीना॑नि॒ तस्योप॑ दद्ध्या॒द्-विषू॑च ए॒वास्मा᳚त्
PS4.2 प॒शून् द॑धात्यप॒शुरे॒व भ॑वति॒ यं
PS4.3 का॒मये॑त पशु॒मान्थ्-स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑
PS4.4 दद्ध्याथ् स॒मीच॑ ए॒वास्मै॑ प॒शून्
PS4.5 द॑धाति पशु॒माने॒व भ॑वति पु॒रस्ता᳚त्
PS4.6 प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात् प्रा॒चीन॑मृष॒भस्या-प॑शवो॒
PS4.7 वा अ॒न्ये गो॑ अ॒श्वेभ्यः॑
PS4.8 प॒शवो॑ गो अ॒श्वाने॒वास्मै॑ स॒मीचो॑
PS4.9 दधात्ये॒-ताव॑न्तो॒ वै प॒शवो᳚ -
PS4.10 [ ]
PS5.1 द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्. वा
PS5.2 ए॒तद॒ग्नौ प्रद॑धाति॒ यत् प॑शुशी॒र्॒.षाण्यु॑प॒-दधा᳚त्य॒-मुमा॑र॒ण्यमनु॑
PS5.3 ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑ ए॒व
PS5.4 प॒शुभ्य॑ आर॒ण्यान् प॒शूञ्छुच॒मनूथ्सृ॑जति॒ तस्मा᳚थ्
PS5.5 स॒माव॑त् पशू॒नां प्र॒जाय॑मानाना-मार॒ण्याः प॒शवः॒
PS5.6 कनी॑याꣳसः शु॒चा ह्यृ॑ताः स॑र्पशी॒र्॒.षमुप॑
PS5.7 दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑
PS5.8 रुन्धे॒ - [ ]
PS6.1 यथ् स॑मी॒चीनं॑ पशुशी॒र्॒.षैरु॑प द॒द्ध्याद्
PS6.2 ग्रा॒म्यान् प॒शून् दꣳशु॑काः स्यु॒र्यद्-वि॑षू॒चीन॑-मार॒ण्यान्.
PS6.3 यजु॑रे॒व व॑दे॒दव॒ तां त्विषिꣳ॑
PS6.4 रुन्धे॒ या स॒र्पे न
PS6.5 ग्रा॒म्यान् प॒शून्. हि॒नस्ति॒ नाऽऽ*र॒ण्यानथो॒
PS6.6 खलू॑प॒धेय॑मे॒व यदु॑प॒दधा॑ति॒ तेन॒ तां
PS6.7 त्विषि॒मव॑ रुन्धे॒ या स॒र्पे
PS6.8 यद्-यजु॒र्वद॑ति॒ तेन॑ शा॒न्तं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.2.9.1 TS 5.2.9.1
ए॒षां ॅवा ए॒तल्लो॒कानां॒ ज्योतिः॒ सम्भृ॑तं॒ ॅयदु॒खा यदु॒खा-मु॑प॒दधा᳚त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मै॒ ज्योति॑र्दधाति॒ तस्मा᳚न्मद्ध्य॒तो ज्योति॒रुपा᳚ऽऽस्महे॒ सिक॑ताभिः पूरयत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ रू॒पꣳ रू॒पेणै॒व वै᳚श्वान॒रमव॑ रुन्धे॒ यं का॒मये॑त॒ क्षोधु॑कः स्या॒दित्यू॒नां तस्योप॑ - [ ]
पदपाठः (Word-by-word)
ए॒षाम् । वै । ए॒तत् । लो॒काना᳚म् । ज्योतिः॑ । संभृ॑त॒मिति॒ सं-भृ॒त॒म् । यत् । उ॒खा । यत् । उ॒खाम् । उ॒प॒दधा॒तीत्यु॑प-दधा॑ति । ए॒भ्यः । ए॒व । लो॒केभ्यः॑ । ज्योतिः॑ । अवेति॑ । रु॒न्धे॒ । म॒द्ध्य॒तः । उपेति॑ । द॒धा॒ति॒ । म॒द्ध्य॒तः । ए॒व । अ॒स्मै॒ । ज्योतिः॑ । द॒धा॒ति॒ । तस्मा᳚त् । म॒द्ध्य॒तः । ज्योतिः॑ । उपेति॑ । आ॒स्म॒हे॒ । सिक॑ताभिः । पू॒र॒य॒ति॒ । ए॒तत् । वै । अ॒ग्नेः । वै॒श्वा॒न॒रस्य॑ । रू॒पम् । रू॒पेण॑ । ए॒व । वै॒श्वा॒न॒रम् । अवेति॑ । रु॒न्धे॒ । यम् । का॒मये॑त । क्षोधु॑कः । स्या॒त् । इति॑ । ऊ॒नाम् । तस्य॑ । उपेति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 एषां वा इत्यादि ॥ मुख्योखोपधानविधिः । मध्यत इति । देहस्य मध्ये ज्योतिः ऐश्वरमुपास्महे सर्वेऽपि वयम् ॥
2 सिकताभिरित्यादि ॥ गतम् । क्षोधुकः क्षुच्छीलः । छान्दस उकञ् । अनुपदस्यत् अक्षीयमाणम् । दसु उपक्षये, दैवादिकः ॥
3 सहस्रं वा इति ॥ पुरुषशीर्षोपधानविधिः । येषामत्र शिरांसि उपधीयन्ते पुरुषाश्ववृषभवृष्णिबस्तानां तेषां मध्ये एक एव पुरुष उपधीयमानशिरस्कः प्रपशूनां सहस्रं प्रतियच्छति यजमानाय, तस्मात् सहस्रसम्मितं पुरुषशिर इति । मन्त्रलिङ्गं च – 'सहस्रस्य प्रतिमां विश्वरूपम्' इति । अन्ये तु - अश्वादयः पशवः सर्वेऽपि सम्भूय सहस्रं पशूनां प्रतियच्छन्ति, तस्मात् प्राधान्यात् मध्ये पुरुषशीर्षं पुरुषशिर उपदधाति सवीर्यत्वायाग्नेः । 'शीर्षच्छन्दसि' इति शीर्षन्भावः । 'नपुंसकादन्यतरस्याम्' इत्यच् समासान्तः ॥
4 उखायामित्यादि ॥ गतम् । प्राणिरहितत्वादमेध्यं अमेधार्हम् । मेधं नार्हतीति दण्डादित्वात् यः । 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । अमृतमिति । मृतमेषां नास्तीति अमृतम् । प्राणाः हिरण्यं चामृतहेतुः ॥
5 मधव्य इति । मधुमान् भूयासमिति । 'मधोर्ञ च' इति यत् । शृतातंक्येनेति ॥ पूरयतीत्येव । श्रितेन पयसा कृतातञ्चनम् । तञ्चु संकोचने, 'ऋहलोर्ण्यत्' 'चजोः कुघिण्यतोः' इति कुत्वम् । ग्राम्यं वा इत्यादि गतम् ॥
6 पशुशीर्षाणीति ॥ अश्वादीनां शिरांसि । पशवो वा इति । तत्साधनत्वात्ताच्छब्द्यम् ॥
7 यमित्यादि ॥ अपशुः पशुहीनः । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । विषूचीनानि विष्वङ्मुखानि अभिमुखानि विषु नाना अञ्चतीति 'ऋत्विक्' इत्यादिना क्विन् । विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । 'चौ' इति पूर्वपदस्य दीर्घत्वम् । विषूच इति अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।''अञ्चेश्छन्दसि' इति व्यत्ययेन न प्रवर्तते । अस्मादिति । 'अन्यारादितरर्ते' इति पञ्चमी । पशुमानिति 'ह्रस्वनुङ्भ्याम्' इति मतुप उदात्तत्वम् । समीचीनानि सङ्गतमुखानि । 'समस्समि' इति सम्यादेशः । पूर्ववद्दीर्घत्वम् । समीच इति पूर्वपदस्य अन्तोदात्तत्वं, पूर्ववत् 'अञ्चेश्छन्दसि' इति न प्रवर्तते ॥
8 पुरस्तादिति ॥ पुरस्तात् प्रत्यङ्मुख उपविश्यात्मनि प्रतीचीनमश्वस्य शिर उपदधाति । पश्चात्प्राङ्मुख उपविश्य प्राचीनमृषभस्य शिर उपदधाति । पुरस्तात् पूर्वस्यां दिशि । 'दिक्छब्देभ्यः' इति 'अस्ताति च' इति पुरादेशः । 'पश्चात्' इति पुरस्तादित्यर्थे निपात्यते ॥
9 अपशवो वा इत्यादि ॥ गोऽश्वव्यतिरिक्ताः सर्वे अपशवः अपशुकल्पाः । 'सर्वत्र विभाषाञ्चेः' इति प्रकृत्या भावः । अश्वर्षभयोः समीचीनतया गोऽश्वान् सर्वानस्मै समीचीनान् स्थापयति । प्राधान्याद्गोऽश्वग्रहाम् । वृष्णिबस्तयोरिति तुल्यो न्यायः ॥
10 एतावन्त इत्यादिना उत्सर्गैरुपस्थानं विदधाति ॥ द्विपाद इति । 'सङ्ख्यासुपूर्वस्य' इति लोप समासान्तः । 'द्वित्रिभ्यां पद्दन्' इत्युत्तरपदान्तोदात्तत्वम् । प्रदधाति प्रक्षिपति । तस्मात्प्रतिविधानं कार्यमित्याह - अमुमित्यादि । अमुमिति सामान्यनिर्देशो मयुगौरादीनाम् । एतदुक्तं भवति - 'मयुमारण्यमनु ते दिशामि' 'गौरमारण्यमनुते दिशामि' इत्येवमुपधानान्तरं उत्सर्गमुपतिष्ठते । तेन ग्राम्येभ्यः पशुभ्य आदाय आरण्यान् पशून् अनु लक्षीकृत्य च शुचं शोकमुत्सृजति । तस्मादित्यादि । समावत्समं 'समादावतुप्' इति स्वार्थे वतुप् कनीयांसः अल्पतराः । शुचा ह्यृताः शुचं प्राप्तत्वात् ॥
11 सर्पशीर्षमित्यादि ॥ पूर्ववत्समासान्तः । त्विषिः दीप्तिः । यदित्यादि । ग्राम्यान् पशून् दन्दशुका दंशनशीलाः सर्वाः स्युः यद्विषूचीनं आरण्यानिति दन्दशूकास्स्युरिति । एवं छान्दस उकञि 'नलोकाव्ययनिष्ठा' इति षष्ठीप्रतिषेधः । उक्ता ग्राम्यारण्याः पशवः । तस्मात् 'नमो अस्तु सर्पेभ्यः' इति मन्त्रानेव वदेत् न सर्पशिर उपदध्यात् । यजुश्शब्दो मन्त्रमचनः । यजुर्वदनेन त्विषेः लाभः । अनुपधानेन उक्तदोषाप्रसङ्ग इति ॥
11 अथो खल्वित्यादि पक्षान्तरविधिः ॥ उपधानेन त्विषिलाभः, यजुर्वदनेन दोषशान्तिरिति । शान्तं शिवमित्यर्थः । अत्र ब्राह्मणानुसारिण आहुः - पशुशीर्षोपधानानन्तरं सर्पशीषोर्पधानमिति । मन्त्राम्नानानुसारिणस्तु हिरण्मयपुरुषोपधानानन्तरं सर्पशीर्षोपधानमिति ॥
इति पञ्चमे द्वितीये नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.2.9.2 TS 5.2.9.2
दद्ध्या॒त् क्षोधु॑क ए॒व भ॑वति॒ यं का॒मये॒ता-नु॑पदस्य॒-दन्न॑मद्या॒दिति॑ पू॒र्णां तस्योप॑ दद्ध्या॒दनु॑पदस्य-दे॒वान्न॑मत्ति स॒हस्रं॒ ॅवै प्रति॒ पुरु॑षः पशू॒नां ॅय॑च्छति स॒हस्र॑म॒न्ये प॒शवो॒ मद्ध्ये॑ पुरुषशी॒र्॒.षमुप॑ दधाति सवीर्य॒त्वायो॒-खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्-गमयति॒ व्यृ॑द्धं॒ ॅवा ए॒तत् प्रा॒णैर॑मे॒द्ध्यं ॅयत् पु॑रुषशी॒र्.षम॒मृतं॒ खलु॒ वै प्रा॒णा - [ ]
पदपाठः (Word-by-word)
द॒द्ध्या॒त् । क्षोधु॑कः । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । अनु॑पदस्य॒दित्यनु॑प - द॒स्य॒त् । अन्न᳚म् । अ॒द्या॒त् । इति॑ । पू॒र्णाम् । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । अनु॑पदस्य॒दित्यनु॑प - द॒स्य॒त् । ए॒व । अन्न᳚म् । अ॒त्ति॒ । स॒हस्र᳚म् । वै । प्रतीति॑ । पुरु॑षः । प॒शू॒नाम् । य॒च्छ॒ति॒ । स॒हस्र᳚म् । अ॒न्ये । प॒शवः॑ । मद्ध्ये᳚ । पु॒रु॒ष॒शी॒र्॒.षमिति॑ पुरुष - शी॒र्॒.षम् । उपेति॑ । द॒धा॒ति॒ । स॒वी॒र्य॒त्वायेति॑ सवीर्य-त्वाय॑ । उ॒खाया᳚म् । अपीति॑ । द॒धा॒ति॒ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ए॒व । ए॒न॒त् । ग॒म॒य॒ति॒ । व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । वै । ए॒तत् । प्रा॒णैरिति॑ प्र - अ॒नैः । अ॒मे॒द्ध्यम् । यत् । पु॒रु॒ष॒शी॒र्॒.षमिति॑ पुरुष - शी॒र्॒.षम् । अ॒मृत᳚म् । खलु॑ । वै । प्रा॒णा इति॑ प्र - अ॒नाः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.2.9.3 TS 5.2.9.3
अ॒मृतꣳ॒॒ हिर॑ण्यं प्रा॒णेषु॑ हिरण्यश॒ल्कान् प्रत्य॑स्यति प्रति॒ष्ठामे॒वैन॑द्-गमयि॒त्वा प्रा॒णैः सम॑र्द्धयति द॒द्ध्ना म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॑ ग्रा॒म्यं ॅवा ए॒तदन्नं॒ ॅयद्-दद्ध्या॑र॒ण्यं मधु॒ यद्द॒द्ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्या-व॑रुद्ध्यै पशुशी॒र्॒.षाण्युप॑ दधाति प॒शवो॒ वै प॑शुशी॒र्॒.षाणि॑ प॒शूने॒वाव॑ रुन्धे॒ यं का॒मये॑ताप॒शुः स्या॒दिति॑ - [ ]
पदपाठः (Word-by-word)
अ॒मृत᳚म् । हिर॑ण्यम् । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । हि॒र॒ण्य॒श॒ल्कानिति॑ हिरण्य - श॒ल्कान् । प्रतीति॑ । अ॒स्य॒ति॒ । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ए॒व । ए॒न॒त् । ग॒म॒यि॒त्वा । प्रा॒णैरिति॑ प्र-अ॒नैः । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । द॒द्ध्ना । म॒धु॒मि॒श्रेणेति॑ मधु-मि॒श्रेण॑ । पू॒र॒य॒ति॒ । म॒ध॒व्यः॑ । अ॒सा॒नि॒ । इति॑ । शृ॒ता॒त॒ङ्क्ये॑नेति॑ शृत - आ॒त॒ङ्क्ये॑न । मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । ग्रा॒म्यम् । वै । ए॒तत् । अन्न᳚म् । यत् । दधि॑ । आ॒र॒ण्यम् । मधु॑ । यत् । द॒द्ध्ना । म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ । पू॒रय॑ति । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । प॒शु॒शी॒र्॒.षाणीति॑ पशु - शी॒र्॒.षाणि॑ । उपेति॑ । द॒धा॒ति॒ । प॒शवः॑ । वै । प॒शु॒शी॒र्॒.षाणीति॑ पशु - शी॒र्॒.षाणि॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.2.9.4 TS 5.2.9.4
विषू॒चीना॑नि॒ तस्योप॑ दद्ध्या॒द्-विषू॑च ए॒वास्मा᳚त् प॒शून् द॑धात्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्-स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दद्ध्याथ् स॒मीच॑ ए॒वास्मै॑ प॒शून् द॑धाति पशु॒माने॒व भ॑वति पु॒रस्ता᳚त् प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात् प्रा॒चीन॑मृष॒भस्या-प॑शवो॒ वा अ॒न्ये गो॑ अ॒श्वेभ्यः॑ प॒शवो॑ गो अ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्ये॒-ताव॑न्तो॒ वै प॒शवो᳚ - [ ]
पदपाठः (Word-by-word)
वि॒षू॒चीना॑नि । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । विषू॑चः । ए॒व । अ॒स्मा॒त् । प॒शून् । द॒धा॒ति॒ । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । इति॑ । स॒मी॒चीना॑नि । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । स॒मीचः॑ । ए॒व । अ॒स्मै॒ । प॒शून् । द॒धा॒ति॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । पु॒रस्ता᳚त् । प्र॒ती॒चीन᳚म् । अश्व॑स्य । उपेति॑ । द॒धा॒ति॒ । प॒श्चात् । प्रा॒चीन᳚म् । ऋ॒ष॒भस्य॑ । अप॑शवः । वै । अ॒न्ये । गो॒ अ॒श्वेभ्य॒ इति॑ गो -अ॒श्वेभ्यः॑ । प॒शवः॑ । गो॒ अ॒श्वानिति॑ गो - अ॒श्वान् । ए॒व । अ॒स्मै॒ । स॒मीचः॑ । द॒धा॒ति॒ । ए॒ताव॑न्तः । वै । प॒शवः॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.2.9.5 TS 5.2.9.5
द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्. वा ए॒तद॒ग्नौ प्रद॑धाति॒ यत् प॑शुशी॒र्॒.षाण्यु॑प॒-दधा᳚त्य॒-मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान् प॒शूञ्छुच॒मनूथ्सृ॑जति॒ तस्मा᳚थ् स॒माव॑त् पशू॒नां प्र॒जाय॑मानाना-मार॒ण्याः प॒शवः॒ कनी॑याꣳसः शु॒चा ह्यृ॑ताः स॑र्पशी॒र्॒.षमुप॑ दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुन्धे॒ - [ ]
पदपाठः (Word-by-word)
द्वि॒पाद॒ इति॑ द्वि - पादः॑ । च॒ । चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ । च॒ । तान् । वै । ए॒तत् । अ॒ग्नौ । प्रेति॑ । द॒धा॒ति॒ । यत् । प॒शु॒शी॒र्॒.षाणीति॑ पशु - शी॒र्॒.षाणि॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । अ॒मुम् । आ॒र॒ण्यम् । अन्विति॑ । ते॒ । दि॒शा॒मि॒ । इति॑ । आ॒ह॒ । ग्रा॒म्येभ्यः॑ । ए॒व । प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । आ॒र॒ण्यान् । प॒शून् । शुच᳚म् । अनू॑ । उदिति॑ । सृ॒ज॒ति॒ । तस्मा᳚त् । स॒माव॑त् । प॒शू॒नाम् । प्र॒जाय॑मानाना॒मिति॑ प्र - जाय॑मानानाम् । आ॒र॒ण्याः । प॒शवः॑ । कनी॑याꣳसः । शु॒चा । हि । ऋ॒ताः । स॒र्प॒शी॒र्॒.षमिति॑ सर्प - शी॒र्॒.षम् । उपेति॑ । द॒धा॒ति॒ । या । ए॒व । स॒र्पे । त्विषिः॑ । ताम् । ए॒व । अवेति॑ । रु॒न्धे॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.2.9.6 TS 5.2.9.6
यथ् स॑मी॒चीनं॑ पशुशी॒र्॒.षैरु॑प द॒द्ध्याद् ग्रा॒म्यान् प॒शून् दꣳशु॑काः स्यु॒र्यद्-वि॑षू॒चीन॑-मार॒ण्यान्. यजु॑रे॒व व॑दे॒दव॒ तां त्विषिꣳ॑ रुन्धे॒ या स॒र्पे न ग्रा॒म्यान् प॒शून्. हि॒नस्ति॒ नाऽऽ*र॒ण्यानथो॒ खलू॑प॒धेय॑मे॒व यदु॑प॒दधा॑ति॒ तेन॒ तां त्विषि॒मव॑ रुन्धे॒ या स॒र्पे यद्-यजु॒र्वद॑ति॒ तेन॑ शा॒न्तं ॥
पदपाठः (Word-by-word)
यत् । स॒मी॒चीन᳚म् । प॒शु॒शी॒र्॒.षैरिति॑ पशु - शी॒र्॒.षैः । उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् । ग्रा॒म्यान् । प॒शून् । दꣳशु॑काः । स्युः॒ । यत् । वि॒षू॒चीन᳚म् । आ॒र॒ण्यान् । यजुः॑ । ए॒व । व॒दे॒त् । अवेति॑ । ताम् । त्विषि᳚म् । रु॒न्धे॒ । या । स॒र्पे । न । ग्रा॒म्यान् । प॒शून् । हि॒नस्ति॑ । न । आ॒र॒ण्यान् । अथो॒ इति॑ । खलु॑ । उ॒प॒धेय॒मित्यु॑प - धेय᳚म् । ए॒व । यत् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । तेन॑ । ताम् । त्विषि᳚म् । अवेति॑ । रु॒न्धे॒ । या । स॒र्पे । यत् । यजुः॑ । वद॑ति । तेन॑ । शा॒न्तम् ॥
पदसंख्या: 44