अनुवाकः 4 TS 5.2.4

(A4)

(ऋ॒तुभि॑ - रे॒षा- परा॑ची॒रुपा॒ - ष्टाच॑त्वारिꣳशच्च)

अनुवाकः 4 - Complete Audio

TS 5.2.4 - स्वरानुगामी

0:00 0:00
PS1.1 वि वा ए॒तौ द्वि॑षाते॒
PS1.2 यश्च॑ पु॒राऽग्निर्यश्चो॒खायाꣳ॒॒ समि॑त॒मिति॑ चत॒सृभिः॒
PS1.3 सं निव॑पति च॒त्वारि॒ छन्दाꣳ॑सि॒
PS1.4 छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः
PS1.5 प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नुवा॒
PS1.6 सꣳ शा᳚स्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒द्ब्रह्म॑णा
PS1.7 क्ष॒त्रꣳ समे॑ति॒ यथ्सं॒ न्युप्य॑
PS1.8 वि॒हर॑ति॒ तस्मा॒द् ब्रह्म॑णा क्ष॒त्रं
PS1.9 ॅव्ये᳚त्यृ॒तुभि॒ - [ ]
PS2.1 -र्वा ए॒तं दी᳚क्षयन्ति॒ स
PS2.2 ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रं
PS2.3 पृ॑थि॒वी पु॑री॒ष्य॑मित्या॑ह॒-र्तुभि॑रे॒वैनं॑ दीक्षयि॒त्वर्तुभि॒र्वि मु॑ञ्चति
PS2.4 वैश्वान॒र्या शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑-न्नैर्.ऋ॒तीः
PS2.5 कृ॒ष्णा-स्ति॒स्र-स्तुष॑पक्वा भवन्ति॒ निर्.ऋ॑त्यै॒ वा
PS2.6 ए॒तद्-भा॑ग॒धेयं॒ ॅयत् तुषा॒ निर्.ऋ॑त्यै
PS2.7 रू॒पं कृ॒ष्णꣳ रू॒पेणै॒व निर्.ऋ॑तिं
PS2.8 नि॒रव॑दयत इ॒मां दिशं॑ ॅयन्त्ये॒षा
PS2.9 - [ ]
PS3.1 वै निर्.ऋ॑त्यै॒ दिक् स्वाया॑मे॒व
PS3.2 दि॒शि निर्.ऋ॑तिं नि॒रव॑दयते॒ स्वकृ॑त॒
PS3.3 इरि॑ण॒ उप॑ दधाति प्रद॒रे
PS3.4 वै॒तद्वै निर्.ऋ॑त्या आ॒यत॑नꣳ॒॒ स्व
PS3.5 ए॒वाऽऽ*यत॑ने॒ निर्.ऋ॑तिं नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑
PS3.6 दधाति नैर्.ऋ॒तो वै पाशः॑
PS3.7 सा॒क्षादे॒वैनं॑ निर्.ऋतिपा॒शान्-मु॑ञ्चति ति॒स्र उप॑
PS3.8 दधाति त्रेधाविहि॒तो वै पुरु॑षो॒
PS3.9 यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्-निर्.ऋ॑ति॒मव॑ यजते॒ परा॑ची॒रुप॑
PS3.10 - [ ]
PS4.1 दधाति॒ परा॑चीमे॒वास्मा॒न्-निर्.ऋ॑तिं॒ प्रणु॑द॒ते ऽप्र॑तीक्ष॒मा
PS4.2 य॑न्ति॒ निर्.ऋ॑त्या अ॒न्तर्.हि॑त्यै मार्जयि॒त्वोप॑
PS4.3 तिष्ठन्ते मेद्ध्य॒त्वाय॒ गार्.ह॑पत्य॒मुप॑ तिष्ठन्ते
PS4.4 निर्.ऋति लो॒क ए॒व च॑रि॒त्वा
PS4.5 पू॒ता दे॑वलो॒कमु॒पाव॑र्तन्त॒ एक॒योप॑ तिष्ठन्त
PS4.6 एक॒धैव यज॑माने वी॒र्यं॑ दधति
PS4.7 नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा
PS4.8 वै प॒शवो॒ वसु॑ प्र॒जयै॒वैनं॑
PS4.9 प॒शुभिः॒ सम॑र्द्धयन्ति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.2.4.1 TS 5.2.4.1
वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राऽग्निर्यश्चो॒खायाꣳ॒॒ समि॑त॒मिति॑ चत॒सृभिः॒ सं निव॑पति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सꣳ शा᳚स्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒द्ब्रह्म॑णा क्ष॒त्रꣳ समे॑ति॒ यथ्सं॒ न्युप्य॑ वि॒हर॑ति॒ तस्मा॒द् ब्रह्म॑णा क्ष॒त्रं ॅव्ये᳚त्यृ॒तुभि॒ - [ ]
पदपाठः (Word-by-word)
वीति॑ । वै । ए॒तौ । द्वि॒षा॒ते॒ इति॑ । यः । च॒ । पु॒रा । अ॒ग्निः । यः । च॒ । उ॒खाया᳚म् । समिति॑ । इ॒त॒म् । इति॑ । च॒त॒सृभि॒रिति॑ चत॒सृ-भिः॒ । सम् । नीति॑ । व॒प॒ति॒ । च॒त्वारि॑ । छन्दाꣳ॑सि । छन्दाꣳ॑सि । खलु॑ । वै । अ॒ग्नेः । प्रि॒या । त॒नूः । प्रि॒यया᳚ । ए॒व । ए॒नौ॒ । त॒नुवा᳚ । समिति॑ । शा॒स्ति॒ । समिति॑ । इ॒त॒म् । इति॑ । आ॒ह॒ । तस्मा᳚त् । ब्रह्म॑णा । क्ष॒त्रम् । समिति॑ । ए॒ति॒ । यत् । स॒न्युंप्येति॑ सं - न्युप्य॑ । वि॒हर॒तीति॑ वि - हर॑ति । तस्मा᳚त् । ब्रह्म॑णा । क्ष॒त्रम् । वीति॑ । ए॒ति॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वि वा इत्यादि ॥ पुरातनो गार्हपत्याग्निः प्रतिसमेधीयः उख्योऽन्यः । एतौ सह न्युप्यमानौ द्विषाते । तस्मात् 'समितं' इति चतसृभिः संनिवपति । एतदुक्तं भवति - उख्यमध्वर्युरादत्ते । प्रतिसमेधनीयं प्रतिप्रस्थाता । तौ पुरस्तात् प्रत्यञ्चौ गार्हपत्यचितौ अग्नी संनिवपत इति ॥
2 चत्वारीत्यीदि ॥ गतम् । तस्मादिति । अग्न्योः सुसङ्गतत्वेन ब्रह्मक्षत्रयोः सुसङ्गतत्वम् । व्येतीति । संन्युप्य सह न्युप्य विहरणात् ब्रह्माधीनप्रकाशं पृथक्त्वेन स्थितं क्षत्रमिति ॥
3 ऋतुभिर्वा इत्यादि ॥ यथोक्तं 'षड्भिर्दीक्षयति' इत्यादि । स इदानीं ऋतुभिरेव विमुच्यः विमोक्तव्यः । छान्दसः क्विप् । तस्मात् 'मातेव पुत्रं' इति शिक्यात् उखां निरूहति । अग्नियजमानयोरभेद उपचर्यते । ऋतुभिरेव कृतदीक्षस्य ऋतुभिरेव विमोकः कृतो भवति 'ऋतुभिः सविदानः' इति दर्शनात् । संवेदनमैकमत्यम् । स्वदयत्येवेति । वैश्वानरसम्बन्धात् स्वाद्वेव करोत्येनच्छिक्यं यजमानस्य ॥
4 नैरृतीरित्यादि ॥ नैरृत्यः । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । तिस्र इति । 'तिसृभ्यो जसः' इति उदात्तत्वम् । तुषैः पक्वाः तुषपक्वाः । तृतीयायाः पूर्वपदप्रकृतिस्वरत्वम् । निरृत्या इति षष्ठ्यर्थे चतुर्थी । निरवदयत इति । निपूर्वात्सा(?) निस्सारयति । रूपेणेति । रूपानुसारेण गच्छति ॥
5 इमामिति ॥ दक्षिणापरामङ्गुल्या निर्दिशति । एषा वा इत्यादि । गतम् ॥
6 स्वकृत इरिण इति ॥ नैसर्गिकमूषरम् । प्रदरो भूमिबिलम् । तत्र तास्तिस्र इष्टका उपदधाति ॥
7 शिक्यमिति ॥ शिक्यसमीपे पराचीरुपदधाति 'नमस्सुते निरृते' इति तिसृभिः । तिस्र इति स्रादेशोन्तोदात्त इष्यते । 'उदात्तयणः' इति शस उदात्तत्वम् । त्रेधेति । त्रिभिः देहभागैः ऊर्ध्वाधोमध्यभागैः ॥
8 पराचीरिति ॥ प्रत्यग्र इति । पराचीमिति । अपुनरावृत्ताम् । अप्रतीक्षमिति । पृष्ठतः प्रतिनिवृत्तां रक्षणमकुर्वन्तः आगच्छन्ति । आभीक्ष्ण्ये णमुल् । अन्तर्हीत्या इति । ''अन्तरपरिग्रह' इति गतित्वात् 'तादौ च' इति गतेः प्रकृतिस्वत्वम् ॥
9 मार्जयित्वोप तिष्ठन्ते इति ॥ 'असुन्वन्तं' इति द्वाभ्यां निर्ऋतिमुपतिष्ठते । गार्हपत्यमिति । 'निवेशनः' इत्येतया । निर्ऋतिलोक एवेत्यादि । गतम् ॥
इति पञ्चमे द्वितीये चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 5.2.4.2 TS 5.2.4.2
-र्वा ए॒तं दी᳚क्षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रं पृ॑थि॒वी पु॑री॒ष्य॑मित्या॑ह॒-र्तुभि॑रे॒वैनं॑ दीक्षयि॒त्वर्तुभि॒र्वि मु॑ञ्चति वैश्वान॒र्या शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑-न्नैर्.ऋ॒तीः कृ॒ष्णा-स्ति॒स्र-स्तुष॑पक्वा भवन्ति॒ निर्.ऋ॑त्यै॒ वा ए॒तद्-भा॑ग॒धेयं॒ ॅयत् तुषा॒ निर्.ऋ॑त्यै रू॒पं कृ॒ष्णꣳ रू॒पेणै॒व निर्.ऋ॑तिं नि॒रव॑दयत इ॒मां दिशं॑ ॅयन्त्ये॒षा - [ ]
पदपाठः (Word-by-word)
वै । ए॒तम् । दी॒क्ष॒य॒न्ति॒ । सः । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । वि॒मुच्य॒ इति॑ वि - मुच्यः॑ । मा॒ता । इ॒व॒ । पु॒त्रम् । पृ॒थि॒वी । पु॒री॒ष्य᳚म् । इति॑ । आ॒ह॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । दी॒क्ष॒यि॒त्वा । ऋ॒तुभि॒रित्यृ॒तु-भिः॒ । वीति॑ । मु॒ञ्च॒ति॒ । वै॒श्वा॒न॒र्या । शि॒क्य᳚म् । एति॑ । द॒त्ते॒ । स्व॒दय॑ति । ए॒व । ए॒न॒त्॒ । नै॒र्॒.ऋ॒तीरिति॑ नैः-ऋ॒तीः । कृ॒ष्णाः । ति॒स्रः । तुष॑पक्वा॒ इति॒ तुष॑ - प॒क्वाः॒ । भ॒व॒न्ति॒ । निर्.ऋ॑त्या॒ इति॒ निः - ऋ॒त्यै॒ । वै । ए॒तत् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । यत् । तुषाः᳚ । निर्.ऋ॑त्या॒ इति॒ निः-ऋ॒त्यै॒ । रू॒पम् । कृ॒ष्णम् । रू॒पेण॑ । ए॒व । निर्.ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । इ॒माम् । दिश᳚म् । य॒न्ति॒ । ए॒षा ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.2.4.3 TS 5.2.4.3
वै निर्.ऋ॑त्यै॒ दिक् स्वाया॑मे॒व दि॒शि निर्.ऋ॑तिं नि॒रव॑दयते॒ स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वै॒तद्वै निर्.ऋ॑त्या आ॒यत॑नꣳ॒॒ स्व ए॒वाऽऽ*यत॑ने॒ निर्.ऋ॑तिं नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑ दधाति नैर्.ऋ॒तो वै पाशः॑ सा॒क्षादे॒वैनं॑ निर्.ऋतिपा॒शान्-मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्-निर्.ऋ॑ति॒मव॑ यजते॒ परा॑ची॒रुप॑ - [ ]
पदपाठः (Word-by-word)
वै । निर्.ऋ॑त्या॒ इति॒ निः - ऋ॒त्यै॒ । दिक् । स्वाया᳚म् । ए॒व । दि॒शि । निर्.ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । स्वकृ॑त॒ इति॒ स्व - कृ॒ते॒ । इरि॑णे । उपेति॑ । द॒धा॒ति॒ । प्र॒द॒र इति॑ प्र - द॒रे । वा॒ । ए॒तत् । वै । निर्.ऋ॑त्या॒ इति॒ निः - ऋ॒त्याः॒ । आ॒यत॑न॒मित्या᳚ - यत॑नम् । स्वे । ए॒व । आ॒यत॑न॒ इत्या᳚ - यत॑ने । निर्.ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । शि॒क्य᳚म् । अ॒भि । उपेति॑ । द॒धा॒ति॒ । नै॒र्॒.ऋ॒त इति॑ नैः - ऋ॒तः । वै । पाशः॑ । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । ए॒न॒म् । नि॒र्॒.ऋ॒ति॒पा॒शादिति॑ निर्.ऋति - पा॒शात् । मु॒ञ्च॒ति॒ । ति॒स्रः । उपेति॑ । द॒धा॒ति॒ । त्रे॒धा॒वि॒हि॒त इति॑ त्रेधा - वि॒हि॒तः । वै । पुरु॑षः । यावान्॑ । ए॒व । पुरु॑षः । तस्मा᳚त् । निर्.ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । अवेति॑ । य॒ज॒ते॒ । परा॑चीः । उपेति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.2.4.4 TS 5.2.4.4
दधाति॒ परा॑चीमे॒वास्मा॒न्-निर्.ऋ॑तिं॒ प्रणु॑द॒ते ऽप्र॑तीक्ष॒मा य॑न्ति॒ निर्.ऋ॑त्या अ॒न्तर्.हि॑त्यै मार्जयि॒त्वोप॑ तिष्ठन्ते मेद्ध्य॒त्वाय॒ गार्.ह॑पत्य॒मुप॑ तिष्ठन्ते निर्.ऋति लो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒कमु॒पाव॑र्तन्त॒ एक॒योप॑ तिष्ठन्त एक॒धैव यज॑माने वी॒र्यं॑ दधति नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा वै प॒शवो॒ वसु॑ प्र॒जयै॒वैनं॑ प॒शुभिः॒ सम॑र्द्धयन्ति ॥
पदपाठः (Word-by-word)
द॒धा॒ति॒ । परा॑चीम् । ए॒व । अ॒स्मा॒त् । निर्.ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । प्रेति॑ । नु॒द॒ते॒ । अप्र॑तीक्ष॒मित्यप्र॑ति - ई॒क्ष॒म् । एति॑ । य॒न्ति॒ । निर्.ऋ॑त्या॒ इति॒ निः - ऋ॒त्याः॒ । अ॒न्तर्.हि॑त्या॒ इत्य॒न्तः - हि॒त्यै॒ । मा॒र्ज॒यि॒त्वा । उपेति॑ । ति॒ष्ठ॒न्ते॒ । मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । उपेति॑ । ति॒ष्ठ॒न्ते॒ । नि॒र्॒.ऋ॒ति॒लो॒क इति॑ निर्.ऋति - लो॒के । ए॒व । च॒रि॒त्वा । पू॒ताः । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । उ॒पाव॑र्तन्त॒ इत्यु॑प - आव॑र्तन्ते । एक॑या । उपेति॑ । ति॒ष्ठ॒न्ते॒ । ए॒क॒धेत्ये॑क - धा । ए॒व । यज॑माने । वी॒र्य᳚म् । द॒ध॒ति॒ । नि॒वेश॑न॒ इति॑ नि-वेश॑नः । स॒ङ्गम॑न॒ इति॑ सं- गम॑नः । वसू॑नाम् । इति॑ । आ॒ह॒ । प्र॒जेति॑ प्र - जा । वै । प॒शवः॑ । वसु॑ । प्र॒जयेति॑ प्र - जया᳚ । ए॒व । ए॒न॒म् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । समिति॑ । अ॒द्‌र्ध॒य॒न्ति॒ ॥
पदसंख्या: 48