पञ्चशत् 1 #
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वै᳚श्वान॒रस्य॑ सू॒क्तꣳ सू॒क्तेनै॒व वै᳚श्वान॒रमव॑ रुन्धे ष॒ड्भिर्नि व॑पति॒ षड्वा ऋ॒तवः॑ संॅवथ्स॒रः सं॑ॅवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व वै᳚श्वान॒रमव॑ रुन्धे समु॒द्रं ॅवै नामै॒तच्छन्दः॑ समु॒द्रमनु॑ प्र॒जाः प्रजा॑यन्ते॒ यदे॒तेन॒ सिक॑ता नि॒ वप॑ति प्र॒जानां᳚ प्र॒जन॑ना॒येन्द्रो॑ - [ ]
पदपाठः (Word-by-word)
अग्ने᳚ । तव॑ । श्रवः॑ । वयः॑ । इति॑ । सिक॑ताः । नीति॑ । व॒प॒ति॒ । ए॒तत् । वै । अ॒ग्नेः । वै॒श्वा॒न॒रस्य॑ । सू॒क्तमिति॑ सु - उ॒क्तम् । सू॒क्तेनेति॑ सु - उ॒क्तेन॑ । ए॒व । वै॒श्वा॒न॒रम् । अवेति॑ । रु॒न्धे॒ । ष॒ड्भिरिति॑ षट् - भिः । नीति॑ । व॒प॒ति॒ । षट् । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अ॒ग्निः । वै॒श्वा॒न॒रः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । वै॒श्वा॒न॒रम् । अवेति॑ । रु॒न्धे॒ । स॒मु॒द्रम् । वै । नाम॑ । ए॒तत् । छन्दः॑ । स॒मु॒द्रम् । अन्विति॑ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । जा॒य॒न्ते॒ । यत् । ए॒तेन॑ । सिक॑ताः । नि॒वप॒तीति॑ नि - वप॑ति । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । इन्द्रः॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्ने तव श्रवो वय इत्यादि ॥ व्याघारणान्तं कृत्वा तत्रानेन सूक्तेन षडृचेन सिकता निवपति । विश्वेषां नराणां स्वामित्वेन सम्बन्धी वैश्वानरः ॥
2 समुद्रं वा इति ॥ समुन्दनशीलं समुद्रं अवस्थितस्वरूपम् । तथा हि - प्रथमा विष्टारपङ्क्तिः, मध्यमयोः पादयोः द्वादशाक्षरत्वात् । द्विप्तीयाऽस्तारपक्तिः, अयुक्पादयोः द्वादशाक्षरत्वात् । यथा द्वितीया तथा तृतीया यथा प्रथमा तथा चतुर्थी उपरिष्टाज्ज्योतिर्जगती पञ्चमी, चतुर्थस्य पादस्याष्टाक्षरत्वात् । यथा द्वितीय तृतीये तथा षष्ठीति । समुद्रमनुगताः प्रजाः प्रजायन्ते यस्मात् तस्मात्प्रजानां प्रजननानि भवन्ति एतेन सिकता निवपतः ॥
3 इन्द्रो वृत्रायेत्यादि ॥ व्यभवत् । शराः शकलानि । शर्करत्वमिति । शरणात् शर्करः । 'त्वे च' इति ह्रस्वत्वम् ॥
4 वज्रो वा इत्यादि ॥ तदेकदेशत्वात् । पशुरिति । तत्साधनत्वात् । अग्निं आहवनीयचितेरायतनं परिमिनोति परिश्रयति । डु मिङ् प्रक्षेपणे । स्थेयान् स्थिरतरः । अस्थेयान् अर्थी, न तु स्थेयानितरार्थी ॥
5 त्रिसप्ताभिरिति ॥ त्रीणि सप्तकानि यासां ताः त्रिसप्ताः । 'बहुव्रीहौ सङ्ख्ये' इति डच् । पशुकामस्येति । 'शीलिकामि' इति णः । पूर्वपदप्रकृतिस्वरत्वं च । त्रिणवाभिरिति । सप्तविंशत्या । उक्तः समासान्तः । त्रिवृतमिति । वज्रस्य त्रिवृत्त्वमुक्तम् । स्तृत्या इति । स्तृ हिंसायाम् । अपरिमिताभिरिति । माङ् माने, 'द्यतिस्यति' इत्यादिना इत्वम् ॥
6 अथ सिकताव्यूहनं विधातुमाह - यं कामयेतेत्यादि ॥ शर्करा अपरिमित्य अपरिश्रित्य सिकता व्यूहेत् पूर्वं न्युप्ता विप्रियेत् [न्युप्येत्] । अपरिमित स्थाने विषूचीनं विष्वग्गतं परा सिञ्चति पराभूतं सिञ्चति रेतः । तेनापशुस्स्यात् रेतोनाशात् । विष्वङ् नाना अञ्चतीति ऋत्विगादिना क्विप् । 'विभाषाञ्चेरदि क्स्त्रियाम्' इति खः । नकाराकारयोर्लुप्तयोः 'चौ' इति दीर्घत्वम् ॥
7 समीचीनमिति ॥ सङ्गतमञ्चतीति सम्यक् । 'समस्समि' इति सम्यादेशः पूर्ववत्सः, दीर्घत्वं च ॥
8 सौम्येति ॥ 'आ प्यायस्व' इत्यनया गायत्र्या । त्रिष्टुभेति । 'सं ते पयांसि' इति । गायत्रीत्रिष्टुब्भ्यां सह जातत्वाद्गायत्रत्रैष्टुभौ ब्राह्मणराजन्यौ । त्रिष्टुब्छब्द उत्सादिः ॥
9 शंयुमित्यादि ॥ बृहस्पतिशब्दं [बृहस्पतिपुत्रं] शंयुनामानं मेधः यज्ञो नोपानमत् । सोऽग्निं प्राविशत् । ततोऽग्नेः कष्णमृगो भूत्वा रूपं च तदीयं कृत्वा उदगच्छत् स मेधः । अनन्तरं स मेधोऽश्वं प्राविशत् । अथ सोऽश्वस्यावान्तरशफोऽभवत् । तस्मात् यदश्वं आक्रमयति चित्यायतनं अभ्यस्तात्तत् अश्वं प्रविष्टस्य मेधस्य लाभाय भवति ॥
10 प्रजापतिना इत्यादि ॥ प्रजापतिरेवाग्निं चेतुमर्हतीति ब्रुवते पुराविदः । अर्हे कृत्यः । योनिर्वा इति । 'त्वामग्ने पुष्करादधि' इति लिङ्गात् । अपां वा एतत् पृष्ठमिति । उपरिभावसामान्यात् । रूपेणैवेति । पुष्करपर्णं यद्रूपमपां पृष्ठत्वं तेनैव रूपेण अनुकीर्तितेन उपदधाति उपधानं कृतं भवति ॥
इति पञ्चमे द्वितीये षष्ठोऽनुवाकः ॥