पञ्चशत् 1 #
विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒मान् ॅलो॒कान॑नपज॒य्य म॒भ्य॑जय॒न्॒.यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् ॅलो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्य-भिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्ठु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒ श्छन्दो॑भिरे॒वेमान् ॅलो॒कान्. य॑था पू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः - [ ]
पदपाठः (Word-by-word)
विष्णु॑मुखा॒ इति॒ विष्णु॑ - मु॒खाः॒ । वै । दे॒वाः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप - ज॒य्यम् । अ॒भीति॑ । अ॒ज॒य॒न्न् । यत् । वि॒ष्णु॒क्र॒मानिति॑ विष्णु-क्र॒मान् । क्रम॑ते । विष्णुः॑ । ए॒व । भू॒त्वा । यज॑मानः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप-ज॒य्यम् । अ॒भीति॑ । ज॒य॒ति॒ । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति-हा । इति॑ । आ॒ह॒ । गा॒य॒त्री । वै । पृ॒थि॒वी । त्रैष्टु॑भम् । अ॒न्तरि॑क्षम् । जाग॑ती । द्यौः । आनु॑ष्टुभी॒रित्यानु॑ - स्तु॒भीः॒ । दिशः॑ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । इ॒मान् । लो॒कान् । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । अ॒भीति॑ । ज॒य॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒सृ॒ज॒त॒ । सः॒ । अ॒स्मा॒त् । सृ॒ष्टः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
पञ्चमकाण्डे
प्रथमः प्रश्नः ॥
1 पुनरप्यग्निकाण्डमेव - विष्णुमुखा इत्यादि ॥ विष्णुप्रधानभूताः देवाः अनपजय्यं अपजेतुं न शक्यत इति । 'अचो यत्', 'क्षय्यजय्यौ शक्यार्थे' इति अयादेशो निपात्यते । 'ययतोश्चातदर्थे' इति उत्तरपदान्तोदात्तत्वम् । विष्णुक्रमाः 'विष्णोः क्रमोसि' इत्यादयः । गायत्रीत्यादि । तदधीनजयत्वात् तदीयत्वम् । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्यः उत्सादित्वादञ् । विष्णुक्रमानन्तरं जपतीत्यर्थः ॥
2 ईश्वरो वा इत्यादि ॥ विष्णुक्रमाणां क्रमिता पराङेव प्रदघः प्रस्थातुमीश्वरः । दघेः 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । चतसृभिरिति । 'अग्नेऽभ्यावर्तिन्' इत्यादिभिः चतसृभिः ऋग्भिः दक्षिणमंसमभिपर्यावर्तते । 'झल्युपोत्तमम्' इत्युपोत्तमस्योदात्तत्वम् ॥
3 छन्दांसि खल्वित्यादि ॥ प्रधानसाधनत्वात् शरीरमेवाग्नेः छन्दांसि । तस्मात् चतुस्सङ्ख्यान्वयात् प्रियामग्नेः तनुवमभिपर्यावर्तते । दक्षिणेत्यादि । गतम् । आत्मनः शरीरस्य वीर्यावत्तरः अतिशयेन वीर्यवान् । छान्दसं दीर्घत्वम् । अथो अपि च आदित्यस्यैवावृतं पर्यावृत्तिं अनु लक्षीकृत्य पर्यावर्तते । ननु अप्रदक्षिणमेव आदित्यो गच्छति - तथा हि, अश्विभ्यां दृष्टो भगवान् कतिपयदिवसव्यतिक्रमे भरण्यामुपलभ्यते, ततः कृत्तिकासु, सत्यं, इदं तु ध्रुवा धारात् हात् (?) क्षिप्रं ज्योतिश्चक्रं प्रदक्षिणं भ्रमति । तत्रस्थोऽयमपि भगवान् आराधनवशेन प्रदक्षिणं पर्यावर्तमानो लौकिकैः अभिमन्यते । तदभिप्रायमिदं ब्राह्मणमिति ॥
4 शुनश्शेपो नामाजीगर्तपुत्रः । वारुणीं 'उदुत्तमम्' इत्येतां अपश्यत् । तेन स एवास्य ऋषिः । अनया अस्य शिक्यपाशं मुञ्चते । शुनश्शेपस्य वनस्पत्यादित्वात् पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । आत्वाऽहार्षमिति । द्वाभ्यामेनं हरति । ध्रुवमकरिति । ध्रुवं अचलितं करोति । छान्दसो लुङ् । 'मन्त्रे घस' इति च्लेर्लुक् । ध्रुवत्वं राष्ट्रस्य नित्यसंबन्धः । नित्यं राष्ट्रं स्यादिति यावत् । अग्रमधिप्रधानम् । गतमन्यत् ॥
5 चतसृभिरिति ॥ अन्तर्वेद्येनमासादयति । छन्दोभिरेवेति । सादयतीत्येव । अतिच्छन्दसोत्तमयेति । सादयतीत्येव । 'हंसश्शुचिषत्' इति जगती अतिच्छन्दाः । उत्तमशब्द उञ्छादिः । वर्ष्म उच्छ्रायः । सद्वती सच्छब्दवती उत्तमा भवति । भूम्नि वतुप् ॥
6 वात्सप्रेणेति ॥ 'दिवस्परि' इत्येकादशर्चं सूक्तं वात्सप्रम् । तेन उख्यं प्रातरग्निमुपतिष्ठते । अथास्य वात्सप्रत्वं निर्वक्ति - एतेन वा इत्यादि । वत्सप्रीर्नाम भलन्दनस्य पुत्रः । शिवाद्यणन्तः । एकादशर्चः परिमाणमस्येति स्तोमे डविधिः । किमस्य स्तोमस्य स्तोमत्वं यदाह - स्तोमेन वा इति । एकधैवेति । एकस्तोमत्वादेकादशानाम् ॥
7 पूर्वेद्युरिति ॥ पूर्वस्मिन् अहनि प्रक्रामति विष्णुक्रमान् क्रामति । उत्तरेऽद्युः उत्तरेऽहनि उपतिष्ठते वात्सप्रेण । 'सद्यः परुत्' इत्यादौ द्वे एते निपात्येते । तस्मादित्यादि । गतम् । अलब्धस्य लाभो योगः, लब्धस्य पालनं क्षेमः । काश्चित्प्रजाः योगः श्रेयानिति मन्यन्ते या आर्जनशीला बहुव्ययाः । काश्चित् क्षेम एव श्रेयानिति मन्यन्ते या आर्जनशीला व्ययभीरवः । क्षेमेऽन्यासामिति । प्रजानां मन इत्येव । क्रमेणोपस्थानवैलक्षण्यहेतुकं प्रजानां मनः मनोवैलक्षण्यमिति । तस्मात् यायावरः यानशीलः यजमानः क्षेम्यस्य ईशे ईष्टे न योगमर्हति । 'यश्च यङः' इति वरच् । 'स्व औत्यक्षेभ्य स्येश' (?) इत्यादिना स्वार्थे क्षेमशब्दाद्यः । 'लोपस्त आत्मनेपदेषु' इति ईष्ट इत्यत्र तलोपः । यस्मात् एवं यायावरः क्षेममेवार्हति तस्मादेव यायावरः क्षेममेव कर्तुमध्यवस्यति न योगमितीत्याह । एवमत्र प्रयाणं कर्तव्यमिति सूचितं भवति ॥
8 मुष्टीत्यादि ॥ प्रकृतिवत् ॥
इति पञ्चमे द्वितीये प्रथमोनुवाकः ॥