अनुवाकः 1 TS 5.2.1

(A1)

(सृ॒ष्टो᳚ऽ - (1॒) भ्ये॑ - तया॑ - भवति॒ - सद्व॑त्यु - प॒तिष्ठ॑ते॒ - द्विच॑त्वारिꣳशच्च)

अनुवाकः 1 - Complete Audio

TS 5.2.1 - स्वरानुगामी

0:00 0:00
PS1.1 विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒मान्
PS1.2 ॅलो॒कान॑नपज॒य्य म॒भ्य॑जय॒न्॒.यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व
PS1.3 भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् ॅलो॒कान॑नपज॒य्यम॒भि ज॑यति॒
PS1.4 विष्णोः॒ क्रमो᳚ऽस्य-भिमाति॒हेत्या॑ह गाय॒त्री वै
PS1.5 पृ॑थि॒वी त्रैष्ठु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒
PS1.6 श्छन्दो॑भिरे॒वेमान् ॅलो॒कान्. य॑था पू॒र्वम॒भि
PS1.7 ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः
PS1.8 - [ ]
PS2.1 परा॑ङै॒त् तमे॒तया ऽन्वै॒दक्र॑न्द॒दिति॒ तया॒
PS2.2 वै सो᳚ऽग्नेः प्रि॒यं धामाऽवा॑रुन्ध॒
PS2.3 यदे॒ताम॒न्वाहा॒-ग्नेरे॒वैतया᳚ प्रि॒यं धामाऽव॑ रुन्ध
PS2.4 ईश्व॒रो वा ए॒ष परा᳚ङ्
PS2.5 प्र॒दघो॒ यो वि॑ष्णुक्र॒मान् क्रम॑ते
PS2.6 चत॒सृभि॒रा व॑र्तते च॒त्वारि॒ छन्दाꣳ॑सि॒
PS2.7 छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः
PS2.8 प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑ त॒नुव॑म॒भि
PS2.9 - [ ]
PS3.1 प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व
PS3.2 वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्-दक्षि॒णोऽर्द्ध॑ आ॒त्मनो॑
PS3.3 वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽ*वृत॒मनु॑ प॒र्याव॑र्तते॒ शुन॒श्शेप॒माजी॑गर्तिं॒
PS3.4 ॅवरु॑णोऽगृह्णा॒थ् स ए॒तां ॅवा॑रु॒णीम॑पश्य॒त्
PS3.5 तया॒ वै स आ॒त्मानं॑
PS3.6 ॅवरुणपा॒शाद॑मुञ्च॒द्-वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒
PS3.7 य उ॒खां प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मं
PS3.8 ॅव॑रुण॒पाश॑-म॒स्मदित्या॑हा॒-ऽऽ*त्मान॑मे॒वैतया॑ - [ ]
PS4.1 वरुणपा॒शान् मु॑ञ्च॒त्या त्वा॑ऽ*हार्.ष॒मित्या॒हा ऽऽ*ह्य॑नꣳ॒॒
PS4.2 हर॑ति ध्रु॒वस्ति॒ष्ठा ऽवि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒
PS4.3 विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वित्या॑ह वि॒शैवैनꣳ॒॒
PS4.4 सम॑र्द्धयत्य॒स्मिन् रा॒ष्ट्रमधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न्
PS4.5 ध्रु॒वम॑क॒र्यं का॒मये॑त रा॒ष्ट्रꣳ स्या॒दिति॒
PS4.6 तं मन॑सा ध्यायेद्-रा॒ष्ट्रमे॒व भ॑व॒त्य
PS4.7 - [ ]
PS5.1 -ग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्द्ध्वो अ॑स्था॒दित्या॒हाऽग्र॑मे॒वैनꣳ॑ समा॒नानां᳚
PS5.2 करोति निर्जग्मि॒वान् तम॑स॒ इत्या॑ह॒
PS5.3 तम॑ ए॒वास्मा॒दप॑ हन्ति॒ ज्योति॒षा-
PS5.4 ऽऽगा॒दित्या॑ह॒ ज्योति॑रे॒वा-स्मि॑न् दधाति चत॒सृभिः॑
PS5.5 सादयति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वाऽ-ति॑च्छन्दसोत्त॒मया॒
PS5.6 वर्ष्म॒ वा ए॒षा छन्द॑सां॒
PS5.7 ॅयदति॑च्छन्दा॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति॒
PS5.8 सद्व॑ती - [ ]
PS6.1 भवति स॒त्त्वमे॒वैनं॑ गमयति वाथ्स॒प्रेणोप॑
PS6.2 तिष्ठत ए॒तेन॒ वै व॑थ्स॒प्रीर्भा॑लन्द॒नो᳚ऽग्नेः
PS6.3 प्रि॒यं धामाऽवा॑ऽरुन्धा॒ऽग्नेरे॒वैतेन॑ प्रि॒यं धामाऽव॑
PS6.4 रुन्ध एकाद॒शं भ॑वत्येक॒धैव यज॑माने
PS6.5 वी॒र्यं॑ दधाति॒ स्तोमे॑न॒ वै
PS6.6 दे॒वा अ॒स्मिन् ॅलो॒क आ᳚र्द्ध्नुव॒न्
PS6.7 छन्दो॑भिर॒मुष्मि॒न्थ् स्तोम॑स्येव॒ खलु॒ वा
PS6.8 ए॒तद्-रू॒पं ॅयद्-वा᳚थ्स॒प्रं ॅयद्-वा᳚थ्स॒प्रेणो॑प॒तिष्ठ॑त -
PS6.9 [ ]
PS7.1 इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒
PS7.2 यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति
PS7.3 पूर्वे॒द्युः प्रक्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒ तस्मा॒द्-योगे॒ऽन्यासां᳚
PS7.4 प्र॒जानां॒ मनः॒ क्षेमे॒ऽन्यासां॒ तस्मा᳚द्-यायाव॒रः
PS7.5 क्षे॒म्यस्ये॑शे॒ तस्मा᳚द्-यायाव॒रः क्षे॒म्यम॒द्ध्यव॑स्यति मु॒ष्टी
PS7.6 क॑रोति॒ वाचं॑ ॅयच्छति य॒ज्ञ्स्य॒
PS7.7 धृत्यै᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.2.1.1 TS 5.2.1.1
विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒मान् ॅलो॒कान॑नपज॒य्य म॒भ्य॑जय॒न्॒.यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒मान् ॅलो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्य-भिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्ठु॑भम॒न्तरि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒ श्छन्दो॑भिरे॒वेमान् ॅलो॒कान्. य॑था पू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः - [ ]
पदपाठः (Word-by-word)
विष्णु॑मुखा॒ इति॒ विष्णु॑ - मु॒खाः॒ । वै । दे॒वाः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप - ज॒य्यम् । अ॒भीति॑ । अ॒ज॒य॒न्न् । यत् । वि॒ष्णु॒क्र॒मानिति॑ विष्णु-क्र॒मान् । क्रम॑ते । विष्णुः॑ । ए॒व । भू॒त्वा । यज॑मानः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । इ॒मान् । लो॒कान् । अ॒न॒प॒ज॒य्यमित्य॑नप-ज॒य्यम् । अ॒भीति॑ । ज॒य॒ति॒ । विष्णोः᳚ । क्रमः॑ । अ॒सि॒ । अ॒भि॒मा॒ति॒हेत्य॑भिमाति-हा । इति॑ । आ॒ह॒ । गा॒य॒त्री । वै । पृ॒थि॒वी । त्रैष्टु॑भम् । अ॒न्तरि॑क्षम् । जाग॑ती । द्यौः । आनु॑ष्टुभी॒रित्यानु॑ - स्तु॒भीः॒ । दिशः॑ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । इ॒मान् । लो॒कान् । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । अ॒भीति॑ । ज॒य॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒सृ॒ज॒त॒ । सः॒ । अ॒स्मा॒त् । सृ॒ष्टः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीय संहितायां

पञ्चमकाण्डे

प्रथमः प्रश्नः ॥

1 पुनरप्यग्निकाण्डमेव - विष्णुमुखा इत्यादि ॥ विष्णुप्रधानभूताः देवाः अनपजय्यं अपजेतुं न शक्यत इति । 'अचो यत्', 'क्षय्यजय्यौ शक्यार्थे' इति अयादेशो निपात्यते । 'ययतोश्चातदर्थे' इति उत्तरपदान्तोदात्तत्वम् । विष्णुक्रमाः 'विष्णोः क्रमोसि' इत्यादयः । गायत्रीत्यादि । तदधीनजयत्वात् तदीयत्वम् । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्यः उत्सादित्वादञ् । विष्णुक्रमानन्तरं जपतीत्यर्थः ॥
2 ईश्वरो वा इत्यादि ॥ विष्णुक्रमाणां क्रमिता पराङेव प्रदघः प्रस्थातुमीश्वरः । दघेः 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । चतसृभिरिति । 'अग्नेऽभ्यावर्तिन्' इत्यादिभिः चतसृभिः ऋग्भिः दक्षिणमंसमभिपर्यावर्तते । 'झल्युपोत्तमम्' इत्युपोत्तमस्योदात्तत्वम् ॥
3 छन्दांसि खल्वित्यादि ॥ प्रधानसाधनत्वात् शरीरमेवाग्नेः छन्दांसि । तस्मात् चतुस्सङ्ख्यान्वयात् प्रियामग्नेः तनुवमभिपर्यावर्तते । दक्षिणेत्यादि । गतम् । आत्मनः शरीरस्य वीर्यावत्तरः अतिशयेन वीर्यवान् । छान्दसं दीर्घत्वम् । अथो अपि च आदित्यस्यैवावृतं पर्यावृत्तिं अनु लक्षीकृत्य पर्यावर्तते । ननु अप्रदक्षिणमेव आदित्यो गच्छति - तथा हि, अश्विभ्यां दृष्टो भगवान् कतिपयदिवसव्यतिक्रमे भरण्यामुपलभ्यते, ततः कृत्तिकासु, सत्यं, इदं तु ध्रुवा धारात् हात् (?) क्षिप्रं ज्योतिश्चक्रं प्रदक्षिणं भ्रमति । तत्रस्थोऽयमपि भगवान् आराधनवशेन प्रदक्षिणं पर्यावर्तमानो लौकिकैः अभिमन्यते । तदभिप्रायमिदं ब्राह्मणमिति ॥
4 शुनश्शेपो नामाजीगर्तपुत्रः । वारुणीं 'उदुत्तमम्' इत्येतां अपश्यत् । तेन स एवास्य ऋषिः । अनया अस्य शिक्यपाशं मुञ्चते । शुनश्शेपस्य वनस्पत्यादित्वात् पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । आत्वाऽहार्षमिति । द्वाभ्यामेनं हरति । ध्रुवमकरिति । ध्रुवं अचलितं करोति । छान्दसो लुङ् । 'मन्त्रे घस' इति च्लेर्लुक् । ध्रुवत्वं राष्ट्रस्य नित्यसंबन्धः । नित्यं राष्ट्रं स्यादिति यावत् । अग्रमधिप्रधानम् । गतमन्यत् ॥
5 चतसृभिरिति ॥ अन्तर्वेद्येनमासादयति । छन्दोभिरेवेति । सादयतीत्येव । अतिच्छन्दसोत्तमयेति । सादयतीत्येव । 'हंसश्शुचिषत्' इति जगती अतिच्छन्दाः । उत्तमशब्द उञ्छादिः । वर्ष्म उच्छ्रायः । सद्वती सच्छब्दवती उत्तमा भवति । भूम्नि वतुप् ॥
6 वात्सप्रेणेति ॥ 'दिवस्परि' इत्येकादशर्चं सूक्तं वात्सप्रम् । तेन उख्यं प्रातरग्निमुपतिष्ठते । अथास्य वात्सप्रत्वं निर्वक्ति - एतेन वा इत्यादि । वत्सप्रीर्नाम भलन्दनस्य पुत्रः । शिवाद्यणन्तः । एकादशर्चः परिमाणमस्येति स्तोमे डविधिः । किमस्य स्तोमस्य स्तोमत्वं यदाह - स्तोमेन वा इति । एकधैवेति । एकस्तोमत्वादेकादशानाम् ॥
7 पूर्वेद्युरिति ॥ पूर्वस्मिन् अहनि प्रक्रामति विष्णुक्रमान् क्रामति । उत्तरेऽद्युः उत्तरेऽहनि उपतिष्ठते वात्सप्रेण । 'सद्यः परुत्' इत्यादौ द्वे एते निपात्येते । तस्मादित्यादि । गतम् । अलब्धस्य लाभो योगः, लब्धस्य पालनं क्षेमः । काश्चित्प्रजाः योगः श्रेयानिति मन्यन्ते या आर्जनशीला बहुव्ययाः । काश्चित् क्षेम एव श्रेयानिति मन्यन्ते या आर्जनशीला व्ययभीरवः । क्षेमेऽन्यासामिति । प्रजानां मन इत्येव । क्रमेणोपस्थानवैलक्षण्यहेतुकं प्रजानां मनः मनोवैलक्षण्यमिति । तस्मात् यायावरः यानशीलः यजमानः क्षेम्यस्य ईशे ईष्टे न योगमर्हति । 'यश्च यङः' इति वरच् । 'स्व औत्यक्षेभ्य स्येश' (?) इत्यादिना स्वार्थे क्षेमशब्दाद्यः । 'लोपस्त आत्मनेपदेषु' इति ईष्ट इत्यत्र तलोपः । यस्मात् एवं यायावरः क्षेममेवार्हति तस्मादेव यायावरः क्षेममेव कर्तुमध्यवस्यति न योगमितीत्याह । एवमत्र प्रयाणं कर्तव्यमिति सूचितं भवति ॥
8 मुष्टीत्यादि ॥ प्रकृतिवत् ॥
इति पञ्चमे द्वितीये प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.2.1.2 TS 5.2.1.2
परा॑ङै॒त् तमे॒तया ऽन्वै॒दक्र॑न्द॒दिति॒ तया॒ वै सो᳚ऽग्नेः प्रि॒यं धामाऽवा॑रुन्ध॒ यदे॒ताम॒न्वाहा॒-ग्नेरे॒वैतया᳚ प्रि॒यं धामाऽव॑ रुन्ध ईश्व॒रो वा ए॒ष परा᳚ङ् प्र॒दघो॒ यो वि॑ष्णुक्र॒मान् क्रम॑ते चत॒सृभि॒रा व॑र्तते च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दाꣳ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑ त॒नुव॑म॒भि - [ ]
पदपाठः (Word-by-word)
पराङ्॑ । ऐ॒त् । तम् । ए॒तया᳚ । अन्विति॑ । ऐ॒त् । अक्र॑न्दत् । इति॑ । तया᳚ । वै । सः । अ॒ग्नेः । प्रि॒यम् । धाम॑ । अवेति॑ । अ॒रु॒न्ध॒ । यत् । ए॒ताम् । अ॒न्वाहेत्य॑नु-आह॑ । अ॒ग्नेः । ए॒व । ए॒तया᳚ । प्रि॒यम् । धाम॑ । अवेति॑ । रु॒न्धे॒ । ई॒श्व॒रः । वै । ए॒षः । पराङ्॑ । प्र॒दघ॒ इति॑ प्र -दघः॑ । यः । वि॒ष्णु॒क्र॒मानिति॑ विष्णु - क्र॒मान् । क्रम॑ते । च॒त॒सृभि॒रिति॑ चत॒सृ - भिः॒ । एति॑ । व॒र्त॒ते॒ । च॒त्वारि॑ । छन्दाꣳ॑सि । छन्दाꣳ॑सि । खलु॑ । वै । अ॒ग्नेः । प्रि॒या । त॒नूः । प्रि॒याम् । ए॒व । अ॒स्य॒ । त॒नुव᳚म् । अ॒भीति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.2.1.3 TS 5.2.1.3
प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्-दक्षि॒णोऽर्द्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽ*वृत॒मनु॑ प॒र्याव॑र्तते॒ शुन॒श्शेप॒माजी॑गर्तिं॒ ॅवरु॑णोऽगृह्णा॒थ् स ए॒तां ॅवा॑रु॒णीम॑पश्य॒त् तया॒ वै स आ॒त्मानं॑ ॅवरुणपा॒शाद॑मुञ्च॒द्-वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ य उ॒खां प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मं ॅव॑रुण॒पाश॑-म॒स्मदित्या॑हा॒-ऽऽ*त्मान॑मे॒वैतया॑ - [ ]
पदपाठः (Word-by-word)
प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । द॒क्षि॒णा । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । स्वम् । ए॒व । वी॒र्य᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । तस्मा᳚त् । दक्षि॑णः । अद्‌र्धः॑ । आ॒त्मनः॑ । वी॒र्या॑वत्तर॒ इति॑ वी॒र्या॑वत् - त॒रः॒ । अथो॒ इति॑ । आ॒दि॒त्यस्य॑ । ए॒व । आ॒वृत॒मित्या᳚ - वृत᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । शुन॒श्शेप᳚म् । आजी॑गर्तिम् । वरु॑णः । अ॒गृ॒ह्णा॒त् । सः । ए॒ताम् । वा॒रु॒णीम् । अ॒प॒श्य॒त् । तया᳚ । वै । सः । आ॒त्मान᳚म् । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । अ॒मु॒ञ्च॒त् । वरु॑णः । वै । ए॒तम् । गृ॒ह्णा॒ति॒ । यः । उ॒खाम् । प्र॒ति॒मु॒ञ्चत॒ इति॑ प्रति - मु॒ञ्चते᳚ । उदिति॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् । व॒रु॒ण॒ । पाश᳚म् । अ॒स्मत् । इति॑ । आ॒ह॒ । आ॒त्मान᳚म् । ए॒व । ए॒तया᳚ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.2.1.4 TS 5.2.1.4
वरुणपा॒शान् मु॑ञ्च॒त्या त्वा॑ऽ*हार्.ष॒मित्या॒हा ऽऽ*ह्य॑नꣳ॒॒ हर॑ति ध्रु॒वस्ति॒ष्ठा ऽवि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वित्या॑ह वि॒शैवैनꣳ॒॒ सम॑र्द्धयत्य॒स्मिन् रा॒ष्ट्रमधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न् ध्रु॒वम॑क॒र्यं का॒मये॑त रा॒ष्ट्रꣳ स्या॒दिति॒ तं मन॑सा ध्यायेद्-रा॒ष्ट्रमे॒व भ॑व॒त्य - [ ]
पदपाठः (Word-by-word)
व॒रु॒ण॒पा॒शादिति॑ वरुण-पा॒शात् । मु॒ञ्च॒ति॒ । एति॑ । त्वा॒ । अ॒हा॒र्॒.ष॒म् । इति॑ । आ॒ह॒ । एति॑ । हि । ए॒न॒म् । हर॑ति । ध्रु॒वः । ति॒ष्ठ॒ । अवि॑चाचलि॒रित्यवि॑ - चा॒च॒लिः॒ । इति॑ । आ॒ह॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । विशः॑ । त्वा॒ । सर्वाः᳚ । वा॒ञ्छ॒न्तु॒ । इति॑ । आ॒ह॒ । वि॒शा । ए॒व । ए॒न॒म् । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अ॒स्मिन्न् । रा॒ष्ट्रम् । अधीति॑ । श्र॒य॒ । इति॑ । आ॒ह॒ । रा॒ष्ट्रम् । ए॒व । अ॒स्मि॒न्न् । ध्रु॒वम् । अ॒कः॒ । यम् । का॒मये॑त । रा॒ष्ट्रम् । स्या॒त् । इति॑ । तम् । मन॑सा । ध्या॒ये॒त् । रा॒ष्ट्रम् । ए॒व । भ॒व॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.2.1.5 TS 5.2.1.5
-ग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्द्ध्वो अ॑स्था॒दित्या॒हाऽग्र॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति निर्जग्मि॒वान् तम॑स॒ इत्या॑ह॒ तम॑ ए॒वास्मा॒दप॑ हन्ति॒ ज्योति॒षा- ऽऽगा॒दित्या॑ह॒ ज्योति॑रे॒वा-स्मि॑न् दधाति चत॒सृभिः॑ सादयति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒वाऽ-ति॑च्छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑सां॒ ॅयदति॑च्छन्दा॒ वर्ष्मै॒वैनꣳ॑ समा॒नानां᳚ करोति॒ सद्व॑ती - [ ]
पदपाठः (Word-by-word)
अग्रे᳚ । बृ॒हन्न् । उ॒षसा᳚म् । ऊ॒द्‌र्ध्वः । अ॒स्था॒त् । इति॑ । आ॒ह॒ । अग्र᳚म् । ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । नि॒र्ज॒ग्मि॒वानिति॑ निः-ज॒ग्मि॒वान् । तम॑सः । इति॑ । आ॒ह॒ । तमः॑ । ए॒व । अ॒स्मा॒त् । अपेति॑ । ह॒न्ति॒ । ज्योति॑षा । एति॑ । अ॒गा॒त् । इति॑ । आ॒ह॒ । ज्योतिः॑ । ए॒व । अ॒स्मि॒न्न् । द॒धा॒ति॒ । च॒त॒सृभि॒रिति॑ चत॒सृ - भिः॒ । सा॒द॒य॒ति॒ । च॒त्वारि॑ । छन्दाꣳ॑सि । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । अति॑च्छन्द॒सेत्यति॑ - छ॒न्द॒सा॒ । उ॒त्त॒मयेत्यु॑त् - त॒मया᳚ । वर्ष्म॑ । वै । ए॒षा । छन्द॑साम् । यत् । अति॑च्छन्दा॒ इत्यति॑ - छ॒न्दाः॒ । वर्ष्म॑ । ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । सद्व॒तीति॒ सत् - व॒ती॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.2.1.6 TS 5.2.1.6
भवति स॒त्त्वमे॒वैनं॑ गमयति वाथ्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै व॑थ्स॒प्रीर्भा॑लन्द॒नो᳚ऽग्नेः प्रि॒यं धामाऽवा॑ऽरुन्धा॒ऽग्नेरे॒वैतेन॑ प्रि॒यं धामाऽव॑ रुन्ध एकाद॒शं भ॑वत्येक॒धैव यज॑माने वी॒र्यं॑ दधाति॒ स्तोमे॑न॒ वै दे॒वा अ॒स्मिन् ॅलो॒क आ᳚र्द्ध्नुव॒न् छन्दो॑भिर॒मुष्मि॒न्थ् स्तोम॑स्येव॒ खलु॒ वा ए॒तद्-रू॒पं ॅयद्-वा᳚थ्स॒प्रं ॅयद्-वा᳚थ्स॒प्रेणो॑प॒तिष्ठ॑त - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । स॒त्त्वमिति॑ सत् - त्वम् । ए॒व । ए॒न॒म् । ग॒म॒य॒ति॒ । वा॒थ्स॒प्रेणेति॑ वाथ्स - प्रेण॑ । उपेति॑ । ति॒ष्ठ॒ते॒ । ए॒तेन॑ । वै । व॒थ्स॒प्रीरिति॑ वथ्स - प्रीः । भा॒ल॒न्द॒नः । अ॒ग्नेः । प्रि॒यम् । धाम॑ । अवेति॑ । अ॒रु॒न्ध॒ । अ॒ग्नेः । ए॒व । ए॒तेन॑ । प्रि॒यम् । धाम॑ । अवेति॑ । रु॒न्धे॒ । ए॒का॒द॒शम् । भ॒व॒ति॒ । ए॒क॒धेत्ये॑क - धा । ए॒व । यज॑माने । वी॒र्य᳚म् । द॒धा॒ति॒ । स्तोमे॑न । वै । दे॒वाः । अ॒स्मिन्न् । लो॒के । आ॒द्‌र्ध्नु॒व॒न्न् । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । अ॒मुष्मिन्न्॑ । स्तोम॑स्य । इ॒व॒ । खलु॑ । वै । ए॒तत् । रू॒पम् । यत् । वा॒थ्स॒प्रमिति॑ वाथ्स-प्रम् । यत् । वा॒थ्स॒प्रेणेति॑ वाथ्स-प्रेण॑ । उ॒प॒तिष्ठ॑त॒ इत्यु॑प-तिष्ठ॑ते ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 5.2.1.7 TS 5.2.1.7
इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यद्-वि॑ष्णुक्र॒मान् क्रम॑ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति पूर्वे॒द्युः प्रक्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒ तस्मा॒द्-योगे॒ऽन्यासां᳚ प्र॒जानां॒ मनः॒ क्षेमे॒ऽन्यासां॒ तस्मा᳚द्-यायाव॒रः क्षे॒म्यस्ये॑शे॒ तस्मा᳚द्-यायाव॒रः क्षे॒म्यम॒द्ध्यव॑स्यति मु॒ष्टी क॑रोति॒ वाचं॑ ॅयच्छति य॒ज्ञ्स्य॒ धृत्यै᳚ ॥
पदपाठः (Word-by-word)
इ॒मम् । ए॒व । तेन॑ । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । यत् । वि॒ष्णु॒क्र॒मानिति॑ विष्णु - क्र॒मान् । क्रम॑ते । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । पू॒र्वे॒द्युः । प्रेति॑ । क्रा॒म॒ति॒ । उ॒त्त॒रे॒द्युः । उपेति॑ । ति॒ष्ठ॒ते॒ । तस्मा᳚त् । योगे᳚ । अ॒न्यासा᳚म् । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । मनः॑ । क्षेमे᳚ । अ॒न्यासा᳚म् । तस्मा᳚त् । या॒या॒व॒रः । क्षे॒म्यस्य॑ । ई॒शे॒ । तस्मा᳚त् । या॒या॒व॒रः । क्षे॒म्यम् । अ॒द्ध्यव॑स्य॒तीत्य॑धि - अव॑स्यति । मु॒ष्टी इति॑ । क॒रो॒ति॒ । वाच᳚म् । य॒च्छ॒ति॒ । य॒ज्ञ्स्य॑ । धृत्यै᳚ ॥
पदसंख्या: 42