अनुवाकः 10 TS 5.2.10

(A10)

(प॒श्चा - दे॒ताः - पु॒रो᳚ - ऽक्ष्ण॒या - कल्प॒ते - ऽसं॑ ॅयतं॒ - पञ्च॑त्रिꣳशच्च)

अनुवाकः 10 - Complete Audio

TS 5.2.10 - स्वरानुगामी

0:00 0:00
PS1.1 प॒शुर्वा ए॒ष यद॒ग्निर्योनिः॒ खलु॒
PS1.2 वा ए॒षा प॒शोर्वि क्रि॑यते॒
PS1.3 यत् प्रा॒चीन॑मैष्ट॒काद्-यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑
PS1.4 अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व
PS1.5 रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒
PS1.6 पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वास्मै॒ प्रज॑नयति॒
PS1.7 पञ्च॑ दक्षिण॒तो वज्रो॒ वा
PS1.8 अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञ्स्य॑ दक्षिण॒तो
PS1.9 रक्षाꣳ॒॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात्
PS1.10 - [ ]
PS2.1 प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीनꣳ॒॒
PS2.2 रेतो॑ धीयते प॒श्चादे॒वास्मै᳚ प्रा॒चीनꣳ॒॒
PS2.3 रेतो॑ दधाति॒ पञ्च॑ पु॒रस्ता᳚त्
PS2.4 प्र॒तीची॒रुप॑ दधाति॒ पञ्च॑ प॒श्चात्
PS2.5 प्राची॒स्तस्मा᳚त् प्रा॒चीनꣳ॒॒ रेतो॑ धीयते
PS2.6 प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ पञ्चो᳚त्तर॒त
PS2.7 श्छ॑न्द॒स्याः᳚ प॒शवो॒ वै छ॑न्द॒स्याः᳚
PS2.8 प॒शूने॒व प्रजा॑ता॒न्थ् स्वमा॒यत॑नम॒भि पर्यू॑हत
PS2.9 इ॒यं ॅवा अ॒ग्ने-र॑तिदा॒हाद॑बिभे॒थ् सैता
PS2.10 - [ ]
PS3.1 अ॑प॒स्या॑ अपश्य॒त् ता उपा॑धत्त॒
PS3.2 ततो॒ वा इ॒मां नात्य॑दह॒द्-यद॑प॒स्या॑
PS3.3 उप॒दधा᳚त्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दिथ् स
PS3.4 ब्रह्म॒णाऽन्नं॒ ॅयस्यै॒ता उ॑पधी॒यान्तै॒ य
PS3.5 उ॑ चैना ए॒वंॅवे द॒दिति॑
PS3.6 प्राण॒भृत॒ उप॑ दधाति॒ रेत॑स्ये॒व
PS3.7 प्रा॒णान् द॑धाति॒ तस्मा॒द्-वद॑न् प्रा॒णन्
PS3.8 पश्य॑ञ्छृ॒ण्वन् प॒शुर्जा॑यते॒ ऽयं पु॒रो
PS3.9 - [ ]
PS4.1 भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति
PS4.2 प्रा॒णमे॒वैताभि॑-र्दाधारा॒ऽयं द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तो
PS4.3 मन॑ ए॒वैताभि॑र्दाधारा॒यं प॒श्चाद्-वि॒श्वव्य॑चा॒ इति॑
PS4.4 प॒श्चा-च्चक्षु॑रे॒वैताभि॑-र्दाधारे॒द-मु॑त्त॒राथ् सुव॒रित्यु॑त्तर॒तः श्रोत्र॑मे॒वैताभि॑-र्दाधारे॒यमु॒परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्-वाच॑मे॒वैताभि॑-र्दाधार॒
PS4.5 दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया᳚क्ष्ण॒यो -
PS4.6 [ ]
PS5.1 -प॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒
PS5.2 प्रह॑रन्ति॒ प्रति॑ष्ठित्यै॒ याः प्राची॒स्ताभि॒-र्वसि॑ष्ठ
PS5.3 आर्द्ध्नो॒द्या द॑क्षि॒णा ताभि॑र्भ॒रद्वा॑जो॒ याः
PS5.4 प्र॒तीची॒स्ताभि॑ र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑-र्ज॒मद॑ग्नि॒र्या
PS5.5 ऊ॒र्द्ध्वास्ताभि॑-र्वि॒श्वक॑र्मा॒ य ए॒वमे॒तासा॒मृद्धिं॒ ॅवेद॒र्द्ध्नोत्ये॒व
PS5.6 य आ॑सामे॒वं ब॒न्धुतां॒ ॅवेद॒
PS5.7 बन्धु॑मान् भवति॒ य आ॑सामे॒वं
PS5.8 क्लृप्तिं॒ ॅवेद॒ कल्प॑ते -
PS5.9 [ ]
PS6.1 ऽस्मै॒ य आ॑सामे॒वमा॒यत॑नं॒ ॅवेदा॒ऽऽ*यत॑नवान्
PS6.2 भवति॒ य आ॑सामे॒वं प्र॑ति॒ष्ठां
PS6.3 ॅवेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑
PS6.4 उप॒धाय॑ सं॒ॅयत॒ उप॑ दधाति
PS6.5 प्रा॒णाने॒वा ऽस्मि॑न् धि॒त्वा सं॒ॅयद्भिः॒
PS6.6 संॅय॑च्छति॒ तथ् सं॒ॅयताꣳ॑ संॅय॒त्त्वमथो᳚
PS6.7 प्रा॒ण ए॒वापा॒नं द॑धाति॒ तस्मा᳚त्
PS6.8 प्राणापा॒नौ सं च॑रतो॒ विषू॑ची॒रुप॑
PS6.9 दधाति॒ तस्मा॒द्-विष्व॑ञ्चौ प्राणापा॒नौ यद्वा
PS6.10 अ॒ग्नेरसं॑ॅयत॒ - [ ]
PS7.1 -मसु॑वर्ग्यमस्य॒ तथ् सु॑व॒र्ग्यो᳚ऽग्निर्यथ् सं॒ॅयत॑
PS7.2 उप॒ दधा॑ति॒ समे॒वैनं॑ ॅयच्छति
PS7.3 उव॒र्ग्य॑मे॒वाक॒ -स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒ वयो॑भिरे॒वाया॒नव॑
PS7.4 रु॒न्धे ऽयै॒र्वयाꣳ॑सि स॒र्वतो॑ वायु॒मती᳚र्भवन्ति॒
PS7.5 तस्मा॑द॒यꣳ स॒र्वतः॑ पवते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.2.10.1 TS 5.2.10.1
प॒शुर्वा ए॒ष यद॒ग्निर्योनिः॒ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत् प्रा॒चीन॑मैष्ट॒काद्-यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वास्मै॒ प्रज॑नयति॒ पञ्च॑ दक्षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञ्स्य॑ दक्षिण॒तो रक्षाꣳ॒॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् - [ ]
पदपाठः (Word-by-word)
प॒शुः । वै । ए॒षः । यत् । अ॒ग्निः । योनिः॑ । खलु॑ । वै । ए॒षा । प॒शोः । वीति॑ । क्रि॒य॒ते॒ । यत् । प्रा॒चीन᳚म् । ऐ॒ष्ट॒कात् । यजुः॑ । क्रि॒यते᳚ । रेतः॑ । अ॒प॒स्याः᳚ । अ॒प॒स्याः᳚ । उपेति॑ । द॒धा॒ति॒ । योनौ᳚ । ए॒व । रेतः॑ । द॒धा॒ति॒ । पञ्च॑ । उपेति॑ । द॒धा॒ति॒ । पाङ्क्ताः᳚ । प॒शवः॑ । प॒शून् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ज॒न॒य॒ति॒ । पञ्च॑ । द॒क्षि॒ण॒तः । वज्रः॑ । वै । अ॒प॒स्याः᳚ । वज्रे॑ण । ए॒व । य॒ज्ञ्स्य॑ । द॒क्षि॒ण॒तः । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । पञ्च॑ । प॒श्चात् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पशुर्वा एष इत्यादिः अपस्याविधिः ॥ अयमग्निः योनौ निषेकादिना उत्पाद्यत्वात् पशुकल्पः । तत्र 'योनिर्वा अग्नेः पुष्करपर्णं' इति तदुपधानात् योनिः । सैषा ऐष्टकात् इष्टकासमूहोपधानात् प्राग्यजुःकरेणन उक्तोपधानादिप्रसक्तेन क्रियते अयोन्यर्हेण कर्मणा । तस्मात् एतत्परिहारार्थं रेतस्थानीया अपस्याः प्रथममुपदधाति यानौ रेतो दधाति अप्शब्दवानुपधानो मन्त्रः आसामिष्टकानामिति 'तद्वानासामुपधानो मन्त्रः' इति यत्प्रत्ययः । छान्दसोऽसुकागमः । अपस्याः 'अपां त्वेमन्' इत्याद्यैर्मन्त्रैः उपधेया विंशतिरिष्टकाः ता अप्यभेदेन अपस्या उच्यन्ते । अप्शब्दवतां च बहुत्वात् सर्वा अपस्या उच्यन्ते ॥
2 पञ्चेति ॥ प्रथमं पुरस्तात् प्रतीचीः प्रत्यग्रीतीः । पाङ्क्ता इति पङ्क्तिप्रभवाः । पङ्क्तिशब्द उत्सादिः । दक्षिणत इति । उदीचीः 'अर्ण वे' इत्यादिभिः । वज्रो वा इति । वज्रवद्वीर्यवत्य इति । प्राचीरिति । प्राग्रीतिः । 'अपां त्वा सदने' इत्या दिभिः । प्राचीनमिति । प्रागञ्चतीति प्राचीनं यत्रोपासनीयज्योतिः अन्तरुदेति सा प्राचीति कृत्वा ॥
3 पञ्च पुरस्तादित्यादि ॥ पश्चात्प्राचीभिः प्राचीनं रेतो धीयते पुरस्तात्प्रतीचीभिः प्रतीच्यः प्रजा जायन्ते । उत्तरत इति । दक्षिणानीति । छन्दस्या इति । छन्दस्वता मन्त्रेण उपधेयाः 'गायत्री छन्दः' इत्यादिभिः उपधेयाः । पूर्ववद्यत्, मतुल्लुक्च । पशव इति । पशुनिमित्तभूताः छन्दस्या इष्टकाः । पशून्निति । अपस्याभिरुत्पन्नत्वात् छन्दस्याभिः स्वस्मिन्नायतने स्थापयति । 'अभिरभागे' इति लक्षणे अभेः कर्मप्रवचनीयत्वम् ॥
4 इयं वा इत्यादि ॥ पृथिव्या अनतिदाहाय भवन्त्यपस्या इति । उवाचेत्यादि । इयं पृथिवी पूर्वमुवाच । कथं? - अदत् इत् अद्यादेवान्नं ब्रह्मणा परिबृढेनानेन कर्मणा सः, यस्यैता अतिदाहनिवृत्तिहेतवोऽपस्या उपधीयन्ते उपधीयेरन् यश्च एता अपस्या एवं ममातिदाहशमनोऽग्निरित्येतत् विद्यात् सोऽप्यन्नमद्यादेव । अददिति अत्तेर्लेटि शपो लुकि 'लेटोडाटौ' इत्यडागमः । समानवाक्ये पदात्परत्वाभावान्निघाताभावः । अददित्यादिभिर्वाक्यान्तरं पृथिव्याः । दधातेः कर्मणि लेटि आडागमः 'वैतोन्यत्र' इत्येकारः पूर्ववदाडागमः ॥
5 प्राणभृत इति ॥ पञ्चाशतं 'अयं पुरो भुवः' इत्याद्याः । सिक्ते रेतसि प्राणभरणहेतुत्वात् प्राणभृत इति । तस्मादित्यादि । गतम् । वदन्नित्यादयः प्राणवृत्तयः । दशदश प्रतिदिशं अक्ष्णया दश मध्येऽन्तरामन्तरां उपधाय बाह्यांबाह्याम् । दाधारेति । छान्दसे लेटि तुजादित्वादभ्यासस्य दीर्घत्वम् ॥
6 याः प्राचीरिति ॥ प्राच्य उपधीयन्ते ताभिर्वसिष्ठः ऋद्धिं गतः । या दक्षिणेति । दक्षिणस्यां दिशि । 'दक्षिणादाच्' । प्रतीचीरिति । 'चौ' इति दीर्घत्वम् । उदीचीरिति । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् ॥
7 य एवमित्यादि ॥ वसिष्ठादिकर्तृकाम् । आसां इति । आसादेशोनुदात्तः (?) । बन्धुतामिति । बन्धुसमूहं देशलक्षणम् । 'ग्रामजनबन्धुसहायेभ्यस्तल्' । कॢप्तिमिति । सामर्थ्यमृद्धिकरणे । आयतनमिति । वा गायत्रीति प्रागादि (?) । प्रतिष्ठामिति । कार्यकारणभावेन प्राणवृद्धिम् ॥
8 संयत इत्यादि ॥ प्राणस्य निहितस्य संयमहेतवः संयतः । अथो अपि च प्राणे प्राणपार्श्वे अपानस्य संयमाश्च संयतः । संपूर्वाद्यच्छतेः छान्दसोऽनुनासिकलोपः । तदेवाह – तस्मात्प्राणापानौ संचरत इति । सह चरत इत्यर्थः । एवमपानभृत इत्यप्यासामाख्या लभ्यते । एकपञ्चाशद्भवति 'प्राची दिशां' इत्याद्या दशदश प्रतिदिशं अक्ष्णया दश मध्ये ॥
9 विषूचीरिति ॥ यादृश्यः प्राणभृतः तत्प्रतिकूलगतीः । तेन बाह्यांबाह्यामुपधाय अन्तरामन्तरामुपदधाति । तस्माद्विष्वञ्चौ इति । ऊर्ध्वाधोवृत्तित्वात् ॥
10 इदानीं अग्नेरपि संयमनात् संयत्त्वमासामिति प्रतिपादयितुमाह - यद्वा इत्यादि ॥ अग्नेर्यद्रूपमसंयतं तस्य यजमानस्य असुवर्ग्यं । 'गोद्व्यचः' इति यत् । अग्निश्चायं स्वर्गनिमित्ततया चीयते । तस्मात्संयदुपधानेन एनं संयतं कृत्वा स्वर्ग्यमेवाकः करोति । छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् ॥
11 वयोभिरेवेति ॥ अव्यादीनि वयांसि । अष्टादशमास्यं वयस्त्र्यविः । कृतदीनि युगाख्याः । उभयतोऽपि कालावयवोपादानं किमर्थं इति पर्यनुयोगावसरे उभयोपादानप्रयोजनं अनेनाह – वयोविशेषनिमित्तको युगविशेषजन्मलाभः युगविशेषस्य लाभे भवति । तस्मात् उभयसिद्ध्यर्थं उभयोपादानमिति भावः ॥
12 सर्वत्र इति ॥ सर्वासु दिक्षु पुरोवातादिवायुविशेषवत्यो भवन्ति । 'ह्रस्वनुङ्ग्भाम्' इति मतुप उदात्तत्वम् । तस्मादयं वायुः सर्वाभ्यो दिग्भ्यः पवते पवमान आगच्छति ॥
इति पञ्चमे द्वितीये दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 5.2.10.2 TS 5.2.10.2
प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीनꣳ॒॒ रेतो॑ धीयते प॒श्चादे॒वास्मै᳚ प्रा॒चीनꣳ॒॒ रेतो॑ दधाति॒ पञ्च॑ पु॒रस्ता᳚त् प्र॒तीची॒रुप॑ दधाति॒ पञ्च॑ प॒श्चात् प्राची॒स्तस्मा᳚त् प्रा॒चीनꣳ॒॒ रेतो॑ धीयते प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ पञ्चो᳚त्तर॒त श्छ॑न्द॒स्याः᳚ प॒शवो॒ वै छ॑न्द॒स्याः᳚ प॒शूने॒व प्रजा॑ता॒न्थ् स्वमा॒यत॑नम॒भि पर्यू॑हत इ॒यं ॅवा अ॒ग्ने-र॑तिदा॒हाद॑बिभे॒थ् सैता - [ ]
पदपाठः (Word-by-word)
प्राचीः᳚ । उपेति॑ । द॒धा॒ति॒ । प॒श्चात् । वै । प्रा॒चीन᳚म् । रेतः॑ । धी॒य॒ते॒ । प॒श्चात् । ए॒व । अ॒स्मै॒ । प्रा॒चीन᳚म् । रेतः॑ । द॒धा॒ति॒ । पञ्च॑ । पु॒रस्ता᳚त् । प्र॒तीचीः᳚ । उपेति॑ । द॒धा॒ति॒ । पञ्च॑ । प॒श्चात् । प्राचीः᳚ । तस्मा᳚त् । प्रा॒चीन᳚म् । रेतः॑ । धी॒य॒ते॒ । प्र॒तीचीः᳚ । प्र॒जा इति॑ प्र-जाः । जा॒य॒न्ते॒ । पञ्च॑ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । छ॒न्द॒स्याः᳚ । प॒शवः॑ । वै । छ॒न्द॒स्याः᳚ । प॒शून् । ए॒व । प्रजा॑ता॒निति॒ प्र - जा॒ता॒न् । स्वम् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । अ॒भि । परीति॑ । ऊ॒ह॒ते॒ । इ॒यम् । वै । अ॒ग्नेः । अ॒ति॒दा॒हादित्य॑ति - दा॒हात् । अ॒बि॒भे॒त् । सा । ए॒ताः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.2.10.3 TS 5.2.10.3
अ॑प॒स्या॑ अपश्य॒त् ता उपा॑धत्त॒ ततो॒ वा इ॒मां नात्य॑दह॒द्-यद॑प॒स्या॑ उप॒दधा᳚त्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दिथ् स ब्रह्म॒णाऽन्नं॒ ॅयस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वंॅवे द॒दिति॑ प्राण॒भृत॒ उप॑ दधाति॒ रेत॑स्ये॒व प्रा॒णान् द॑धाति॒ तस्मा॒द्-वद॑न् प्रा॒णन् पश्य॑ञ्छृ॒ण्वन् प॒शुर्जा॑यते॒ ऽयं पु॒रो - [ ]
पदपाठः (Word-by-word)
अ॒प॒स्याः᳚ । अ॒प॒श्य॒त् । ताः । उपेति॑ । अ॒ध॒त्त॒ । ततः॑ । वै । इ॒माम् । न । अतीति॑ । अ॒द॒ह॒त् । यत् । अ॒प॒स्याः᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । अ॒स्याः । अन॑तिदाहा॒येत्यन॑ति - दा॒हा॒य॒ । उ॒वाच॑ । ह॒ । इ॒यम् । अद॑त् । इत् । सः । ब्रह्म॑णा । अन्न᳚म् । यस्य॑ । ए॒ताः । उ॒प॒धी॒यान्ता॒ इत्यु॑प - धी॒यान्तै᳚ । यः । उ॒ । च॒ । ए॒नाः॒ । ए॒वम् । वेद॑त् । इति॑ । प्रा॒ण॒भृत॒ इति॑ प्राण-भृतः॑ । उपेति॑ । द॒धा॒ति॒ । रेत॑सि । ए॒व । प्रा॒णानिति॑ प्र - अ॒नान् । द॒धा॒ति॒ । तस्मा᳚त् । वदन्न्॑ । प्रा॒णन्निति॑ प्र - अ॒नन्न् । पश्यन्न्॑ । शृ॒ण्वन्न् । प॒शुः । जा॒य॒ते॒ । अ॒यम् । पु॒रः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.2.10.4 TS 5.2.10.4
भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒वैताभि॑-र्दाधारा॒ऽयं द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षिण॒तो मन॑ ए॒वैताभि॑र्दाधारा॒यं प॒श्चाद्-वि॒श्वव्य॑चा॒ इति॑ प॒श्चा-च्चक्षु॑रे॒वैताभि॑-र्दाधारे॒द-मु॑त्त॒राथ् सुव॒रित्यु॑त्तर॒तः श्रोत्र॑मे॒वैताभि॑-र्दाधारे॒यमु॒परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्-वाच॑मे॒वैताभि॑-र्दाधार॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया᳚क्ष्ण॒यो - [ ]
पदपाठः (Word-by-word)
भुवः॑ । इति॑ । पु॒रस्ता᳚त् । उपेति॑ । द॒धा॒ति॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । ए॒ताभिः॑ । दा॒धा॒र॒ । अ॒यम् । द॒क्षि॒णा । वि॒श्वक॒र्मेति॑ वि॒श्व-क॒र्मा॒ । इति॑ । द॒क्षि॒ण॒तः । मनः॑ । ए॒व । ए॒ताभिः॑ । दा॒धा॒र॒ । अ॒यम् । प॒श्चात् । वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ । इति॑ । प॒श्चात् । चक्षुः॑ । ए॒व । ए॒ताभिः॑ । दा॒धा॒र॒ । इ॒दम् । उ॒त्त॒रादित्यु॑त् - त॒रात् । सुवः॑ । इति॑ । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । श्रोत्र᳚म् । ए॒व । ए॒ताभिः॑ । दा॒धा॒र॒ । इ॒यम् । उ॒परि॑ । म॒तिः । इति॑ । उ॒परि॑ष्टात् । वाच᳚म् । ए॒व । ए॒ताभिः॑ । दा॒धा॒र॒ । दश॑द॒शेति॒ दश॑-द॒श॒ । उपेति॑ । द॒धा॒ति॒ । स॒वी॒र्य॒त्वायेति॑ सवीर्य-त्वाय॑ । अ॒क्ष्ण॒या ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 5.2.10.5 TS 5.2.10.5
-प॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्रह॑रन्ति॒ प्रति॑ष्ठित्यै॒ याः प्राची॒स्ताभि॒-र्वसि॑ष्ठ आर्द्ध्नो॒द्या द॑क्षि॒णा ताभि॑र्भ॒रद्वा॑जो॒ याः प्र॒तीची॒स्ताभि॑ र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑-र्ज॒मद॑ग्नि॒र्या ऊ॒र्द्ध्वास्ताभि॑-र्वि॒श्वक॑र्मा॒ य ए॒वमे॒तासा॒मृद्धिं॒ ॅवेद॒र्द्ध्नोत्ये॒व य आ॑सामे॒वं ब॒न्धुतां॒ ॅवेद॒ बन्धु॑मान् भवति॒ य आ॑सामे॒वं क्लृप्तिं॒ ॅवेद॒ कल्प॑ते - [ ]
पदपाठः (Word-by-word)
उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । अ॒क्ष्ण॒या । प॒शवः॑ । अङ्गा॑नि । प्रेति॑ । ह॒र॒न्ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । याः । प्राचीः᳚ । ताभिः॑ । वसि॑ष्ठः । आ॒द्‌र्ध्नो॒त् । याः । द॒क्षि॒णा । ताभिः॑ । भ॒रद्वा॑जः । याः । प्र॒तीचीः᳚ । ताभिः॑ । वि॒श्वामि॑त्र॒ इति॑ वि॒श्व - मि॒त्रः॒ । याः । उदी॑चीः । ताभिः॑ । ज॒मद॑ग्निः । याः । ऊ॒द्‌र्ध्वाः । ताभिः॑ । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । यः । ए॒वम् । ए॒तासा᳚म् । ऋद्धि᳚म् । वेद॑ । ऋ॒द्ध्नोति॑ । ए॒व । यः । आ॒सा॒म् । ए॒वम् । ब॒न्धुता᳚म् । वेद॑ । बन्धु॑मा॒निति॒ बन्धु॑ - मा॒न् । भ॒व॒ति॒ । यः । आ॒सा॒म् । ए॒वम् । क्लृप्ति᳚म् । वेद॑ । कल्प॑ते ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 5.2.10.6 TS 5.2.10.6
ऽस्मै॒ य आ॑सामे॒वमा॒यत॑नं॒ ॅवेदा॒ऽऽ*यत॑नवान् भवति॒ य आ॑सामे॒वं प्र॑ति॒ष्ठां ॅवेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑ उप॒धाय॑ सं॒ॅयत॒ उप॑ दधाति प्रा॒णाने॒वा ऽस्मि॑न् धि॒त्वा सं॒ॅयद्भिः॒ संॅय॑च्छति॒ तथ् सं॒ॅयताꣳ॑ संॅय॒त्त्वमथो᳚ प्रा॒ण ए॒वापा॒नं द॑धाति॒ तस्मा᳚त् प्राणापा॒नौ सं च॑रतो॒ विषू॑ची॒रुप॑ दधाति॒ तस्मा॒द्-विष्व॑ञ्चौ प्राणापा॒नौ यद्वा अ॒ग्नेरसं॑ॅयत॒ - [ ]
पदपाठः (Word-by-word)
अ॒स्मै॒ । यः । आ॒सा॒म् । ए॒वम् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । वेद॑ । आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । भ॒व॒ति॒ । यः । आ॒सा॒म् । ए॒वम् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । प्रा॒ण॒भृत॒ इति॑ प्राण - भृतः॑ । उ॒प॒धायेत्यु॑प - धाय॑ । सं॒ॅयत॒ इति॑ सं - यतः॑ । उपेति॑ । द॒धा॒ति॒ । प्रा॒णा॒निति॑ प्र - अ॒नान् । ए॒व । अ॒स्मि॒न्न् । धि॒त्वा । सं॒ॅयद्भि॒रिति॑ सं॒ॅयत् - भिः॒ । समिति॑ । य॒च्छ॒ति॒ । तत् । सं॒ॅयता॒मिति॑ सं - यता᳚म् । सं॒ॅय॒त्त्वमिति॑ संॅयत् - त्वम् । अथो॒ इति॑ । प्रा॒ण इति॑ प्र - अ॒ने । ए॒व । अ॒पा॒नमित्य॑प - अ॒नम् । द॒धा॒ति॒ । तस्मा᳚त् । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । समिति॑ । च॒र॒तः॒ । विषू॑चीः । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । विष्व॑ञ्चौ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । यत् । वै । अ॒ग्नेः । असं॑ॅयत॒मित्यसं᳚ - य॒त॒म् ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 5.2.10.7 TS 5.2.10.7
-मसु॑वर्ग्यमस्य॒ तथ् सु॑व॒र्ग्यो᳚ऽग्निर्यथ् सं॒ॅयत॑ उप॒ दधा॑ति॒ समे॒वैनं॑ ॅयच्छति उव॒र्ग्य॑मे॒वाक॒ -स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒ वयो॑भिरे॒वाया॒नव॑ रु॒न्धे ऽयै॒र्वयाꣳ॑सि स॒र्वतो॑ वायु॒मती᳚र्भवन्ति॒ तस्मा॑द॒यꣳ स॒र्वतः॑ पवते ॥
पदपाठः (Word-by-word)
असु॑वर्ग्य॒मित्यसु॑वः - ग्य॒म् । अ॒स्य॒ । तत् । सु॒व॒र्ग्य॑ इति॑ सुवः - ग्यः॑ । अ॒ग्निः । यत् । सं॒ॅयत॒ इति॑ सं - यतः॑ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । समिति॑ । ए॒व । ए॒न॒म् । य॒च्छ॒ति॒ । सु॒व॒र्ग्य॑मिति॑ सुवः - ग्य᳚म् । ए॒व । अ॒कः॒ । त्र्यवि॒रिति॑ त्रि - अविः॑ । वयः॑ । कृ॒तम् । अया॑नाम् । इति॑ । आ॒ह॒ । वयो॑भि॒रिति॒ वयः॑ - भिः॒ । ए॒व । अयान्॑ । अवेति॑ । रु॒न्धे॒ । अयैः᳚ । वयाꣳ॑सि । स॒र्वतः॑ । वा॒यु॒मती॒रिति॑ वायु - मतीः᳚ । भ॒व॒न्ति॒ । तस्मा᳚त् । अ॒यम् । स॒र्वतः॑ । प॒व॒ते॒ ॥
पदसंख्या: 35