पञ्चशत् 1 #
प॒शुर्वा ए॒ष यद॒ग्निर्योनिः॒ खलु॒ वा ए॒षा प॒शोर्वि क्रि॑यते॒ यत् प्रा॒चीन॑मैष्ट॒काद्-यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वास्मै॒ प्रज॑नयति॒ पञ्च॑ दक्षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञ्स्य॑ दक्षिण॒तो रक्षाꣳ॒॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् - [ ]
पदपाठः (Word-by-word)
प॒शुः । वै । ए॒षः । यत् । अ॒ग्निः । योनिः॑ । खलु॑ । वै । ए॒षा । प॒शोः । वीति॑ । क्रि॒य॒ते॒ । यत् । प्रा॒चीन᳚म् । ऐ॒ष्ट॒कात् । यजुः॑ । क्रि॒यते᳚ । रेतः॑ । अ॒प॒स्याः᳚ । अ॒प॒स्याः᳚ । उपेति॑ । द॒धा॒ति॒ । योनौ᳚ । ए॒व । रेतः॑ । द॒धा॒ति॒ । पञ्च॑ । उपेति॑ । द॒धा॒ति॒ । पाङ्क्ताः᳚ । प॒शवः॑ । प॒शून् । ए॒व । अ॒स्मै॒ । प्रेति॑ । ज॒न॒य॒ति॒ । पञ्च॑ । द॒क्षि॒ण॒तः । वज्रः॑ । वै । अ॒प॒स्याः᳚ । वज्रे॑ण । ए॒व । य॒ज्ञ्स्य॑ । द॒क्षि॒ण॒तः । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । पञ्च॑ । प॒श्चात् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पशुर्वा एष इत्यादिः अपस्याविधिः ॥ अयमग्निः योनौ निषेकादिना उत्पाद्यत्वात् पशुकल्पः । तत्र 'योनिर्वा अग्नेः पुष्करपर्णं' इति तदुपधानात् योनिः । सैषा ऐष्टकात् इष्टकासमूहोपधानात् प्राग्यजुःकरेणन उक्तोपधानादिप्रसक्तेन क्रियते अयोन्यर्हेण कर्मणा । तस्मात् एतत्परिहारार्थं रेतस्थानीया अपस्याः प्रथममुपदधाति यानौ रेतो दधाति अप्शब्दवानुपधानो मन्त्रः आसामिष्टकानामिति 'तद्वानासामुपधानो मन्त्रः' इति यत्प्रत्ययः । छान्दसोऽसुकागमः । अपस्याः 'अपां त्वेमन्' इत्याद्यैर्मन्त्रैः उपधेया विंशतिरिष्टकाः ता अप्यभेदेन अपस्या उच्यन्ते । अप्शब्दवतां च बहुत्वात् सर्वा अपस्या उच्यन्ते ॥
2 पञ्चेति ॥ प्रथमं पुरस्तात् प्रतीचीः प्रत्यग्रीतीः । पाङ्क्ता इति पङ्क्तिप्रभवाः । पङ्क्तिशब्द उत्सादिः । दक्षिणत इति । उदीचीः 'अर्ण वे' इत्यादिभिः । वज्रो वा इति । वज्रवद्वीर्यवत्य इति । प्राचीरिति । प्राग्रीतिः । 'अपां त्वा सदने' इत्या दिभिः । प्राचीनमिति । प्रागञ्चतीति प्राचीनं यत्रोपासनीयज्योतिः अन्तरुदेति सा प्राचीति कृत्वा ॥
3 पञ्च पुरस्तादित्यादि ॥ पश्चात्प्राचीभिः प्राचीनं रेतो धीयते पुरस्तात्प्रतीचीभिः प्रतीच्यः प्रजा जायन्ते । उत्तरत इति । दक्षिणानीति । छन्दस्या इति । छन्दस्वता मन्त्रेण उपधेयाः 'गायत्री छन्दः' इत्यादिभिः उपधेयाः । पूर्ववद्यत्, मतुल्लुक्च । पशव इति । पशुनिमित्तभूताः छन्दस्या इष्टकाः । पशून्निति । अपस्याभिरुत्पन्नत्वात् छन्दस्याभिः स्वस्मिन्नायतने स्थापयति । 'अभिरभागे' इति लक्षणे अभेः कर्मप्रवचनीयत्वम् ॥
4 इयं वा इत्यादि ॥ पृथिव्या अनतिदाहाय भवन्त्यपस्या इति । उवाचेत्यादि । इयं पृथिवी पूर्वमुवाच । कथं? - अदत् इत् अद्यादेवान्नं ब्रह्मणा परिबृढेनानेन कर्मणा सः, यस्यैता अतिदाहनिवृत्तिहेतवोऽपस्या उपधीयन्ते उपधीयेरन् यश्च एता अपस्या एवं ममातिदाहशमनोऽग्निरित्येतत् विद्यात् सोऽप्यन्नमद्यादेव । अददिति अत्तेर्लेटि शपो लुकि 'लेटोडाटौ' इत्यडागमः । समानवाक्ये पदात्परत्वाभावान्निघाताभावः । अददित्यादिभिर्वाक्यान्तरं पृथिव्याः । दधातेः कर्मणि लेटि आडागमः 'वैतोन्यत्र' इत्येकारः पूर्ववदाडागमः ॥
5 प्राणभृत इति ॥ पञ्चाशतं 'अयं पुरो भुवः' इत्याद्याः । सिक्ते रेतसि प्राणभरणहेतुत्वात् प्राणभृत इति । तस्मादित्यादि । गतम् । वदन्नित्यादयः प्राणवृत्तयः । दशदश प्रतिदिशं अक्ष्णया दश मध्येऽन्तरामन्तरां उपधाय बाह्यांबाह्याम् । दाधारेति । छान्दसे लेटि तुजादित्वादभ्यासस्य दीर्घत्वम् ॥
6 याः प्राचीरिति ॥ प्राच्य उपधीयन्ते ताभिर्वसिष्ठः ऋद्धिं गतः । या दक्षिणेति । दक्षिणस्यां दिशि । 'दक्षिणादाच्' । प्रतीचीरिति । 'चौ' इति दीर्घत्वम् । उदीचीरिति । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् ॥
7 य एवमित्यादि ॥ वसिष्ठादिकर्तृकाम् । आसां इति । आसादेशोनुदात्तः (?) । बन्धुतामिति । बन्धुसमूहं देशलक्षणम् । 'ग्रामजनबन्धुसहायेभ्यस्तल्' । कॢप्तिमिति । सामर्थ्यमृद्धिकरणे । आयतनमिति । वा गायत्रीति प्रागादि (?) । प्रतिष्ठामिति । कार्यकारणभावेन प्राणवृद्धिम् ॥
8 संयत इत्यादि ॥ प्राणस्य निहितस्य संयमहेतवः संयतः । अथो अपि च प्राणे प्राणपार्श्वे अपानस्य संयमाश्च संयतः । संपूर्वाद्यच्छतेः छान्दसोऽनुनासिकलोपः । तदेवाह – तस्मात्प्राणापानौ संचरत इति । सह चरत इत्यर्थः । एवमपानभृत इत्यप्यासामाख्या लभ्यते । एकपञ्चाशद्भवति 'प्राची दिशां' इत्याद्या दशदश प्रतिदिशं अक्ष्णया दश मध्ये ॥
9 विषूचीरिति ॥ यादृश्यः प्राणभृतः तत्प्रतिकूलगतीः । तेन बाह्यांबाह्यामुपधाय अन्तरामन्तरामुपदधाति । तस्माद्विष्वञ्चौ इति । ऊर्ध्वाधोवृत्तित्वात् ॥
10 इदानीं अग्नेरपि संयमनात् संयत्त्वमासामिति प्रतिपादयितुमाह - यद्वा इत्यादि ॥ अग्नेर्यद्रूपमसंयतं तस्य यजमानस्य असुवर्ग्यं । 'गोद्व्यचः' इति यत् । अग्निश्चायं स्वर्गनिमित्ततया चीयते । तस्मात्संयदुपधानेन एनं संयतं कृत्वा स्वर्ग्यमेवाकः करोति । छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् ॥
11 वयोभिरेवेति ॥ अव्यादीनि वयांसि । अष्टादशमास्यं वयस्त्र्यविः । कृतदीनि युगाख्याः । उभयतोऽपि कालावयवोपादानं किमर्थं इति पर्यनुयोगावसरे उभयोपादानप्रयोजनं अनेनाह – वयोविशेषनिमित्तको युगविशेषजन्मलाभः युगविशेषस्य लाभे भवति । तस्मात् उभयसिद्ध्यर्थं उभयोपादानमिति भावः ॥
12 सर्वत्र इति ॥ सर्वासु दिक्षु पुरोवातादिवायुविशेषवत्यो भवन्ति । 'ह्रस्वनुङ्ग्भाम्' इति मतुप उदात्तत्वम् । तस्मादयं वायुः सर्वाभ्यो दिग्भ्यः पवते पवमान आगच्छति ॥
इति पञ्चमे द्वितीये दशमोनुवाकः ॥