-यु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑द्ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मद्ध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्द्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वै᳚श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वाऽऽ*यु॑र्दधाति ॥
पदपाठः (Word-by-word)
आयुः॑ । द॒धा॒ति॒ । पु॒रस्ता᳚त् । उ॒क्थस्य॑ । अ॒व॒नीय॒ इत्य॑व - नीयः॑ । इति॑ । आ॒हुः॒ । पु॒रस्ता᳚त् । हि । आयु॑षः । भु॒ङ्क्ते । म॒द्ध्य॒तः । अ॒व॒नीय॒ इत्य॑व - नीयः॑ । इति॑ । आ॒हुः॒ । म॒द्ध्य॒मेन॑ । हि । आयु॑षः । भु॒ङ्क्ते । उ॒त्त॒रा॒द्र्ध इत्यु॑त्तर - अ॒द्र्धे । अ॒व॒नीय॒ इत्य॑व - नीयः॑ । इति॑ । आ॒हुः॒ । उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ । हि । आयु॑षः । भु॒ङ्क्ते । वै॒श्व॒दे॒व्यामिति॑ वैश्व - दे॒व्याम् । ऋ॒चि । श॒स्यमा॑नायाम् । अवेति॑ । न॒य॒ति॒ । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र - जाः । प्र॒जास्विति॑ प्र - जासु॑ । ए॒व । आयुः॑ । द॒धा॒ति॒ ॥