प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.7.1 TS 6.5.7.1
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्-गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्र॒जानां᳚ प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट् करोति॒ यद॑नुवषट्कु॒र्याद्-रु॒द्रं प्र॒जा अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वानां॒ ॅयथ् स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा᳚ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्-गृ॒ह्णाति॒ स्वादे॒वैनं॒ ॅयोने॒र्निर्गृ॑ह्णाति॒ विश्वे॑- [ ]
पदपाठः (Word-by-word)
अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ । सा॒वि॒त्रम् । आ॒ग्र॒य॒णात् । गृ॒ह्णा॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । न । सा॒द॒य॒ति॒ । अस॑न्नात् । हि । प्र॒जा इति॑ प्र - जाः । प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । न । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ । यत् । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् । रु॒द्रम् । प्र॒जा इति॑ प्र - जाः । अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् । ए॒षः । वै । गा॒य॒त्रः । दे॒वाना᳚म् । यत् । स॒वि॒ता । ए॒षः । गा॒य॒त्रि॒यै । लो॒के । गृ॒ह्य॒ते॒ । यत् । आ॒ग्र॒य॒णः । यत् । अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ । सा॒वि॒त्रम् । आ॒ग्र॒य॒णात् । गृ॒ह्णाति॑ । स्वात् । ए॒व । ए॒न॒म् । योनेः᳚ । निरिति॑ । गृ॒ह्णा॒ति॒ । विश्वे᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

सावित्रग्रहं विधत्ते — “अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति प्रजापतिर्वा एष यदाग्रयणः प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ७) इति।

आग्रयणग्रहस्य कर्मनिष्पत्तिद्वारेण प्रजापालकत्वात्प्रजापतित्वादाग्रयणाद्ग्रहणं प्रजोत्पत्तये भवति।

सादनादिकं पूर्ववन्निषेधति – “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट् कुर्याद्रुद्रं प्रजा अन्ववसृजेत्” (सं. का. ६ प्र. ५ अ. ७) इति।

विहितं सावित्रग्रहं प्रशंसति –

“एष वै गायत्रो देवानां यत्सवितैष गायत्रियै लोके गृह्यते यदाग्रयणो यद-न्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति स्वादेवैनं योनेर्निर्गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।

तत्सवितुर्वरेण्यमित्याम्नातत्वाद्देवानां मध्ये सविता गायत्रीसंबद्धः। आग्रयणश्च गायत्र्याः स्थाने प्रातःसवने गृह्यते। अनेन संबन्धेनाऽऽग्रयणः सावित्रस्य स्वकीयो योनिः।

सावित्रस्य तृतीयसवनसंबन्धं विधत्ते —

“विश्वे देवास्तृतीय सवनं नोदयच्छन्ते सवितारं प्रातःसवनभाग सन्तं तृतीयसवनमभि पर्यणयन्ततो वै ते तृतीय सवनमुदयच्छन्यत्तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै” (सं. का. ६ प्र. ५ अ. ७) इति।

विश्वे देवाः स्वकीयं तृतीयसवनमुद्वोढं नाशक्नुवन्। प्रातःसवने भागः सवितुर्युक्तस्तस्य गायत्रत्वात्। तादृशमपि सहकारित्वेन समानीय तृतीयसवनमुदवहन्। अतोऽत्र सावित्रो युक्तः।

वैश्वदेवग्रहं विधत्ते —

“सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति वैश्वदेवयो वै प्रजा वैश्वदेवः कलशः सविता प्रसवानामीशे यत्सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ७) इति।

यद्यपि पूर्वमन्तर्यामपात्रं तथाऽपीदानीं सवितृपात्रं संपन्नम्। कलशाद्द्रोण-कलशात्। प्रजानां विश्वैर्देवैः पाल्यत्वेन वैश्वदेवत्वम्। सर्वदेवसाधारणसोमाधारत्वात्कलशस्य वैश्वदेवत्वम्।

“(सावित्रशेषे) सोमे सोममभि गृह्णाति रेत एव तद्दधाति”(सं. का. ६ प्र. ५ अ. ७) इति।

अत एव मन्त्रे सुप्रतिष्ठान इत्येतदुपपन्नमित्याह —

“सुशर्माऽसि सुप्रतिष्ठान इत्याह सोमे हि सोममभिगृह्णाति प्रतिष्ठित्यै” (सं. का. ६ प्र. ५ अ. ७) इति।

मन्त्रपदानां किंचिद्विशेषविषयत्वं दर्शयति —

“एतस्मिन्वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते सुशर्माऽसि सुप्रतिष्ठान इत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याह देवेभ्य एवैतेन करोति मम इत्याह पितृभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनं सर्वाभ्यो गृह्णाति”

(सं. का. ६ प्र. ५ अ. ७) इति। अपि वैतस्मिन्नेव वैश्वदेवग्रहे मन्त्रपदैर्मनुष्यादीनां सूचितत्वात्सर्वार्थमिदं ग्रहणम्। तत्र सुशर्मशब्देन समीचीनसुखार्थिनो मनुष्याः सूचिताः। बृहच्छब्देनाधिकमहिमोपेता देवाः। नमःशब्देन नमस्कारप्रियाः पितरः।

सादनमन्त्रे विश्वेभ्य इत्येतत्सर्वार्थत्वाद्युक्तमित्याह —

“एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येषः” (सं. का. ६ प्र. ५ अ. ७) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अन्तर्यामपात्रेणेत्यादि ।। प्रजापतिरिति । प्रजानां पाता आग्रयणग्रहः। तस्मात्सावित्रस्य ग्रहणं प्रजानां प्रजननाय भवति । न सादयतीत्यादि । व्याख्यातम् ।।
2 एष वा इत्यादि ।। देवानां मध्ये सविता गायत्रः गायत्रीसम्बन्धी; 'तत्सवितुर्वरेण्यं' इत्यादिकाया गायत्र्यास्सावित्रत्वात् आग्रयणश्चायं गायत्र्या लोके स्थाने प्रातस्सवने गृह्यते तस्मात्सोपि गायत्रः तस्मादाग्रयणात् सावित्रस्य ग्रहणं कुर्वता स्वादेव योनेः एतस्य सावित्रस्य निर्ग्रहागं निष्कृष्य ग्रहणं कृतं भवति ।।
3 विश्वे देवा इत्यादि ।। विश्वेदेवाः आत्मीयं तृतीयसवनं उद्वोढुं शक्ता न बभूवुः, तस्मात्तृतीयसवने सावित्रस्य ग्रहणं तृतीयसवननिर्वहणाय भवति ।।
4 सवितृपात्रेणेत्यादि ।। सावित्रमाग्रयागाद्गृह्णाति सावित्रेण गृहीत्वा हुतत्वात्सवितृपात्रमन्तर्यामपात्रम् । गतमन्यत् ।।
5 सोमे सोममित्यादि ।। सावित्रस्य अनुवषट्काराभावादाहुतिशेषे अभिगृह्णाति शेषस्योपरि गृह्णाति रेतसो निषेकस्थानीयं तद्भवति । सोमे हीत्यादि । यस्मात्सोमोभिगृह्यते सोमस्योपरि तस्मात्सुप्रतिष्ठान उच्यते इति मन्त्रपदव्याख्या । तत्प्रतिष्ठित्यै प्रतिष्ठितत्वाय भवति यजमानस्य ।।
6 एतस्मिन्वा इति त्रिभ्यो ।। मनुष्यादिभ्य एतस्मिन् ग्रहे वैश्वदेवे क्रियते । कथमित्याह - मनुष्येम्य एवेत्यादि शोभनं शरणं सेचनं सुखं वा अस्येति कृत्वा । बृहत्त्वं देवा अर्हन्तीति कृत्वा । नमस्कारप्रियाः पितर इति कृत्वा । एतावतीर्वा इत्यादि । गतम् ।।
इति षष्ठे पञ्चमे सप्तमोनुवाकः ॥