ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मद्ध्य॑ इ॒द्धः ॥सा॒द्ध्वीम॑कर् दे॒ववी॑तिं नो अ॒द्य य॒ज्ञ्स्य॑ जि॒ह्वाम॑विदाम॒ गुह्यां᳚ । स आयु॒राऽगा᳚थ् सुर॒भिर्वसा॑नो भ॒द्राम॑कर् दे॒वहू॑तिं नो अ॒द्य ॥ अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ॥ त्वे वसू॑नि पुर्वणीक-[ ]
पदपाठः (Word-by-word)
ऋ॒तावेत्यृ॒ता - वा॒ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मद्ध्ये᳚ । इ॒द्धः ॥ सा॒द्ध्वीम् । अ॒कः॒ । दे॒ववी॑ति॒मिति॑ दे॒व - वी॒ति॒म् । नः॒ । अ॒द्य । य॒ज्ञ्स्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या᳚म् ॥ सः । आयुः॑ । एति॑ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वहू॑ति॒मिति॑ दे॒व - हू॒ति॒म् । नः॒ । अ॒द्य ॥ अक्र॑न्दत् । अ॒ग्निः । स्त॒नयन्न्॑ । इ॒व॒ । द्यौः । क्षाम॑ । रेरि॑हत् । वी॒रुधः॑ । स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् ॥ स॒द्यः । ज॒ज्ञा॒नः । वीति॑ । हि । ई॒म् । इ॒द्धः । अख्य॑त् । एति॑ । रोद॑सी॒ इति॑ । भा॒नुना᳚ । भा॒ति॒ । अ॒न्तः ॥ त्वे इति॑ । वसू॑नि । पु॒र्व॒णी॒केति॑ पुरु - अ॒नी॒क॒ ।