वसो॑ पुरु॒स्पृहꣳ॑ र॒यिं ॥ स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र् नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्वन्न्॑ ॥ आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर् वरे᳚ण्यः । पुन॑स्ते प्रा॒ण आऽय॑ति॒ परा॒ यक्ष्मꣳ॑ सुवामि ते ॥ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि - [ ]
पदपाठः (Word-by-word)
वसो॒ इति॑ । पु॒रु॒स्पृह॒मिति॑ पुरु - स्पृह᳚म् । र॒यिम् ॥ सः । श्वि॒ता॒नः । त॒न्य॒तुः । रो॒च॒न॒स्था इति॑ रोचन - स्थाः । अ॒जरे॑भिः । नान॑दद्भि॒रिति॒ नान॑दत् - भिः॒ । यवि॑ष्ठः ॥ यः । पा॒व॒कः । पु॒रु॒तम॒ इति॑ पुरु - तमः॑ । पु॒रूणि॑ । पृ॒थूनि॑ । अ॒ग्निः । अ॒नु॒यातीत्य॑नु - याति॑ । भर्वन्न्॑ ॥ आयुः॑ । ते॒ । वि॒श्वतः॑ । द॒ध॒त् । अ॒यम् । अ॒ग्निः । वर᳚ण्यः ॥ पुनः॑ । ते॒ । प्रा॒ण इति॑ प्र - अ॒नः । एति॑ । अ॒य॒ति॒ । परेति॑ । यक्ष्म᳚म् । सु॒वा॒मि॒ । ते॒ ॥ आ॒यु॒र्दा इत्या॑युः - दाः । अ॒ग्ने॒ । ह॒विषः॑ । जु॒षा॒णः । घृ॒तप्र॑तीक॒ इति॑ घृ॒त - प्र॒ती॒कः॒ । घृ॒तयो॑नि॒रिति॑ घृ॒त - यो॒निः॒ । ए॒धि॒ ॥ घृ॒तम् । पी॒त्वा । मधु॑ । चारु॑ । गव्य᳚म् । पि॒ता । इ॒व॒ । पु॒त्रम् । अ॒भीति॑ ।