प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.3.14.5 TS 1.3.14.5
र॑क्षतादि॒मं । तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्.षणे । अग्ने॒ जना॑मि सुष्टु॒तिं ॥ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥ शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्-दु॒र्मर्.ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र् - [ ]
पदपाठः (Word-by-word)
र॒क्ष॒ता॒त् । इ॒मम् ॥ तस्मै᳚ । ते॒ । प्र॒ति॒हर्य॑त॒ इति॑ प्रति - हर्य॑ते । जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । विच॑र्.षण॒ इति॒ वि - च॒र्॒.ष॒णे॒ ॥ अग्ने᳚ । जना॑मि । सु॒ष्टु॒तिमिति॑ सु - स्तु॒तिम् ॥ दि॒वः । परीति॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय᳚म् । परीति॑॑ । जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ॥ तृ॒तीय᳚म् । अ॒फ्स्वित्य॑प् - सु । नृ॒मणा॒ इति॑ नृ - मनाः᳚ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । स्वा॒धीरिति॑ स्व - धीः ॥ शुचिः॑ । पा॒व॒क॒ । वन्द्यः॑ । अग्ने᳚ । बृ॒हत् । वीति॑ । रो॒च॒से॒ ॥ त्वम् । घृ॒तेभिः॑ । आहु॑त॒ इत्या - हु॒तः॒ ॥ दृ॒शा॒नः । रु॒क्मः । उ॒र्व्या । वीति॑ । अ॒द्यौ॒त् । दु॒र्मर्.ष॒मिति॑ दुः - मर्.ष᳚म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः ॥ अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयो॑भि॒रिति॒ वयः॑ - भिः॒ ।
पदसंख्या: 50