प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.3.14.6 TS 1.3.14.6
यदे॑नं॒ द्यौरज॑नयथ् सु॒रेताः᳚ ॥ आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ । अ॒ग्निः शर्द्ध॑मनव॒द्यं ॅयुवा॑नꣳ स्वा॒धियं॑ जनयथ् सू॒दय॑च्च ॥ स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः । अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥ अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिं ।विश्वा॒ य - [ ]
पदपाठः (Word-by-word)
यत् । ए॒न॒म् । द्यौः । अज॑नयत् । सु॒रेता॒ इति॑ सु - रेताः᳚ ॥ एति॑ । यत् । इ॒षे । नृ॒पति॒मिति॑ नृ - पति᳚म् । तेजः॑ । आन॑ट् । शुचि॑ । रेतः॑ । निषि॑क्त॒मिति॒ नि - सि॒क्त॒म् । द्यौः । अ॒भीके᳚ ॥ अ॒ग्निः । शर्ध᳚म् । अ॒न॒व॒द्यम् । युवा॑नम् । स्वा॒धिय॒मिति॑ स्व - धिय᳚म् । ज॒न॒य॒त् । सू॒दय॑त् । च॒ ॥ सः । तेजी॑यसा । मन॑सा । त्वोतः॑ । उ॒त । शि॒क्ष॒ । स्व॒प॒त्यस्येति॑ सु - अ॒प॒त्यस्य॑ । शि॒क्षोः ॥ अग्ने᳚ । रा॒यः । नृत॑म॒स्येति॒ नृ - त॒म॒स्य॒ । प्रभू॑ता॒विति॒ प्र - भू॒तौ॒ । भू॒याम॑ । ते॒ । सु॒ष्टु॒तय॒ इति॑ सु - स्तु॒तयः॑ । च॒ । वस्वः॑ ॥ अग्ने᳚ । सह॑न्तम् । एति॑ । भ॒र॒ । द्यु॒म्नस्य॑ । प्रा॒सहेति॑ प्र - सहा᳚ । र॒यिम् ॥ विश्वाः᳚ । यः ।
पदसंख्या: 50