श्च॑र्॒.ष॒णीर॒भ्या॑सा वाजे॑षु सा॒सह॑त् ॥ तम॑ग्ने पृतना॒सहꣳ॑ र॒यिꣳ स॑हस्व॒ आ भ॑र । त्वꣳ हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥ उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे᳚ । स्तोमै᳚र् विधेमा॒ऽग्नये᳚ ॥ व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर् ज॒नुषा ऽज्माऽन्नं᳚ । स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे᳚ष्य॒न्तः ॥ अग्न॒ आयूꣳ॑षि - [ ]
पदपाठः (Word-by-word)
च॒र्॒.ष॒णीः । अ॒भीति॑ । आ॒सा । वाजे॑षु । सा॒सह॑त् ॥ तम् । अ॒ग्ने॒ । पृ॒त॒ना॒सह॒मिति॑ पृतना - सह᳚म् । र॒यिम् । स॒ह॒स्वः॒ । एति॑ । भ॒र॒ ॥ त्वम् । हि । स॒त्यः । अद्भु॑तः । दा॒ता । वाज॑स्य । गोम॑त॒ इति॒ गो - म॒तः॒ ॥ उ॒क्षान्ना॒येत्यु॒क्ष - अ॒न्ना॒य॒ । व॒शान्ना॒येति॑ व॒शा - अ॒न्ना॒य॒ । सोम॑पृष्ठा॒येति॒ सोम॑ - पृ॒ष्ठा॒य॒ । वे॒धसे᳚ ॥ स्तोमैः᳚ । वि॒धे॒म॒ । अ॒ग्नये᳚ ॥ व॒द्मा । हि । सू॒नो॒ इति॑ । असि॑ । अ॒द्म॒सद्वेत्य॑द्म - सद्वा᳚ । च॒क्रे । अ॒ग्निः । ज॒नुषा᳚ । अज्म॑ । अन्न᳚म् ॥ सः । त्वम् । नः॒ । ऊ॒र्ज॒स॒न॒ इत्यु᳚र्ज - स॒ने॒ । ऊर्ज᳚म् । धाः॒ । राजा᳚ । इ॒व॒ । जेः॒ । अ॒वृ॒के । क्षे॒षि॒ । अ॒न्तः ॥ अग्ने᳚ । आयूꣳ॑षि ।