प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.3.14.8 TS 1.3.14.8
पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुनां᳚ ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्यं᳚ । दध॒त्पोषꣳ॑ र॒यिं मयि॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान्. व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हा व॑ह । उप॑ य॒ज्ञ्ꣳ ह॒विश्च॑ नः ॥ अ॒ग्निः शुचि॑व्रततमः॒ शुचि॒र् विप्रः॒ शुचिः॑ ( ) क॒विः । शुची॑ रोचत॒ आहु॑तः ॥ उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते । तव॒ ज्योतीꣳ॑ष्य॒र्चयः॑ ॥(पु॒रु॒नि॒ष्ठः-पु॑र्वणीक-भरा॒-ऽभि-वयो॑भि॒र्-य-आयूꣳ॑षि॒ -
पदपाठः (Word-by-word)
प॒व॒से॒ । एति॑ । सु॒व॒ । ऊर्ज᳚म् । इष᳚म् । च॒ । नः॒ ॥ आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना᳚म् ॥ अग्ने᳚ । पव॑स्व । स्वपा॒ इति॑ सु - अपाः᳚ । अ॒स्मे इति॑ । वर्चः॑ । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ॥ दध॑त् । पोष᳚म् । र॒यिम् । मयि॑ ॥ अग्ने᳚ । पा॒व॒क॒ । रो॒चिषा᳚ । म॒न्द्रया᳚ । दे॒व॒ । जि॒ह्वया᳚ ॥ एति॑ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥ सः । नः॒ । पा॒व॒क॒ । दी॒दि॒वः॒ । अग्ने᳚ । दे॒वान् । इ॒ह । एति॑ । व॒ह॒ ॥ उपेति॑ । य॒ज्ञ्म् । ह॒विः । च॒ । नः॒ ॥ अ॒ग्निः । शुचि॑व्रततम॒ इति॒ शुचि॑व्रत - त॒मः॒ । शुचिः॑ । विप्रः॑ । शुचिः॑ ( ) । क॒विः ॥ शुचिः॑ । रो॒च॒ते॒ । आहु॑त॒ इत्या - हु॒तः॒ ॥ उदिति॑ । अ॒ग्ने॒ । शुच॑यः । तव॑ । शु॒क्राः । भ्राज॑न्तः । ई॒र॒ते॒ ॥ तव॑ । ज्योतीꣳ॑षि । अ॒र्चयः॑ ॥
पदसंख्या: 64