पय॑स्वद्वी॒रुधां॒ पयः॑ । अ॒पां पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सꣳ सृ॑ज ॥ अग्ने᳚ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राद्ध्यतां ॥ अ॒ग्निꣳ होता॑रमि॒ह तꣳ हु॑वे दे॒वान्. य॒ज्ञिया॑नि॒ह यान्. हवा॑महे ॥ आ य॑न्तु दे॒वाः सु॑मन॒स्यमा॑ना वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ यानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ - [ ]
पदपाठः (Word-by-word)
पय॑स्वत् । वी॒रुधा᳚म् । पयः॑ । अ॒पाम् । पय॑सः । यत् । पयः॑ ॥ तेन॑ । माम् । इ॒न्द्र॒ । समिति॑ । सृ॒ज॒ ॥ अग्ने᳚ । व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । व्र॒तम् । च॒रि॒ष्या॒मि॒ । तत् । श॒के॒य॒म् । तत् । मे॒ । रा॒द्ध्य॒ता॒म् ॥ अ॒ग्निम् । होता॑रम् । इ॒ह । तम् । हु॒वे॒ । दे॒वान् । य॒ज्ञियान्॑ । इ॒ह । यान् । हवा॑महे ॥ एति॑ । य॒न्तु॒ । दे॒वाः । सु॒म॒न॒स्यमा॑ना॒ इति॑ सु - म॒न॒स्यमा॑नाः । वि॒यन्तु॑ । दे॒वाः । ह॒विषः॑ । मे॒ । अ॒स्य ॥ कः । त्वा॒ । यु॒न॒क्ति॒ । सः । त्वा॒ । यु॒न॒क्तु॒ । यानि॑ । घ॒र्मे । क॒पाला॑नि । उ॒प॒चि॒न्वन्तीत्यु॑प - चि॒न्वन्ति॑ ।