रि॒षः पा॑तु॒ नक्तं᳚ ॥ जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शुं न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं ॅयू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वाꣳ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥ अ॒स्माक॑मग्ने म॒घव॑थ्सु धार॒याना॑मि क्ष॒त्रम॒जरꣳ॑ सु॒वीर्यं᳚ । व॒यं ज॑येम श॒तिनꣳ॑ सह॒स्रिणं॒ ॅवैश्वा॑नर॒ - [ ]
पदपाठः (Word-by-word)
रि॒षः । पा॒तु॒ । नक्त᳚म् ॥ जा॒तः । यत् । अ॒ग्ने॒ । भुव॑ना । व्यख्य॒ इति॑ वि - अख्यः॑ । प॒शुम् । न । गो॒पा इति॑ गो - पाः । इर्यः॑ । परि॒ज्मेति॒ परि॑ - ज्मा॒ ॥ वैश्वा॑नर । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यू॒यम् । पा॒त॒ । स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ । सदा᳚ । नः॒ ॥ त्वम् । अ॒ग्ने॒ । शो॒चिषा᳚ । शोशु॑चानः । एति॑ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः ॥ त्वम् । दे॒वान् । अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ । अ॒मु॒ञ्चः॒ । वैश्वा॑नर । जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । म॒हि॒त्वेति॑ महि - त्वा ॥ अ॒स्माक᳚म् । अ॒ग्ने॒ । म॒घव॒थ्स्विति॑ म॒घव॑त् - सु॒ । धा॒र॒य॒ । अना॑मि । क्ष॒त्रम् । अ॒जर᳚म् । सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ॥ व॒यम् । ज॒ये॒म॒ । श॒तिन᳚म् । स॒ह॒स्रिण᳚म् । वैश्वा॑नर ।