प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.5.11.3 TS 1.5.11.3
वाज॑मग्ने॒ तवो॒तिभिः॑ ॥ वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हिकं॒ भुव॑नाना-मभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं ॅवि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाꣳ॑सि शिश्रथः कृ॒तानि॑ ॥ उदु॑त्त॒मं ॅव॑रुण॒ पाश॑म॒स्मदवा॑ऽध॒मं ॅविम॑द्ध्य॒मꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्य - [ ]
पदपाठः (Word-by-word)
वाज᳚म् । अ॒ग्ने॒ । तव॑ । ऊ॒तिभि॒रित्यू॒ति - भिः॒ ॥ वै॒श्वा॒न॒रस्य॑ । सु॒म॒ताविति॑ सु - म॒तौ । स्या॒म॒ । राजा᳚ । हिक᳚म् । भुव॑नानाम् । अ॒भि॒श्रीरित्य॑भि - श्रीः ॥ इ॒तः । जा॒तः । विश्व᳚म् । इ॒दम् । वीति॑ । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥ अवेति॑ । ते॒ । हेडः॑ । व॒रु॒ण॒ । नमो॑भि॒रिति॒ नमः॑ - भिः॒ । अवेति॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ॥ क्षयन्न॑ । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्र - चे॒तः॒ । राजन्न्॑ । ए॒नाꣳ॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥ उदिति॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् । व॒रु॒ण॒ । पाश᳚म् । अ॒स्मत् । अवेति॑ । अ॒ध॒मम् । वीति॑ । म॒द्ध्य॒मम् । श्र॒था॒य॒ ॥ अथ॑ । व॒यम् । आ॒दि॒त्य॒ ।
पदसंख्या: 50