प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.5.11.4 TS 1.5.11.4
व्र॒ते तवाऽना॑गसो॒ अदि॑तये स्याम ॥ द॒धि॒क्राव्.ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ॥ सु॒र॒भिनो॒ मुखा॑ कर॒त् प्रण॒ आयूꣳ॑षि तारिषत् ॥ आ द॑धि॒क्राः शव॑स॒॑ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒ऽपस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मद्ध्वा॒ समि॒मा वचाꣳ॑सि । अ॒ग्निर् मू॒र्द्धाभुवः॑। मरु॑तो॒ यद्ध॑वो दि॒वः सु॑म्ना॒यन्तो॒ हवा॑महे । आ तू न॒ - [ ]
पदपाठः (Word-by-word)
व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥ द॒धि॒क्राव्‌ण्ण॒ इति॑ दधि - क्राव्‌ण्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ॥ सु॒र॒भि । नः॒ । मुखा᳚ । क॒र॒त् । प्रेति॑ । नः॒ । आयूꣳ॑षि । ता॒रि॒ष॒त् ॥ एति॑ । द॒धि॒क्रा इति॑ दधि - क्राः । शव॑सा । पञ्च॑ । कृ॒ष्टीः । सूर्य॑ । इ॒व॒ । ज्योति॑षा । अ॒पः । त॒ता॒न॒ ॥ स॒ह॒स्र॒सा इति॑ स॒ह॒स्र - साः । श॒त॒सा इति॑ शत - साः । वा॒जी । अर्वा᳚ । पृ॒णक्तु॑ । मद्ध्वा᳚ । समिति॑ । इ॒मा । वचाꣳ॑सि ॥ अ॒ग्निः । मू॒र्धा । भुवः॑ ॥ मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । सु॒म्ना॒यन्त॒ इति॑ सुम्न - यन्तः॑ । हवा॑महे ॥ एति॑ । तु । नः॒ ।
पदसंख्या: 50