प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.5.3.2 TS 1.5.3.2
क्रु॒द्धः प॑रो॒वप॑ म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि ॥यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दद्ध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥मनो॒ ज्योति॑र् जुषता॒माज्यं॒ ॅविच्छि॑न्नं ॅय॒ज्ञ्ꣳ समि॒मं द॑धातु । बृह॒स्पति॑स्तनुतामि॒मं नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्तां ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्त - [ ]
पदपाठः (Word-by-word)
क्रु॒द्धः । प॒रो॒वपेति॑ परा - उ॒पव॑ । म॒न्युना᳚ । यत् । अव॑र्त्या ॥ सु॒कल्प॒मिति॑ सु - कल्प᳚म् । अ॒ग्ने॒ । तत् । तव॑ । पुनः॑ । त्वा॒ । उदिति॑ । दी॒प॒या॒म॒सि॒ ॥ यत् । ते॒ । म॒न्युप॑रोप्त॒स्येति॑ म॒न्यु-प॒रो॒प्त॒स्य॒ । पृ॒थि॒वीम् । अन्विति॑ । द॒द्ध्व॒से ॥ आ॒दि॒त्याः । विश्वे᳚ । तत् । दे॒वाः । वस॑वः । च॒ । स॒माभ॑र॒न्निति॑ सं - आभ॑रन्न् ॥ मनः॑ । ज्योतिः॑ । जु॒ष॒ता॒म् । आज्य᳚म् । विच्छि॑न्न॒मिति॒ वि - छि॒न्न॒म् । य॒ज्ञ्म् । समिति॑ । इ॒मम् । द॒धा॒तु॒ ॥ बृह॒स्पतिः॑ । त॒नु॒ता॒म् । इ॒मम् । नः॒ । विश्वे᳚ । दे॒वाः । इ॒ह । मा॒द॒य॒न्ता॒म् ॥ स॒प्त । ते॒ । अ॒ग्ने॒ । स॒मिध॒ इति॑ सं - इधः॑ । स॒प्त । जि॒ह्वाः । स॒प्त ।
पदसंख्या: 50