प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.5.3.3 TS 1.5.3.3
र्.ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽ*यु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥ लेकः॒ सले॑कः सु॒लेक॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ केतः॒ सके॑तः सु॒केत॒स्ते न॑ ( ) आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु॒ विव॑स्वाꣳ॒॒ अदि॑ति॒र् देव॑जूति॒स्ते न॑ आदि॒त्या आज्यं॑ जुषा॒णा वि॑यन्तु ॥
पदपाठः (Word-by-word)
ऋष॑यः । स॒प्त । धाम॑ । प्रि॒याणि॑ ॥ स॒प्त । होत्राः᳚ । स॒प्त॒धेति॑ सप्त - धा । त्वा॒ । य॒ज॒न्ति॒ । स॒प्त । योनीः᳚ । एति॑ । पृ॒ण॒स्व॒ । घृ॒तेन॑ ॥ पुनः॑ । ऊ॒र्जा । नीति॑ । व॒र्त॒स्व॒ । पुनः॑ । अ॒ग्ने॒ । इ॒षा । आयु॑षा ॥ पुनः॑ । नः॒ । पा॒हि॒ । वि॒श्वतः॑ ॥ स॒ह । र॒य्या । नीति॑ । व॒र्त॒स्व॒ । अग्ने᳚ । पिन्व॑स्व । धार॑या ॥ वि॒श्वफ्‌स्नि॒येति॑ वि॒श्व - फ्‌स्नि॒या॒ । वि॒श्वतः॑ । परि॑ ॥ लेकः॑ । सले॑क॒ इति॒ स - ले॒कः॒ । सु॒लेक॒ इति॑ सु - लेकः॑ । ते । नः॒ । आ॒दि॒त्याः । आज्य᳚म् । जु॒षा॒णाः । वि॒य॒न्तु॒ । केतः॑ । सके॑त॒ इति॒ स - के॒तः॒ । सु॒केत॒ इति॑ सु - केतः॑ । ते । नः॒ ( ) । आ॒दि॒त्याः । आज्य᳚म् । जु॒षा॒णाः । वि॒य॒न्तु॒ । विव॑स्वान् । अदि॑तिः । देव॑जूति॒रिति॒ देव॑ - जू॒तिः॒ । ते । नः॒ । आ॒दि॒त्याः । आज्य᳚म् । जु॒षा॒णाः । वि॒य॒न्तु॒ ॥
पदसंख्या: 63